स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३४३

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कपिलेश्वरमुत्तमम् ॥
शीराभूषणपूर्वेण कोटितीर्थाच्च पश्चिमे ॥१ ॥
जरद्गवेशाद्दक्षिणे समुद्रोत्तरतस्तथा ॥
एतद्वै कापिलं क्षेत्रं नापुण्यैः प्राप्यते नरैः ॥ २ ॥
कपिलेन पुरा देवि यत्र तप्तं तपो महत् ॥
वर्षाणामयुतं साग्रं प्रतिष्ठाप्य महेश्वरम् ॥ ३ ॥
समाहूता तत्र देवी कपिलधारा महानदी ॥
समुद्रमध्ये साऽद्यापि पुण्यवद्भिः प्रदृश्यते ॥ ४ ॥
तत्र स्नात्वा महादेवि कपिलाषष्ठ्यां विशेषतः ॥
कपिलां दापयेत्तत्र गोकोटिफलभाग्भवेत् ॥ ५ ॥
सर्वेषां चैव पापानां प्रायश्चित्तमिदं स्मृतम् ॥
कपिलेश्वरं तु संपूज्य कन्याकोटिफलं लभेत् ॥ ६ ॥
॥ देव्युवाच ॥ ॥
आश्चर्यं मम देवेश कपिलषष्ठ्या महेश्वर ॥
विधानं श्रोतुमिच्छामि दानमन्त्रादि पूर्वकम् ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
जन्मजीवितमध्ये तु यद्येका लभ्यते नरैः ॥
संयोगयुक्ता सा षष्ठी तत्किं देवि ब्रवीम्यहम् ॥ ८ ॥
प्रौष्ठपद्यसिते पक्षे षष्ठ्यामंगारको यदि ॥
व्यतीपातश्च रोहिण्यां सा षष्ठी कपिला स्मृता ॥९॥
तत्र क्षेत्रे नरः स्नात्वा अथवार्कस्थले शुभे ॥
मृदा शुक्ल तिलैश्चैव कपिलासंगमे शुभे ॥ 7.1.343.१० ॥
कृतस्नानजपः पश्चात्सूर्यायार्घ्यं निवेदयेत् ॥
रक्तचंदनतोयेन करवीरयुतेन च ॥
कृत्वार्घपात्रं शिरसि मंत्रेणानेन दापयेत् ॥ ११ ॥
नमस्त्रैलोक्यनाथाय उद्भासितजगत्त्रय ॥
वेदरश्मे नमस्तुभ्यं गृहाणार्घ्यं नमोऽस्तु ते ॥ १२ ॥
सूर्यं प्रदक्षिणीकृत्य संपूज्य कपिलेश्वरम्॥
उपलिप्ते शुभे देशे पुष्पाक्षतविभूषिते ॥ १३ ॥
स्थापयेदव्रणं कुम्भं चन्दनोदकपूरितम् ॥
पंचरत्नसमायुक्तं दूर्वापुष्पाक्षतान्वितम्॥१४॥
रक्तवस्त्रयुगच्छन्नं ताम्रपात्रेण संयुतम् ॥
रथो रुक्मफलस्यैव एकचित्रविचित्रितः ॥ १५ ॥
सौवर्णपलसंयुक्तां मूर्तिं सूर्यस्य कारयेत्॥
कुंभस्योपरि संस्थाप्य गंधपुष्पैः समर्चयेत् ॥ १६ ॥
कपिलेश्वरसान्निध्ये मण्डपे होमसंस्कृते ॥
आदित्यं पूजयेद्देवं नामभिः स्वैर्यथोदितैः ॥ ॥ १७ ॥
आदित्यभास्कर रवे भानो स्वयं दिवाकर ॥
प्रभाकर नमस्तुभ्यं ससारान्मां समुद्धर ॥ १८ ॥
भुक्तिमुक्तिप्रदो यस्मात्तस्माच्छांतिं प्रयच्छ नः ॥१९॥
॥ प्रार्थनामन्त्रः ॥ ॥
नमोनमस्ते वरद ऋक्सामयजुषांपते ॥
नमोऽस्तुविश्वरूपाय विश्वधाम्ने नमोऽस्तु ते ॥7.1.343.२०॥
अमृतं देवि ते क्षीरं पवित्रमिह पुष्टिदम्॥
त्वत्प्रसादात्प्रमुच्यंते मनुजाः सर्वपातकैः ॥ २१ ॥
ब्रह्मणोत्पादिते देवि वह्निकुण्डान्महाप्रभे ॥
नमस्ते कपिले पुण्ये सर्वदेवनमस्कृते ॥२२॥
सर्वदेवमये देवि सर्वतीर्थमये शुभे॥
दातारं पूजयानं मां ब्रह्मलोकं नय स्वयम्॥२३ ॥
॥ पूजामंत्रः ॥ ॥
एवं संपूज्य कपिलां कुम्भस्थं च दिवाकरम्॥
ब्राह्मणे वेदविदुष उभयं प्रतिपादयेत् ॥२४॥
व्यासाय सूर्यभक्ताय मंत्रेणानेन दापयेत् ॥२५॥
दिव्यमूर्त्तिर्जगच्चक्षु र्द्वादशात्मा दिवाकरः ॥
कपिलासहितो देवो मम मुक्तिं प्रयच्छतु ॥ २६ ॥
यस्मात्त्वं कपिले पुण्या सर्वलोकस्य पावनी ॥
प्रदत्ता सह सूर्येण मम मुक्तिप्रदा भव ॥ २७ ॥
पलेन दक्षिणा कार्या तदर्धार्धेन वा पुनः ॥
शक्तितो दक्षिणायुक्तां तां धेनुं प्रतिपादयेत् ॥ २८ ॥
योऽनेन विधिना कुर्या त्षष्ठीं कपिलसंज्ञिताम्॥
सोऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ २९ ॥
यत्फलं सर्वतीर्थेषु सर्वदानेषु यत्फलम् ॥
तत्फलं सर्वमाप्नोति यः षष्ठीं कपिलां चरेत् ॥ 7.1.343.३० ॥
कपिलाकोटिसहस्राणि कपिलाकोटिशतानि च ॥
सूर्यपर्वणि यद्दत्त्वा तत्फलं कोटिशो भवेत् ॥ ३१ ॥
कोटिगोरोम संख्यानि वर्षाणि वरवर्णिनि ॥
तावत्स वसते स्वर्गे यः षष्ठीं कपिलां चरेत् ॥ ३२ ॥
ज्ञानतोऽज्ञानतो वापि यत्पापं पूर्वसंचितम् ॥
तत्सर्वं नाशमायाति इत्याह कपिलो मुनिः ॥३३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपि लधाराकपिलेश्वरमाहात्म्ये कपिलाषष्ठीव्रतविधानमाहात्म्यवर्णनंनाम त्रिचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४३ ॥