स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २६७

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि स्थानं गंगापथेति च ॥
यत्र गंगा महास्रोता गंगेश्वरः शिवस्तथा ॥ १ ॥
समुद्रगामिनी देवि सा गंगा पापनाशिनी ॥
उत्तानेति भुवि ख्याता नदी त्रैलोक्यभूषणा ॥ २ ॥
तत्र स्नात्वा महादेवि गंगेशं यस्तु पूजयेत्॥
मुक्तः स्यात्पातकैर्घोरैरश्वमेधायुतं लभेत्॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गङ्गापथगंगेश्वरमाहात्म्यवर्णनंनाम सप्तषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६७ ॥