स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २६४

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थिता देवि गुफा पातकनाशिनी ॥
ऋषीणां संस्थितिर्यत्र सिद्धानां पुण्यचेतसाम् ॥ १ ॥
तत्र गत्वा महादेवि गुफां यः पश्यते नरः ॥
स मुक्तः सर्वपापेभ्यश्चांद्रायणफलं लभेत्॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नंदिनीगुफामाहात्म्यवर्णनंनाम चतुःषष्ट्यु त्तरद्विशततमोऽध्यायः ॥ २६४ ॥