स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २६१

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि यत्र न्यंकुमती नदी ॥
मर्यादार्थं समानीता क्षेत्रशांत्यै च शंभुना ॥ १ ॥
तस्यैव दक्षिणे भागे सर्वपापप्रणाशिनी ॥
तस्यां स्नात्वा च वै सम्यग्यः श्राद्धं कुरुते नरः ॥
स पितॄंस्तारयेत्सर्वान्नरकान्नात्र संशयः ॥ २ ॥
वैशाखे शुक्लपक्षे तु तृतीयायां च भामिनि ॥
स्नात्वा तु तर्पयेद्भक्त्या तिलदर्भजलैः प्रिये ॥
श्राद्धं कृतं भवेत्तेन गंगायां नात्र संशयः ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्यवर्णनंनामैकषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६१ ॥