स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः ११
← अध्यायः १० | स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः ११ अध्यायः ११ [[लेखकः :|]] |
अध्यायः १२ → |
॥ ईश्वर उवाच ॥ ॥
सारस्वतस्य विप्रस्य श्रुत्वा भोजनृपो वचः ॥
विवर्णवदनो भूत्वा प्रगृह्यांघ्री वचोऽब्रवीत् ॥ १ ॥
मुने नैवं त्वया वाच्यं गंतव्यं निश्चितं मया ॥
नराणां पुण्यदा यात्रा कथयस्व कथं भवेत् ॥ २ ॥
किं ग्राह्यं किं च मोक्तव्यं किं देयं किं न दीयते ॥
तीर्थोपवासः स्नानं च संध्यास्नानविधिक्रमः ॥
पूजा निद्रा जपो रात्रौ सर्वं संक्षेपतो वद ॥ ३ ॥
॥ सारस्वत उवाच ॥ ॥
सुराष्ट्रदेशे गन्तव्यं गिरौ रैवतके यदि ॥
नृप यात्राविधिं वक्ष्ये त्वमेकाग्रमनाः शृणु ॥ ॥ ४ ॥
बृहस्पतिबलं गृह्य सूर्यं संतर्प्य चोत्तमम् ॥
वामतः पृष्ठतः सर्वं वृत्वा संशोध्य वासरम् ॥ ५ ॥
चंद्रलग्नं ग्रहाज्ज्ञात्वा बलिष्ठाज्जन्मराशितः॥
शकुनं च शुभं लब्ध्वा प्रस्थातव्यं नृपैर्नृप ॥ ६ ॥
तीर्थे सदैव गंतव्यं सर्वे मासाश्च शोभनाः ॥
तिथयश्चोत्तमाः सर्वाः स्नानदानार्चनादिषु ॥ ७ ॥
अष्टम्यां च चतुर्दश्यां मासांते पूर्णिमादिने ॥
संक्रांतौ ग्रहणे काला एते प्रोक्ता भवार्चने ॥८॥
कैलासं पर्वतं त्यक्त्वा देवीं देवांश्च संगतान्॥
वैशाखे पंचदश्यां तु भूमिं भित्त्वा भवोऽभवत् ॥ ९ ॥
तस्मिन्नेव दिने देवी स्वर्णरेखा नदी तलात् ॥
पंथानं वासुकिं प्राप्य सर्वपापप्रणाशनी ॥ 7.2.11.१० ॥ ।
ऐरावतपदाक्रांत उज्जयन्तो महागिरिः ॥
सुस्राव तोयं बहुधा गजपादोद्भवं शुचि ॥ ११ ॥
देवा ब्रह्मादयः सर्वे गंगाद्याः सरितस्तथा ॥
वस्त्रापथे महाक्षेत्रे भवभावेन संगताः ॥ १२ ॥
वस्त्रापथस्य क्षेत्रस्य प्रमाणं शृणु भूपते ॥
हरस्य त्यजतो भूमौ पतितं वस्त्रभूषणम् ॥ १३ ॥
तावन्मात्रं स्मृतं क्षेत्रं देवैर्वस्त्रापथं कृतम् ॥
उत्तरेण नदी भद्रा पूर्वस्यां योजनद्वयम् ॥ १४ ॥
दक्षिणेन बलेः स्थानमुज्जयन्तो नदीमनु ॥
अपरस्यां परं नद्यो संगमं वामनात्पुरात् ॥ १५ ॥
एतद्वस्त्रापथं क्षेत्रं भुक्तिमुक्तिप्रदायकम् ॥
क्षेत्रस्य विस्तरो ज्ञेयो योजनानां चतुष्टयम् ॥ १६ ॥
वैशाखपंचदश्यां तु भवो भावेन भूपते ॥
पूज्यते शिवलोके तु स्थीयते ब्रह्मवासरम् ॥ १७ ॥
अतो वसंते संप्राप्ते प्रयाणं कुरु भूपते ॥
निगृह्य नियमान्भूत्वा शुचिः स्नातो जितेन्द्रियः ॥ १८ ॥
गजवाजिरथांस्त्यक्ता पदाभ्यां याति यो नरः ॥
पुष्पकेण विमानेन स याति शिवमंदिरम् ॥ १९ ॥
एकभक्तेन नक्तेन तथैवायाचितेन च ॥
भिक्षाहारेण तोयेन फलाहारेण वा यदि ॥ 7.2.11.२० ॥
उपवासेन कृच्छ्रेण शाकाहारेण याति यः ॥
स याति सुन्दरीवृन्दैर्वीज्यमानो गणैर्दिवि ॥ २१ ॥
मलस्नानं विना मार्गे पादाभ्यंगविवर्जितः ॥
मलधारी क्षीणतनुर्यष्टिहस्तो जितेन्द्रियः ॥ २२ ॥
शीतातपजलक्लिष्टः शिवस्मरणतत्परः ॥
यदि याति नरो याति स भित्त्वा सूर्यमंडलम् ॥ २३ ॥
नरकस्थानपि पितॄन्मातृतः पितृतो नृप ॥
अक्षयं सप्त सप्तैव नयेदेवं शिवालये ॥ २४ ॥
लुण्ठन्भूमौ यदा याति मृगचर्मावगुंठितः ॥
दण्डप्रमाणभूमेर्वा संख्यां कुर्वन्नरो यदि ॥ २५ ॥
अरण्ये निर्जले स्थाने जलांतःपरिपीडितः ॥
शरण्यं शंकरं कृत्वा मनो निश्चलमात्मनः ॥ २६ ॥
सप्तद्वीपवतीं पृथ्वीं समुद्रवसनां नृप ॥
स लब्ध्वा बहुभिर्यज्ञैर्यज्ञे दत्त्वा च मेदिनीम् ॥ २७ ॥
सप्तभौमविमानस्थो दिव्यदेहो हराकृतिः ॥
निरीक्ष्य मेदिनीं मंदं कृत मंगलमण्डनम् ॥ २८ ॥
मृगनेत्राभुजस्पर्शलग्नपीनपयोधरः ॥
गीतवाद्यविनोदेन सत्यलोकं व्रजेन्नरः ॥ २९ ॥
विधाय भुजवेगं वा पादौ बद्ध्वा शनैः शनैः ॥
मौनेन मानुषो मायां त्यक्त्वा याति शिवालये ॥ 7.2.11.३० ॥
ब्रह्मघ्नो वा सुरापो वा स्तेयी वा गुरुतल्पगः ॥
कृतघ्नो मुच्यते पापैर्मृतो मुक्तिमवाप्नुयात् ॥ ३१ ॥
मातरं पितरं देशं भ्रातरं स्वजनबांधवान् ॥
ग्रामं भूमिं गृहं त्यक्त्वा कृत्वा चेंद्रियसंयमम् ॥ ३२ ॥
गृहीत्वा शिवसंस्कारं नरो भ्राम्यति भूतले ॥
द्रष्टुं तीर्थान्यनेकानि पुण्यान्यायतनानि च ॥ ३३ ॥
कस्मिंस्तीर्थे शुभे स्थाने छित्त्वा संसारबन्धनम् ॥
अभयां दक्षिणां दत्त्वा शिवशिवेति भाषकः ॥ ३४ ॥
एकांते निर्जने स्थाने शिवस्मरणतत्परः ॥
यदि तिष्ठति तं यान्ति नमस्कर्तुं नराधिप ॥ ३५ ॥
आयांति देवताः सर्वे चिह्नं तस्य निरीक्षितुम् ॥
विमानवृन्दैर्नेतव्यः कदासौ पुरुषोत्तमः ॥ ३६ ॥
यदा तु पञ्चत्वमुपैति काले कलेवरं स्कन्धकृतं नरैश्च ॥
निरीक्ष्यमाणः सुरसुन्दरीभिः स नीयमानो मदविह्वलाभिः ॥ ३७ ॥
सुरेन्द्रसूर्याग्निधनेशरुद्रैः संपूज्यमानः शिवरूपधारी ॥
सुरादिलोकान्प्रविमुच्य वेगाच्छिवालये तिष्ठति रुद्रभक्तः ॥ ३८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे द्वितीये वस्त्रापथक्षेत्र माहात्म्ये वस्त्रापथयात्राविधानवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥