स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३४६

॥ ईश्वर उवाच ॥ ॥
तस्मादाग्नेयदिग्भागे स्थितः कर्कोटको रविः ॥
पूर्वकल्पे महादेवि स्मृतः कर्कोटकान्वितः ॥ १ ॥
तस्य दर्शनमात्रेण प्रीताः स्युः सर्वदेवताः ॥
सप्तम्यां रविवारेण धूप गंधानुलेपनैः ॥
पूजयेद्यो विधानेन मुच्यते सर्वकिल्बिषैः ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कर्कोटकार्कमाहात्म्यवर्णनंनाम षटचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४६ ॥