स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३४४

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं पापप्रणाशनम् ॥
कपिलेश्वरस्यैशान्यामुत्तरेण व्यवस्थितम् ॥ १ ॥
जरद्गवेश्वरंनाम जरद्गवप्रतिष्ठितम् ॥
ब्रह्महत्यादि पापानां नाशनं नात्र संशयः ॥ २ ॥
तत्रैव संस्थिता देवि देवी अंशुमती नदी ॥
तत्र स्नात्वा विधानेन पिडदानं तु दापयेत् ॥ ३ ॥
वर्षकोटिशतं साग्रं पितॄणां तृप्तिमावहेत् ॥
वृषभस्तत्र दातव्यो ब्राह्मणे वेदपारगे ॥ ४ ॥
ततस्तु पूजयेद्देवं गन्धपुष्पैर्जरद्गवम् ॥
पञ्चामृतरसेनैव तथा गुग्गु लुधूपनैः ॥ ५ ॥
स्तुतिदण्डनमस्कारैः प्रदक्षिणैरहर्निशम् ॥
ब्राह्मणान्भोजयेत्तत्र भक्ष्यभोज्यैः पृथग्विधैः ॥
एकेन भोजितेनैव कोटिर्भवति भोजिता ॥ ६ ॥
कृते सिद्धोदकंनाम तत्तीर्थं परिकीर्त्तितम् ॥
जरद्गवेश्वरं तीर्थं कलौ तु परिकीर्त्यते ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येंऽशुमतीमाहात्म्ये जरद्गवेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४४ ॥