स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २७५

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं चैव त्रिलोचनम् ॥
ऋषितीर्थसमीपे तु सर्वपातकनाशनम् ॥
न्यङ्कुमत्युत्तरे कूल ऋषिभिः पूजितं पुरा ॥ १ ॥
त्रिनेत्रा मत्स्यका यत्र जलं स्फटिकसन्निभम् ॥
तत्र स्नात्वा नरो देवि मुच्यते ब्रह्महत्यया ॥ २ ॥
कृष्णपक्षे चतुर्द्दश्यां मासे भाद्रपदे तथा ॥
उपवासं तु कुर्वीत रात्रौ जागरणं तथा ॥ ३ ॥
प्रातः श्राद्धं प्रकुर्वीत विधिवत्पूजयेच्छिवम् ॥
रुद्रलोके वसेद्देवि वर्षाणामयुतत्रयम् ॥ ४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रिनेत्रेश्वरमाहात्म्यवर्णनंनाम पञ्चसप्तत्युत्तरद्विशततमोऽध्यायः॥ २७५ ॥