स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३२१

॥ ईश्वर उवाच ॥ ॥
अथ ते कीर्तयिष्यामि रहस्यं स्थानमुत्तमम् ॥
सर्वपापहरं नॄणामुन्नतस्थानवासिनाम् ॥ १ ॥
श्रेष्ठदेवस्य माहात्म्यं ब्रह्मणोऽव्यक्तजन्मनः ॥
उन्नतस्थानसंस्थस्य देवस्य बालरूपिणः ॥
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ २ ॥
॥ देव्युवाच ॥
बालरूपीति यत्प्रोक्तमुन्नतं तत्कथं वद ॥
स्थानेष्वन्येषु सर्वत्र वृद्धरूपी पितामहः ॥ ३ ॥
कस्मिन्स्थाने स्थितस्तत्र किमर्थं तत्र वा गतः ॥
कथं स पूज्यो विप्रेन्द्रैस्तिथौ कस्यां क्रमाद्वद ॥ ४ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
ऋषितोयापश्चिमे तु ऐशान्यां स्थलकेश्वरात् ॥
ब्रह्मणः परमं स्थानं ब्रह्मलोक इवापरः ॥ ५ ॥
ब्रह्मा विष्णुश्च रुद्रश्च पूज्याः प्राभासिके सदा ॥
ब्रह्मभागे स्थितो ब्रह्मा ऋषितोयातटे शुभे ॥ ६ ॥
रुद्रभागेऽग्नितीर्थे च पूज्यो रुद्रः सनातनः ॥
गिरौ रैवतके रम्ये पूज्यो दामोदरो हरिः ॥ ७ ॥
सोमेन प्रार्थितो देवो बालरूपी पितामहः ॥
आगतश्चाष्टवर्षस्तु ह्युन्नते स्थान उत्तमे ॥ ८ ॥
दृष्ट्वा ब्रह्मा द्विजाञ्छ्रेष्ठांस्तत्र स्थाने स्थितो विभुः ॥ ९ ॥
नास्ति ब्रह्मसमो देवो नास्ति ब्रह्मसमो गुरुः ॥
नास्ति ब्रह्मसमं ज्ञानं नास्ति ब्रह्मसमं तपः ॥ 7.1.321.१० ॥
तावद्भ्रमंति संसारे दुःखशोकभयाप्लुताः ॥
न भवंति सुरज्येष्ठे यावद्भक्ताः पितामहे ॥ ११ ॥
समासक्तं यथा चित्तं जंतोर्विषयगोचरे ॥
यद्येवं ब्रह्मणि न्यस्तं को न मुच्येत बंधनात् ॥ १२ ॥
परमायुः स्मृतो ब्रह्मा परार्धं तस्य वै गतम् ॥
उन्नतस्थानसंस्थस्य द्वितीयं भविताऽधुना ॥ १३ ॥।
यदासावुन्नते स्थाने ब्रह्मलोकात्पितामहः ॥
आगतश्चाष्टवर्षस्तु बालरूपी तदोच्यते ॥ १४ ॥
स्थानेष्वन्येषु विप्राणां वृद्धरूपी पितामहः ॥
युक्तं तदुन्नतस्थानं सदा च ब्रह्मणः प्रियम् ॥ १५ ॥
स्नात्वा च विधिवत्पूर्वं ब्रह्मकुंडे नरोत्तम ॥
पूजयेत्पुष्पधूपाद्यैर्ब्रह्माणं बालरूपिणम् ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थाने ब्रह्ममाहात्म्यवर्णनंनामैकविंशत्युत्तर त्रिशततमोध्यायः ॥ ३२१ ॥