स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २७१

॥ ईश्वर उवाच ॥ ॥
तस्यैव संनिकृष्टे तु लिंगं ज्वालेश्वरं स्मृतम् ॥
शरः पाशुपतो यत्र ज्वलन्वै त्रिपुरारिणा ॥ १ ॥
पातितो यत्प्रदेशे तु तेन ज्वालेश्वरः स्मृतः ॥
तं दृष्ट्वा मानवो देवि मुच्यते सर्वपातकैः ॥ २ ॥
 इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये ज्वालेश्वरमाहात्म्यवर्णनंनामैकसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७१ ॥