स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २८८

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि बालादित्यमिति श्रुतम् ॥
अगत्स्यस्थानतः पूर्वे गव्यूतिद्वितयेन तु॥ १ ॥
स्थानं सपाटिकानाम तस्यदक्षिणतः स्थितम् ॥
गव्यूतिमात्रं देवेशि बालार्क इति विश्रुतम् ॥ २ ॥
यत्र चाराधिता विद्या विश्वामित्रेण धीमता ॥
संस्थाप्य लिंगत्रितयं प्रतिष्ठाप्य तथा रविम् ॥ ३ ॥
विद्यायाः साधनं चक्रे सिद्धिं सूर्यादवाप्तवान् ।
बालादित्येति तेनासौ ततः ख्यातिमगात्प्रभुः ॥ ४ ॥
तं दृष्ट्वा मानवो देवि भास्करपापतस्करम्॥
न दारिद्र्यमवाप्नोति यावज्जीवति मानवः ॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बालार्कमाहात्म्यवर्णनंनामाष्टाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८८ ॥ ॥