स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३५१

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि सुपर्णेलां च भैरवीम् ॥
दुर्गकूटाद्दक्षिणतो धनुःपंचशतांतरे ॥ १ ॥
सुपर्णेन पुरा देवि पातालादमृतं हृतम् ॥
गृहीत्वा तत्र मुक्तं तु नागानां पश्यतां किल ॥ २ ॥
ततो देव्या तदा दृष्ट्वा रक्षितं नागपार्श्वतः ॥
ततः सुपर्णेलेत्येवं ख्याता सा वसुधातले ॥ ३ ॥
इला तु कथ्यते भूमिः सुपर्णेन प्रतिष्ठिता ॥
ततः सुपर्णेलेत्येव नाम्ना पातकनाशिनी ॥ ४ ॥
सुपर्णकुण्डे तत्रैव स्नात्वा तां पूजयेन्नरः ॥
विप्रेभ्यो भोजनं दद्यान्नापद्भिर्म्रियते नरः ॥
जीववत्सा भवेन्नारी आत्मजैश्चाप्यलंकृता ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये सुपर्णेलामाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥३५१॥