स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३०२

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गंधर्वेश्वरमुत्तमम् ॥
तस्यैवोत्तरदिग्भागे धनुषां पंचके स्थितम् ॥१॥
तं दृष्ट्वा च महादेवि रूपवाञ्जायते नरः ॥
गंधर्वैः स्थापितं लिंगं स्नात्वा संपूजयेत्सकृत् ॥
सर्वान्कामानवाप्नोति रक्तकण्ठश्च जायते ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंधर्वेश्वरमाहात्म्यवर्णनंनाम द्व्युत्तरत्रिशततमोऽध्यायः ॥ ३०२ ॥