स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३२५

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विनायकमनुत्तमम् ॥
ऋषितोयातटे रम्ये सर्वविघ्ननिवारणम् ॥ १ ॥
योऽसौ देवगणाध्यक्षः साक्षाच्च त्रिपुरान्तकः ॥
गजरूपं समाश्रित्य ह्युन्नते जगति स्थितः ॥
प्राभासिके महाक्षेत्रे गणानां कोटिभिर्वृतः ॥ २ ॥
तस्मात्सर्वप्रयत्नेन यात्रा निर्विघ्नहेतवे ॥
आराध्यो गणनाथश्च पुष्पधूपादिभिः सदा ॥ ३ ॥
चतुर्थ्यां च चतुर्थ्यां च सर्वैर्नगरवासिभिः ॥
तस्मिन्महोत्सवः कार्यो राष्ट्रक्षेमार्थ सिद्धये ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्वामिमाहात्म्यवर्णनं नाम पंचविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२५ ॥