स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २६८

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि चमसोद्भेदमुत्तमम् ॥
यत्र ब्रह्माऽकरोत्सत्रं वर्षाणामयुतं प्रिये ॥ १ ॥
चमसैः पीतवन्तस्ते सोमं देवा महर्षयः ॥
चमसोद्भेदनामेति तेन ख्यातं धरातले ॥ २ ॥
तत्र स्नात्वा सरस्वत्यां पिंडदानं ददाति यः ॥
गयाकोटिगुणं पुण्यं वैशाख्यां प्राप्नुयान्नरः ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चमसोद्भेदमाहात्म्य वर्णनंनामाष्टषष्ट्युत्तरद्विशततमोऽध्यायः ॥। २६८ ॥