पूर्ववर्ती पृष्ठः (अध्यायाः २१ - ३०)

आगामी पृष्ठः (अध्यायाः ४१ - ५०)

अध्यायाः ३१ - ४०

सनत्कुमार उवाच
एतस्मिन्नन्तरे देवो देवीमाह गिरीन्द्रजाम् ।
व्रजाम दातुं यक्षाय वरं भक्ताय भाविनि । । १ ।।
भक्तो मम वरारोहे तपसा दग्धकिल्बिषः ।
अर्हो१ वरमसौ लब्धुमस्मत्तो२ भुवनेश्वरि । ।२ । ।
एवमुक्त्वा ततो देवः सह देव्या जगत्पतिः ।
जगाम यक्षो यत्रास्ते कृशो धमनिसंततः ।
दिव्यं चक्षुरदाच्चैव३ येनापश्यत् स शंकरम् । ।३ ।।
सनत्कुमार उवाच
अथ यक्षस्तदा व्यास शनैरुन्मील्य लोचने ।
अपश्यत् सगणं देवं वृषकेतुमुपाश्रितम्४ । ।४। ।
देवदेव उवाच
वरं ददामि५ ते पूर्वं त्रैलोक्ये नर्शनं तथा ।
सारत्वं च शरीरस्य पश्य मां विगतज्वरः ।। ५। ।
सनत्कुमार उवाच
ततः स लब्ध्वा तु वरं शरीरेणाक्षतेन च६ ।
पादयोः प्रणतस्तस्थौ कृत्वा शिरसि चाञ्जलिम् । । ६। ।
- - - -- - -- - ---- - -- -- -- - -- - --
१२८ मापुरन्ते - घ. ।
१ अहो - घ. । २ लब्धमस्मत्तो - घ । ३ त्तस्मै - घ. । ४ वृषं श्वेतमपाश्रितम् - घ. । ५ ददानि - घ. । ६... णेक्षितेन च - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
उवाच च तदेशेन७ वरदोस्मीति चोदितः ।
भगवन् भक्तिमव्यग्रां त्वय्यनन्यां८ विधत्स्व मे । ।७।।
अन्नदत्वं च लोकानां गाणपत्यं९ तथाक्षयम् ।
अविमुक्ते च ते स्थाने वसेयं१० सर्वदा यथा ।
एतमिच्छामि११ देवेश दत्तं वरमनुत्तमम् । ।८। ।
देवदेव उवाच
जरामरणसंत्यक्तः सर्वशोकविवर्जितः१२ ।
भविष्यसि गणाध्यक्षो वरदः सर्वपूजितः । ।९। ।
अजय्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः ।
अन्नदश्चापि१३ लोकेभ्यः क्षेत्रपालो भविष्यसि । ।8.31.१ ० । ।
महाबलो महासत्वो ब्रह्मण्यो१४ थ मम प्रियः ।
त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च । । १ १। ।
उद्भ्रमः संभ्रमश्चैव गणौ ते परिचारकौ ।
तवाज्ञया करिष्येते लोकस्योद्भ्रमसंभ्रमौ । । १ २।।
सनत्कुमार उवाच
एवं स भगवान् व्यास यक्षं कृत्वा गणेश्वरम् ।
जगाम धाम देवेशः१५ सह तेन सुरेश्वरः१६ ।।१ ३ ।।
अथ दृष्ट्वा ततो देवीं देवदेवो वृषध्वजः ।
तप्यतो मन्दरस्याशु वरदानार्थमब्रवीत् । । १४। ।
देवदेव उवाच
देवि फुल्लारविन्दाक्षि गमिष्यामि सुमध्यमे ।
मन्दरं पर्वतश्रेष्ठमनुग्रहवरेप्सया । ।१ ५।।
सभार्यः ससुतश्चैव स हि मां ससुहृज्जनः ।
प्रपन्न१७ स्तापस१८ श्रेष्ठो मन्दरः पर्वतोत्तमः । । १६ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
७ तदा तेन - घ. । ८... त्वयि नाथे - घ । ९ सोनपत्यं - घ. । १० पश्येयं - घ. । ११.. .दिच्छामि - घ- । १२ लोकविवाजितः - घ. । १३ अर्थदश्चापि - घ. । १४ मम च - घ. । १५ वामदेवेश - क. घ. । १६ नरेश्वरः - घ. । १७ प्रसन्न - क. । १८ तपसां - घ., तपतां? ।
- - - -- - -- - ---- - -- -- -- - -- - --
अद्य वर्षसहस्राणि पञ्च दिव्यानि पार्वति ।
तप्यते तपतां श्रेष्ठो मयि सर्वात्मभावतः१९ ।।१७। ।
देव्युवाच
नय मामपि देवेश मन्दरं चारुकन्दरम् ।
न रंस्येहं२० विना देव त्वया सर्वजगत्पते । । १ ८।।
ततो देवः प्रहस्यैनामुवाच परमेश्वरः ।
अविमुक्तं न मोक्तव्यं कथं त्वं यातुमिच्छसि२१ ।।१ ९।।
देव्युवाच
इह चैव निवत्स्यामि२२ गमिष्यामि च मन्दरम् ।
अविमुक्तमिदं स्थानं ततो देव भविष्यति२३ । ।8.31.२ ० ।।
देवदेव उवाच
एवमेतद् वरारोहे यथा वदसि पार्वति ।
ऐश्वर्यात्२४ सर्वगा२५ हि त्वं यथाहं२६ देवि सर्वशः । ।२ १ ।।
सनत्कुमार उवाच
ततः स भगवान् देवो वृषमारुह्य सर्वगम् ।
सोमः सनन्दी सगणो२७ मन्दरं प्रययौ हरः ।।२२ । ।
स गत्वा२८ भुवनेशानस्तप्यमानं परं तपः ।
अपश्यन्मन्दरं तत्र दृष्टवा चैन२९ मुवाच ह । ।२३ ।।
वरदोस्मि गिरीशान३० तुष्टस्ते तपसा३१ भृशम् ।
वरं वृणु यथेष्टन्त्वं सर्वं तत्३२ प्रददामि३३ ते । ।२४। ।
सनत्कुमार उवाच
स एवमुक्तश्शर्वेण दृष्ट्वा त्रिभुवनेश्वरम् ।
सोमं सनन्दिनं चैव प्रणम्य वृषवाहनम् ।। २५। ।
- - - -- - -- - ---- - -- -- -- - -- - --
१८ तपसा श्रेष्ठो मयि सर्वात्मभावितः क। २० वत्स्येहं घ । २१ मर्हसि घ। २२ न वत्स्यामि घ। २३ अविमुक्तं ततो देव भविष्यति न संशयः - घ । २४ ऐश्वर्यं - घ. । २५ सर्वगं - घ । २६ त्वं - घ । २७ नन्दिस्सगणो - क. ख. । २८ गत्वा तु - घ. । २४१ चैव - क. । ३०... स्मीति गिरिश - घ. । ३१ तपसानेन ते - क., तस्येद्य (तुष्टोद्य?) - घ, । ३२ तत् सर्वं - घ. । ३३... नि - क. ख. घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
पुनः पुनर्हरं दृष्टवा देवीञ्चैव पुनः पुनः ।
पुनः पुनर्गणञ्चैव३४ नन्दिनञ्च३५ ननाम सः । । २६ ।।
तं तथा व्याकुलं दृष्टवा हर्षजास्राविलेक्षणः३६ ।
वरेणच्छन्दयामास भूय एव हरो गिरिम् । ।२७ ।।
देवदेव उवाच
वरं वृणीष्व भद्रं ते वरदोहं तवाचल ।
यथेष्टं दातुमिच्छामि वरं वरय भूधर ।।२८ ।।
मन्दर उवाच
भगवन् यदि तुष्टोसि देवदेव जगत्पते ।
मयि ते वासिच्छामि सोमस्य सगणस्य च । ।२९। ।
इच्छामि देवदेवेश पादस्पर्शेन ते सदा३७ ।
पवित्रीकृतमात्मानं सोमेन सगणेन च ।। 8.31.३० ।।
नान्यं वरमिहेच्छामि३८ त्वत्तो देव जगद्गुरो ।
एष एव वरो मह्यं दीयतां भुवनेश्वर । । ३१ । ।
सनत्कुमार उवाच३९
एवमस्त्विति तं४० प्राह मन्दरं वरदस्तदा४१ ।
सनन्दी सह देव्या च निवत्स्यामि सदा त्वयि । ।३ २ । ।
त्वं चापि भूभृतां श्रेष्ठो जरामरणवर्जितः ।
अभेद्यश्चैव वज्रेण मत्प्रसादाद् भविष्यसि ।।३ ३ ।।
रम्यश्च सर्वभूतानां हेमरत्नविभूषितः ।
अप्सरोगणसंकीर्णः सुरसिद्धनिषेवितः४२ । ।३४।।
सनत्कुमार उवाच
ततोसृजद् गृहं४३ तत्र जाम्बूनदमयं महत् ।
मनसातिगुणं व्यास४४ न तेनास्ति४५ समं क्वचित् ।।३५। ।
- - - -- - -- - ---- - -- -- -- - -- - --
३४.. गणानां च - ख. । १५ गणेश्वरं - ख. । ३६.,. णं - क. ख. । ३७ तेजसा - घ. । ३८ नचान्यं वरच्छामि - ख. । ३९ देवदेव - घ. । ४० त ? - घ । १ चारुकन्दरम् - क. । ४२ सिद्धचारणसेवितः - ख. । ४३ सद्म चाप्यमृजत् - क, स्वयमेवासृजत्सद्म - ख । ४ गुणैर्युक्तं - ख. । ४५ न ते तेन - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
न तादृग् ब्रह्मणोप्यस्ति४६ किमुतान्यस्य कस्य४७चित् ।
तेजसा वर्ष्मणा कान्त्या वृषनाम्नातिविश्रुतम्४८ ।।३ ६ ।।
व्यास उवाच
भगवन् ब्रह्मणः सूनो सर्वयोगेश्वरेश्वर ।
न मे तृप्ति४९स्त्वयाख्याते५० देवदेवस्य५१ च चेष्टिते५२ ।। ३७।।
स वृषो दयितश्चैव वाहनत्त्वं५३ महाबलः ।
केनागमन्महाशब्दो महेशस्य महात्मनः ।।३८।।
कस्य पुत्रः कस्य नप्ता कथं जज्ञे ५४ तथैव च ।
किं तपः किं फलं तस्य एतदिच्छामि वेदितुम् ।।३९।।
अभवज्जलदः पूर्वं वाहनं रुद्रवल्लभम् ।
स५५ कथं तत्५६ परित्यज्य वृषभे मतिमादधे५७ । ।8.31.४० । ।
सनत्कुमार उवाच
पुरा वेदः५८ सुतो जज्ञे ब्रह्मणः प्रथमोद्भुतः५९ ।
द्वितीयश्चैव यज्ञोभूत् तं च लोके६० न्ययुंजत६१ । ।४१ ।।
स लोकाप्यायनकरः प्रयुक्तो ब्रह्महणा स्वयम् ।
प्रजा विवर्द्धयिषता६२ नावर्द्धयदशेषतः ।।४२ ।।
                                 ।
-- - । ।४३ । ।
यज्ञ उवाच
भगवन् लोकसिद्ध्यर्थं प्रयुक्तोहं६३ स्वयंभुवा ।
न च मेस्ति तथा वीर्यमन्यमिच्छ६४ नमस्तव । । ४४। ।
देवदेव उवाच
जीमूतो भव लोकानां तव सिद्धिर्भविष्यति ।
ततोमृताभिरद्भिस्त्वं लोकान् संवर्धयिष्यति । ।४५।।
- - - -- - -- - ---- - -- -- -- - -- - --
४६ सर्वलोकेषु - ख. । ४७ रमणीयं भवेत् - ख । ४८ रम्यं दिव्यगुणादपि - ख. । ४९ मूर्ध्नि - ख. । ५० ख्यातं - ख. । ५१ सांप्रतं - ख. । ५२ चेष्टितम् - क. । ५३ धारणत्व - घ. । ५४ यज्ञे - घ. । ५५ तत्, ५६ स - घ. । ५७ वाहनं वृषभं भजत् - ख. । ५८ देव - घ. । ५९ परमाद्भुत् - घ. । ६० परमात्मा - घ. । ६१ लोकोभ्यपूजयत् - घ. । ६२ लोकवृ? ।.., ६३ यं - घ. । ६४ मुषु - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
यज्ञ उवाच
जीमूतत्वं यदि मम लोकसिद्धिकरं शुभम् ।
अस्मद्भवन्तं पृष्ठेन वहेयं विद्युतालय (?) । ।४६ । ।
 --- - - - - - - - - - - - - - ।
- - - - - - - - - - - - - - - । ।४७। ।
आत्मानमथ स ज्ञात्वा नातितेजसमच्युतः ।
तताप सुमहद् व्यास तपो यज्ञः सुदुश्चरम्६५ । ।४८। ।
अथ तुष्टस्तदा देवः शर्वो६६ यज्ञस्य सुव्रत६७ ।
उवाच वरदोस्मीति स वव्रे वरदं वरम्६८ । ।४९ । ।
यथाहं६९ यज्ञभावेन७० वहामि त्वां महाप्रभ७१ ।
तथैव जलदत्वेपि७२ वहेयं त्वाह७३ मव्ययम्(?) । । 8.31.५० । ।
सनत्कुमार उवाच
एवमस्त्विति सं७४ प्रोच्य वाहनत्वे व्यकल्पयत्७५ ।
जीमूतं७६ व्यास भगवान् यज्ञमूर्तिमतिप्रभम् । । ५१ । ।
यदा तु यजतो व्यास दक्षस्य सुमहात्मनः ।
शिरश्छिन्नं शरेणाशु यज्ञस्यामिततेजसः ।
तदा शिरस्कं७७ तं यज्ञं वाहनत्वादपानुदत७८ । ।५२ ।
व्यास उवाच
कथं यज्ञं स दक्षस्य भगवानाहनच्छुभम्७९ ।
कारणं चात्र किं विप्र येन तं हतवान् प्रभुः । ।५३ । ।
सनत्कुमार उवाच
शापः पूर्वं समाख्यातः कारणं मुनिसत्तम ।
इदञ्च शृणु मे भूयो विस्तरेण पुरातनम् । ।५४। ।
- - - -- - -- - ---- - -- -- -- - -- - --
६५ सुदुस्तर - घ. । ६६ स (भ) वो - क, सर्वो - घ. । ६७ तत्सुतः - ख. तः - क. । ६८ वरमुत्तमं - ख, विपुलं - घ. । ६९ यदा - ख । ७०.. पि - घ, ति - क ख । ७१. ५ प्रभुम् - क. ख.,... भो - ख. । ७२ वरमिच्छामि - घ.. । ७३ वहेयमह... - क, भद्र... - घ. । ७४ स - ख, त - घ. । ७५ तं ह्यकल्पयत् - ख, ... नं चेति? - घ. । ७६ जीवितं - ख । ७७ शिषः क्षतं - घ । ७८ वदद्भृश - ख., नं दुपान्वदत् - घ. । ७९... हनत् सुतं - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
पुरा हि ब्रह्मणो वक्त्रात् क्षुवतोभिविनिःसृतः८० ।
बद्धगोध्वांगुलित्रश्च शरी तूणी शरासनी । ।५५ ।।
खङ्गी८१ किरीटमाली च कुण्डली८२ कवची८३ तथा ।
महोरस्को महोत्साहः पुरुषः काञ्चनप्रभः ।।५६।।
क्षुप इत्येव नाम्ना तं ब्रह्मा स्वयमभाषत ।
तमिन्द्रो वरयामास राजानं भुवि८४ लोकपम् ।।५७। ।
सोब्रवीद्यदि मे वज्रमायुधं स्वं८५ प्रयच्छसि ।
ततः स्यां भुवि राजाहं नान्यथा रोचते मम८६ । । ५८। ।
इन्द्र उवाच
चिन्तितं करमेतत्ते वज्रमेष्यति८७ नान्यथा ।
एवं भवतु भद्रं ते भव राजा प्रजाहितः । ।५९। ।
सनत्कुमार उवाच
स एवमुक्तस्तेजस्वी राजा भुवि बभूव ह ।
च्यावनिश्च८८ दधीचोस्य८९ सखा समभवत्तदा । ।8.31.६० ।।
स तेन सह संगत्य९० सुखासीनो वरासने ।
चक्रे कथा विचित्रार्थाः प्रीयमाणः पुनः पुनः ।।६१ ।।
अथाभवत्तयोर्व्यास रागो जातिकृतः पुनः९१ ।
क्षत्रं९२ श्रेष्ठं न वा श्रेष्ठं ब्रह्म श्रेष्ठं न वेति९३ च ।।६२ ।।
क्षुपोब्रवीत् क्षत्रमिति दधीचो ब्रह्म चेति९४ ह९५ ।
अथू तां९६ कारणे९७ चोभौ९८ न न्यवर्तत९९ कश्चन ।।६३ । ।
अथ तीक्ष्णतया चैव तपोधिकतया१०० तथा ।
ब्राह्मणत्वस्य चाग्र्यत्वात्तथा दैवकृतेन च । । ६४। ।
- - - -- - -- - ---- - -- -- -- - -- - --
८० भुवि निः सृतः - घ. । ८१ शृंगी - क । ८२ कवची - ख । ८३ कुं डली - ख. । ८४ भूमि - क । ८५ त्वं - क. । ८६ मम रोचते - घ. । ८७ वज्रमेष्यति क., वर यास्यति - घ. । ८८ च्यावनेश्च -? । ८९ दधीचस्य? । ९० संगम्य - ख. । ९१ प्रभः - ख । ९२ क्षेत्रं - क. ख । ९३ नचेति - घ. । ९४.. वेति - क. । ९५ च - ख. घ. । ९६ नाब्रूतां - ख । ९७ कारण - घ. । ९८ चोभे - क. ख ९१ प्रवर्तत - घ व्यक..? - क, व्यवर्तन ( त) - ख । १०० वयोधिकतया - क ।
- - - -- - -- - ---- - -- -- -- - -- - --
कुद्धो दधीचस्तं व्यास वामहस्तेन मूर्धनि ।
आजघान महातेजा वज्रेणातडयत्१०१ स च१०२ ।।६५।।
वज्रेण स द्विधा छिन्नः शक्रमाह्वयदव्ययः ।
सोवदत् त्वं१०३ महायोगः१०४ शक्तः१०५ सन्धातुमात्मना१०६ । ।६६ ।।
स्वं देहं१०७ स तथाभूतं१०८ दधीचो योगमायया ।
सन्धयामास१०९ शर्वञ्च शरणं समपद्यत । । ६७। ।
स सुरेश्वरमाराध्य प्राप्यावध्यत्वमुत्तमम्११० ।
वज्रास्थित्वमभेद्यत्वमजरत्वञ्च शङ्करात् ।।६८। ।
सर्वभूतानुकम्पित्वं महायोगित्वमेव च ।
पुनरागात् क्षुपं द्रष्टुं पुनः सख्यमभूत्१११ तयोः ।। ६९। ।
रागो जातिकृतो यश्च पूर्ववत् स११२ बभूव ह ।
वामपादेन चाप्येनं क्षुप स समताडयत्११३ ।।8.31.७० । ।
पुनश्च वज्रमादाय स चैनमहनत्तदा ।
न चार्तिं न व्यथां तस्य११४ तद्वज्रमकरोन्मुने ।।७१ । ।
अवध्यत्वमथो११५ ज्ञात्वा क्षुपस्तस्य महात्मनः ।
नारायणं समासाद्य वरार्थं समराधयत्११६ ।।७२।।
वरदोस्मीति तुष्टेन११७ विष्णुना स च११८ चोदितः ।
प्रोवाच प्रणतो विष्णुमिदं व्यास महामनाः११९ । ।७३ । ।
क्षुप उवाच
दधीचो नाम विप्रर्षिरवध्योक्षय एव च ।
सखा मम हृषीकेश स च मामाह नित्यदा१२० । ।७४। ।
बिभेम्यहं न देवस्य राक्षसस्यासुरस्य वा ।
पिशाचस्याथ यक्षस्य वयसो मानुषस्य वा१२१ । ।७५ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
१०१ वक्रेणा ताडयत् - क. । १०२ तदा - घ. । १०३... त्तं - घ. । १०४ महायोगं - घ. । १०५ शक्रः - घ. । १०६ महात्मनः - क. । १०७ स्वदेहं - ख., स - घ । १०८ त्यक्ता - क.. भूत्वा - ख., श्रुत्वा - घ. । १०९ सांत्वयामास - घ. । ११० तं वरेश्वरमाराध्य संप्राप्य वरमुत्तमम् - घ. । १११ संख्यमभूत् - घ. । १] २ सं - क. घ. । १ । ३ समभिताडयत - ख. । ११४ चास्य - ख. । ११५ मयं - ख. । ११६ वरार्थमतपत्तपः - ख., समवारयत् - घ. । ११७ तुष्टोस्मि - ख. । ११८ स तु - घ., सम... - ख. । ११९ महातपाः - घ. । १२०. नामहनत्सदा - घ. । १२१ च - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
बिभेमीति यथा ब्रूयात् तथा त्वं१२२ कर्तुमर्हसि१२३ ।
एवमुक्तो नरेशेन१२४ स विष्णुर्लोकभावनः ।।७६ । ।
तथास्त्विति च तं प्रोच्य दधीचस्याश्रमं ययौ ।
स१२५ प्रविश्याश्रमं व्यास दधीचेनाभिपूजितः ।।७७।।
अभिवाद्याञ्जलिं कृत्वा दधीचमिदमब्रवीत् ।
भगवन् ब्रह्मणश्रेष्ठ पितामहसमद्युते ।।७८। ।
वरमेकं वृणेहं यं तं१२६ भवान्दातुमर्हति१२७ ।
प्रसादितोहं विप्रेन्द्र क्षुपेण शुभकर्मणा ।।७९।।
वरदोस्मीति चाप्युक्तो वरं वव्रे महामुने ।
प्रोक्तं त्वया बिभेमीति ब्रूहि तन्१२८ मदनुग्रहात् ।।8.31.८० ।।
अभयं सर्वभूतेभ्यो१२९ ब्राह्मणस्य न संशयः ।
अवध्यश्चापि सर्वेषां महायोगबलान्वितः । ।८ १ ।।
अभीतस्त्वं१३० तथाप्यद्य मदर्थं वद तत्१३१ प्रभो ।
दधीचश्चैव१३२ मुक्तोपि१३३ विष्णुना मधुरं तदा ।।८२ ।।
उवाच न बिभेमीति भूयो भूयो जनार्दनम् ।
नाहं वक्ष्ये बिभेमीति नोक्तं नाप्युच्यते मया । ।८३ । ।
सनत्कुमार उवाच
एवमुक्तश्चक्रपाणिश्च्यावनिं१३४ क्रोधमूर्च्छितः१३५ ।
उवाच चक्रमुद्यम्य भयमस्य विदर्शयन् ।।८४। ।
एवमेव हि कर्तव्या ये भूत्वा१३६ बलवत्तराः ।
अस्वामिन इव प्रेम्णा ब्रुवते१३७ दुर्बलं जनम्१३८ । ।८५ ।।
न चेद् द्रक्ष्यसि१३९ भीतोस्मीत्येतच्चक्र१४० ततस्तव ।
सुनसं शिर आदाय१४१ महीं सं प्रापयिष्यति ।।८६।।
- - - -- - -- - ---- - -- -- -- - -- - --
१२२ तत्तथा - घ. । १२३ मर्हति - घ. । १२४ नरेन्द्रेण - घ । १२५ सं - ख. । १२६ त्वत्तः - ख, तद् - क., स - ख. । १२७ मर्हसि - क ख । १२८ वाक्यन्त (वाच्यन्तद्?) - ख. । १२९ सर्वभूतानां: - ख. । १३०... श्च - क.,... तोपि - ख. । १३१ त्वं वद - ख. । १३२ स्त्वेव... - ख. । १३३ वै - क. । १३४ दधीचं - घ. । १३५ मूर्छितः - घ । १३६ भूता - घ. । १३७ विब्रूते - घ. । १३८ बलं - घ. । १३९ न च वक्ष्यामि - घ. । १४० एव चक्रं - ख । १४१ सनसं सुमुखं तस्य - ख., नृशंस शिवया ( शिरआ?) - घ. मुखमादाय - ख. । ४२ स - घ ।
- - - -- - -- - ---- - -- -- -- - -- - --
दधीचिरुवाच१४३
किं वृथा चक्रमुद्यम्य विष्णो त्वं१४४ क्लेशमिच्छसि१४५ ।
नाहं चक्रस्य ते गम्यः१४६ प्रसादात् त्र्यम्बकस्य तु ।।८७।।
किन्तु जिज्ञासया यामि लोकपालशरण्यताम् ।
तेषां निष्क्रियतां ज्ञात्वा ततो यास्यामि१४७ शंकरम् । ।८८।।
एवमुक्त्वा च्यावनिस्तु प्राद्रवद् वरुणं प्रति ।
शरणं तं प्रपन्नश्च सं१४८ प्रादादभयं१४९ प्रभुः । ।८९।।
तत्र विष्णोश्च देवस्य वरुणस्य च धीमतः ।
युद्धं समभवद् घोरं बहूनब्दान् विभीषणम् ।।8.31.९० ।।
निगृहीतेथ१५० वरुणे च्यावनिर्यममभ्ययात्१५१ ।
स चाप्यभयद१५२ स्तस्मै१५३ विष्णुना निर्जितो युधि ।।९१ ।।
ततोग्निमभ्ययाद्१५४ व्यास सोपि तेनाभिनिर्जितः ।
ततः स मुष्टिमादाय कुशानां च्यावनिस्तदा१५५ ।।९२।।
स्वमाश्रममुपागम्य तिष्ठतिष्ठेत्यभाषत ।
जिज्ञासार्थं लोकपालानहं शरण मेयिवान्१५६ ।। ९३ ।।
अबलास्ते च सर्वेपि मय्येव बलमुत्तमम् ।
अद्य गर्वञ्च दर्पञ्च बलं यच्च१५७ तवाद्भुतम्१५८ ।
तत्सर्वं नाशयिष्यामि तिष्ठेदानीं जनार्दन ।।९४।।
सनत्कुमार उवाच
ततो युद्धं समभवत् तुमुलं लोमहर्षणम् ।
नारायणस्य च व्यास च्यावनेश्च महात्मनः । ।९५।।
यान्यस्त्राणि शरा ये च नारायणकरच्युताः ।
योगेन तान् दधीचोसौ कुशमुष्टौ न्ययेशयत् । ।९६। ।
- - - -- - -- - ---- - -- -- -- - -- - --
१४३ च्यावन (नि) उ - क. । १४४ त्वं विष्णो - क. । १४५ क्लिश्यसेनघ - ख., श्चकं समर्चसि - घ. । १४६ मन्यः - घ. । १४७ ध्या... - क. घ., ध्यायामि - ख । १४८ प्रसादादभयं - क., १४९ प्रददावभत्यं - ख. । १५० तु - ख. । १५१... गाद् - ख १५२ चास्याभयाद् - क ख. । १५३ श्चास्य? । १५४?.. गाद् - ख. । १५५ श्शुभः - क.,... ने स्थितः - घ. । १५६ मीयिवान् - घ. । १५७ यत्ते - ख. । १५६ तदाद्भुतम् - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
ततो विष्णोर्योगबलाद् गात्रेभ्यः संप्रजज्ञिरे ।
देवा युयुधिरे सर्वे१५९ विष्णुना सह दंशिताः ।।९७। ।
तानप्यशेषतः सर्वान् सायुधान् सह वाहनैः ।
कुशमुष्टौ स१६० संक्रुद्धो विष्णुवर्जं१६१ न्यवेशयत् । ।९८।।
ततस्सर्वामरैर्व्यास कुशमुष्टौ१६२ प्रवेशितैः ।
योगेन तेजसा चैव दधीचेन महात्मना ।। ९९।।
विष्णुं संविग्नरूपं१६३ तु कोपावेशात् प्रमोहितम् ।
तत्रागम्य स्वयं ब्रह्मा तदा वचनमब्रवीत् ।। 8.31.१०० । ।
किन्तवानेन गोविन्द तथा यत्नेन१६४ सदद्विजे१६५ ।
कृतेनाथ१६६ दधीचस्य शर्वाल्लब्धवरस्य तु । ।१ ०१ । ।
किन्न वेत्सि यथा ह्येष प्रसादात् पारमेश्वरात् ।
अवध्यत्वं सुयोगित्वं गुणैश्वर्यत्वमेव च । । १० २। ।
वज्रास्थिसारताञ्चैव लब्धवान् स्वयमीश्वरात् १६७ ।
न चैवं१६८ त्वद्विधा देव ब्राह्मणेषु विकुर्वते । ।१ ०३ । ।
तस्मादाशु१६९ निवर्तस्व क्षमयैनं१७० द्विजोत्तमम् ।
ततो ब्रह्मवचः१७१ श्रुत्वा स विष्णुर्लोकभावनः । ।१ ०४।।
योगेन तद्बलं ज्ञात्वा दधीचस्य महात्मनः१७२ ।
क्षामयामास१७३ विप्रेन्द्रं स्वं चावासमथाभ्यगात् ।। १० ५। ।
ब्रह्मापि तमृषिं सान्त्व्य१७४ पूजयित्वा त्रिलोकपः१७५ ।
जगामादर्शनं व्यास सह सर्वामरैस्तदा ।। १ ०६।।
दधीचोपि महातेजास्तपस्तेपे स्वकाश्रमे१७६ ।
महादेवप्रसादार्थमुग्रं वाय्वम्बुभोजनः१७७ ।। १ ०७। ।
अथास्य युक्तस्य तदा तपसा भास्करद्युतेः ।
तुतोष भगवान् त्र्यक्षस्तुष्टश्चैवाब्रवीदिदम् ।। १ ०८। ।
- - - -- - -- - ---- - -- -- -- - -- - --
१५९ तत्र - घ. । १६० सु - क घ. । १६१ चक्र - घ. । १६२ मुष्टि... - क. । १६३ संविघ्नरूप - घ । १६४ क्लेशेन - ख. । १६५... द्विजः- क. । १६६ कृतेनास्य- ख । १६७... स्त्वयमीश्वरात्-ख. । १६८. ख - क. । १६९ तस्मादेव - ख. । १७० क्षामयैनं - क. । १७१ ब्रह्मणो वचनं - ख. । १७२ च शंकरात् - क । १७३ क्षमयामास - घ. । १७४ शान्त्वा - घ. । १७५ च लोकपः - घ. । १७६ स्वके... - ख. । १७७... भोजनम् - क. ।
- - - -- - -- - ---- - -- -- -- - -- - --
देवदेव उवाच
च्यावने तपसानेन तव तुष्टोस्मि सुव्रत ।
ब्रूहि यत्ते भिलषितं कृतमेव हि तन्मया । । १ ०९। ।
दधीचिरुवाच१७८
भगवन् यदि तुष्टोसि यदि देयो वरश्च मे ।
इच्छामि विष्णुना सार्धं सर्वान्देवाँस्त्वया जितान्१७९ ।।8.31.१ १० । ।
सनत्कुमार उवाच
ततः प्रहस्य वरदो दधीचमृषिसत्तमम् ।
एवमस्त्विति तं प्राह प्रणतार्तिहरो हरः । । ११ १। ।
तस्मिन्दत्ते१८० तदा तेन त्र्यम्बकेण वरे शुभे ।
अमन्यत स्थितं१८१ वैरं क्षुपेण सह वै ऋषिः ।। ११२ ।।
ध्यायन्तं तं१८२ तथा दृष्ट्वा भगवान् गोवृषध्वजः ।
उवाच वरमन्यञ्च१८३ ब्रूहि विप्र ददामि ते१८४ ।।१ १३ ।।
दधीचिरुवाच
यस्मात् स्थितमिदं१८५ वैरं वरदानात् तव१८६ प्रभो ।
इह तस्मात्तव स्थानं नाम्नैतेन१८७ भवत्वज ।। १ १४।।
देवदेव उवाच
स्थानेश्वरमिति ख्यातं१८८ नाम्नैतत्१८९ स्थानमुत्तमम् ।
भवितृ१९० क्रोशपर्यन्तं नानापुष्पलताकुलम् ।।१ १ ५। ।
अत्र योभ्यर्चयेन्मां तु परं१९१ नियममास्थितः ।
त्रिरात्रोपोषितः सम्यक् स्नात्वा नद्यां तु मानवः ।। ११६ । ।
ब्राह्मणं१९२ भोजयित्वा च चरुं१९३ धर्मेण संयुतः१९४ ।
सर्वपापविनिर्मुक्तो१९५ मम लोकमवाप्नुयात्१९६ ।।१ १७।।
- - - -- - -- - ---- - -- -- -- - -- - --
१७८ दधीच उ - घ. । १७९ सर्वे देवास्त्वया जिताः - घ. । १८० तस्मिन्नुक्ते - घ. । १८१ स्थिरं - क. ख. । १८२ ध्यानतस्तं - घ. । १८३... मन्यच्च - क. ख घ. । १८४... न्ददामि - क., ददानि - क. ख. घ. । १८५ स्थिरमिदं - घ. । १८६ भुवि - घ. । १८ ऽ नाम्ना तेन - घ. । १८८ देव स्यानेश्वरमिति - घ. । १८९ नाम्नैव - घ. । १९० भवेच्च - ख, भवतु - घ. । १९१ सदा - घ । १९२ ब्राह्मणान् - घ. । १९३ वरं - घ. । १९४ संयुतं - क. घ. । १९५ स सर्वपापनिर्मुक्तो - क. । १९६ रुद्रलोकमवाप्नुयात् - क. ।
- - - -- - -- - ---- - -- -- -- - -- - --
स्थाणुतीर्थं१९७ च भवितृ तथैतत्१९८ पापनाशनम् १९९ ।
अश्वमेधफलं ह्यत्र स्नातः प्राप्नोति पुष्कलम् । ।१ १८। ।
अयञ्चापि वटः श्रीमान् स्थितोहं यत्र सांप्रतम् ।
वरं दातुं मदाख्यानो नाम्ना स्थाणुवटो महान्२०० । । ११ ९।।
भविष्यति न सन्देहः फलञ्चाप्यस्य२०१ मे शृणु ।
योत्र तिष्ठेदहोरात्रं संयतो२०२ नियताशनः२०३ । । 8.31.१२० । ।
चीर्णं स्वयं भवेत्तेन स्थाणुव्रतमनुत्तमम् ।
सर्वपापविनिर्मुक्तो२०४ गणपस्स२०५ भवेन्मम । । १२१ । ।
अकम्पनो नाम महान्२०६ महायोगबलान्वितः ।
यश्च प्राणान्नियमवान् यमवानथवा२०७ पुनः ।।१ २२।।
परित्यजेत मनुजस्तस्य पुण्यफलं महत् ।
सर्वपापविनिर्मुक्तः२०८ सर्वबन्धविवर्जितः२०९।
गणोश्वरो२१० नन्दिसमः स मे भवति सर्वगः२११ ।। १२३ । ।
स्थानेश्वरे यस्त्विह चैकरात्रं२१२ स्थित्वा क्षपेत्२१३ सर्वमशेषतो हि ।
स सर्वपापप्रविमुक्तचेता२१४ गणेश्वरो मे भवितातिभीमः२१५ । ।१ २४। ।
इति स्कन्दपुराणे क्षुपदधीचविवादो नाम२१६ एकत्रिंशत्तमोध्यायः

सनत्कुमार उवाच
एतस्मिन्नेव काले तु व्यास दक्षः प्रजापतिः ।
अयजत् सोश्वमेधेन राजा प्राचेतसात्मजः१ । । १ ।।
तत्र देवनिकायानां भागधेयानि सर्वशः ।
हव्यवाहस्तदा तत्रा२वहन्मन्त्रैस्समीरितः३ ।।२ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
१९७ स्थानं... - घ. । १९८ तवैव - क. । १९९... नात् - घ. । २०० भवेत् - ख. । २०१ स्यापि - घ. । २०२ वाग्यतो - ध. । २०३ नियतासनः - घ. । २०४ स सर्वपापनिर्मुक्तो -?, २०५.. श्च -? २०६ गणो - ख. । २०७ यत्नवान् सर्वथा - घ. । २०८ सर्वपातकनिर्मुक्तः - क. । २०९.. .बन्धनवर्जितः - घ. । २१० महेश्वरो - घ. । २११ नित्यशः - घ. । २१२ यस्त्दिमेकरात्रं - घ. । २१३ पठेत् - घ. । २१४.. .देहो -ख. २१५ स तेन - ख. । २१६ दधीचमाहात्म्ये त्रिंशोध्यायः - घ ।
१ प्रचेतसात्मजः - घ. । २ तत्र - घ. । ३ .. स्समाहितः - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
वहन्तं४ तमपश्यच्च५ देवी गिरिवरात्मजा ।
अनुस्मरन्ती तद्वैरं शापकारणमेव च । । ३ । ।
उवाच चैनं गिरिजा बोधयन्ती पुरातनम् ।
श्लिष्टं मधुरया वाचा कारणेन समन्वितम् । ।४। ।
त्वं देवः सर्वदेवानां गतिश्च७ शरणं तथा८ ।
त्वया विना कथं यज्ञो९ वर्तते सर्वदेवप । । ५ ।।
देवानां भागधेयानि वहत्यग्निरयं भव१० ।
नायं तव महेशान किं कारणमतिद्युते । । ६। ।
न साम्ना सिध्यते कार्यं११ विक्रमेण विना प्रभो ।
अयं मूढोवलिप्तश्च राजा प्राचेतसात्मजः । ।७ । ।
अनुस्मरन् पूर्ववैरं नैव दास्यत्यशासितः ।
दधीचस्य वरश्चापि त्वया दत्तस्तदा१२ प्रभो ।
तस्यायमागतः कालस्तदर्थेन१३ विधीयताम्१४ । ।८। ।
सनत्कुमार उवाच
एवमुक्तस्तदा व्यास भगवान् वृषभध्वजः ।
उवाच प्रहसन् देवीं पिता तव शुचिस्मिते ।।९। ।
पूर्वजन्मनि सुश्रोणि प्रजापतिसुतः शुभे ।
मम त्वं भावविज्ञानं कुर्वती१५ देवि भाषसे । ।8.32.१ ० । ।
नहि दुःखं पितुर्लोके कश्चिदिच्छति भामिनि१६ ।
एवमुक्ता तदा व्यास१७ देवेन विमलात्मना ।। ११ ।।
ललाटे भृकुटीं१८ कृत्वा ततो देव्यायतेक्षणा ।
क्रोधात्१९ करेण नासाग्रं संममर्द शुचिस्मिता ।। १२ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
४ तं वहन्तं - घ. । ५ अपश्न्ती - घ. । ६ श्लक्ष्णं - घ. । ७ त्वं गतिः ख । ८ शरणार्थिनां - घ. । ९ जज्ञे - क । १० तव - घ । ११। साम्ना सर्वंसुराध्यक्ष-- घ। नाम्ना - क, नाम्ना - क, न सत्वो - घ. । १२ स्वयं - ख. । १३ स्तदा तेन - घ., तदोर्ध्वेन - क । १४ -विधीयते - घ. । १५ कुर्वन्तो - ख. । १६ भाविनि - घ, । १७ देवी - घ. । १८ भ्रुकुटी - क। १९ क्रुद्धा - घ ।
- - - -- - -- - ---- - -- -- -- - -- - --
तस्यां संमृद्यमानायां नासिकायामतिप्रभा ।
जज्ञे स्त्री भृकुटीवक्त्रा चतुर्दंष्ट्रा त्रिलोचना
बद्धगोधांगुलित्रा च कवचा२० बद्धमेखला ।। १३ ।।
सखङ्गा सधनुष्का च२१ सतूणीरा२२ पताकिनी ।
द्वादशास्या दशभुजा तनुमध्या तमोनिभा२३ ।।१४। ।
घनस्तनी२४ पृथुकटी नागनासोरुरव्यया२५ ।
भद्रकालीति तां प्राह देवीं देवी२६ शुभानना२७ । ।१ ५।।
ततोब्रवीत् तदा देवमेषा सृष्टा मया प्रभो ।
त्वमप्यन्यं सृज गणमनुरूपं नमोस्तुते ।।१ ६।।
ततो देवस्तदा स्कन्धं स्वमवैक्षत भास्वरम्२८ ।
तस्माज्जज्ञे पुमान् दिव्यस्त्रैलोक्यं प्रदहन्निव२९ । । १७। ।
भृकुटीभूषितास्यश्च३० बद्धगोधांगुलित्रवान् ।
कवची बद्धतूणीरः३१ शरी खङ्गी शरासनी ।। १८। ।
त्र्यक्षश्चतुर्भुजश्चैव३२ वज्रसंहननो युवा ।
स सृष्टः३३ प्रणतो भूत्वा हरिर्नाम्ना३४ गणेश्वरः ।। १ ९। ।
उवाच प्राञ्जलिर्भूत्वा देवदेवं सहोमया ।
आज्ञापय सुरेशान यत् कर्तव्यं मया विभो । ।8.32.२ ० ।।
ततस्स भगवानाह३५ हरिं तं गणनायकम् ।
प्राचेतससुतस्यास्य३६ यज्ञं गच्छ विनाशय ।।२ १ ।।
भद्रकाल्या सहाशु त्वमेतत् कृत्यं गणेश्वर३७ ।
ततः स३८ भगवान् देवो गणेशान्३९ कामरूपिणः४० । ।२२ । ।
स्वगात्रेभ्योसृजद् धीमान्४१ नाना४२ रूपधरान् गणान् ।
पस्पर्श बाहुं४३ सम्यक् च४४ तस्मा४५ ज्जाता महाबलाः४६ ।।२३ ।।
- - - -- - -- - ---- - -- -- -- - -- - --
२०. सकवचा? । २१ च सवाहा - घ. । २२ सतूली च - घ । २३... तिमोहिनी - ख । २४ तुंगस्तनी - घ । २५ नागपासवरायुधा - घ. । २६ देव - घ. । २७. नाम् - घ. । २८ स्त्रमैक्षत सुभासुरम् - क., स्वभाश्वरं - ख., प्रभाश्वरं - घ. । २९ संहरन्निव - क. । ३० भ्रुकुटीभूषितास्यश्च - क ख. । ३१ च - घ. । ३२... श्च सुभुजश्चैव - क ख. । ३३ संतुष्टा - घ. । ३४ हरिर्नाम - घ. । ३५ भगवान्देवो - ख. । ३६ प्रचेतससुतस्यास्य - घ. .. स्येम - क । ३७. नवेश्वर - ख । ३८ ततोस्य - क. । ३९ गणेश - ख., गणेशः - घ. । ४०. णं - ख. । ४१ भीमान् - घ. । ४२ नाम्ना - घ. । ४३ बाहून् -घ. । ४४ तु - क. । ४५ तस्मि (न्) - क. ख. घ. । ४६ महात्मनः - क., ना - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
कोट्यस्ता नवतिश्चैव शतञ्चैव तदा प्रभोः४७।
स ताँश्चोवाच४८ भगवान् यज्ञं प्रमथतानघाः । ।२४। ।
सनत्कुमार उवाच
ततस्तौ तेन सैन्येन महताभिसमावृतौ ।
जग्मतुः सागरोन्नाद४९ मेघाशनिनिनादितैः५० ।।२५। ।
देवोपि सह पार्वत्या रैभ्याश्रमसमीपतः५१ ।
स्थित्वापश्यद् गणेशानां कर्म तद् यज्ञनाशनम् । ।२६। ।
सनत्कुमार उवाच
वृक्षाः कनखलेयास्तु गङ्गाद्वारसमीपगाः ।
सुवर्णशृंगश्च गिरिर्मेरुपर्वतसन्निभः ।।२७। ।
तस्मिन् प्रदेशे दक्षस्य यज्ञोसावभवत्तदा५२ ।
गणेश्वरबलं चागाद् भीमं कालीपुरोगमम् ।।२८ ।।
ते संप्राप्य महाभागाः सर्वे दीप्तानलप्रभाः ।
ऊचुस्तं यजमानञ्च ऋत्विजोथ मुनीन् सुरान् ।।२९। ।
वयं ह्यनुचराः सर्वे शर्वस्य परमात्मनः ।
इहाभिलिप्सवः प्राप्ता भागान् यच्छध्वमीप्सितान् । ।8.32.३ ० । ।
तपसा यज्ञभागार्हा बलेन५३ नियमेन वा५४ ।
ऐश्वर्येणाथ योगेन५५ येन तेन पुरो हि वः५६ । ।३ १।।
सर्वञ्चास्मास्वपि हि तद्५७ वयमप्यंशभागिनः५८ ।
अथ चेत् स्वामिनो देवास्तेन भागार्हतां गताः । ।३ २।।
स्वामित्वे च बलं हेतुस्तपो वा नात्र संशयः ।
अस्मास्वेवोभयं तच्च स्वामित्वं तेन नो वरम् । ।३ ३ ।।
अथ चेत् कस्यचिदियमाज्ञा मुनिसुरोत्तमाः ।
भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् । ।३४।।
- - - -- - -- - ---- - -- -- -- - -- - --
४७ प्रभो - क .घ । ४८ सर्वांश्चोवाच - क. । ४९ सागरैर्नादैः - घ. । ५० विनादितैः - क., तौ - क., नी (नौ?) - ख. । ५१ वैश्वानरसमप्रभः - घ. । ५२ यज्ञोयमभवत्तदा - क. । ५३ बलेना - घ. । ५४ च - घ. । ५५.. .भियोगेन - घ. । ५६ वयं सुराः - घ. । ५७ चास्मासु पिहितं - घ. । ५८ तद्वयं ह्यंशभागिनः - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
तं ब्रूत यो ज्ञापयति वेत्स्यामो हि वयं ततः ।
एवमुक्तास्तु हरिणा सर्वे देवपुरस्सराः ।।३५।।
ऊचुर्मन्त्राः प्रमाणं वो भागं प्रति गणेश्वराः५८ ।
मन्त्राप्यूचुः सुरान् यूयं तमोपहतचेतसः ।।३६।।
येन प्रथमभागार्हं६० नायजध्वं महेश्वरम् ।
मन्त्रैस्ते प्रोच्यमानापि नैव भागान् ददुर्यदा ।।३७।।
तदा यातास्ततो मन्त्रा ब्रह्मलोकं सनातनम् ।
ततः शक्रादयो देवाः सर्वे ऊचु६१र्गणेश्वरान् ।।३८।।
त्यक्त्वा (?) - - - - - ।
युष्मान्निहन्मो विक्रम्य सर्वानेवागतान् युधि ।।३९।।
तेषां सगर्वं६२ तद् वाक्यं श्रुत्वा हरिरमित्रजित् ।
उवाच प्रहसन् सर्वानिदं वचनसूर्जितम् ।।8.32.४०।।
मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः६३ ।
यस्मात् प्रसह्य तस्माद्वो नाशयाम्यद्य गर्जितान्६४ ।।४१।।
ऋत्विग्भिर्भागधेयैश्च सह यज्ञेन चोद्यतः६५ ।
येषां च लवत्ता६६ वस्तान् सर्वान्६७ नाशयाम्यहम् ।।४२।।
एवमुक्त्वा स तेजस्वी हरिभद्रः प्रतापवान् ।
भद्रकाली च संक्रुद्धा अभिदुद्रुवतुः६८ सुरान् ।।४३।।
गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः ।
प्रस्थात्रा६९ सह होतार७०मश्वं७१ चैव गणेश्वराः । ।४४।।
गृहीत्वा कुपिताः सर्वे गङ्गास्रोतसि चिक्षिपुः ।
यजमानञ्च पाशेन बद्ध्वा निन्युर्यथासुखम् । ।४५।।
- - - -- - -- - ---- - -- -- -- - -- - --
५९ महेश्वराः - ख. । ६० प्रमथभगार्हं - ख । ६१ सर्वानूचु - क. । ६२ सवर्गं - क. । ६३... दर्पितैः? ६५ गर्वितान्? ६५ चोदितः - घ. । ६६ यद्बलं यत्तपो वापि - घ. । ६७ तत्सर्वं - घ. । ६८.. .वभिदुद्रुवातुः- क. । ६९ प्रस्तोत्रा - ख. । ७० होत्रा च - घ. । ७१ मखं - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
वेदीमन्ये७२ कुशानन्ये७३ स्रुचोन्ये चमसान् परे७४।
व्यनाशयँश्चिक्षिपुश्च शालाश्चान्येभ्यदीपयन्७५ । ।४६। ।
हरिभद्रोपि दीप्तात्मा शक्रस्योद्यच्छतः७६ करम् ।
व्यष्टंभयददीनात्मा तथान्येषां दिवौकसाम् । ।४७ ।।
भगस्य नेत्रे पूष्णश्च दशनान् रुषिताननः७७ ।
धनुष्कोट्या समाहत्य७८ मिषतां७९ संन्यपातयत्८० ।।४८ ।।
विष्णोश्चक्रं च तद् घोरं युगान्तादित्यवर्चसम्८१ ।
व्यष्टम्भयददीनात्मा करस्थं न चचाल ह ।।४९ ।।
तुषिताँश्च तथा८२ देवानुद्युक्तान् युद्धलालसान् ।
वायव्यास्त्रेण संहत्य पृथिव्यां तान्न्यपातयत् । ।8.32.५ ० । ।
अन्याँश्च देवान् देवोसौ सर्वान्८३ युद्धाय८४ संस्थितान् ।
मोहनेनास्त्रवर्येणे८५ समोहयदनिन्दितः ।।५ १ ।।
राजानश्चापि ये केचित् तत्रायाता दिदृक्षवः८६ ।
तान्सर्वानस्त्रवीर्येण स्वगृहाननयद् बलात् ।।५२। ।
तद् प्रविध्वस्तकलशं भग्नयूपसतोरणम् ।
प्रदीपितमहाशालं दृष्टवा यज्ञोभिदुद्रुवे । ।५३ ।।
तं तदा मृगरूपेण धावन्तं गगनं प्रति ।
हरिः शरं स सन्धाय८७ विशिरस्कमथाकरोत् ।।५४। ।
शरं चापरमादाय८८ वीरभद्रः प्रतापवान् ।
पलायमानं तं यज्ञं ससार मृगरूपिणम् ।
नक्षत्रसमतां यातुं द्वाबद्धं वीतमभ्यगात् । ।५५ ।।
सनत्कुमार उवाच
एवं ते८९ निकृता९० व्यास गणैः काल्या तथैव च ।
हरिणा चैव देवेन सर्वे९१ शरणमागताः । ।५६।।
- - - -- - -- - ---- - -- -- -- - -- - --
७२... मध्ये - ख. । ७३... मन्ये - क. । ७४... नपि - क. । ७५... न्यदीपयन् - क. । ७६... स्यामुच्चतः- घ । ७७ कुपिताननः - घ. । ।३८ महासत्व - घ । ७९ मिथस्तां (न्) - घ. । ८० सन्यवारयत् - घ. । ८१ सन्निभम् - क. । ८२ ततो - घ. । ८३ स तान् - ख., यज्ञ - घ. । ८४ कौशल्य - घ., युद्धसमु- त्थितान, - ख. । ८५... वीर्येण क. ख. घ. । ८६ तत्र तत्र समागतान् - घ. । ८७ समाधाय - क. घ., समादाय - ख. । ८८ सशरं चाप - घ., शरंचापं स - ख । ८९ निर्गता - घ । ९० गणैभद्रा - क सर्वेवै त्रिदिवौकसः - घ. । ९१ तं सर्वे - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
तान् प्रपन्नान् तदा सर्वान् देवान्९१ समुनिलोकपान् ।
हरिः काल्या सहैवाह गच्छध्वं सोममव्यम् ।
प्रसादयध्वं देवेशं ततो वो भविता शमः९२ । ।५७। ।
सनत्कुमार उवाच
त एवमुक्ता९३ हरिणा जग्मुर्देवं प्रमन्यवः ।
प्रसादयितुमव्यग्रा दुःखशोकसमन्विताः ।।५८।।
ततस्ते नातिदूरे तु९४ साम्बं९५ सगणमीश्वरम्९६ ।
अपश्यन्त९७ महात्मानः९८ सर्वे तद्गतमानसाः ।।५९। ।
ते तं दृष्ट्वा प्रणम्योच्चै९९ स्तुष्टुवुर्दीप्ततेजसम् ।
वाग्भिराहवनीयाभिः१०० कृत्वा ब्रह्माणमग्रतः ।। 8.32.६० । ।
देवा ऊचुः
नमस्ते सुरशत्रुध्न सुरयज्ञप्रमर्दक१०१ ।
महायज्ञ महासत्व महाक्रतुशतस्तुत । ।६१।।
नमो यज्ञविनाशाय वेदसर्वस्वदाय१०२ च ।
शिपि१०३ विष्टकृते विष्णोर्नरसिंहाभिघातिने । । ६२। ।
मन्दराद्रिनिवासाय१०४ शुभसर्वस्वदाय च ।
महाविमानयानाय ऋतुविघ्नकराय च । ।६३ । ।
मन्त्रान्तः करणयैव१०५ मन्त्रव्रतकराय च ।
पूष्णो दन्तविनाशाय भगनेत्रहराय च । ।६४।।
विष्टम्भनाय शक्रस्य विष्णोश्चक्रस्य चैव हि ।
नमो यज्ञप्रणेत्रे च१०६ यज्ञोत्पत्तिकराय च ।। ६५। ।
वरदानाधिगम्याय१०७ ब्रह्मणो जनकाय च ।
व्याघ्रचर्मभृते तुभ्यं१०८ कृष्णचर्माम्बराय च । ।६६।।
- - - -- - -- - ---- - -- -- -- - -- - --
९१ सदेवान् - ख., सर्वांश्च - ख. । ९२ समः - घ., मम - क. । ९३ एवमुक्तास्तु घ. । ९४ तं दुरारोहं - घ. । ९५ सोमं - घ. । ९६ शरणमीश्वरम् - घ. । ९७... न्त - घ. । ९८... नं - घ. । ९९ प्रणम्योचुऽ - घ. । १०० रादरणीयाभिः - घ., रावाहनियाभिः - क., संस्कृतयुक्ताभिः - घ. । १०१... प्रवर्तक - क. घ. । १०२ देवसर्व- स्वदाय - घ. । १०३ शिखि... - ख, शिबि., - क. । १०४ मन्दरेन्द्रविनाशाय - क. घ. । १०५ मन्त्रान्त... - घ. मन्त्रार्क... - ख. । १०६ यज्ञप्रणेतुश्च - क. । १०७ . दिगम्याय - घ. । १०८ चैव - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
नमः स्रग्वरमालाय नरपित्रे तथैव च ।
उत्पादकाय विष्णोश्च जयाय विजयाय च । ।६७। ।
नमो मन्युविनाशाय वीरभद्रप्रजाय च ।
नमो हर्षाय कोपाय१०९ गणेश्वरसृजे नमः । । ६८ । ।
नमो देवानुतापाय मृगबाणार्पणाय११० च ।
नमस्ते भगवन् देव नमस्ते भगवञ्छिव ।।६९। ।
नमस्ते सर्वलोकेश नमस्ते लोकभावन१११ ।
त्वया सृष्टमिदं विश्वं११२ यज्ञो देवाश्च यज्ञहन् ।
प्रसीद मा क्रुधोस्माकं मा नः कृत्वा विनाशय । ।8.32.७० । ।
सनत्कुमार उवाच
य इमं पठते नित्यं प्रयतः११३ प्रातरुत्थितः ।
न तस्य विघ्नरूपाणि कदाचित् संभवन्त्युत । ।७१ । ।
सनत्कुमार उवाच
स एवमुक्तो देवेशस्तदा११४ तान् स्तुवतः स्थितान् ।
उवाच प्रहसन्११५ वाक्यं सर्वात्मा सर्वभावनः११६ । ।७२।।
देवदेव उवाच
नाहं क्रुद्धो भवन्तो मे नित्यमेवातिवल्लभाः११७ ।
क्रुद्धे हि मयि युष्माकं न स्याज्जीवं११८ क्षणान्तरे । ।७३ । ।
सनत्कुमार उवाच
एवमुक्त्वा तदा देवः सुराणां हितकाम्यया ।
प्रावेशयत् सुरान् सर्वान् ततस्तान् योगमायया११९ । ।७४। ।
स्वे शरीरे महादेवो विस्मापयितुमोजसा ।
ते प्रविष्टास्तदा देहमीश्वरस्य१२० महात्मनः ।।७५। ।
- - - -- - -- - ---- - -- -- -- - -- - --
१०९ रूपाय - ख. । ११० मृगमाणार्पणाय - ख- । १११ सर्वभावन - घ. । ११२ सर्वं - घ. । ११३ नियतः - ख । ११४ सदा - घ । ११५ च महादेवः - घ. । ११६ सर्वान्देवान् समागतान् - क. । ११७ नित्यमेव हि वल्लभाः - ख. । ११८ भ्रंस्याज्जीवं - घ.,... व्यं - घ. । ११९ प्रवेशयमास तदा योगेनापि- बलीयसा - घ. । १२०... मुमेशस्य - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
सप्तलोकसमायुक्तमपश्यन् जगदद्भुतम्१२१ ।
ते परिभ्रम्य१२२ ताँल्लोकान् कृत्स्नान् सर्वे भयान्विताः१२३ । ।७६ ।।
पञ्चाक्षं गणपं वीरं तत्रापश्यन् समागताः१२४ ।
तेन ते सुरशार्दूलाः१२५ सर्वे ह्यूर्ध्वमतन्द्रिताः१२६ ।।७७। ।
आक्षिप्तास्तन्मुहूर्तेन लोकमन्यमुपागताः ।
अपश्यंस्ते महाभागा नगरं सूर्यसन्निभम् । ।७८। ।
स्फाटिकेनातिमहता प्राकारेणाभिसंवृतम् ।
शृंगैश्च विविधैश्चित्रैर्मणिहेमोज्ज्वलैः शुभैः१२७ । ।७९ ।।
ततोपरमपश्यँस्ते तन्मध्ये सुरसत्तमाः ।
सप्तयोजनकोटीकं१२८ समन्तान्नगरं शुभम् । ।8.32.८० । ।
राजतेनावृतं दिव्यं प्राकारेणेन्दुवर्चसा ।
तस्य मध्ये परं चोर्ध्वं१२९ षट्कोट्या१३० विस्तृतं पुरम् ।।८१ ।।
जाम्बूनदमयेनैव प्राकारेण१३१ सुसंवृतम् ।
तस्य मध्ये१३२ ततश्चान्यत्१३३ पंचकोटी१३४ प्रमाणतः ।।८२ ।।
इन्द्रनीलोपलेनैव प्राकारेण समावृतम् ।
तस्य मध्ये ह्यपश्यंस्ते विबुधा१३५ मुनिसत्तम१३६ । ।८३ ।।
चतुर्योजनकोटीकं विस्तारायामतः समम्१३७ ।
वैदूर्योपलयुक्तेन१३८ प्राकारेणाभिसंवृतम् ।।८४।।
नगरं तस्य मध्ये च त्रिकोटीयोजनं१३९ शुभम् ।
सर्वरत्नविचित्रेण प्राकारेणाभिसंवृतम् । ।८५ । ।
तेषां मध्ये जनपदाः सर्वदुःखविवर्जिताः ।
शुक्लाभिजनसंपन्नाः सर्वे च स्थिरयौवनाः ।।८६।।
- - - -- - -- - ---- - -- -- -- - -- - --
१२१... मपश्यँश्च जगत्ततः - घ. । १२२ परिभ्राम्य - ख. । १२३ ममार्द्दिताः - ख. । १२४ समागतं - घ. । १२५ गणशार्दूलाः - ख. । १२६ वै सूर्यवर्चसः - घ । १२७ सुशोभितमनोहरं - घ. । १२८ कोट्या वै - घ. । १२९ चान्यं - घ. । १३०... कोटी - घ. । १३१ प्राकारेणैव - ख.,... णाति (भि)... - घ. । १३२ तस्योर्ध्वत? - घ. । १३३.. .श्चास्यां - घ. । १३४... कोट्या - घ. । १३५ विविधान् - घ. । १३६... मान् - घ. । १३७ शुभम् - घ. । १३८ वैडूर्योपलयुक्तेन - क. । १३९... कोटीयोजनं - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
क्षुत्पिसाविनिर्मुक्ता१४० रोगशोकविवजिताः१४१ ।
अमरा जरया१४२ त्यक्ता नित्यं मुदितमानसाः ।।८७। ।
दीर्घिकाभिर्विचित्राभिर्वापीभिश्चाप्यलंकृताः१४३ ।
वक्षैर्नानाविधैश्चित्रैः सदा पुष्पफलोपगैः । ।८८। ।
सर्वभक्षान्१४४ प्रसूयन्ते वृक्षास्तत्रापरे शुभाः ।
अपरे चाप्यलंकारान्१४५ सर्ववासांसि चापरे । ।८९।।
अपरे सर्वपुष्पाणि सर्वाण्येव फलानि च ।
सर्वभावाँस्तथा चान्ये मधु चामाक्षिकं१४६ शुभम् ।।8.32.९ ० ।।
अपरे क्षीरिणस्तत्र वृक्षा व्यास महाप्रभाः ।
क्षीरं क्षरन्ति ते नित्यं सर्वे१४७ गव्यं१४८ समन्विताः१४९ । ।९ १ । ।
सर्वा मणिमयी भूमिः शुभा काञ्चनवालुका१५० ।
उद्भिदान्युदकान्यत्र गिरि१५१ प्रस्रवणानि च । । ।९२।।
न तेषु क्रोधो लोभो वा युद्धं द्वेषोथ मत्सरः ।
न मोहो१५२ नैव च स्तम्भो न दोषास्तत्र चापरे । ।९३ । ।
तस्य मध्ये पुरं चान्यद् द्विकोटीविस्तृतं शुभम् ।
पद्मरागमयेनैव प्राकारेण परिष्कृतम् । । ९४। ।
ईदृशानि पुराणि स्म व्यतिक्रम्य सुरास्ततः ।
कोटीयोजनविस्तीर्णं समन्ताद् वह्निनावृतम् । ।९५। ।
संवर्तकानलाकारं दुर्निरीक्ष्यं पुरं महत् ।
अद्वारं ददृशुर्दिव्यमनन्तं ते सुरोत्तमाः । । ९६। ।
दृष्टवा जग्मुः परं१५३ चैव विस्मयं भयमेव च ।
तान् भीतवदनान् व्यास वेपमानान् सुरेश्वरान् ।
पञ्चाक्षो गणपः प्राह मा भीर्भवतु वः सुराः ।।९७। ।
- - - -- - -- - ---- - -- -- -- - -- - --
१४० विमुक्ता हि - क. घ. । १४१ रागलोभविवर्जिताः - घ । १४२ अजरा अमराः - ख, अजरा - घ. । १४३ चप्यालंकृतं - घ. । १४४ सर्वभक्षं। - क., क्षानि - ख । १४५ चाप्यलंकारं - क. ख. घ. । १४६ मधुरैर्माक्षिकैः - घ. । १४७ सर्वं... क. । १४८ दिव्यं - क ख । १४९... तं - क. घ. । १५०... चुल्लिका - क. । १५१ गिरे. - घ । १५२ मानो - ख घ- । १५३ पुर - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
इदन्तत् सुमहद् घोरं पुरं घोरानलावृतम् ।
द्रष्ट्व्यं वो महात्मानो यत्कृते चागतास्त्विह१५४ । ।९ ८।।
सनत्कुमार उवाच
एवमुक्त्वा स पंचाक्षः१५५ शूलेनानलवर्चसा ।
पश्यतां सुरसंघानां द्वारं चक्रे महाबलः१५६ । । ९९ । ।
ते प्रविष्टा महात्मानः पञ्चाक्षसहिताः सुराः ।
दिव्यं ददृशिरे पूर्णं१५७ सिंहानां तत् पुरं महत् । । 8.32.१०० ।।
मेरुमन्दरकल्पानां नखदंष्ट्रावतां तथा ।
घोराणामग्निवर्णानां क्रुद्धानामतितेजसाम् । । १०१ । ।
तेषामेकस्तदासिंहश्छित्त्वा बन्धनमूर्जितः१५८ ।
अन्वधावत संक्रुद्धः प्रलम्बितमहासटः । । १० २। ।
तस्य सिंहस्य नादेन भैरवेण दिवौकसः ।
विषण्णवदनाः सर्वे पञ्चाक्षं शरणं ययुः । । १०३ । ।
पञ्चाक्ष उवाच
न भेतव्यं सुरा देवं दर्शयाम्यधुना हि वः ।
सनत्कुमार उवाच
इत्युक्ता१५९ ददृशुः शर्वं१६० सहसा ते सहोमया१६१ ।
न चैव तत्पुरं व्यास न सिंहं१६२ नापि किञ्चन । । १ ०४।।
वेपमाना भयेनेशं शरणं पर्युपागताः ।
तान् शरण्यः१६३ स भगवानुवाच प्रहसँस्तदा ।। १० ५।।
आमंत्र्य सर्वान्१६४ देवेशो भयत्रस्तान्१६५ दिवौकसः ।
दृष्टा१६६ हि वो मम क्रोधाः सिंहरूपा भयानकाः ।। १०६ ।।
एकेन तेषां रौद्रेण यूयं सर्वेपि१६७ तर्जिताः१६८ ।
यदि सर्वानहं क्रोधाद्१६९ विसृजेयं कदाचन१७० ।। १ ०७।।
- - - -- - -- - ---- - -- -- -- - -- - --
१५४ नागतास्त्विह - क. ख. । १५५ पंचास्यः - घ । १५६ महानदः - घ. । १५७ पूर्वं - ख. । १५८... तं - क. ख. । १५९... क्त्वा - क. ख. घ. । १६० सर्वे यूयं - क ख. घ । १६१ तैस्सहोमया - क. । १६२ सिंहो - घ, सिंहां ( न्) - ख. । १६३ भयार्तान्- - ख. घ । १६४ सर्वं - क. । १६५ भया ( त्) - क., भयार्तास्तान् - ख. घ. । १६६ दृष्ट्वा - क., दृष्ट - ख. । १६७ सर्वे यूयं - क. ख । १६८ विनिर्जिताः - क. । १६६ क्रोधान्? क्रोधे - घ. । १७० कथंचन - क ख. घ ।
- - - -- - -- - ---- - -- -- -- - -- - --
न भवेत न सन्देहः१७१ सर्वे यूयं क्षणान्तरे १७२
इयन्तु देवी युष्माकं कुपिता पर्वतात्मजा ।
एतां प्रसादयत व नाहं कुप्यामि वः१७३ सुराः । ।१ ०८।।
सनत्कुमार उवाच
एवमुक्तवति स्वामिन्युद्धता ताम्रलोचना१७४ ।
देवी देवीं मुखाद् घोरां ससृजे भयवर्द्धनीम् ।। १ ०९। ।
दंष्ट्राकरालवदनां१७५ बहुपादकरांगुलिम्१७६ ।
धनुपरशुखड्गोग्र१७७ चक्रशूलेषुधारिणीम्१७८ ।।8.32.१ १० । ।
ज्वलर्दकसहस्रांशुतेजसं१७९ विश्वरूपिणीम् ।
दशयोजनसाहस्र१८० स्तस्या देहः प्रमाणतः१८१ । ।१ ११ । ।
तयाभिभूतास्ते देवा वध्यमानाश्च१८२ सर्वशः ।
न शेकुः१८३ पुरतः स्थातुं व्याघ्राद् मृगगणा इव ।। १ १२।।
ततो व्यथितचित्तास्ते कालकर्णीभयात्१८४ सुराः१८५ ।
भस्मराशिं स्थितं पार्श्वे देवस्य१८६ विविशुर्भयात् ।। ११३ । ।
तान् दृष्टवा भस्मकूटं तु प्रविष्टान् शरणार्थिनः ।
सुरान् भस्मविलिप्ताङ्गान् देवी१८७ देवीं१८८ न्यषेधयत् ।। १ १४।।
देव्युवाच
कालकर्णि निवर्तस्व मा वधीः१८९ सुरसत्तमान् ।
एते पाशुपती१९० भूता भस्मना दिग्धमूर्तयः१९१ ।। ११ ५।।
एतत् पशुपतिप्रोक्तं व्रतं पाशुपतं पुरा ।
यद् भस्मना पवित्रेण स्नानं स्नानेभ्य उत्तमम् । । ११ ६। ।
एते भगवतोवश्य१९२ मनुग्राह्याः१९३ सुरोत्तमाः ।
भस्म येन प्रविष्टास्तु१९४ तस्मान्मैतान् विनाशय ।। १ १७। ।
- - - -- - -- - ---- - -- -- -- - -- - --
१७१ भवेयुरसन्देहः - क. ख. । १७२ क्षणेपिच - ख. । १७३ वा - क. । १७४ युद्धवातम्रलोचना - क. ख. । १७५... दशनां - ख. । १७६ गतिं - घ । १७७... ग्रां - क. । १७८ ... लासिधारिणीम् - क. । १७९.. .सां - ख. । १८० साहस्रां - ख. । १८१ देहं प्रकीर्तितम् - क. । १८२ वर्धमानाश्च - घ. । १८३ तत्यजुः - घ. । १८४ कालकर्णभयात् - क, न्या - ख,, कल्प - घ. । १८५ पुरा - घ. । १८६ देवास्ते - घ. । १८७ देवो - क., देवीं - ख । १८८ देवी - क. ख. । १८९ मा धाव - घ. । १९० पाशुपता- क. घ. । १९१ निर्दग्धमूर्तयः- घ. । १९२ वश्या - क. । १९३... गृह्या - ख. । १९४... स्ते - क. ।
- - - -- - -- - ---- - -- -- -- - -- - --
रौद्राः पशव एते हि प्रवेशाद् भस्मसोधुना१९५ ।
जाताश्च गणपाः सर्वे हन्तव्या न त्वयेश्वरि ।।१ १८।।
नैषां मृत्युः प्रभवति शङ्करार्पितचेतसाम् ।
मया ह्येतत्१९६ व्रतं शर्वं चरितं सार्वकामिकम्१९७ ।।१ १ ९। ।
इत्युक्ता१९८ कालकर्णी तु देव्या१९९ भैरवरूपिणी ।
न्यवर्तत सुरेभ्यस्तु२०० कोपं तत्याज चोत्थितम्२०१ । । 8.32.१२० । ।
कालकर्णीं निवृत्तां तु दृष्ट्वा तेपि२०२ सुरास्ततः२०३ ।
शान्तञ्च भयमत्युग्रं तुष्टुवुर्हिमवत्सुताम् ।।१ २१ । ।
देवा ऊचुः
हरवरमहिषीं महादेवपत्नीं
प्रियां त्र्यम्बकस्याम्बिकां वाचमेका-
क्षरां२०४ लोकसंहारकर्त्रीमुमां दे-
वदेवस्य पात्नीं शुभां शंखकुन्दे-
न्दुहाराम्बुगौरोग्रदंष्ट्रां जयामा-
हवे दुर्निरीक्ष्यामचिन्त्योग्रदृष्टिं-
विशालेक्षणां पीतकोशेयवस्त्रां
महाशूलघण्टापताकाध्वजां दि-
व्यगन्धाज्यधूपप्रियां कालदण्डा-
सिचर्मोग्रहस्तां२०५ वपाशोणितान्त्र-
वसापूर्णभाण्डां दिशां दक्षिणां चा-
रुचामीकराबद्धपट्टां युगान्ता-
नलाभेक्षणामट्टहासान्सृजंतीं
यथाकामकर्त्री२०६मनङ्गायुधावि-
- - - -- - -- - ---- - -- -- -- - -- - --
१९५ साधुना - ख. । १९६ ममाप्येतत् - घ. । १९७ सर्वकामिकम् - घ. । १९८ इत्युक्त्वा - क. ख. घ. । १९९ देवी - घ. । २०० श्च - घ. । २०१ त्यक्त्वा जवोस्थितम् - क. । २०२ तु - क. । २०३ सदा - घ. । २०४ त्रिचरणाक्षरां - घ. । २०५... चर्माग्रहस्तां - ख. । २०६ .. हन्त्रीं - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
क्षतां शूरसेनां नदीं विश्रुतां म-
न्दरावासनित्यां दिविष्ठां२०७ प्रपद्या-
महे२०८ कानसी ( ष्टि)२०९ मसुरमहिषदा-
रणीं दारणीं दुन्दुभेः२१० सुन्दमारीं२११
निशुम्भस्य मृत्युं विभां सोमसूर्या-
ग्निभासां सृज२१२ त्कान्तिमिष्टप्रदां शो-
कदुःखार्तिहर्त्रीं२१३ विशेकामघोरां-
घनामन्तकस्या२१४ न्तकर्त्री मुनेर्जा-
मदग्न्यस्य चोर्ज्जां तथा राजराज्ञीं
मनोज्ञां करालां क्षपां दण्डनीतिं
स्थितिं सिद्धिमिष्टां शुभां कालरात्री-
मपर्णां समाधिं शरण्यां नगेन्द्रा-
धिवासप्रियां क्षीरोदनित्यां२१५ शुभां-
महाकिंकिणीकां प्रकीर्णोर्ध्वकेशीं
प्रदीप्ताग्निसन्ध्याभ्ररागत्विषं२१६ ब-
द्धगोधाङ्गुलित्रां त्रिनेत्रां जटाके-
शरक्ताम्बुजाबद्धमालां विशल्या-
मनङ्गारिनेत्रोल्कजां२१७ हेममाला-
निबद्धस्रजां२१८ दीर्घवेणीं सुवेणीं
यशःकीर्तियुक्तां२१९ मयूराङ्गजाब-
द्धचित्रध्वजां राजसां शान्तिकर्त्रीं
प्रपद्येहमेकां सदा भुजङ्गशतकृताङ्गदां
महादानवप्राणशौण्डां चिताभ-
स्मरूक्षाङ्गकेशीं महाजानुलम्बो-
- - - -- - -- - ---- - -- -- -- - -- - --
२०७ दितिं... - घ. । २०८ प्रपद्येमहे - घ. । २०९ कानसां - घ. । २१० दुन्दुभेर्मारणीं - घ. । २११ सु (शु) भ्भमारी - ख. घ. । २१२ सृजां - ख. । २१३ दुःखशोकापहर्त्रीं - घ., दुःखशोकापहन्त्रीं - घ. । २१४ शम्बरा - ख. । २१५ .. धिस्थां। - घ. । २१६... त्विषां - क. । २१७ त्रिनेत्रोल्कजा - घ. । २१८ विनद्धस्रजां - ख । २१९,.. कीर्तिमुक्ता - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
दरां सर्पयज्ञोपवीतर्द्ध२२० वक्त्रो-
द्धृताक्षार्द्ध पादार्द्र हस्तावतंसां
महामेखलादामलम्बद्विचित्रस्रजां
महामेघतूर्योग्रवादित्रनृत्त-
प्रियां२२१ गीतहास्यप्रलापप्रमोद-
प्रियां जाप्यहोमोपवासादवासा-
प्रवासाधिवासातिरिक्तां महायो-
गविज्ञातसारा२२२ नुसारोग्रसारां
धृतिं ज्यानुघण्टा२२३ वबद्धोग्रशब्दां
महामेघवज्रप्रपातोदधिप्र-
ख्यतीव्रोग्रघोषां क्रियां दीक्षिताना-
ञ्च दीक्षां विरूपाक्षभार्यां हरस्या-
र्धदेहाधिवासां२२४ प्रप्रद्ये मुखोल्को-
द्भवां देवीमाद्यां२२५ परां पार्वतीं स-
र्वविद्याधिदेवीं गतिं यमनियमदमात्मभूतां
पितॄणां च कन्यां शुभां पर्वतेन्द्रा-
त्मजां दक्षयज्ञान्तकर्त्रीं२२६ भवस्या-
र्धदेहाश्रितादित्यदन्तावपातां२२७
सुरेन्द्राग्रहस्तप्रतिस्तम्भनीं वि-
ष्णुकेशापहर्त्रीं महासिहयुक्ता-
तिवाहां२२८ महाभैरवां भीषितां स्क-
न्दचन्द्रारणीं मातरं हस्तिवक्त्र-
स्य चाग्र्यां विशाखस्य जन्मारणीं न-
न्दिनो नैगमेषस्य चोत्पादनीं स-
- - - -- - -- - ---- - -- -- -- - -- - --
२२० सर्पयज्ञोपवीतान्त्रवक्त्रो.. - घ. । २२१ नृत्यप्रियां - ख. । २२२ विज्ञानसारा - घ. । २२३ जानुघण्टा - क. । २२४ हरस्य देहार्धाधिवासां - घ. । २२५ देविमाद्यां - क. - ख. । २२६ दक्षयज्ञान्तकारीं - क. घ. । २२७ दिव्यदन्तावपातां - घ, मादित्य । २२८... तिवादां - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
र्वलोकस्य चाद्यारणीं पूज्यां मातरं यो-
गिनां योगिनीं ध्यायमानां धृतिं दे-
वविप्रैर्महा२२९ योगतर्कैरगम्यां
विशिष्टेष्टशिष्टाधिवासां च लक्ष्मीं
नरी (?) भूर्भुवःस्वर्जनस्सत्यवैरा-
जमाहात्म्यलोकारणीं२३० कारणीमिन्द्रियाणा-
महङ्कारतन्मात्रकर्त्रीं तमस्स-
त्वरागप्रवृत्तिं२३१ पराञ्च प्रवृत्तिं
महेशस्य शक्तिं तथा चेतनां स-
र्वविज्ञानचिन्त्यां प्रपद्याम देवी२३२
मुमां मातरं, दिश त्वं सुखं मातरस्मासु तुष्टा
महादेवपत्नीं शुभां यां वयं चि-
न्तयामैकया संविदा ध्यायमानाः२३३
सदा दारुणं चापि सर्वं कृतं य-
त्त्वया (?) तच्च नो नाशयाम्बाद्य तुष्टा
यथा वै तुषारं महासूर्यदेहो-
द्भवा२३४ तच्च नो जातिकोटीसहस्रे-
षु पूर्वं कृतं२३५ यत् करिष्याम यत्कु-
र्म तत्सर्वमेवञ्च२३६ दद्याश्च नः स-
र्वमर्थं सकामं तथारोग्यमूर्जां
श्रियं ज्ञानविज्ञानमेधास्तथा धा-
रणां तर्कमूहामपोहं धृतिं चा-
र्यभावं२३७ गतिञ्चैव दिव्यां तथा ध-
र्मनित्यत्वमेताँश्च ये चाप्यतोन्ये
गुणास्ताँश्च सर्वान् जुषस्वाद्य देवि
तुभ्यं नमः । । १ २३-१४४। ।
- - - -- - -- - ---- - -- -- -- - -- - --
२२९ देवदेवप्रियां - ख. । २३० जमहात्म्यलोकारणी - क. । २३१ नमः सत्वरागप्रवृतिं - क., मनः - ख. । २३२ प्रपद्ये सदाहं - ख. । २३३ मोक्षबुद्ध्या - ख. । २३४ महाशून्यदेहोद्भवां - ख. । २३५ सर्वं कृतं - क. । २३६ वरञ्च - ख. । २३७... मपोहां धृतिं धार्यतां - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
सनत्कुमार उवाच
एवं सा संस्तुता देवी देवैर्हृष्टेन२३८ चेतसा२३९ ।
त्र्यम्बकानुग्रहाच्चैव देवाँस्तुष्टाब्रवीदिदम् ।। १४५। ।
देव्युवाच
गच्छध्वं विज्वराः सर्वे तुष्टाहं वो न२४० संशयः ।
मैवं कार्ष्ट पुनर्देवा मा विनाशो हि वो भवेत् ।।१४६।।
सनत्कुमार उवाच
ततः स देवः प्रहसन् कपर्दी नीललोहितः ।
प्रकृतिस्थान् सुरान् सर्वांश्चकार सुरशत्रुहा । । १४७।।
उवाच चैतान् देवेशो गच्छध्वं विगतज्वराः ।
यज्ञश्चैव यदा कृत्यं तदायं भविता हि वः ।। १४८ ।।
सशिरस्को दितेः पुत्रा मन्त्रेणानेन सन्धितः ।
ततः स्तोत्रं च मन्त्रं च सन्धानकरमव्ययम् ।
ददावाथर्वणं देवः प्रोवाचेदं च२४१ सुस्वरम्२४२ । । १४९। ।
देवदेव उवाच
नक्षत्रसमतां यातु यज्ञोयं सुरसत्तमाः ।
मृगानुसारी देवोपि हरिरस्य भवत्वयम् । ।8.32.१ ५० । ।
भद्रकाली हरिश्चैव२४३ गणाश्चेमे महाबलाः ।
सर्वे भद्रा२४४ भविष्यन्ति युष्माकममरास्सदा ।।१५ १ । ।
सनत्कुमार उवाच
एवमुक्ता भगवता देवास्ते ब्रह्माणा सह ।
शिरोभिः प्रणतास्सर्वे शर्वमूचुरिदं वचः । । १५२ ।।
एष तावत् क्रतु२४५ श्रेष्ठस्तवैव भवतु प्रभो ।
सर्वः सुरपते देव शतमभ्यर्च्यते२४६व्यय२४७ ।। १५३ ।।
- - - -- - -- - ---- - -- -- -- - -- - --
२३८ दिव्येन - ख. । २३९ चक्षुषा - घ. । २४० वोहं - घ. । २४१ कोपेन च - ख. घ. । २४२ सत्वरं - घ. । २४३ हरश्चैव - घ. । २४४ रुद्रा - घ. । २४५ क्रतुः - क. । २४६ मन्यच्च ते - घ. । २४७. . व्ययः - क. ।
- - - -- - -- - ---- - -- -- -- - -- - --
भागानां सर्वयज्ञेषु तुभ्यं सर्वं ददामहे ।
एवमुक्तोथ देवेशः सुरैः सर्वैः सुरेश्वरः ।।१५४।।
चकार रूपं परमं सर्वदेवमयं शुभम् ।
स्वात्मानन्ते तदा देवा२४८ ह्यपश्यन्त महेश्वरे ।।१५५।।
शिरोबाहूरुपादेषु वस्तिहस्तोदरादिषु ।
अवस्थितान् महात्मानो२४९ मुनीँश्चैव तपोधनान् ।।१५६।।
स तद्रूपं तदा कृत्वा देवान् प्रोवाच शंकरः ।
सर्वे यूयं महात्मानो मच्छरीरसमुद्भवाः ।।१५७।।
युष्माकञ्च शरीराणि मन्मयानि प्रपश्यत ।
ततस्ते देवता२५० व्यास सर्वं रुद्रात्मकं जगत् ।।१५८।।
आत्मानं२५१ चाप्यपश्यन्त विस्मयापन्नचेतसः ।
एवं स२५२ तेषां देवेशो दर्शयित्वात्मनो बलम् । ।२५९।।
उवाच सुरशार्दूलान् दृष्टा२५३ ह्येता विभूतयः ।
यो यां२५४ पूजयते मूर्तिं भक्त्या परममया युतः ।।8.32.१ ६० ।।
तस्य तां मूर्त्तिमास्थाय पूजां गृह्णाम्यहं सुराः ।
न भागधेयैः कृत्यं मे भागधेयानि वस्मुराः ।
सर्वाण्येव ददाम्यद्य२५५ यात सर्वे गतज्वराः ।।१ ६१ ।।
देवा ऊचुः
गुह्यमेतत् परं देव त्वयास्माकं निदर्शितम्२५६ ।
एवं यो वेत्स्यते मर्त्यः स लोकान् प्राप्स्यतेव्ययान् ।।१६२।।
इदं च भगवन् स्थानं भद्रेश्वरमिति श्रुतम्२५७ ।
भविष्यति जगच्छ्रेष्ठं पुण्येभ्यः२५८ पुण्यवत्तमम्२५९ ।।१६३ ।।
समन्ताद् योजनं चैवं रुद्रक्षेत्रं सनातनम् ।
मृतोत्र गणपो देव वल्लभस्ते२६० भविष्यति । ।१६४।।
- - - -- - -- - ---- - -- -- -- - -- - --
२४८ स्वयमन्यं ददौ देवो - ख. । २४९ देवानवस्थितात्मानो - स. । २५० तेजसा - क- । २५१ आत्मन... - घ. । २५२ तेषां स - घ । २१३ दृष्ट्वा - क. घ. । २५४... मां - घ. । २५५.. न्यद्य - क. । २५६ विदर्शितम् - घ. । २५७ स्मृतम् - घ । २५८ स्थानेभ्यः - क. ।ऽ २५९ षुण्यकृत्तमम् - का ख., पुण्यमुत्तममं - घ. । २६० समूहन्ते - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
यश्चेदं२६१ कीर्त्तयेन्नित्यं कल्य उत्थाय२६२ यज्ञहन् ।
श्रावयेच्चापि विप्रेभ्यः २६३ सर्वपापैः प्रमुच्यते ।। १६ ५। ।
भद्रकर्णह्रदे चास्मिन् स्नात्वा योभ्यर्चयेद्धरम्२६४ ।
साधयित्वा चरुं चैव भोजयेद् ब्राह्मणान् शुचिः२६५ । । १ ६६।।
स सर्वपापनिर्मुक्तो२६६. यत्र तत्र मृतो नरः ।
मोदतेप्सरसां मध्ये दिवि देव इवापरः२६७ ।। १ ६७। ।
यत्र चोक्तं त्वया देव स्थितेन२६८ भगवन् प्रभो ।
हरभद्रेति पुण्योयं त्वत्प्रसादाद् भवत्वज । ।१ ६८।।
अश्वमेधस्य यत्पुण्यं२६९ सम्यगिष्टस्य यज्ञहन्२७० ।
तदत्र देव भवतु नरस्याभ्यर्चतः सदा२७१ । ।१ ६९। ।
परित्यक्ष्यति२७२ यश्चात्र कश्चित् प्राणान् नरोत्तमः ।
हरिभद्रस्य स गणो भविष्यति महाबलः । 8.32.१७० । ।
सनत्कुमार उवाच
एवमस्त्विति स प्रोच्य मन्दरं चारुकन्दरम् ।
जगाम भगवान् शर्वः सोमो गणशतैर्वृतः ।।१७१ ।।
देवापि राज्ञा२७३ सहितास्तस्मिँस्थाने यथासुखम् ।
तस्थुर्ब्रह्मा च विष्णुश्च जग्मतुर्देवपृष्ठतः ।। १७२ । ।
स गत्वा स्तोकमध्वानमुभाभ्यां सहितः प्रभुः ।
नातिदूरे ततः प्राह तिष्ठ विष्णो महाबल ।।१७३ ।।
स प्रणम्य ततः पादौ हरस्य पुरुषोत्तमः ।
तस्थावाम्रं समालम्ब्य२७४ स कुब्जस्समपद्यत ।। १७४। ।
यस्मादाम्रं समालम्ब्य तस्मिन् देशे स्थितो हरिः ।
निरीक्षमाणो देवेशं देशस्तस्मादभूदसौ । १७५ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
२६१... श्चेमं - क. ख. घ. । २६२... मुत्थाय - क । २६३ उपोष्य- ग । नरः सम्यक् - ख, स्वयं वा मानवः सम्यक् - घ. । २६४ हरमर्चते - ख. । २६५ ब्राह्मणं शुभ ख . ण - घ । २६६ सर्वपापादिनिर्मुक्तो - ख. घ. । २६७ इवामरः - क. घ. । २६८ तिष्ठता - घ । २६९ यज्ञस्य - क. । २७० यत्फलं - ख. । २७१.. .र्च्य सर्वदा - क, नः सदा - ख. । २७२ त्यजति - घ. । २७३ यज्ञ.. - ध । २७3 समालक्ष्य - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
कुव्जाम्रक इति ख्यातो विष्णोः क्षेत्रं समृद्धिमत् ।
पुण्यं निवर्तनाद्विष्णो२७५ गोसहस्रफलप्रदम् ।।१७६। ।
नातिदूरं ततो२७६ गत्वा भूयो देवः पितामहम् ।
निवर्त्तेत्यब्रवीद्२७७ व्यास गगनञ्च समाविशत् । ।१७७।।
तस्मिन् वियद्गते देवे ब्रह्मा प्राञ्जलिरुन्मुखः ।
प्रदक्षिणं समावृत्य प्रणम्य प्रययौ ततः । । १७८। ।
यस्मात्तत्र हरं तेन कुर्वता वै प्रदक्षिणम् ।
आवर्त्तः२७८ स्वशरीरस्य प्रकृतः२७९ पुण्यकर्मणा । । १७९। ।
तस्मात् स देशो विख्यातो ब्रह्मावर्त्तेति शोभनः ।
अश्वमेधफलं तत्र स्नातः प्राप्नोति मानवः ।। 8.32.१८० । ।
साधयित्वा चरुं चात्र भोजयित्वा तथा द्विजान् ।
प्राणान् परित्यज्य ततो२८० ब्रह्मलोकमवाप्नुयात् ।।१८१ ।।
ततोभ्येत्य सुरैस्सार्धं ब्रह्मा विष्णुपुरस्सरैः२८१ ।
भद्रेश्वरे पशुपतेर्महिमानमथाकरोत् ।। १८२।।
स लिङ्गः तत्र संस्थाप्य पूजां कृत्वातिभास्वराम् ।
भद्रकर्णह्रदे स्नात्वा सह देवैर्दिवं ययौ । । १८३ । ।
तं प्रयान्तं२८२ तदा दक्षो ब्रह्माणमिदमूचिवान् ।
कर्तव्यं किं मया देव मम तद् ब्रूहि पृच्छतः ।।१८४।।
पितामह उवाच
प्रसादय महेष्वासं२८३ शर्वमुग्रं कपर्दिनम् ।
ततो यज्ञसमाप्तिं च लोकांश्च प्राप्स्यसे क्षयान्२८४ । ।१८५।।
सनत्कुमार उवाच
स एवमुक्तो देवेन ब्रह्मणा व्यास तत्त्वतः ।
लिंगं कनखले कृत्वा रुद्रमभ्यर्चयत् तदा ।।१८६। ।
- - - -- - -- - ---- - -- -- -- - -- - --
२७५ निवर्तनान्यष्टौ - क, । २७६ नातिदूरे ततो - ख. । २७७ निवर्तस्वाब्रवीद् - घ. । २७८ आवृत्य - ख, आवर्त्ततां - घ. । २७९ प्रकृते. - घ., प्रकृतिः - ख. । २८० परित्यजेद्यस्तु - घ, तथा - क. । २८१... सुरेश्वरः - घ. । २८२ प्रयातं - क. घ. । २८३ महेशानं - ख । २८४... श्चावाप्भ्यसेव्ययान् - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
तस्य संवत्सरशते पूर्णे दिव्ये प्रजापतेः ।
महादेवोद्रिजां प्राह प्रहसन् गिरिमूर्धनि । । १ ८७। ।
प्राचेतसात्मजो देवि स्थितस्तपसि संयतः ।
पश्यैनं मद्गतेनेशे चेतसा समवस्थितम् ।। १८८ ।।
ततो दृष्ट्वा महादेवी वायुभक्षमवस्थितम्२८५ ।
लिङ्गेपरमया भक्त्या पूजयन्तं महेश्वरम् । ।१ ८९। ।
उवाच हृषिता देवी देवं सर्वसुरार्चितम् ।
कृताञ्जलिपुटा व्यास२८६ सर्वदेवपतिं पतिम् ।।8.32.१ ९० । ।
देव्युवाच
क्षुद्रोयं२८७ दुष्टचेताश्च स्तब्धो मानी२८८ च दुर्मतिः ।
विष्ट्या त्वया२८९ विनिकृत२९० स्त्वामेव शरणं गतः । । १९१।।
तदस्य२९१ दुष्टभावस्य२९२ प्रपन्नस्य२९३ महेश्वर ।
क्षन्तुमर्हसि भक्तस्य त्वामस्यार्थे प्रसादये२९४ ।। १ ९२।।
देवदेव उवाच
त्वमेव देवि यच्छास्मै वरानिष्टान् यथासुखम् ।
अनुज्ञाता मया सुभ्रु त्वमेवास्य वरं दिश । । १९३ । ।
सनत्कुमार उवाच
ततस्तौ देवदेवेशौ सङ्गतौ स्वगणैर्वृतौ ।
ऊचतुः पश्य दक्षावां तुष्टौ दिव्येन चक्षुषा ।। १९४। ।
प्राचेतस महाभाग वरदौ स्वो२९५ महातपः ।
- - - - - - - - - - - - - - - - ।। १९५ ।।
शापशान्त्यर्थमेत्२९६ ते वरं दद्मि तवेप्सितम् ।
यस्ते यज्ञो गणैर्ध्वस्तः फलं तस्य त्वमाप्नुहि ।।१ ९६। ।
- - - -- - -- - ---- - -- -- -- - -- - --
२८५ समास्थितम् - ख. । २८६ देवी - ख । २८७ क्षत्रोयं - घ । २८८ मौनी - घ. । २८९ चायं - घ. । २९० विनिहित - घ- । २९१ तत्तस्य - घ. । २९२ त्वं स्वभावस्य - घ. । २९३ प्रसन्नस्य - ख. । २९४ शरणं देहि देवेश नान्यव्रतरतस्य च - घ. । २९५ वरदो -ख., वरदोस्मि - क । २९६ तपः शान्त्यर्थमेतत् - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
कामरूपधरः श्रीमान् गणेशश्च भवस्व मे ।
अक्षयश्चामरश्चैव२९७ दुःखशोकविवर्जितः ।
भविष्यसि महाभाग मम चैव समीपगः ।।१९७।।
देव्युवाच
शृणुष्व२९८ भूयः किं चान्यत् प्रयच्छतु महेश्वरः ।
सुदुष्करमपि ह्येष वरं दद्यात् त्वयार्थितः२९९ ।।१९८।।
सनत्कुमार उवाच
एवमुक्तस्तदा दक्षो हिमवत्सुतया तया ।
प्राञ्जलिः प्रणतो३०० भूत्वा इदमाह महामतिः३०१ ।।१९९।।
दक्ष उवाच
यो देवस्त्रिभुवनजन्मनाशकर्ता यं मूढा न विदुरनुक्तमेकमेव३०२ ।
भक्तानामशुभहरं पिनाकपाणिं तं देवं शरणगता वयं सभार्म् ।।8.32.२० ०।।
योज्ञाना३०३दसुरतयातिमानमोहान्नास्माभिस्सह खलु पूजितोद्रिपुत्र्या ।
यश्शापं मम रुषितो ददौ सुरेशस्तं देवं शरणगता वयं सभार्यम् ।।२० १ ।।
यस्स्रष्टा सुरगणयक्षराक्षसानां३०४ सिद्धानां दितिसुतदानवेन्द्रनॄणाम् ।
भूतानां पशुमृगपक्षिपत्तगानां तं देवं शरणगता वयं सभार्यम् ।।२०२। ।
यः कोधान्महदसृजद् गणेश्वरेशं३०५ सिंहेन्द्रं हरिममितप्रभावरूपम् ।
पत्नीं चाप्यमितगुणप्रभावयुक्तां तं देवं शरणगता वयं सभार्यम् ।।२०३।।
यो देवान्३०६ सहवरुणान् सवित्तगोपान् सब्रह्मान् सशतमखान्३०७ सविष्णुवायून् । इन्द्राग्र्यान् समुनिमहायुधान् विजिग्ये तं देवं शरणगता वयं सभार्यम् ।।२०४।। यत्किञ्चित्त्वयि३०८ कलुषं कृतं च दुष्टं ह्यज्ञानादपि च हि रागदोषमोहात् ।
तत्सर्वं मम३०९ सह३१० भार्ययाद्य शर्वो३११ विश्वात्मा क्षमतु महानुभावभावात्३१२ ।।२०५।।
सनत्कुमार उवाच
तत एवं स देवेशं स्तुत्वा सास्राविलेक्षणः ।
प्रसार्य बाहू सर्वेण शरीरेणापतद् भुवि । ।२०६।।
- - - -- - -- - ---- - -- -- -- - -- - --
२९७.. श्चाव्ययश्चैव - ख. घ. । २९८ वृणुष्व - ख. । २९९ तवार्थितः - ख., सदाशिवः - घ. । ३०. प्रयतो -घ. । ३०१ महाद्युतिः - क, ख. । ३०२..? र्व्यक्तमेकमेव - घ. । ३०३ अज्ञाना - क. । ३०४ नागानां - ख. । ३०५... श - क. । ३०६ देवानां - ख. । ३०७ सशतक्रतून् - क., सकुलिशपतीन् - ख. । ३०८... न्मयि - क. । ३०९ सह क. ख. । ३१० मम - क ख. । ३११ सर्वो - क. । ३१२... युक्तः - ख. टि. ।
- - - -- - -- - ---- - -- -- -- - -- - --
तं प्रपन्नं तदा देवो दक्षं सास्राविलेक्षणम् ।
देव्या सह३१३ महाभाग३१४ स्वयमुत्थापयद् बली ।।२ ०७।।
तस्याश्रूण्यपतन्भूमौ बिन्दुभूतानि तत्र वै ।
तानि संहत्य३१५ विप्रेन्द्र नदी तु समपद्यत ।। २ ०८। ।
तामुवाच ततो देवो३१६ नदीं वै पुण्यलक्षणाम् ।
अर्जुनादश्रुबिन्दोस्त्वं३१७ यस्माद् देवि३१८ विनिःसृता ।।२ ०९।।
तस्मात् ख्याता भवित्री त्वमर्जुना नामतः शुभा ।
पर्वपर्व समासाद्य वहिष्यसि३१९ महायशे३२० । । 8.32.२१० । ।
अश्वमेधफलं चापि त्वयि स्नातो ह्यवाप्स्यति ।
मृतश्च तव तीरेस्मिन् नियमेनेतरेण वा । ।२ ११ । ।
न पुनर्जन्म मानुष्ये दुर्गतिञ्चोपलप्स्यते ।
त्रिरात्रोपोषितो यश्च चरुं कृत्वा निवेद्य च ।। २१२ । ।
ब्राह्मणं भोजयेत् स्नातस्त्वयि सोपि गमिष्यति ।
गवां लोकं महातेजा न च तस्मात् पतिष्यति३२१ । ।२१ ३ । ।
सनत्कुमार उवाच
एवं स सृष्ट्वा सरितं कृत्वा चैवाप्यनुग्रहम् ।
तमाश्वास्य३२२ सुरेशस्तु३२३ दक्षं प्राह नृपं तदा । ।२१४।।
देवदेव उवाच
गतं तस्माद् भयं तेस्तु गणेशो मे भव प्रियः ।
ब्रूहि किन्ते पुनस्साधो ददानि३२४ वरमीप्सितम्३२५ । ।२ १५ । ।
सनत्कुमार उवाच
अथ दक्षस्तदोवाच प्रणम्य शुभया गिरा ।
भूयो भूयस्समाश्वस्य३२६ निरीक्ष्य च पुनः पुनः । ।२ १ ६। ।
- - - -- - -- - ---- - -- -- -- - -- - --
३१३ सह देव्या - घ. । ३१४ महाभागं - घ । ३१५ संप्रति - क ख. । ३१६ महादेवो - क. घ. । ३१७... च्चाश्रुबिन्दोस्त्व - ख. । ३१८ देव - क घ. । ३१९ भविष्यसि - घ. । ३२० महायशाः - घ. । ३२१ च्यविष्यति - ख. । ३२२ तदाश्वास्य - घ. । ३२३ सुरेशानो - घ- । ३२४ ददामि - घ. । ३२५. मुत्तमम् - ख. । ३२६ भूयः प्रणम्य निश्वस्य - ख,... श्वास्य - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
दक्ष उवाच
यदि तुष्टोसि मे देव भवत्वेतद् तवाव्यय३२७ ।
स्थानं पवित्रं पुण्यं च३२८ वर एषोस्तु मे शिव ।।२१७। ।
देवदेव उवाच
एते च मुनिकन्ये द्वे तप आस्थाय दुष्करम् ।
कणैस्संवत्सरे पूर्ण्णे खलेन च यतोशनम् । ।२१८ ।।
कृतवत्यौ महाभागे त्वं च दक्ष यतः स्थितः ।
इदं कनखलं तस्मान्मम स्थानं भविष्यति ।। २१९ ।।
तीर्थञ्चैव महत्पुण्यं गङ्गासागरसन्निभम्३२९ ।
नात्र पापा न च शठा नास्तिका न च मानिनः । ।8.32.२२ ० ।।
लप्स्यन्ते वै सदा गन्तुं न च वस्तुं कथंचन ।
मृतोत्र न पुनर्जन्म लप्स्यते मम तेजसा । ।२२ १ । ।
अत्राभिगम्य स्नात्वा च चरुं कृत्वा तथैव च ।
सर्वपापविमुक्तात्मा३३० शक्रलोके महीयते ।।२२२। ।
ततो गणपतिं तत्र हरिभद्रमयोजयत् ।
कालीञ्चास्मै ददौ प्रीत्या३३१ भार्यां सर्वगुणोदिताम् । ।२२३ ।।
वराँश्च .विपुलान् दिव्यान् द्वीपञ्चापि घृतोदकम् ।
बाहुजेभ्यश्च सुबहून् गणेभ्यः प्रददौ वरान् ।।२२४।।
सनत्कुमार उवाच
एवं स दक्षयज्ञो वै विध्वस्तो व्यास शम्भुना ।
यज्ञस्य च शिरश्छिन्नं यथैतत् कथितं तव । ।२२ ५।।
व्यास उवाच
सा देवीमुखजा घोरा दिव्या३३२ देव भयंकरी ।
क्व वा गता कथं वापि ह्येतदिच्छामि वेदितुम् ।।२२६।।
- - - -- - -- - ---- - -- -- -- - -- - --
३२७ तदाव्ययम् - घ. । ३२८ पुण्यं पवित्रं च - क घ । ३२९ संमितं - ख. । ३३० . विनिर्मुक्तः - ख. । ३३१ प्रीतो (त्यै) - ख । ३३२ दिव्या घोरा - क. ।
- - - -- - -- - ---- - -- -- -- - -- - --
सनत्कुमार उवाच
स्तुता यदा३३३ भगवती प्रणतै३३४ स्सुरसत्तमैः ।
तदास्य साम्बिका प्राह ब्रूहि किङ्करवाण्यहम् । ।२२७।।
ततो ब्रह्मा महादेवीं प्रणम्य बहुमानतः ।
उवाच दुहितृत्वे मे३३५ भवत्वेषा सुरेश्वरि । ।२२८।।
सनत्कुमार उवाच
एवमस्त्वित्युमा प्रोच्य३३६ तां देवीं प्रददौ सुताम् ।
मृत्युस्त्वमिति३३७ सोप्युक्त्वा३३८ घोरे कर्मण्ययोजयत् ।।२२९।।
सर्वप्राणभृतां३३९ देवीम्३४० प्राणापहरणे शुभाम्३४१ ।
सापि तत्कार्यकरणे नियुक्ता ब्रह्मणा स्वयम् ।
ऊर्ध्वबाहुः३४२ सदेवेशा३४३ सदोद्युक्ता३४४ त्वया मया ।।8.32.२३ ० ।।
य इदं३४५ दक्षयज्ञस्य विध्वंसनमनुत्तमम् ।
भद्रेश्वरप्रतिष्ठाञ्च दक्षानुग्रहमेव च । ।२३ १ ।।
पठेद् वा३४६ शृणुयाद्वापि श्रावयीत द्विजानपि ।
स सर्वपापविर्मुक्तः३४७ स्वर्गलोके महीयते । ।२३२। ।
भगनयननिपातं३४८ दक्षयज्ञे दवाग्निं३४९
मदनपुरहुताशं चन्द्रलेखोज्ज्वलाङ्गम् ।
सुरगुरुमखकालं३५० सप्तलोकाधिपालं
शरणमुपगतोहं शङ्करं शर्महेतोः ।।२३ ३ । ।
इति स्कन्दपुराणे दक्षयज्ञप्रमथने द्वात्रिंशोध्यायः
- - - -- - -- - ---- - -- -- -- - -- - --
३३३ हि सा - ख. । ३३४ प्रणम्य - ख. । ३३५ मे दुहितृत्वे - ख । ३३६... ति प्रोवाच्य क,. ख. । ३३७... स्त्वमसि - ख. । ३३८ साप्युक्त्वा - क. ख. । ३३९ प्राणभृता - घ. । ३४० देवी - घ. । ३४१ शुभा - घ. । ३४२ उद्ववाह - क., उद्वाहस्तु - ख., उद्वाहः क्रियतां काल त्वयास्या दुहितुर्मम - घ. । ३४३ स देवेशो - ख. । ३४४ सद्योक्ता - ख. । ३४५ इमं - क. । ३४६ पठेत - क. । ३४७ सर्वपापविनिर्मुक्तः - ख. । ३४८ निपाती - क । ३४९ दक्षयज्ञान्तकर्ता - ख. । ३५० मुखकालं - क., सुखकालं - ख. । आदितः प्रभृति सर्वैकत्वेन श्लोकसंख्या १५०४ ।
- - - -- - -- - ---- - -- -- -- - -- - --
सनत्कुमार उवाच
यथा तु वृषभो देवमवहन्मुनिपुङ्गव ।
तत्तेहं१ संप्रवक्ष्यामि नमस्कृत्य२ वृषध्वजम् । । १ । ।
पूर्वमेव महासत्वो धर्मो३ यज्ञ४ सहायवान् ।
तताप विपुलं न्यासतपः परमदुश्चरम् ।। २ ।।
हिमवन्तं गिरिं प्राप्य वाय्वाहारौ बभूवतुः ।
वर्षाणान्तु सहस्राणि दश द्वादश चैव तौ५ ।। ३। ।
मानुषाणि ततो भूयः शाकाहारौ बभूवतुः ।
ततोचिरात्६ तर्योर्देवो७ गणैस्सह महाद्युतिः । ।४। ।
सवैस्समानरूपैस्तैर्दर्शनं प्रददौ हरः ।
ताँस्तौ महेश्वरान् दृष्टवा बहून् वै सदृशप्रभान् । ।५।।
परस्परममन्येतां कोन्वेषामीश्वरो भवेत् ।
तौ तदा वीक्ष्य संमन्त्र्य स्मृत्वा चैव पुनः पुनः ।।६ ।।
मध्ये महेश्वरं तेषां मेनाते तेजसां निधिम् ।
तौ तं मध्ये भवं८ देवं प्रणम्य बहुमानतः ।
शिरसोरञ्जली९ कृत्वा तुष्टुवाते१० मितौजसौ ।।७। ।
धर्मयज्ञौ ऊचतुः
नमस्त्रैलोक्यनाथाय दिग्वासायामृतात्मते ।
चतुष्पथनिवासाय चतुष्पथरताय च११ । ।८ । ।
चतुर्व्यूहाय देवाय त्रिनेत्राय१२ भवाय१३ च ।
चतुर्मुखाय शुद्धाय जालान्तर१४ विचारिणे१५ ।।९।।
इन्द्रानुग्रहकर्त्रे च१६ ब्रह्मानुग्रहकारिणे ।
ऊर्ध्वलिङ्गाय देवाय१७ मदनायामदाय च१८ ।।8.33.१ ० ।।
- - - -- - -- - ---- - -- -- -- - -- - --
१ ततोहं - ख. । २... त्वा - क. ख. । ३ धीमान - घ । ४ यज्ञः - क, यज्ञसरवा - घ. । ५ हि - क. घ., तु - ख. । ६ ततश्चि... - क., ततश्च भगवान् - घ । ७ देवीं - क. । ८ -भगवान् - ख. । ९. .. लिं - ख. । १० तुष्टा.. - ख. । ११. रथाय - क. । १२ त्रिनेत्रिणए - क. । १३ तताप - क । १४ जलान्तर - क. ख. । १५ शरीरिणे - ख. । १६ चन्द्राद्रानुग्रहकर्त्रे च - घ । १ । देवदेवाय - घ । १८ मदनाय मदाय - क , चैव हि - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
नमो हिरण्यवर्णाय सूर्याक्षाय तथैव च ।
नमः पवित्रकेशाय दीर्घजिह्वाय चैव हि ।। ११ । ।
नमस्ते नैकपादाय एकाक्षाय नमो नमः ।
नमःसहस्रघण्टाय सहस्राक्षाय वै नमः । । १२ ।।
नमः पिनाकिने चैव ध्वजिने च नमो नमः ।
नमः सहस्रशीर्षाय संवर्त्ताय नमो नमः ।। १३ ।।
नमः स्तव्याय वै नित्यं शत्रुघ्नाय नमो नमः ।
नमो भवाय भव्याय भावनाय नमो नमः । ।१४। ।
नमो वराय वै नित्यं वरदाय तथैव च ।
गोकर्णाय नमो नित्यमैश्वर्यपतये नमः ।।१ ५।।
नमोस्तु विष्वक्सेनाय प्रभासाय नमो नमः ६ ।
नमोस्तु तेन्नदायैव२० प्राणदाय२१ नमोस्तु ते । । १ ६। ।
नमः प्रवर्तकायैव२२ पद्ममालाय वै नमः ।
नमो महारथायैव२३ भैरवाय नमो नमः ।। १७।।
नमश्चतुर्मुखायैव महादेवाय वै नमः ।
नमोस्तु ब्रह्मणे चैव ध्रुवायैव चलाय च ।। १८ । ।
नमोस्तु नारीरूपाय सुभगाय नमो नमः ।
मध्यमाय२४ नमस्तेस्तु नमस्ते सर्वतस्तथा ।। १ ९। ।
नमोनुमन्ता३६ मन्ता त्वं सर्वभूतप्रवर्तक२६ ।
आवयोरीप्सितान्२७ कामान् विधत्स्व भुवनेश्वर । ।8.33.२ ० । ।
सनत्कुमार उवाच
योनेन स्तौति वै नित्यं नियमेन समन्वितः ।
सर्वकामै२८ स्स२९ सम्पन्नो यथेष्टां गतिमाप्नुयात् ।।२१ ।।
- - - -- - -- - ---- - -- -- -- - -- - --
१९ नमस्तथा - क. । २० नदायैव - ख,... न्नदायै - च क । २१ प्रणदाय - ख. । २२ प्रमर्तकायैव - ख. । २३ महारवायैव - ख. । २४ पध्र्यमाय - क । २५ नमोस्तुमन्ता - ख. । रे ६ प्रवर्तकम् - क., प्रवर्तकः - ख. । २७.. - रीप्सितं - क. ख. । इतः परं - ' 'सर्वलोकपतिः श्रेष्ठ ददासि भक्तये सदा' ' इति पाठोधिकः.. ख. पुस्तके । २८ सर्वैःकामै' - ख. । २९... श्च - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
सनत्कुमार उवाच
अथ देवस्तु तान् सर्वाननयत्प्रकृतिं गणान् ।
नन्दिनं चैव देवीञ्च स्वयं चात्मानमप्युत३० ।
उवाच चैतौ तुष्टोस्मि गृह्यतामीप्सितो३१ वरः३२ ।।२२।।
देवौ ऊचतुः
यदि तुष्टोसि देवेश यदि देयो वरश्च नौः३३
जात्यन्तरगतौ नित्यं वहेव३४ त्वां सुरेश्वर । ।२३।।
इदञ्च गुह्यं स्थानं नौ३५ तपसातीव भावितम् ।
तव चैव प्रसादेन भवेत् पुण्यं सुरेश्वर । ।२४।।
देवदेव उवाच
इदं मम परं३६ गुह्यं भवितृ स्थानमुत्तमम् ।
पञ्चेषुक्षेपमात्रं वै मृतोत्र गणपो भवेत् ।।२५।।
यस्मान्मध्ये भवोस्मीति युवयोरर्चितः स्थितः ।
तस्मान्नाम्ना तु विख्यातमिदं भवतु मध्यमम् ।।२६।।
युवां जात्यन्तरं प्राप्य पूजितौ बलवत्तरौ ।
वाहनत्वं ममासाद्य३७ लोकान् सन्धारयिष्यथः३८ । ।२७।।
सनत्कुमार उवाच
तत एवं तदा देवस्तावुक्त्वा देवसत्तमौ ।
जगाम गणपैस्सार्धं मन्दरं हेमकन्दरम्३९ । ।२८।।
गतेथ देवे सगणे कालेन बहुना ततः ।
मन्वन्तरेस्मिन्४० सुरभी रुद्रमाराधयच्छुभा । ।२९।।
तया वर्षसहस्रेण तपसा तोषितो भवः ।
जगाम दर्शनं व्यास वरदोस्मीति चाब्रवीत्४१ । ।8.33.३ ० । ।
- - - -- - -- - ---- - -- -- -- - -- - --
३०.. मच्युत - क., मच्युतः - ख । ३१... तं - क. । ३२ वरम् - क. । ३३ नः - ख. । ३४ वहेयं - क., वहेम - ख. । ३५ ते - ख. । ३६ वै परमं - घ. । ३७ समासाद्य - क. घ. । ३८ वै विचरिष्यथः - घ. । ३९ देवकन्दरम् - घ. । ० मन्वन्तरेण - घ. । ४१ र.. त्यथाब्रवीत् - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
सा वव्रे पुत्रमतुलं सर्वप्राणभृतां वरम् ।
पुत्राँश्चान्यान्महासत्वान् यज्ञियान्४२ सुरसत्तमान् ।।३ १ ।।
तथा४३ दुहितॄ४४ श्चान्याश्च जगद्धात्रीः४५ सुशोभनाः ।
ततः सर्वं ददौ देवो४६ ह्यदृश्यत्वं जगाम च ।।३ २ ।।
तस्मिन् गते महादेवे सुरभी दीप्ततेजसम् ।
सर्वभूताग्रजं पुत्रं४७ वृषभं समसूयत ।।३ ३ । ।
एकादश तथा रुद्रान् वृषभस्यानुजान् शुभान्४८ ।
सप्त कन्याश्च ता गा४९ वै५० जगद्धात्री५१ प्रसूयत । ।३४।।
वृषभः स तु संगत्य५२ नित्यं प्रातः५३ कृताह्निकः ।
पितरं मातरं चैव तथैव च पितामहम्५४ । ।३ ५। ।
अभिवाद्यायते५५ शुभ्रश्चतुर्दिग्गजसेवितम्५६ ।
वनं सिद्धगणावासं५७ यत्र सा ह्यमृतोद्भवा । । ३६।।
दूर्वामृतरसा५८ दिव्या छिन्न५९दग्धप्रसेहणी६० ।
स कद्राचिद्वने तस्मिँश्चरन् तृप्तस्तृडर्द्दितः६१ ।।३७।।
जगाम सागरं पातुं वृषराट् सुरभीसुतः ।
सोवगाह्य महा६२ ग्रासः सागरस्य तदा महत् । ।३८। ।
मध्यं व्यादाय वदनं सरुषं सतिमिंगिलम् ।
अपिबत् सागरजलं न च तृप्तिमुपागमत् ।।३९।।
तस्मिन् पिबति६३ दैत्येन्द्राः सन्नद्धाः६४ सासिमार्गणाः६५ ।
सधनुष्पाणयस्सर्वे६६ सहस्राणि चतुर्दश । ।8.33.४० ।।
निष्पेतुश्शक्रसंकाशा यम६७कालानलोपमाः ।
मयपुत्रा६८ महासत्वा वृषभं प्रति वेगिताः ।।४१ ।
- - - -- - -- - ---- - -- -- -- - -- - --
४२ याज्ञियान् - क. ख., याज्ञिकान् - क टि., श्रेष्ठाँश्च - घ. । ४३ तदा - क. । २४ दुहितर - क. ख. घ. । ४५ जगद्धात्र्यः - - क. ख. घ. । ४६ तत्सर्वप्रदो - घ । ४७ पुण्यं - घ. । ४८ एकादशैते रुद्राणां व्यास तस्यां प्रजां शुभाम् - ख., रुद्रानेकादशान्यां - घ । 8९ सुभगा - घ. । ५०..? वो - क. ख. । ५१... त्र्यः - क. ख. । ५२ संगम्य - घ. । ५३ प्रातर्नित्यं - घ. । ५४. महान् - क । ५५ अभिगम्य - घ., . द्य ययौ - क. ख., ययौ - घ. । ५६- शुभ्रञ्चतुर्दिग्गजसेवितम् - घ. । ५७... कीर्णं - ख. । ५८ पूर्वामृतरसा - क. । ५९ भिन्न.. - घ. । ६० प्ररौहिणी - क. ख. घ. । ६१ चरन्तं तृषयार्दितः - ख. । ६२ महद् - ख. । ६३ पीयति - क. ख. । ६४ सुसन्नद्धाः - घ. । ६५ सिद्धिमार्गणाः घ. । ६६.. .सागरस्था महासत्वाः - घ. । ६७ महा - घ. । ६८ यमपुत्राः - क. ख. घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
तांस्तथा रुषितान्दैत्यान् सासिमुद्गरतोमरान्६९ ।
सहैव सागराम्भोभिरपिबत् स महाबलः । ।४२। ।
तान् पीतान्७० पीयमानाँश्च दृष्टवा ह्यर्णववासिनः७१ ।
वित्रेसुः सहसा सर्वे विनेदुश्चापि दुःखिताः । ।४३ ।।
ततस्समुद्रो भगवान् पीयमानः सुदुःखितः ।
वडवामुखमागत्य७२ संवर्तं शरणं ययौ ।।।४४। ।
स चानलः सुसंरब्धो दत्त्वा तस्य७३ महाबलः ।
अभयं वृषमागत्य प्रोवाचेदं कृताञ्जलिः । ।४५ ।।
संवर्त्त उवाच
सर्वभूतशरण्योयं दैत्यानाञ्चालयः शुभः ।
नैनं हीनं भवानद्भिः कर्तुमर्हति वीर्यवान् ।।४६।।
वृषभ उवाच
न मे मतिरभूदग्ने निःशेषं कर्तुमम्बुधिम् ।
भवान् त्वस्य७४ ये यतो मन्ता७५ न करिष्येहं ततोद्यवै ।।४७।।
यस्ते दर्पश्च गर्वश्च यद्बलं यच्च पौरुषम् ।
तन्मे दर्शय हव्येश पिबाम्येनं तवाग्रतः ।।४८।।
सनत्कुमार उवाच
एवमुक्त्वा वृषेन्द्रस्तु वडवामुखवासिनम् ।
संरम्भात्७६ सागरं पातुं निःशेषमुपचक्रमे ।।४९ ।।
अनल उवाच
न मे त्वं प्रतिमः शक्तौ७७ न च वैरं त्वया हि मे७८ ।
यत्र७९ कृत्येहमाबद्ध८०स्तत्करिष्ये तथा ह्यहम् ।।8.33.५ ०। ।
न त्वं पास्यसि८१ रक्षिष्ये सागरं मम सन्निधौ ।
अहं त्वां वारयिष्यामि सुरभीसुत कत्थन ।।५ १ ।।
- - - -- - -- - ---- - -- -- -- - -- - --
६९... वानरान् - घ. । ७० सर्वान्- ख। ७१ नाम्- क. । ७२... मासाद्य - ख. । ७३ तस्मै - क. ख. । ७४ तस्य - क.,.. श्चास्य - घ. । ७५ सक्ता - ख. । ७६ संरब्धः - क. ख. । ७७ शक्त - क., शक्र - ख. घ. । ७८ विद्यते हि ममाद्यवै - ख. । ७९ यत्तु - ख. । ८० कृत्यं समारब्ध - क., कर्तुँ समारब्धो - ख. । ८१ नहि यास्यसि - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
सनत्कुमार उवाच ततस्तं भगवान् वह्निरुपप्लुत्य८२ महाद्युतिः ।
गले जग्राह बलवान् न चचाल८३ ततः स च ।।५२। ।
यत् पीतं छर्दयामास तत्तोयं दानवैर्विना ।
औदरेणाग्निना तस्य८४ ते दग्धाः८५ सर्व एव हि । ।५३ ।।
सनत्कुमार उवाच
ततः संवर्तको वह्निर्निगृहीतं ककुद्मिनम् ।
विसृज्योवाच गच्छेति न त्वां८६ हन्मि वृषेश्वर८७।। ५४। ।
शक्तस्तवाहं दहने ह्यशक्तो मे भवान् वधे ।
तथाप्यहं८८ न गर्जामि गर्जितैः किं बलीयसाम्८९ । ।५५ ।।
सनत्कुमार उवाच
विसृज्य वृषभं वह्निराशु यातः स्वमालयम् ।
वृषभोपि जगामेव९० दुःखशोकाभिसंवृतः९१ ।। ५६। ।
सोवमानेन९२ तेजस्वी महोक्षः९३ सुरभीसुतः ।
दुःखेन चाभिसन्नात्मा९४ जगामैवं विचिन्तयन् । ।५७। ।
अबलोहं बली वह्निर्येनाहं निकृतस्तथा९५ ।
जीवितेशेन (?)९६ भूत्वा च नाहं प्राणैर्वियोजितः९७ । । ५ ८। ।
मोघं मम बल सर्वं तथा चैवाभिगर्जितम्९८ ।
शरज्जलधरस्येव९९ विहीनस्याद्भिरम्बरे । ।५९। ।
अद्य प्राणानहं त्यक्ष्ये नियतो१०० व्रतमास्थितः ।
यथा न पुनरेवं मे मानभङ्गो भविष्यति । ।8.33.६० । ।
शत्रुणा१०१ निगृहीतस्य दुर्बलस्य दुरात्मनः१०२ ।
जीवितान्मरणं मन्ये विशिष्टं जीवितेन किम् । ।६१ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
८२... रूपसृत्य - क. ख. । ८३ नोच्चचाल - घ. । ८४ दग्धा - ख. । ८५ तस्य ते - ख. । ८६ ते - क. । ८७ वृषेश्वरः - ख.,... र - क. । ८८ ह्यहं - क । ८९ बलीयसा - क । ९० जगादैव - घ. । ९१ जगामैव- न्दुःखशोकाभिसंवृतः - क । ९२ शोचमानेन - घ । ९३ महोक्षा - क. ख. । ९४ च विषण्णात्मा - क. । ९९ येनास्मि विकृतस्तथा - क. । ९६ शेष (?) । ९७.. तं - क. । ९८?.. तिगर्जितम् - ख. । ९९... स्यैव- क. ख. । १०० नियतं - ख.,... मं - घ. । १०१ शत्रूणां - क, शत्रुभिर्निगृहीतस्य - ख. । १०२ दुर्बलो बलवत्तरैः - ख., महात्मनः - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
सनत्कुमार उवाच
स एवं चिन्तयन्नुक्षा वाचं शुश्राव खाच्छुभाम्१०३ ।
सौरभेय न भेतव्यं यद् ब्रवीमि कुरुष्व तत् ।।६२ ।।
रुद्रं सर्वसुरेशानं सर्वेभ्यो बलवत्तरम् ।
तं प्रपद्यस्व देवेशं ततो जेष्यसि पावकम् ।। ६३ ।।
स स्रष्टा सर्वभूतानां ब्रह्मादीनां न संशयः ।
स ते दुःखमिदं सर्वं व्यपनेष्यति भो वृष१०४ ।।६४।।
सनत्कुमार उवाच
एतच्छ्रुत्वा महातेजाः साध्यस्य१०५ सुमहात्मनः ।
हिमवन्तं गिरिं प्राप्य तताप विपुलं तपः ।। ६५।।
तस्य वर्षसहस्रेण तत्परस्य तदाशिषः१०६ ।
भगवान् सर्वभूतेशः साम्बः सगण ऊचिवान् । । ६६।।
देवदेव उवाच
सौरभेय महाभाग तुष्टोस्मि तव पुत्रक ।
इष्टान्१०७ ब्रूहि वरान्१०८ वत्स दास्ये तान् सुबहूनपि१०९ । ।६७।।
सनत्कुमार उवाच
ततस्स देवं संदृश्य साम्बं सगणमीश्वरम् ।
प्रणम्य शिरसा पादौ प्राञ्जलिस्सुसमाहितः । ।६८। ।
भूयो भूयो निरीक्ष्यैनं प्रणम्य च पुनः पुनः ।
उवाच तपसोक्षय्यमिच्छेयं वै जगत्पते । ।६९। ।
बलञ्चानुत्तमं देव योगैश्वर्यन्तथाक्षयम् ।
त्वदीयो वाहनश्चाहमग्निनैवं विमानितः । ।8.33.७० ।।
संवर्त्तकानलञ्चैव वडवामुखवासिनम् ।
द्रष्टुमिच्छामि देवेश निगृहीतं त्वयाव्यय११० ।।७१ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
१०३ एतस्मिन्नन्तरे प्राह साध्या सुमधुरं वचः - घ, यच्छुभं वचः - क. ख. । १०४ गोवृष - ख. । १०५ सोध्यस्य - ख. । १०६ शिवः - ख । १०७ इष्टं - घ । १०८ वरं - घ. । १०९... हं चानुकूलतः - घ., सुबहून्यपि - ख. । ११०... व्ययम् - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
सनत्कुमार उवाच
एवमुक्तस्तु तान्दत्त्वा वरान् सत्यवतीसुत ।
वामं पार्श्वं१११ तथा मृज्य रुद्रमेकं ससर्ज ह । ।७२। ।
किरीटमालिनं त्र्यक्षं कुण्डलाङ्गदभूषणम्११२ ।
महोरस्कं कबचिनं धनुर्हस्तं महाबलम् ।
बद्धगोधाङ्गुलित्रं च खङ्गदिव्यास्त्रधारिणम् ।।७३ । ।
तमाह रुद्रं११३ गच्छेति वडवामुखवासिनम् ।
संवर्त्तकानलं बद्ध्वा विस्फुरन्तमिहानय ।।७४।।
सनत्कुमार उवाच
वन्दित्वा चरणौ तस्य सोमस्य गणनायकः ।
जगाम सागरं वेगाद् ददर्श च हुताशनम् ।।७५।।
स युद्धं बलवत्११४ कृत्वा सुघोरं लोमहर्षणम् ।
संवर्त्तकानलं बद्ध्वा देवपार्श्व११५ मुपानयत्११६ ।।७६। ।
व्यास उवाच
कीदृक् तद्युद्धमभवत्११७ विट्पतेः पावकस्य च ।
एतदिच्छामि विज्ञातुं वद त्वं वदतां वर । ।७७। ।
सनत्कुमार उवाच
स गत्वा गणपः क्रुद्धः संवर्त्तकमथानलम् ।
उवाच क्रोधरक्ताक्षस्तदा वचनमर्थवत् । ।७८।।
गणप उवाच
स्वामी सर्वस्य जगतो देवश्चन्द्रार्धभूषणः ।
आज्ञापयति वह्ने त्वां११८ वृषमेनं११९प्रसादय१२० ।।७९। ।
प्रणातोस्मीति तं ब्रूहि वृषभं ससुहृज्जनः ।
निदेशे तिष्ठ चैवास्य यत् कर्तव्यं च तत्कुरु ।।8.33.८० ।।
- - - -- - -- - ---- - -- -- -- - -- - --
१११ वामपार्श्वं - ख. । ११२... भूषितं - ख. । ११३ रुद्रो - घ. ख (द्र?) । ११४ बलवान् - घ., महतः - ख, सुमहत् (?) । ११५ पार्श्वं 'देवस्य - ख. । ११६ तत्क्षणात् - ख.,... मिवानयत् - क.,... मथानयत् (?) । ११७ कीदृग युद्धं समभवत् - घ । ११८ त्वं - क. ख. । ११४३०.. मेवं - क. । ३२० प्रसाधय - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
सनत्कुमार उवाच
एवमुक्तोनलः श्रुत्वा देवदेवस्य तद्वचः ।
उवाच नातिसंहष्टस्त्विदं वचनमर्थवत् ।।८ १ । ।
अनल उवाच
नियोज्यो देवदेवस्य तस्यैवाहं सदानुगः१२१ ।
न च मां स नियुक्त्वेह योक्ष्यतेन्यत्र कर्हिचित् ।।८२ । ।
गच्छ मद्वचनाद् ब्रूहि भगवन्तं त्रिलोचनम्१२२ ।
यदि मां वक्ष्यति१२३ पुनः करिष्येहं ततस्तथा१२४ । ।८३ ।।
गणेश्वर उवाच
बालिशा वत ये प्राज्ञा बलज्ञानबहिष्कृताः ।
त एवमुक्ता१२५ गच्छन्ति यथा मां त्वं प्रभाषसे । ।८४। ।
सकृदाज्ञा बलवतां सकृत् प्रभवतामपि ।
दूतश्चापि स वै श्रेष्ठो यो भवेदर्थसाधकः१२६ । ।८५ ।।
सोहं बलवता तेन लोककर्त्रा पिनाकिना ।
दूतः सर्वार्थसिद्ध्यर्थं प्रहितो बलवानिह । ।८६।।
न चेद्वचो मे कर्तासि बद्ध्वा त्वाहन्ततोद्य वै ।
विस्फुरन्तं महा१२७ पाशैर्नेष्यामि द्युभृतोन्तिकम्१२८ ।।८७।।
सनत्कुमार उवाच
स एवमुक्तस्तेजस्वी क्रोधदीप्तानलेक्षणः१२९ ।
गणपं प्रति दुद्राव तिष्ठतिष्ठेति चाब्रवीत् ।।८८। ।
तमापतन्तं वेगेन पर्जन्यास्त्रेण सोस्त्रवित्१३० ।
ताडयामास बलवान् स१३१ प्रजज्वाल वेगवान्१३२ । ।८९। ।
- - - -- - -- - ---- - -- -- -- - -- - --
१२१ सहानुगः - घ । १२२ तृलोचनम् - क. ख. । १२ - रक्षति - घ । १२४ शुभं तथा - घ । १२५ ... मुक्त्वा - ख. । १२६ भवेदर्धं (न्ध?) साधकः - क । १२७ मुहु. - ख. । १२८ र्न्नेष्ये स्त्वाहं हरान्तिक - ख., नेष्यमीन्दुभृतोन्तिकम् - घ । १२९. यतेक्षण - ख । १२० सोबली - क, सोप्रणः - ख । १३१ सः - क. । १३२ वेगशः - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
ज्वलन्तं२४४ तं तदाभ्यासमागतं क्रोधमूच्छितम् ।
अशन्यस्त्रेण महता स जघान स्तनान्तरे ।। 8.33.९० ।।
अभ्याहतस्ततोस्त्रेण वेगवानपि१३४ मूर्च्छितः ।
तस्थौ मुहूर्त्तं संविग्नो विधूमो दहनेश्वरः१३५ ।।९१ ।।
ततस्तं रुद्रपाशेन बबन्ध करयोस्तदा ।
विस्फुरन्तं महावह्निं१३६ गणपः क्रोधमूर्छितः । ।९ २। ।
तं बद्धं पाशवर्येण पतितं वीक्ष्य चैव हि ।
तस्य पुत्रसुहृद्वर्गा१३७ विविधायुधपाणयः । ।९३ । ।
दुद्रुवुर्गणपं क्रुद्धाः शतशोथ सहस्रशः ।
तानप्यसौ१३८ विनिर्जित्य गणपस्तं१३९ हुताशनम् । ।९४।।
उपनिन्ये हरायाशु पशुं मेध्यमिवाध्वरे ।
तमानीतं महादेवः संप्रेक्ष्यार्णवभोजनम् । । ६३५।।
उवाच वृषभं ब्रूहि किमस्य१४० क्रियतामिति ।
स तं कृपणमालक्ष्य महोक्षा१४१ दीनचेतसम् । ।९६ ।।
प्रणम्य शिरसा पादाविदमाह कृताञ्जलिः ।
भगवन् देवदेवेश१४२ सर्वलोकमहेश्वर१४३ ।।९७।।
दृष्टमेतत्तव विभो माहात्म्यं सदसस्पते१४४ ।
दृष्टोयं१४५ कृपणश्चापि१४६ ह्यबलश्च१४७ महाबल१४८ ।।९ ८। ।
विसृज्यतां सुरश्रेष्ठ हत एष न संशयः ।
पुत्रा ह्यस्य१४९ हताः सर्वे सुहृदश्चैव सर्वशः ।।९९।।
दीनस्यास्य न मे देव वध इष्टो विमुच्यताम् ।
एतद्वचो महेशो१५० वै वृषभस्याभिभाषितम् । ।8.33.१ ०० । ।
- - - -- - -- - ---- - -- -- -- - -- - --
१३३ प्रज्वलन्तं तदा - घ. । १३४ तेजवानपि - घ. । १३५ ज्वलनेश्वरः - ख । १३६ महानग्निं - ख. । १३७.. द् भ्राता - घ. । १३८ अनेकशो - घ. । १३९ गणस्तं स - ख । १४० किमद्य - ख । १४१ महोक्षो - ख. । १४२ देवतारिघ्न - घ. । १४३... महेश्वरं - क ख. । १४४ ते जगत्पते - ख. । १४५ दीनोयं - ख. घ । १४६. श्चैव - ख. । १४७ ह्यनलश्च - घ । १४८ महात्मनः - क. । १४९... स्तस्य - घ. । १५० महेष्वासो - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
श्रुत्वा तुष्टः प्रहस्यैनं दहनं व्यसृजत् तदा१५१ ।
रुद्रं तञ्च जराशोकजन्ममृत्युविर्जितम् ।। १०१ ।।
गणेश्वरपतिं कृत्वा द्वीपमस्मै ददत् प्रभुः ।
मनोरमणमित्येव१५२ नाम्ना ख्यातं महर्द्धिमत् ।। १ ०२।।
दिव्यं कामगमं व्यास भवनैरुपशोभितम् ।
जाम्बूनदमयैः शुभ्रैः सर्वकामसमन्वितैः ।।१ ०३ । ।
तस्मिन् काले तदा देवाः१५३ सर्वे ब्रह्मपुरस्सराः ।
देवदेवं समागम्य वाक्यमूचुर्यथार्थवत् ।। १ ०४। ।
भगवन् देवतारिघ्न वृषोयं देवसत्तम१५४ ।
त्वया ह्यध्यासितः१५५ पूर्वं नादेनापूरयद्बली ।।१ ० ५। ।
त्रैलोक्यमखिलं दर्पादस्वस्थं कृतवान् प्रभो ।
वेगेन च दिशः सर्वा विमानैः सह भूतप१५६ । ।१ ० ६। ।
भ्रामयन् त्रिदशान्१५७ नादाद् गगने१५८ संचचार ह१५९ ।
अधुना वरलब्धश्च अस्मान्१६० भूयस्तथैव च ।।१ ०७। ।
यथा न कुरुते देव उपायः स१६१ विधीयताम् ।
त्वन्नो गतिश्च देवेश शरणं चैव भूतप ।
सदा भयाभिभूतानां त्वं त्राता१६२ सर्वशः१६३ प्रभो । । १०८ ।।
देवदेव उवाच
यथा भयं न भवति यथा स्वस्थाश्च१६४ नित्यशः ।
लोका भवन्ति सर्वे वै१६५ तथाहं१६६ विदधामि वः१६७। । १०९ ।।
सनत्कुमार उवाच
ततस्स भगवान् व्यास देवदेवो महाद्युतिः ।
असृजद् वरदानाच्च१६८ गणेशं चारुकुण्डलम् । । 8.33.११० ।।
- - - -- - -- - ---- - -- -- -- - -- - --
१५१ तथा - ख. । १५२ मालाचमनमित्येव - घ, मरणमित्येव - क. । २५३ व्यास - घ । १५४ देवसत्तमः - ख । १५५ नासादितः - घ । १५६ भूतयः - ख. । १५७ द्विवश ( ।) - क. ख. । १५८ गमने - क. । १५९ यं चचारह - ख. । १६० कृत्स्नान् - घ. । १६१ स - घ. । १६२ रक्षिता - घ., भ्राता - क । १६३ सर्वतः - घ. । १६४ सुस्थाश्च - घ. । १६५... पि - (?) । १६६ हि - क । १६७ च - क., तथा करिष्ये वृषभं गच्छ त्वं च यथासुखम् - घ. । १६८ वरदानेन - घ.,... नञ्च - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
आकर्णाद् दारितास्यं च महाकायं१६९ महाबलम् ।
महापरिघबाहुं च वज्रसंहननं दृढम् । ।१ ११ । ।
महादंष्ट्रं महोरस्कं महाखड्गधनुर्धरम ।
दीप्ताङ्गारकनेत्रं च त्रिनेत्रं कवचोज्ज्वलम्१७० ।। ११२ । ।
बिभ्रत्तं चाक्षयेत्यर्थमिषुधी चर्मवाससम्१७१ ।
शरमेकेन हस्तेन धनुरेकेन बिभ्रतम्१७२ । ।१ १३ । ।
ग्रहनक्षत्रचित्रेण तडित्सूर्यावभासिता१७३ ।
उत्तरीयेण वियता भास्वन्तं मेरुकूटवत् । । १ १४। ।
प्रभाकरेति सुव्यक्तमामन्त्र्य भगवानिदम् ।
अब्रवीत्सर्वदेवानां समक्षं तं१७४ प्रभाकरम् । ।१ १५ । ।
प्रभाकर मयाज्ञप्त१७५ स्त्वं देवानां गुणाकर१७६ ।
परमैश्वर्यसंयुक्तो वृषवेगं निवारय ।
निवासार्थञ्च दिव्यन्तमिन्द्रद्वीपं ददामि ते । । ११ ६। ।
ज्योत्स्ना भवित्री पत्नी ते तथा चैवाजरामरः१७७ ।
भविष्यसि मयायज्ञप्तो१७८ महागणपतिर्मम । । ११ ७। ।
सनत्कुमार उवाच
ततस्तं देवतास्सर्वाः प्रणम्य ब्रह्मणा सह ।
जग्मुः स्वानि क्षयानि स्म देवोपि वृषवान् वभौ१७९ ।। ११ ८। ।
मुखतोर्द्धं१८० वृषो धर्मो जघनं यज्ञ उच्यते ।
चक्षुषी चन्द्रसूयौ च१८१ ब्रह्मा मूर्धानमाश्रितः । । ११ ९। ।
जिह्वायां तस्य वरुणो वायुरन्तश्चरः स्वयम् ।
पादान् विष्णुर्भगश्चैव१८२ पूषा शक्रश्च संस्थिताः१८३ । । 8.33.१२० । ।
जंघाः शेषास्तथा दित्या ऊरूश्चैव१८४ समाश्रिताः ।
रुद्राः कर्णौ च नासाञ्च ग्रीवोष्ठौ हनुमेव च ।।१ २१ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
१६९ महाकालं - ख. । १७० वपुस्तस्य च पिङ्गलम् - घ. । १७१... ञ्चर्मवाससम् - क. ख. । १७२ चोद्वहन् - क. ख. घ. । १७३ तडित्सूर्यावभासिना - ख,.. त्सूर्यवता तथा - क. । १७४ स समक्षं - ख- । १७५ ज्ञात - क । १७६ गुणाकरः - ख. । १७७.. जरामरा - ख । १७८ मयाज्ञाप्तो - क.. यथाज्ञप्तं - ख. । १७९ वृषलाञ्छनः - ख । १८०. र्द्धं क. ख. । १८१ तु - ख. । १८२... र्भवश्चैव - ख. । १८३... तौ - क. । १८४... श्चैव - क. ।
- - - -- - -- - ---- - -- -- -- - -- - --
आयुधानि खुरा१८५ स्तस्य चक्रवज्रौ१८६ च शृङ्गयोः ।
अपाने च स्वयं मित्रः पुच्छं दानानि१८७ सर्वशः । ।१ २२। ।
अस्थीनि पर्वताः सर्वे पुरीषं श्रीरभूच्छुभा ।
मूत्रं चास्याभवद् दिव्यममृतं व्यास पावनम् ।। १२३ ।।
रोमाणि ऋषयस्सर्वे नक्षत्राणि च सर्वशः ।
ग्रहास्तस्याभवन् व्यास सन्धयः शुभदर्शनाः ।।१ २४। ।
इष्टयो वेदयज्ञाश्च मन्त्राः स्तोत्रा फलानि च ।
अभवंस्तस्य मांसानि रुधिरं सरिदर्णवाः । । १ २५। ।
सप्तलोकं मुखं ह्यासीत् तस्याप्रतिमतेजसः ।
हस्ता मरीचयश्चैव मज्जा औषध्य एव च१८८ ।। १ २६। ।
मन्त्रभूताश्च पशवः सकृत् (? स्नायुश्च१८९ वीरुधः ।
वल्ल्योथ वृक्षगुल्माश्च तथैवान्ये१९० नगाः शुभाः । ।१ २७ ।।
नागा१९१ स्तस्याभवन् नाड्यो वसवः शुक्रसंचयः ।
आमपक्वाशयौ तस्य तौ देवावश्विनौ स्मृतौ१९२ । ।१ १८ । ।
मेघास्तस्याभवन् त्वक्च तडिन्माला - - - - ।
- - - - - - यक्षा गन्धर्वाप्सरसस्तथा । । १ २९।।
शिरा धमन्योथ मदो दर्पाश्चैवाभिजज्ञिरे ।
मानुषा मातरश्चैव भूतानि विविधानि च । ।8.33.१ ३० ।।
रोमकूपाणि तस्यासन् वृषभस्य महात्मनः१९३ ।
एवं स भगवान् देवः परमैश्वर्यसंयुतः ।
सौरभेयो महादेवः सर्वदेवमयोभवत्१९४ ।।१ ३१ ।।
य इदं१९५ सौरभेयस्य जन्म कर्म च तत्त्वतः ।
माहात्म्यमखिलं चैव शृणुयाद्वा पठेत वा ।। १३ २। ।
- - - -- - -- - ---- - -- -- -- - -- - --
१८५ क्षुरा - ख., क्षुरप्र - घ । १८६ चक्रवज्रे - ख. घ. । १८७ नद्यश्च - ख., छन्दांसि - घ. । १८८... मेव च - क. । १८९ स्नानं च - क. घ. । १९० तथा चान्ये - घ. । १९१ गाव - घ. । १९२... वाश्विनीसुतौ - घ. । १९३ वृषस्य सुमहात्मनः - क. । १९४ महत् - क, । १९५ इमं - क. ।
- - - -- - -- - ---- - -- -- -- - -- - --
नित्यं शुचिरदीनात्मा सर्वपापैः प्रमुच्यते ।
मृतश्च कालेकाले वा रुद्रलोकमवाप्नुयात् । । १३३ ।।
नेदं शठाय दातव्यं श्राव्यं वापि कथंचन ।
न नास्तिकाय दुष्टाय तथा वा पापकर्मणे१९६ । । १ ३४। ।
इदं पुत्राय शिष्याय धार्मिकाय महात्मने ।
देयं श्राव्यञ्च शुचये गुह्यमेतत् सनातनम् ।। १३५ । ।
यो लोकवेदप्रभवेन१९७ तेन सर्वार्थसिद्धेन महाबलेन ।
यात्यम्बुदाम्भोनिधिगर्जितेन स वोस्तु नित्यं सुमना महेशः । । १३६ । ।
इति स्कन्दपुराणे वृषोत्पत्तिमाहात्म्यं नाम त्रयस्त्रिंशोध्यायः

सनत्कुमार उवाच
एवं स भगवान् व्यास मेघमुत्सृज्य१ देवपः ।
वृषवाहः समभवद्२ यथा ते कथितं मया । ।१ ।।
व्यास उवाच
कथं३ भगवती देवी कृष्णा गौरत्वमागता ।
कारणं तत्र किं चापि४ ह्येतदिच्छामि वेदितुम् । । २। ।
सनत्कुमार उवाच
आसीनौ मन्दरप्रस्थे उमाकामाङ्गनाशनौ ।
रेमाते५ प्रमथैस्सार्धं नानारूपधरैस्तदा ।। ३ । ।
अथ देवेन तत्रस्था क्रीडता सा कथान्तरे ।
कृष्णेत्युक्ता भगवती सा चुकोप मनस्विनी ।।४।।
कुपितां तां महादेवः परिष्वज्य महाद्युतिः६ ।
उवाचा सकृदव्यग्रः७ सांत्वयन् मधुरं वचः ।।५ ।।
- - - -- - -- - ---- - -- -- -- - -- - --
१९६ पापकर्मिणे - क. । १९७ देवप्रभवेन - क ।
१ जीमुत्वं सृज्य - घ. । २ स भगवान् - क. घ । ३ केय- - घ. । ४ वापि - घ. । ५ रेमतुः - क., रमतुः - ध. । ६ महामतिः - घ' । ७,. .दव्यग्रं - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
देवदेव उवाच
देवि मा क्रोधमनघे कृथा८ विश्वसृगव्यये ।
हास्यं प्रकृतमेतन्मे कृष्णेति समुदाहृतम् । ।६ ।।
अद्य प्रभृति नानेन वचसाहं शुभानने ।
वक्ष्यामि त्वां त्यज क्रोधं - - - - ९ - - - - ।।७। ।
सनत्कुमार उवाच
तमेवंवदिनं देवं श्रुत्वा गिरिवरात्मजा ।
अगमत् परमां तुष्टिमिदं चोवाच सुस्वरम् । ।८ । ।
देव्युवाच
त्वं गुरुस्सर्वलोकस्य पूज्यो भर्त्ता ममैव च ।
- - - - - - - - - - - - - - - - ।।९। ।
 - - - - - - - - - - - - - - - - ।
 - - - - - - - - - - - - - - - । । 8.34.१० ।।
सनत्कुमार उवाच
इति तेनेष्टवचसा१० तुष्टो देव्याः पिनाकधृक् ।
वरेणच्छंदयामास तयैषोभ्यर्थितो वरः । । ११ । ।
देव्युवाच
यदा यदा वदसि मां कृष्णेति वदतां वर ।
तदा तदा मे हृदयं विदीर्यत इव प्रभो । । १ २।।
                               ।।
विज्ञापयामि सर्वेश गौरवर्णमनुत्तमम्११ । । १३ । ।
                                ।
- - - - - - - - - - - - - - - - ।। १४। ।।
- - - - - - - - - - - - - - - - ।
जगद्भर्ता सुरेशान आत्मतुल्यपराक्रमः । । १ ५। ।
- - - -- - -- - ---- - -- -- -- - -- - --
८ वृथा - क. । ९ तामुवाच पिनाकधृक् - क । इतः परं पत्रद्वयं खण्डितं क. पुस्तके । १० ते नष्टवचसा - घ. । ११ गौरवं तमनुत्तमम् - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
अग्रणीः सर्वदेवानां सर्वदैत्यनिषूदनः१२ ।
- - - - - - - - - - - - - - - - । । १ ६। ।
यदि तुष्टोसि मे देव यदि देयो वरश्च मे ।
तपश्चरितुमिच्छामि तदनुज्ञातुमर्हसि । । १७।।
सनत्कुमार उवाच
ततो भवः१३ प्रहस्यैनामुवाच तपसा हि किम् ।
तपसा कांक्षितं यत्तु तदद्यैव ददामि ते ।। १८ ।।
इत्युक्ता गिरिजा प्राह तप्ते तपसि पुष्कले ।
त्वमेव दाता भगवन् वरान् मह्यं यथेप्सितान् । ।१ ९।। ।
तदा१४ विज्ञापितेनैवं१५ सर्वकार्यार्थदर्शिना । ।8.34.२० ।। - - - - - - - ।
चरणौ च नमस्कृत्य शिवस्यामिततेजसः । ।२१ । ।
सा क्षणादागता देवी हिमवन्तं नगोत्तमम् ।
ददर्श ऋषिमुख्यानामाश्रमैरुपशोभितम् । ।२२। ।
सरो मानसमासाद्य तथा बिन्दुसरश्च तत् ।
दिव्यां पाण्डुशिलां चैव गङ्गा१६ प्रभवमेव च ।।२३ । ।
ततो महालयं प्राप्य देवदारुवनं तथा ।।२४। ।
अन्यानि च ततोग्र्याणि१७ वनान्यासाद्य सा सती१८ ।
तस्योत्तरेण शैलस्य गत्वा१९ चाति मनोहरम्२० । ।२५। ।
अपश्यच्छिखरं दिव्यमेकमेकान्तमाश्रितम्२१ ।
चामीकरमयं दिव्यं सवौंषधिसमावृतम्२२ ।।२६।।
इन्द्रनीलमहानीलनीलोपलतलैः२३ शुभैः२४ ।
वृक्षैर्मणिमयैश्चित्रैः सर्वतः परिसंवृतम्२५ ।।२७।।
- - - -- - -- - ---- - -- -- -- - -- - --
१२... देवविषूदन घ। १३ वरः घ । १४ तथा(?) । १५. व घ। १६ गदां घ। १७ तपोग्राणां घ, ततोग्राणां... ग. घ. । १८ शाश्वती - घ. । १९ गता - घ. । २० सातिमनोहरम् - घ. । २१... ता - घ । २२.. समन्वितं -ग. ध. । २३ नीलोत्पलतलैः - ख... .घ, तलं - ख. घ. । २४ शुभं - ख. घ. । २५ परिवारितम् - घ ।
- - - -- - -- - ---- - -- -- -- - -- - --
क्वचिदञ्जनपुञ्जाभं स्फटिकोपलमेव च२६ ।
क्वचिद्धेमोपलं दिव्यं काचिच्चित्रोपलं पुनः । ।२८। ।
क्वचिन्मनःशिलाशृङ्गं२७ हरितालोपमं क्वचित् ।
शालैस्तालैस्तमालैश्च२८ प्रियालाम्रातकैरपि । । २९। ।
अशोकैश्चम्पकैर्लोध्रैः कदम्बाम्रातिमुक्तकैः२९ ।
नागपुन्नागतिलकैः सुरभीचन्दनैरपि । ।8.34.३ ० । ।
धातकीकेतकीभिश्च तथैवोद्दालकैरपि ।
कदलीभिश्च चित्राभिः खर्जूरैः पनसैरपि । । ३१ । ।
बकुलैर्नालिकेरैश्च पद्मषण्डैश्च शोभितम् ।
कपित्थैः खदिरैश्चैव भव्यैः३० पारावतैरपि। ।३ २ ।।
मृद्वीकामण्डपैश्चैव तथांकोठैः समावृतम् ।
सदा३१ पुष्पफलोपेतैश्चारुचामीकरप्रभैः । ।३ ३ । ।
तथा प्रस्रवणैश्चैव३२ नदीभिश्चोपशोभितम् ।
पक्षिभिर्मधुरालापैः३३ समन्ताच्चाभिनादितम् । ।३४।।
मयूरचातकोपेतं हंसचक्राह्वसंकुलम् ।
सारसैः खञ्जरीटैश्च हारीतैश्चाभिनादितम् । । ३ ५। ।
जीवं जीवसमाकीर्णं३४ महिषर्क्षसमाकुलम् ।
सिंहशार्दूलचरितं३५ शरभेभसमाकुलम् । ।३ ६६। ।
मेरुमन्दरसंकाशं सर्वपुण्यफलप्रदम्३६ ।
रम्यं स्वर्गमिवागम्यं पापानां३७ क्रूरकर्मणाम्३८ ।।३७। ।
श्रिया स्वलंकृतं साक्षा३९ दुद्यानमिव सत्कृतम् ।
तत्र केचिन्मधुफला वृक्षाः सर्वर्तुकामदाः४० । । ३८। ।
- - - -- - -- - ---- - -- -- -- - -- - --
२६ स्फटिकोत्पलमेव च - ग. । २७. न्मणिच्छि (शि) लाशृङ्गं - ग, मनच्छि - ख । २८ शलतालत- मालैश्च - ख. ग । २९.. तमुक्तकैः - ख घ । ३० भवैः - घ., धवैः. (?) । ३१ मंजु - घ. । ३२ प्रसवनैश्चैव - ख. । ३३... भाषैः - - ख. । ३८ जीवंजीवकसंकीर्णं - घ. । ३५.?. चितं - ग. । ३६ सर्वपुष्पफलप्रदम् - ख. घ. । ३७ पापिना - ख । ३८ क्रूरकार्मिणाम् - ख. ग । ३९ श्रियालंकृतामा- वासं - घ.. स्वयं कृतावास (?), स्वलंकृतावासं - ख ग । ४० सर्वत्र कामदाः - ख घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः ।
अपरे सर्वपुष्पाणि फलानि च महीरुहाः ।।३ ९ । ।
पुष्प्यन्ते४१ च फलन्ते च काञ्चनाश्चापरे द्रुमाः ।
फलन्ति भक्ष्याण्यपरे४२ भोजनानि४३ च सर्वशः४४ ।।8.34.४ ० । ।
मानुष्याण्यथ दिव्यानि षड्रसानि महाद्रुमाः ।
वस्त्राण्यन्ये प्रसूयन्ते फलेष्वाभरणानि च४५ । ।४१ ।।
तथा बहुविधामन्ये शय्यां चा४६ भरणद्रुमाः (?) ।
अमाक्षिकं४७ मध्वपरे चामृतप्रतिमं नगाः ।।४२ ।।
भोगाँश्च विविधानन्ये तथैवाभरणानि च४८ ।
अन्ये४९ स्त्रीः संप्रसूयन्ते मनुष्याँश्च तथापरे ।।४३ ।।
सर्वा मणिमयी भूमिर्दिव्ये५० तस्मिञ्छिलोच्चये५१ ।
सुगन्धिः५२ पवनो वाति नात्यर्थं चोष्णशीतलः५३ ।।४४।।
यावदेव५४ महादेवी तं गिरिं५५ नाभिगच्छति५६ ।
प्रीत्यर्थं तावदेवासौ देव्या रुद्रेण निर्मितः । ।४५। ।
तस्यैव च प्रसादेन नासौ गम्यः शिलोच्चयः ।
सर्वदेवनिकायानां भूतानाञ्चैव सर्वशः ।।४६। ।
सनत्कुमार उवाच
तस्मिन् गिरिवरे देवी तपस्तेपे सुदुश्चरम् ।
वार्क्षे दधाना वसने रुचिरे५७ धर्मसाधने ।।४७। ।
कदाचित्सा फलाहारा कदाचित्पर्णभोजना ।
कदाचिदम्बुभक्षाभूत्कदाचिदनिलाशना । ।४८ ।।
कदाचिदेकपादेन सूर्यस्याभिमुखी स्थिता ।
निगृहीतेन्द्रियग्रामा सा बभूव वरानना ।।४९ ।।
- - - -- - -- - ---- - -- -- -- - -- - --
४१ पुष्पन्ते - ख. घ. । ४२ भक्षाण्यपरे - ग. घ । ४३ ..भाजनानि - ख. घ । ४४ सर्वदा - ख. घ. । ४५ फलेष्टाभरणानि च - ग. । ४६ वा - घ । ८७ समाक्षीकं - ख । ४८ अत्राभरणानीति पुनरुक्तम् । ४९ अन्या - ख. । ५० दिव्या - ख. घ. । ५१ तस्मिन् शिलोच्चये - ख. घ. । ५२ सुगन्धः - ख. ग. घ. । ५३.. .शीतता - ग.! ५४... द्देवं (?) । ५५ गिरिजा - घ, । ५६ नाभ्यगच्छति ग- घ. । ५७ रुचिरे वाससी - ग. ।
- - - -- - -- - ---- - -- -- -- - -- - --
महादेवनमस्कारा महादेवपरायणा ।
महादेवप्रिया देवी पुत्रार्थञ्च वरार्थिनी५८ । ।8.34.५ ० ।।
अजैकपादं रुद्रञ्च डिण्डिमुण्डेश्वरं५९ तथा ।
कापालिनं भारभूति६० माषाढिञ्चैव सानुगम् ।।५१ ।।
निकुम्भं गतमन्युं६१ च भूतमोहनमेव च ।
कालदण्डधरं चैव मृत्युदण्डधरं६२ तथा । ।५२।।
ब्रह्मदण्डधरं चैव घोरचक्रधरं६३ तथा ।
अन्तरिक्षचरान् घोरान् दिशासु विदिशासु च ।।५३ । ।
एतान् गुह्यान् गणाध्यक्षानदृश्यान् सर्वतोमुखान्६४ ।
प्रागेव तस्या रक्षार्थं महादेवो नियुक्तवान् । ।५४। ।
उपरिष्टादधस्ताच्च तं गिरिं ते गणेश्वराः ।
अदृश्याः सर्वतश्चैव६५ न ररक्षुरमितौजसः ।।५५।।
न तस्य गिरिशृंगस्य रक्ष्यमाणस्य तैस्तथा६६ ।
देवदानवगन्धर्वाः शेकुर्गन्तु६७मुपान्तिकम्६८। ।५६। ।
प्रागेव स्थापितवती यानि चारुशिलातले ।
भूषणानि नदी तेभ्यो६९ जज्ञे पुण्यजलाश्रया ।।५७। ।
तामलंकारधारेति विश्रुतां पापनाशिनीम्७० ।
पश्यन्त्यद्यापि७१ च जनाः सर्वकालजलां शुभाम् ।।५८। ।
यस्मिन्नेव दिने देवी सा तथा तिष्ठदद्रिजा७२ ।
तस्मिन्नेव दिने व्यास शार्दूलोपि जगाम७३ ताम् । ।५९।।
महकायमुखो भीमः पिङ्गलामललोचनः ।
नखदंष्ट्रायुधो भीमस्त्रासनः सर्वदेहिनाम् । ।8.34.६० ।।
- - - -- - -- - ---- - -- -- -- - -- - --
५८ वस्तुहेतवे - घ, तपस्विनी (?) । ५९ दतिं चण्डेश्वरम् - घ. । ६० भावभूति - ध. । ६१ शतमन्युं - घ. । ६२ घोरचक्रधरं - घ. । ६३ घोरं - ख., घोरवज्रधरं - घ. । ६४... मुखं - ख. ग. । ६५.. ग (गा?) श्चैव - ख.,... श्चै नां - ख. । ६६... स्तदा - ख. । ६७ न शेकुर्गण (र्न्तु?) - घ. । ६८... मुमान्तिकम् - ख । ६९ तस्या - ख. । ७० पापनाशनीम् - ख. । ७१.. .पश्यन्ति च - ख, अद्यापि पश्यन्ति - घ. । ७२ दम्बिका - घ, । ७३.. .भिजगाम - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
गुहामुखाद् विनिःसृत्य व्यजृम्भत महाबलः ।
- - - - - - - - - - - - - - - - ।।६ १ । ।
ततः स देवीमालोक्य भक्षार्थमुपचक्रमे ।
तपसा स्तम्भितस्तस्या ह्येतदेवान्वचिन्तयत् ।।६ २ ।।
नार्येषा दृष्टपूर्वा मे शर्वपार्श्वे सुशोभना ।
यादृशं तपसश्चास्या वीर्यं मन्ये न मानुषी । ।६३ । ।
अथवा नित्यमेवासौ महेश्वरमनुव्रता ।
मन्दरे७४ सह देवेन रमते७५ हिमवत्सुता ।। ६४। ।
तपसा किं तदा चास्या यस्या भर्त्ता पिनाकधृक् ।
तद्रूपिणीयं काप्यन्या७६ तपोनियममास्थिता७७ ।।६५ ।।
महता तेजसा७८ युक्ता नेयं शक्या मया शुभा ।
हन्तुं भक्षार्थमद्येह ययाहं७९ स्तम्भितः स्थितः । ।६६। ।
तस्मादेनामुपासिष्ये यावत् कालस्य पर्ययः ।
स्वयमेतां मृतां पश्चाद् यथेष्टमबलामहम् ।।६७। ।
भक्षयिष्ये बुभुक्षार्त्तो मुनिः फलमिवाश्रमे ।
विचिन्त्यैवं स शार्दूलो देव्यादूरे समास्थितः । ।३८।।
स्तब्धदृक्८० कर्णलाङ्गूल उपविष्टो निरीक्ष्य ताम्८१ ।
सापि देव्यूर्ध्वदृष्टिन्तं दृष्ट्वा स्थितमसङ्गिनी ।
अनुग्रहकरीं बुद्धिं चक्रे तस्मिन् सदैव हि ।।६९। ।
व्यास उवाच
तपश्चरणसक्तायां देव्यां देवस्त्रिलोचनः ।
किमकार्षीत् सुरेशान एतदिच्छामि वेदितुम् ।।8.34.७० ।।
सनत्कुमार उवाच
- - - - - - - - - - प्रति भावितायाम् ।
पुत्रार्थमासक्तमनोरथायां देवोकरोद्यत्तदिदं शृणुष्व । ।७१ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
७४ मन्दरं - घ. । ७५ रमतीं - ध. । ७६ कानान्या - ग. । ७७ नियतमास्थिता - ख. । ७८ महादेवेन ते - ख. । ७९ तयाहं - घ., मया... - ग. । ८० शुद्धदृक् - घ. । ८१ निरीक्षतम् - ग., न्यमीक्षत - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
देव्यां तपसि सक्तायां८२ भगवान् गोवृषध्वजः ।
जागामानुग्रहं कर्तुमुपमन्योर्महात्मनः ।।७२। ।
                             ।
स ऋषिर्मातुलगृहे कदाचित् क्षीरमुत्तमम् ।।७३ । ।
होमशेषमति स्वादु पीतवानग्निहोत्रिणः ।
तत् स्मृत्वा मातरं प्राह देहि८३ मातः पयो मम । ।७४। ।
तस्मै पिष्टं ददौ माता तोयेनालोड्य दुःखिता ।
क्षीरमित्युपनीतं तद् दृष्टवा पिष्टं तदा८४ मुनिः ।।७५।।
नैतत् क्षीरमिति प्राह मातरं सा८५ ततोब्रवीत्८६ ।
वत्स क्षीरं कुतोस्माकं कुतश्चान्नं८७ तपस्विनाम् । ।७६। ।
आराधय महादेवं स ते सर्वं प्रदास्यति ।
इत्युक्तः स तदा मात्रा दुःखशोकपरिप्लुतः । ।७७।।
जगाम शरणं देवं सर्वभावेन शङ्करम् ।
आदित्याभिमुखो भूत्वा पादेनैकेन संयतः८८ ।।७८। ।
मनसाचिन्तयन्नित्यं प्रणतार्तिहरं हरम् ।
सहस्रमेकं वर्षाणां तस्थौ दिव्यं फलाशनः । ।७९।।
द्वितीयं शीर्णपर्णाशी८९ तृतीयं चाम्बुभोजनः९० ।
महादेवपरो भूत्वा९१ चतुर्थं यो जितेन्द्रियः ।
तस्थौ सहस्रं वर्षाणामनिलाशन९२ एव च- - - -- - -- - ---- - -- -- -- - -- - -- ।।8.34.८ ० । ।
यदा चतुर्थं संपूर्णं९३ सहस्रं शरदां मुनेः९४ ।
तुष्टस्तदा ददौ शर्वः शक्ररूपेण दर्शनम् ।।८१ ।।
शक्र उवाच
उपमन्यो महाभाग तपस्ते बहु संचितम्८५ ।
तुष्टोस्मि ते वरं ब्रूहि यद्यदिच्छसि पुत्रक ।
- - - -- - -- - ---- - -- -- -- - -- - --
८२ युक्तायां घ। ८३ देवि घ । ८४ क्षीरबिन्दूपनीतञ्च दृष्ट्वोपरि तदा ख क। ८५ स ग। ८६ तदाब्रवीत् - ख. क. । ८७... श्चार्थं - घ. । ८८ संयुतः - ख. क. । ८९.. .पत्राशी - घ. । ९० वायुभोजनः - घ. । ९१. भ्यर्च्य - ख. क. । ९२ मणिनाशन - घ- । ९३ गतवान् - घ. । ९४ मुने - ख. घ. । ९५ सञ्चयं - ख., संस्कृतम् (?- घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
उपमन्युरुवाच
स्वागतं देवराजस्य त्रैलोक्याधिपतेरिह ।
अद्य निष्कल्मषं मन्ये तपश्चीर्णं मया महत् ।।८३ ।।
योहं त्रैलोक्यदेवेशमिन्द्रं पश्यामि दिक्पतिम् ।
इदं पाद्यमिदं चार्ध्य९६ मिदमासनविष्टरम् ।।८४।।
अयं च मधुपर्कस्ते गृह्यतां सदसस्पते ।
किं करोमि तदाख्याहि प्रार्थयस्व महाबल ।
कृतमेव९७ हि तद्विद्धि यदि स्यात् सुकरं मया । ।८५। ।
शक९८ उवाच
भक्तो मे पिता विप्र सखाभूत् परमः९९ पुरा ।
तेन स्नेहेन दृष्ट्वाहं भवन्तं तपसि स्थितम् ।
क्लिश्यमानमिहायातो ब्रूहि किन्ते ददान्यहम्१००।।८६। ।
उपमन्युरुवाच
देवराज्यमपि१०१ त्वत्तो नाहं कांक्षे सुरोत्तम ।
महादेवमहं भक्तस्तस्मादिच्छाम्यहं वरम् ।।८७।।
शक्र उवाच
महादेवं१०२ न पश्यन्ति सुरापि सदसस्पतिम् ।
न तं द्रक्ष्यसि विप्रेन्द्र ब्रूहि यत्ते मनोगतम् ।।८८ । ।
अहं पितुस्ते स्नेहेन इहायातो महाव्रत ।
धर्मतो हि सुतो मे त्वं ब्रूहि तस्माद् ददाम्यहम्१०३ ।।८९। ।
उपमन्युरुवाच
कृतं स्वजनकृत्यं ते पूजितोस्मि त्वया प्रभो ।
गच्छ नाहमृते रुद्राद् वरं याचेन्यसंभवम् । ।8.34.९० ।।
- - - -- - -- - ---- - -- -- -- - -- - --
९६ चार्घं - ग. । ९७ मेवं - ख. घ. । ९८ इन्द्र - घ. । ९९ परमतः ख., परमं - घ. । १०० वरं ब्रूहि महाभाग यत्ते मनसि वांछितं - घ.,... म्यहं - ख । १०१ देवराजमपि - ग. । १०२ महेश्वर - घ. । १०३ वरं वरं - ग. घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
सनत्कुमार उवाच
एवमुक्तः स तेजस्वी शक्ररूपी महेश्वरः ।
उवाच तप्स्यसे१०४ पश्चात् किं ते रुद्रः१०५ करिष्यति१०६ ।।९१ । ।
गच्छामि स्वस्ति ते चास्तु१०७ निर्विघ्नस्ते भवत्वयम् ।
रुद्रं प्रति समारम्भः स्मरेथास्त्वं हि मां१०८ विभो ।।९२।।
सनत्कुमार उवाच
गते तस्मिन् तदा हीन्द्रे रुद्रः स्वं रूपमास्थितः ।
तस्यादर्शयदव्यग्र इदं चोवाच सुस्वरम् ।।९३ ।।
रुद्र उवाच
उपमन्यो महाभाग पश्य मां विगतज्वरः ।
ब्रूहि निश्चित्य मनसा१०९ वरं यावद्ददामि११० ते ।।९४। ।
सनत्कुमार उवाच
ततः स दृष्ट्वा देवेशं शिरसाभिप्रणम्य१११ च ।
उवाच प्रणतो वाक्यं११२ मनसा संप्रधारयन् ।।९५। ।
भगवन् यदि तुष्टोसि सदा सुरगणार्चित११३ ।
यद् ब्रवीमि तदीशान११४ मह्यं यच्छ नमोस्तु ते । ।९६। ।
द्रव्यं११५ किंचिदनाश्रित्य मानुषं दिव्यमेव वा११६ ।
क्षीरोदनं समश्नीयामयाचितमुपस्थितम्११७ । ।९७। ।
देवदेव उवाच
अनाश्रित्येह नैवास्ति कस्यचिद् द्विजसत्तम ।
तृणमप्याश्रयं कृत्वा तस्माद्वद महामुने ।।९८। ।
उपमन्युरुवाच
नैवाहमाश्रये किञ्चित् प्रसादाद् भगवँस्तव ।
तदर्थ११८ श्चायमारम्भस्तत् प्रयच्छ यथार्थितम्११९ ।।९९ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
१०४ तप्यसे - ख. । १०५ तप्यतो रुद्रात् - ख. । १०६ प्रदास्यति - घ । १०७ चैवास्तु - घ. । १०८ मा - ख. । १०९ निश्चिन्तमनसा - ख । ११० ददानि - ख. । १११ प्रणिपत्य - .ख. । ११२ वाक्य - क., वाच्यं - ख । ११३ यदि देयो वरश्च मे - ख. । ११४ तमीशानं - ख. । ११५ त्वां च - घ. । ११६ च - घ. । ११७ - दयाचितमुपस्थितम् - क. ग. । ११८ यदर्थं - घ. । ११९ यथा स्थितं - क स्वप्रार्थितम् - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
दैवदेव१२० उवाच मुने किञ्चिदनाश्रित्य नास्ति क्षीरोदनं तव ।
इत्युक्त्वा तं महादेवस्तत्रैवान्तरधीयत ।।8.34.१ ०० ।।
अन्तर्धानं ततो गत्वा जिज्ञासार्थं पिनाकधृक् ।
ब्रह्मणो रूपमास्थाय१२१ भूय एनं १२२ ततोब्रवीत् । ।१ ०१ ।।
ब्रह्मोवाच
उपमन्यो महाप्राज्ञ१२३ सुचीर्णं ते तपः शुभम्१२४ ।
तुष्टोस्मि ते१२५ वरं ब्रूहि प्रयच्छामि१२६ यथेप्सितम्१२७ ।।१ ०२।।
उपमन्युरुवाच
भगवन् सर्वलोकेश नमस्ते सर्वसृक् प्रभो ।
सुचीर्णं मे तपो देव यत्त्वां१२८ पश्यामि लोकप ।। १०३ । ।
महेश्वरमहं भक्तस्तदाशीस्तत्परायणः ।
तस्माद्वरं वृणे देव त्वत्तो नाहमसंशयम् । ।१ ०४।।
ब्रह्मोवाच१२९
रुद्रस्ते नाददद्विप्र क्षोरौदनमदुर्लभम्१३० ।
स तेन्यत् कुत एवेह दास्यते वरमुत्तमम् । ।१ ०५। ।
प्राजापत्यं सुरत्वं वाप्यमरत्वमथापि वा ।
इन्द्रत्वमथ सोमत्वं विष्णुत्वं१३१ वा ददानि१३२ ते ।।१ ०६ ।।
लोकपालो भवानस्तु सर्वलोकाभिपूजितः ।
ब्रूहि किन्ते ददान्यद्य विसृजस्व१३३ महेश्वरम् ।
नासौ दाता तवेशानस्तृणमप्येकमल्पकम्१३४ ।।१ ०७। ।
उपमन्युरुवाच
न गृहीतं प्रभो१३५ तेन मम किञ्चिन्महात्मना ।
ईश्वरः सर्वभूतानां न१३६ स्वामी तस्य कश्चन ।। १ ०८। ।
- - - -- - -- - ---- - -- -- -- - -- - --
१२० सनत्कुमार - घ. । १२१ ब्रह्मरूपं समास्थाय- घ । १२२ एवं - क ख । १२३ महाप्रज्ञ - ख. । १२४ शुभ - ख. । १२५ ब्रूहिवरं - क. ख? । १२६ तत्प्रयच्छ - घ. । १२७ यथास्थितं - क., तवानघ - स. घ. । १२८ यस्त्वां - क. । १२९ पितामह उवाच - ध. । १३० क्षीरोदनमदुर्लभम् - ख. घ. । १३१ सविष्णुत्वं - ख. । १३२... मि - ख. । १३३ व्यसृजस्व - ख. । १३४... मल्पकमक्षतं - क., .,. प्येकमक्षतं - घ,,. प्येकमेव च - ख. । १३५ पुरा - घ. । १३६ नास्वामी - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
इच्छया कुरुते देवः सर्वकार्याणि कार्यिणाम् ।
ददाति यदि लाभो मे न ददाति तथापि च ।। १०९ ।।
बहुना किं प्रलप्तेन तेन दत्तमहं वृणे ।
नरकं वा पशुत्वं वा किं पुनर्यदतोन्यथा । ।8.34.१ १० ।।
त्वत्तो नेच्छामि विष्णुत्वं न शक्रत्वं१३७ पितामह ।
गच्छ१३८ सर्वसुरेशान मा वृथा क्लेशमाचर ।। १११ । ।
सनत्कुमार उवाच
स एवमुक्तो देवेशस्तेन ब्रह्मर्षिणा तदा१३९ ।
तस्य तत्र पुनर्वाक्यं वरार्थमवदत् प्रभुः ।।१ १२ । ।
उपमन्युरपीशाने मन आधाय१४० निश्चलम् ।
तूष्णीं बभूव देवोपि तत्रैवान्तरधीयत१४१ । । ११३ ।।
तस्य तां भावनां ज्ञात्वा पिनाकीशस्त्रिलोचनः१४२ ।
स्वमेव रूपमास्थाय दर्शयामास तत्क्षणात् । । १ १४।।
त्र्यक्षो जटी विशालाक्षः कुण्डली दीप्तलोचनः ।
ज्वालामालाधरः श्रीमान् भुजगाबद्धमेखलः । । ११ ५।।
सर्पयज्ञोपवीती च व्याघ्रचर्माम्बरच्छदः ।
कृष्णाजिनोत्तरीयश्च कमण्डलुधरस्तथा । । ११ ६। ।
दण्डी शूली महाहासो१४३ गणपैर्बहुभिर्वृतः ।
उवाच पुत्र पुत्रेति तुष्टोस्मि तपसा तव । १ १७।।
अमरो जरया त्यक्तः सर्वदुःखविवर्जितः ।
कामरूपधरः श्रीमान् मत्प्रसादाद् भविष्यसि ।। ११९ ।।
द्वीपञ्चेमं१४४ गृहाण त्वं मया सृष्टं हि कामगम् ।
क्षीरौदन१४५ समुद्रेण सर्वतः परिवारितम् । ।१ १९ ।।
महायोगबलो भूत्वा सर्वज्ञः प्रियदर्शनः ।
भुंक्ष्व१४६ क्षीरौदनं वत्स बन्धुभिस्सहितः सदा१४७ ।। 8.34.१२० ।।
- - - -- - -- - ---- - -- -- -- - -- - --
१३७ ब्रह्मत्वं वा घ। १३८ त्वंहि ख। १३९ तथा घ। १४० श्चाधाय क, संघाय ख, घ। १४१ तां क। १४२ स त्रिलोचनः क, घ। १४३ महाभागो घ। १४४ द्विपं चैव घ। १४५ क्षीरोदेन - ख । १४६ क्षीरोदनं - क ख. । १४७ तदा - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
सप्तपूर्वाणि सर्वाणि कुलानि तव तापस१४८ ।
इदं चैव कुलं सर्वमनुगृहणामि सुव्रत१४९ । । १२१ । ।
सर्वे भवन्तु विप्रर्षे१५० य इमे तव बान्धवाः ।
मत्प्रसादान्महासत्वा नित्यं क्षीरौदनाशनाः१५१ ।। १ २२।।
सनत्कुमार उवाच
स तु तं वरमादाय प्रणम्य शिरसा भवम् ।
शिरस्यञ्जलिमाधाय१५२ अस्तौषीत् प्रयतात्मवान् । ।१ २३ । ।
उपमन्युरुवाच
नमः सर्वामरेशाय विश्वेशाय नमो नमः ।
नमः सर्वार्तिहर्त्रे१५३ च नमश्शोकहराय च ।।१ २४ ।।
नमः पवनवेगाय नमः पवनरूपिणे ।
नमः काञ्चनमालाय पद्ममालाय वै नमः । ।१ २५।।
नमः सुररिपुघ्नाय चण्डवेगाय वै नमः ।
नमः पितृसुरेशाय मखघ्नाय१५४ च वै नमः । । १ २६।।
स्त्रीरूपाय नमस्तुभ्यं सर्वरूपधराय च ।
नमः कन्दर्पनाशाय१५५ विश्वस्रष्ट्रे१५६ नमो नमः । ।१ २७।।
नमो विश्वाय पाशाय१५७ नमोचिन्त्याय चैव हि१५८।
त्वन्नो गतिश्च श्रेयश्च त्वमेव हृदयं सदा ।। १ २८।।
सनत्कुमार उवाच
ततस्तं मूर्ध्न्युपाघ्राय१५९ समाश्वास्य१६० विसृज्य च ।
जगाम भगवान् व्यास सुकेशं१६१ प्रति स१६२ प्रभुः ।।१ २९।।
- - - -- - -- - ---- - -- -- -- - -- - --
१४८ तपसा तव - ख । १४९ तापस - क । १५० विपेन्द्र - ख. । १५१ क्षीरोदवासिनः - क. ख. घ. । १५२ मादाय - -घ. । १५३... हन्त्रे - ग. । १५४ मुखघ्नाय - ख., महिष... - क. । १५५ स्कन्दविशाखाय - कः, स्यन्ददिशाखेच ख. । १५६ विष्वक् स्रष्ट्रं - क. ख घ । १५७ घस्राय - क । १५८ ह - ख. । १५९ मूर्ध्नि चाघ्राय - क घ. । १६० श्वस्य - ख । १६१ सुरेश - घ. । १६२ प्रतिमः - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
उपमन्युं ज्वलितानलप्रकाशं शतमन्युं१६३ तपसा१६४ जिगीषमाणम्१६५ ।
स चकार नतं१६६ हरोग्रमन्युं वरदानेन तदा व्यपेतमन्युम्१६७ ।।8.34.१ ३० । ।
इति स्कन्दपुराणे उपमन्युवरप्रदानं नाम चतुस्त्रिंशोध्यायः

सनत्कुमार उवाच
ततः स भगवान् देवः सुकेशं गणपं पुनः ।
चकार ब्राह्मणं व्यास तपः सत्यपरायणम् ।।१ ।।
व्यास उवाच
कथं स ब्राह्मणः पूर्वं गणेशत्वमुपागतः ।
केनास्य तपसा तुष्टो गणेशत्वं१ ददौ प्रभुः । ।२।।
सनत्कुमार उवाच
आसीद्वसिष्ठकुलजो ब्राह्मणस्सत्यवाक् शुचिः२ ।
तीर्थयात्रास्वभिरत३ उपवासपरायणः ।।३ । ।
स कदाचिद्विदेशस्थो वने पश्यन् पथि स्थितम् ।
व्याघ्रं व्यात्ताननं घोरं नखदंष्ट्रायुधं तदा४ ।।४।।
दृष्ट्वा तं स तदा विप्रस्त्यक्त्वा पन्थानमाशुगः ।
विवेश महतीं घोरामटवीं प्राणिवर्जिताम्५ ।।५।।
तत्रापश्यत् स पुरतो वीरणस्तम्बमाश्रितान्६ ।
पुरुषाँल्लम्बमानाँश्च क्रन्दमानान् सुदुःखितान्७ ।।६।।
तानवाक्शिरसो दृष्ट्वा लम्बमानांस्तदा द्विजान् ।
के यूयमिति पप्रच्छ ते चैन८ मिदमूचिरे । ।७।।
- - - -- - -- - ---- - -- -- -- - -- - --
१६३ गतमन्युं - क. । १६४ तमसा - ख. । १६५ विजिगीषमाणं - क. । १६६.. रावनतं - क. ख. घ. । १६७ मन्युमिति - क, मन्युरिति? ख ।
१ गणपत्व - ख. । २ छुचिः - क,... ञ्छुचिः - ख. । ३.. यात्रासु निरतः - घ. । ४ वरं - क. ख. । ५ शार्दूलं विपिने दृष्ट्वा मार्गमुत्क्रम्य मा ( चा) शुगः । विवेशान्यद्वनं घोरं सर्वप्राणिविवजितम् । इति ख. पुस्तकपाठः । ६ स्तम्भ - ख. घ. । ७,.. नाँश्च दुःखितान् - घ. । ८ तमेवं... - घ., ते चैव - क. ख, ।
- - - -- - -- - ---- - -- -- -- - -- - --
पितर ऊचुः
तव स्मः पितरस्सर्वे नरकेस्मिन्नधोमुखाः ।
वीरणे त्वयि लम्बामस्तव दोषेण दुर्मते ।।८।।
पुत्रानिच्छन्ति मनुजास्तारयिष्यन्ति नस्त्विमे९ ।
नरकादिति स त्वन्नः पातयिष्यसि दुःखितान् । ।९। ।
विप्र उवाच
मया तीर्थाभिगमनात् तपो यत्१० समुपार्जितम् ।
जन्मप्रभृति यच्चापि मया किञ्चित् कृतं शुभम् ।
तेन यूयमितो गर्त्तादुद्धरध्वं११ पितामहाः ।। 8.35.१० । ।
पितर१२ ऊचुः
न वयं तपसा१३ शक्या न यज्ञैर्नाप्यतोन्यथा१४ ।
गर्त्तादस्मात्समुद्धर्तुं यद् ब्रूमस्तत्कुरुष्व नः ।।१ १। ।
अपत्यं गुणसंयुक्तमुत्पादय तपोयुतम् ।
ततो वयमितो गर्त्तान्मुच्येम यदि मन्यसे ।।१ २।।
विप्र उवाच
ऊर्ध्वरेताहमित्येतन्मया व्रतमुपाकृतम्१५ ।
न दारानाहरिष्यामि तारयिष्ये च वै पितॄन् । । १३ । ।
ततस्स तान् तथोत्सृज्य१६ दुःखेन महता वृतः ।
जगाम रुद्रं शरणं पितरोन्तर्हितास्ततः । ।१४।।
पितृष्वन्तर्हितेष्वेवं वायुभक्षस्तदा द्विजः ।
काष्ठलोष्ठोपलीभूतो निरुच्छ्वासोवतिष्ठत१७ । । १५ ।।
सन्धाय१८ मानसं१९ रुद्रे२० निश्चलः२१ सुसमाहितः२२ ।
हृदयेन जपन् रुद्रानाकाशे समतिष्ठत । ।१ ६। ।
- - - -- - -- - ---- - -- -- -- - -- - --
९ नास्ति मे - घ. । १० यत्तपः - घ. । ११... सर्वानुद्धरध्वं - ख. । १२ पितामहा - घ. । १३ युष्मत्तपसा - ख. । १४ यज्ञेनाप्यतोन्यथा - क. ख., शक्त्या त्वया ज्ञात्वा - घ. । १५,., मुपावृतं (?), मुपाहृतं - क,... मनुत्तमं- घ. । १६ ततो (दो) त्सृज्य - क. ख. घ. । १७,.. तिष्ठति - ख. । १८ ध्याय मानस्ततो - ख, स ध्यायमानो रुद्रेति - घ. । १९ मनसो - क. । २० रुद्ध - ख. । २१ निश्चलं - ख. । २२... स्थितः - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
तस्य पूर्णे तदा मासि वातवर्षमभून्महत् ।
सर्वसत्वप्रमथनं दुस्सहं भीमशब्दवत् ।। १७। ।
तेन वर्षेण२३ महता नैव२४ तस्याभवत्तदा ।
दुःखं वाप्यथवा भङ्गः२५ सम्यगेवावतस्थिवान् । । १८। ।
अथ तं भगवान् देवो मासे वर्तति सप्तमे ।
विष्णुरूपधरो भूत्वा प्रोवाच द्विजसत्तमम् ।। १ ९।।
तुष्टोस्मि तव भद्रन्ते तपसानेन सुव्रत ।
वरं वरय विप्रर्षे यस्ते२६ मनसि वर्तते ।। 8.35.२० । ।
सुकेशस्तु ततो दृष्ट्वा नारायणमुपागतम् ।
अब्रवीच्छङ्करादिच्छे२७ वरं न भवतो ह्यहम् ।।२ १ ।।
विष्णुरुवाच२८
अलमेतेन विप्रर्षे निर्बन्धेन हरं प्रति ।
देवैरपि न शक्योसौ द्रष्टुं किमुत मानुषैः । ।२२।।
सुकेश उवाच
द्रष्टुं शक्यो न वा शक्यः किमेभिर्वो विचारितैः ।
कुग्रहः सुग्रहो वाहं तथापीशे मनो मम । ।२३ ।।
शंकरादेव चक्रेश शुभं वा यदि वाशुभम् ।
वरं कांक्षे न च त्वत्तो२९ न चान्यस्मात् कथञ्चन ।।२४। ।
भवन्तोपि हि तं देवं यस्मात् सर्वे समाहिताः ।
अर्चयध्वे३० स्तुवध्वे३१ च तस्माच्छ्रेष्ठः स उच्यते ।।२५।।
सनत्कुमार उवाच
तस्य तन्निश्चयं ज्ञात्वा संतुष्टो३२ भगवान् हरः ।
विष्णुरूपं परित्यज्य स्वं रूप प्रत्यपद्यत ।।२६। ।
उवाच चैनं विप्रेन्द्र३३ गणपो३४ मे भवाक्षयः ।
अमरो जरया त्यक्तः सर्वदुःविवर्जितः ।।२७।।
- - - -- - -- - ---- - -- -- -- - -- - --
२३ मासेन - घ. । २४ नैवं - ख. घ. । २५ भङ्गं - घ. भंगो - क. । २६ यत्ते - क. घ. । २७.. त्तं हरादिच्छे - घ. । २८ देवदेव घ. । २९.. ह शत्रुघ्न - घ. । ३० अर्चयध्वं - क. ख. घ-, अर्चयध्वं सुरेशं च - घ. । ३१ स्तुवध्वं - क. ख. । ३२ तुतोष - क. ख. घ. । ३३ विपेन्द्रं - - क घ. । ३४ गणपस्त्वं - ख ।
- - - -- - -- - ---- - -- -- -- - -- - --
ऐश्वर्येण च संयुक्तः प्रियो मम पुरस्सरः ।
इमं च३५ मत्कृतं दिव्यं त्रिकूटं नाम पर्वतम् । ।२८। ।
भवनैः काञ्चनैर्युक्तं कामगं ते वदाम्यहम् ।
येषां कृते च पुत्र त्वं मां तोषयितुमुद्यतः । ।२९।।
ते चेमे३३ पितरस्सर्वे सुपुत्रेण त्वयानघ ।
तारिता नरकाद् घोराद् गणेशं त्वा३७ मुपस्थिताः ।। 8.35.३० । ।
किंकरास्ते भविष्यन्ति नित्यं दुःखविवर्जिताः ।
गणेश्वरास्तवैवेमे३८ भविष्यन्ति वशानुगाः३९ ।। ३१ ।।
सुकेश इति नाम्ना च प्रथितस्त्वं भविष्यसि ।
सदा चाष्टगुणै४०श्वर्यसमायुक्तश्चरिष्यसि । ।३ २ ।।
सनत्कुमार उवाच
ततस्स दृष्ट्वाथ पितॄन्नरकात् ससुहृज्जनान्४१ ।
तीर्णान्४२ गणेश्वरत्वेन पुनः पूज्येन संयुतान्४३ । ।३ ३।।
महेश्वरं हृष्टमनाः शिरसा प्राञ्जलिर्गतः ।
उवाच हृष्यमाणास्यस्तदा४४ वचनकोविदः । ।३४।।
सुकेश उवाच
भगवन् गणपत्वं च लब्धमैश्वर्यमेव च ।
अमरत्वं तथाक्षय्यं तथैवाजरता वरा४५ । ।३ ५। ।
पितरस्तारिताश्चेमे४६ गणपाश्चैव मे कृताः ।
नगश्च कामगो४७ ह्येष लब्धो मे त्वत्प्रसादतः४८ । ।३ ६।।
इच्छामि त्वां४९ मह३देव सोमं सप्रवरेश्वरम्५० ।
सदा सुमुख५१ मत्यर्थं सुदृश्यं५२ चैव कामद५३ ।।३७।।
सनत्कुमार उवाच
स एवमुक्तो भगवान् सुकेशेन महात्मना ।
उवाचैव५४ मिदं सर्वं भविष्यति गणेश्वर ।।३ ८ ।।
- - - -- - -- - ---- - -- -- -- - -- - --
३५ इदं च - क. ख. घ. । ३६ त इमे - घ. । ३७ गणेशत्व - ख. घ. । ३८ ... स्तमेवैते - ख. घ. । ३९ सदानुगाः - घ. । ४० नित्येष्ठ (नित्यमष्ट?) गुणै - ख. । ४१ ससुहृज्जनः - ग. । ४२ तीर्णो - ग. । ४३ संयुतः - ख. ग. । ४४ हर्षमाणश्च तदा - ख. । ४५... य्यमजरत्वमवाप्य च - ख. । ४६.. .श्चैव - ख. । ४७ कामतो - ख. । ४८ त्वत्प्रसादजः - क. । ४९ त्व - क., त्वा - ख. । ५० सहगणेश्वर - घ. । ५१ सुसुख - ख.. स्वसुख - घ. । ५२ स्वदृशं -घ., निकामं दर्शनं तव - ख. । ५३ कामदं - क. । ५४ ... न - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
इमं गिरिं समाश्रित्य सहैभिः प्रवरैर्वरैः५५ ।
गच्छ स्वेष्टां५६ गतिं वत्स देवान् विप्राँश्च पालय । । ३९। ।
विसृज्य तं ततो५७ देवः सुकेशं गणनायकम्५८ ।
जगामादर्शनं सोमः५९ सर्वेषामेव पश्यताम् ।।8.35.४० । ।
सुकेशोपि गिरौ तस्मिन्नगरे स्वर्गसन्निभे ।
नरकाणां६० स तत्त्वार्थं६१ पितॄन् पप्रच्छ यत्नतः ।।४१ । ।
व्यास उवाच
किमर्थं गणपो ब्रह्मन् तान् पितॄन् पर्यपृच्छत ।
कथञ्च पितरस्तत्र आचख्युस्तस्य धीमतः ।।४२ ।।
एतद्विस्तरशस्तात संक्षेपाद्वा यथातथम् ।
त्वत्तोहं श्रोतुमिच्छामि हितं सर्वसुखावहम् ।।४३ । ।
सूत उवाच
स एवमुक्तः सुरसृक्सुतः प्रभुः६२ र्विमानकर्ता६३ विगतप्रयोजनः ।
जगाद वाक्यं सुरलोक६४ वर्धनः६५ पुराकृतं (?) दुष्कृतसर्वनाशनम् ।।४४। ।
इति स्कन्दपुराणे सुकेशवरप्रदानं नाम पंचत्रिशोध्यायः
सनत्कुमार उवाच
त्रिकूटशिखरे तस्मिन्नगरे देवनिर्मिते ।
आसीनः१ काञ्चने दिव्ये विमाने स्त्रीसमाकुले२ । । १ ।।
पितॄन सर्वान्३ समाहूय संपूज्य विधिवत्तदा४ ।
सुखोपविष्टान् तान्५ दृष्ट्वा इदं वचनमब्रवीत् ।।२।।
- - - -- - -- - ---- - -- -- -- - -- - --
५५ सगणप्रवरै र्भृशम् - घ. । ५६ श्रेष्ठां - घ. । ५७ महादेव - क ख घ. । ५८ कुलनायकम् - घ. । ५९ देवः - घ. । ६० नारकाणां - (?) । ये १ मुक्त्यर्थं - घ । ६२ परमादरेण - घ. । ६३ विधानकर्ता - घ. । मग्रे - ख. । ६४ मुनिदेव.. - घ. । ६५... बन्धुषु (वान्धव?) - ख.,... बल्लभः - घ ।
१ आसने - घ. । रे स्त्रीजनाकुत्ने - क. ख. । ३ स्वांश्च - घ. । '८ विधिवत्तया - घ. । ५ उपविष्टा- नासनस्थान् - घ., उपविष्टान् सुखं - क. ग. ।
- - - -- - -- - ---- - -- -- -- - -- - --
सुकेश उवाच
युष्माकं तेजसा सर्वमिदमैश्वर्यमीदृशम् ।
भवद्भिस्तत्कृतं देवा येनास्मि सुखभाक्कृतः ।।३ ।।
पितर ऊचुः
मैवं वदानृतं६ पुत्र माधर्मस्ते भवेदिह७ ।
नास्मत्प्रसादादैश्वर्यं तव पुत्र कदाचन । ।४। ।
वयन्तु निरये घोरे यात्यमानाः८ सुदारुणे ।
तपसा तव वीर्येण९ सुखमाप्म१० सुदुर्लभम् । ।५।।
त्वया वयं सुपुत्रेण तारिता निरयाद् यथा११।
तथा१२ नान्यं प्रपश्यामो१३ धन्यो हि१४ त्वं सुतो हि नः । ।६। ।
अद्य१५ वर्षसहस्राणि बहूनि निरये वयम् ।
पच्येम१६ घोरे दुर्वृत्ता बन्धुः स्यास्त्वं न नो यदि ।।७।।
बहवः प्राणिनः पुत्र यात्यन्ते१७ तत्र१८ संयताः१९ ।
अति२० घोरे .सुदुर्वृत्ता२१स्तपो येषां२२ न विद्यते ।।८।।
सुकेश उवाच
पितरो नोक्तपूर्वं२३ मे मृषा न च वदामि वै२४।
यथा प्रभावाद्युष्माक२५मैश्वर्यं मम तत्तदा । ।९। ।
शृणुध्वं वदतः२६ सम्यक् मावमध्वं२७ वचो मम ।
न चावमन्ये पितरो२८ देवताः२९ कोवमन्यते ।। 8.36.१० । ।
पितरः कर्म कुर्वन्ति सतां यत् संमतं भुवि ।
नित्यं चाशासते चैव३० प्रजा नः सन्तु पुष्कलाः ।। ११ ।।
- - - -- - -- - ---- - -- -- -- - -- - --
६ वाचानृतं - ख. । ७ व्यनीनशत् - ख. । ८ पात्यमानाः - क । ९ तव देवस्य - क., देवदेवस्य - घ । १०... माप्ताः - घ,... मायुः (पुः? । - क. ख. । ११ वयं - ख. । १२ तस्मात् - ख. । १३ प्रपश्याम - क. ग., ...मि - ख. । १४ धन्यानां - ख । १५ अन्य. - ख । १५ पच्यामि ( म) - ख. ।; १७ पात्यन्ते - घ. । १८ यत्र - ख । १९ संयुताः - घ. । २० अपि - घ । २१ घोरेषु दुर्वृत्ता - क. घ । २२. स्तपस्ते- ( षां)?.. क. घ.,.. स्तप्यन्ते - ख. । २३ नोक्तपूर्वोस्मि - क. । २४ मृषा वाद कदाचन - घ. । २५ प्रभावम- स्माकं - घ. । २६ वेदतः - ख. । २७ मावमंस्था - क. ख ग. घ. । २८ पितरं - घ. । २९ देवतां - घ. । ३० तेन - ख ग., ते च - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
धार्मिकाश्च कृतज्ञाश्च सत्कर्मरतयस्तथा ।
ये नो नरकगर्तस्थान्३१ तारयिष्यन्ति नित्यशः । ।१ २।।
तेषां तत्कार्यकरणात् स्वधर्माच्यवनेन च३२ ।
स धर्मोनुष्ठितः३३ सम्यक् प्रजा जनयते शुभाः ।।१ ३ ।।
धार्मिकाश्च वदान्या३४श्च कृतज्ञाः सत्पथे३५ स्थिताः ।
पितृभक्ताश्च सर्वत्र३६ पितॄणां तारणे रताः३७ । ११४।।
सोहं भवद्भि३८र्धर्मेण परेण च समाधिना ।
जनितस्तपसा युक्तो भवतामेव३९ सर्वशः४० ।। १५ । ।
देवमाराध्य नरकात् पितॄँस्तारितवान् पुनः४१ ।
एष प्रभावो युष्माकं तपः सुचरितं च ह । ।१ ६। ।
ममात्र४२ किं महाप्रज्ञा४३ अनृतं वात्र किं वचः४४ ।
इयंञ्च वैदिकी शुभ्रा श्रुतिर्वेदविदां वराः । । १७। ।
प्रमाणं यदि मन्यध्वं आत्मना४५ कृतमित्युत ।
अङ्गादङ्गात् संभवसि हदयादधिजायसे ।। १८ ।।
आत्मा वै पुत्रनामासि स जीव शरदां४६ शतम्४७ ।
अङ्गेभ्योहं समुत्पन्नो युष्माकं हदयाच्च ह ।। १९। ।
आत्मनाहं४८ तथात्मानं युष्माँस्तारिवाँस्ततः ।
तस्माद् भवन्तो मन्यन्तां४९ सर्व एव समाधिना । । 8.36.२० । ।
तस्माद्धि घोरान्तरकात्तारिताः स्वेन कर्मणा ।
न चान्यकर्मणा५० कश्चिदन्यस्तरति दुर्मतिः५१ ।
स्वकर्मणा५२ हि जन्तूनां फलपाको विधीयते ।।२ १ । ।
सनत्कुमार उवाच
ततस्त एवं पितरस्तेन प्रोक्ता महात्मना ।
हर्षेण साश्रुनयना इदमूचुस्तदा वचः ।। २२। ।
- - - -- - -- - ---- - -- -- -- - -- - --
३१ निरयघोरस्थान् - ख । ३२ स्वधर्मं कुरुते नरः - घ । ३३ धर्मानुष्ठितः - घ. । ३४ वदन्याश्च - क. ख. ग. । ३५ सत्पथि - क ख. ग. । ३६ सर्वत्र - ख. । ३७ सदा - ख । ३८ नैवं भवति - घ । ३९ युक्तैर्भ वतामेव - ख, चैव - घ. । ४० नान्यथा - ख । ४१... नहं - घ ४२ मयात्र - घ. । ४३ प्रतिज्ञा त - घ , प्राज्ञा - क. । ४४ न वदाम्यहं - ख । ४५... मात्मना - क. ख., सा - ग,.. गर्थिना - घ. । ४६ शरदः - ख घ.. । ४७ श्रुतं - क । ४८ तं ख । ४९ मन्यन्त, - ख. घ । ५,,,. त्कर्मणा क. ख. घ. । ५१ दुर्गतिं - क. घ । ५२ स्वकर्मणो - ख ।
- - - -- - -- - ---- - -- -- -- - -- - --
पितर ऊचुः
त्वदन्यः को वदेदेवं यो न स्यादीशसंमतः ।
युक्तमेतत्तव वचो धार्मिकस्य महात्मनः ।।२३ ।।
यो न स्यादीदृशः पुत्र५३ कथं तं सवदेवपः ।
इष्टैस्तु५४ योजयेत्५५ सम्यग् यथा त्वां गोवृषध्वजः ।।२४।।
त्वं धाता त्वं हि नो५६ बन्धुस्त्वं जनेता५७ महामते ।
पिता त्वमेव पुत्रा हि वयं तव न संशयः । ।२५। ।
अत्र ते वर्तयिष्यामः पुरावृत्तं महामते५८।
श्रुतौ स्मृतौ च यद् गीतं तन्नस्त्वं५९ मन्तुमर्हसि६० ।।२६।।
पितर ऊचुः
पुत्रा हि ब्रह्मणा सृष्टा देवा यजत मामिति ।
ते यजन्त६१ तदात्मानं६२ तेषां ब्रह्मा चुकोप ह ।।२७।।
उवाच चेनान्६३ संरब्धो नष्टसंज्ञा भविष्यथ ।
ते शप्ताः६४ ब्रह्मणा सर्वे समेत्य च६५ दिवौकसः ।।२८।।
दुःखशोकसमायुक्ता दीनास्तं६६ तुष्टुवुस्तदा६७ ।
प्रसन्नं तं समालक्ष्य त ऊचुः शिरसा नताः ।।२९।।
नष्टसंज्ञा वयं देव तान्नो६८ यच्छ पुनः प्रभो ।
तत् क्षमस्व च देवेश अज्ञानाद्यत् कृतं हि नः ।।8.36.३०।।
अथैवमुक्तो देवै६९स्तैर्ब्रह्मा लोकपितामहः ।
उवाच प्रणतान् देवान् सानुक्रोशमिदं वचः । ।३१ ।।
ब्रह्मोवाच
प्रायश्चित्तं महासत्वाश्चरध्वं नियमेन ह७० ।
व्यभिचारकृतं७१ सर्वं ततः पापं प्रहास्यथ ।।३२।।
- - - -- - -- - ---- - -- -- -- - -- - --
५३ पुत्रं क., पुत्रः - घ । ५४... स्त्व - क ख. । ५५ योजयत् - क ख. । ५६ हितो - क. । ५७ जनिता त्वं ।१) । ५८ महात्मने - घ । ५९ ततस्त्वं. - घ । ६० स्मर्तुमर्हसि - क, संस्मर्तुमर्हसि - घ. । ६१ जयन्त - क. ख. । ६२ स्तदात्मानं - क । ६३ चैनं - क. ख. । ६४ स्तं तदा देवं - क. घ. । ६५ सर्व एव - क घ. । ६६ ब्रह्माणं - क- घ । ६७??. स्सदा - क. ग । ६८ तन्नो - क. ख. घ. । ६९ देव - ख. । ७० कुरुध्वं भो युष्माञ्चीर्णे ददाम्यहं - ख. । ७१ कृते चावकृतं - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
देवा ऊचुः
सैव संज्ञा न नो देव विद्यते७२ सर्वसृक् प्रभो ।
यया ज्ञास्यामहे तानि प्रायश्चित्तानि लोकप । । ३३ । ।
ब्रह्मोवाच७३
स्वान् पुत्रान् परिपृच्छध्वं ततः श्रेयमवाप्स्यथ७४ ।
पुनः संज्ञां च धर्मज्ञा मा कुरुध्वमतोन्यथा ।। ३४।।
पितर ऊचुः
ततस्ते सुरशार्दूलाः पप्रच्छुः स्वान् सुताँस्तदा ।
प्रायश्चित्तानि धर्माँश्च वेदान् साङ्गान् सविस्तरान्७५ । ।३ ५। ।
ते च तेभ्यस्तदा पुत्रा आचुख्युः७६ प्रयताः शुभाः ।
याथातथ्येन तत्सर्वं परमेण समाधिना ।।३ ६। ।
अथ ते लब्धसंज्ञाश्च लब्धकामास्तथैव च ।
स्वान्पुत्रानभ्यभाषन्त प्रीयमाणा मुदा युताः ।। ३७।।
देवा ऊचुः
पुत्रा न यूयमस्माकं वयं पुत्रा हि वः सुताः७७ ।
यैर्ज्ञानं नष्टसंज्ञानां कृतमस्माकमव्ययम् । ।३८। ।
तैरेवमुक्ते तत्रागाद्७८ ब्रह्मा लोकपितामहः ।
उवाच चेदं तान्देवान् सर्वानेव महायशाः ।।३९। ।
ब्रह्मोवाच
वदन्ति नानृतं देवाः सत्यं देवेषु वर्तते८० ।
सुताश्चोक्ता हि वः सर्वे पितरो नानृतं हि तत् । ।8.36.४० ।।
तस्मात्८१ पितृत्वं युष्माकं८२ पुत्राणां नित्यमव्ययम् ।
भविष्यति न सन्देहो यूयं पुत्राश्च सर्वशः । ।४१ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
७२ प्रपश्येत् ( श्यत्) - ख. । ७३ पितामह - क. घ. । इतः परवर्ति पत्रमेकं खण्डितम् ( नष्टं) - क. पुस्तके । ७४ योप्यवाप्स्यथ - घ. । ७५ वेदाज्ञा (ङ्गाँ) श्च सुविस्तरान् - घ । ७६ आचक्षुः - ख. घ । ७७ पुत्राणां नित्यमव्ययं - ग. । ७८... क्तै स्तत्रागाद् - ग. । ७९ पितामह - घ. । ८० नानृतं - घ. । ८१ अस्मत् - घ. । ८२ पितॄणां - घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
नह्य८३ शिष्याय कथ्यन्ते रहस्यानि कथंचन ।
एकार्थौ पुत्रशिष्यौ च तस्मात् पुत्राः स्थ सर्वशः ।।४२ । ।
तरन्ति पुत्रैः पितरः पुत्राँस्तान् तारयन्ति च ।
तारयित्वा पितृत्वञ्च८४ कर्मणा तेन यान्ति ते । ।४३ । ।
यूयञ्च तारिताः पुत्रैरज्ञानान्नरकात्तथा८५ ।
तस्मादिमे हि८६ पितरो यूयं पुत्राश्च सर्वशः । ।४४। ।
पाति यस्मात् पिता तस्माज् जनयत्यपि८७ वा पिता८८ ।
पुत्रेषु चैतदुभयं पितरस्तेन वो८९ मताः । ।४५ । ।
ततस्ते ब्रह्म - - - - - - - - - - - ।
                       - - - । ।४६ । ।
- - - - - - - - - - - - - - बलाः ।
पितरस्तान् वरैरिष्टैश्छन्दयामासुर०यथाः । ।४७। ।
पितरश्च ततो वव्रुरग्रे यजनमात्मनः ।
यो नोनिष्ट्वा यजेद्देवान्९० न स तत्फलमाप्नुयात्९१ । ।४८। ।
एनसा चाभिसंयुक्तो मह - - - - - - ।
           - - - - - - - । ।४९ । ।
                     ... - - ।
यथागतं ततो जग्मुर्ब्रह्मणा सह सर्वशः । । 8.36.५० । ।
पितर ऊचुः
यथा९२ वयं त्वया पुत्र नरकान्नष्टचेतसः ।
तारिताश्चेतनावन्तः पुनश्च प्रवरीकृताः९३ । ।५१ । ।
पिता ततो भवान् पूज्यो योनुयासि महा - - ।
- - - - - - - - - - - - - - - - ।।५ २ । ।
- - - - - - - - - - - - - सत्तमः ।
प्रणतः प्राञ्जलिर्भूत्वा पितॄन् वचनमब्रवीत् । ।५३ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
८३ नहि - ख. । ८४ पितॄन पुत्राः - घ. । ८५... रज्ञाने नरकात्तथा - ख ।। ८६... त्तेपीह - घ. । ८७ जनयँश्चापि - घ. । ८८ तान् - ग. । ८९ चो - ग., वा (?) । ९० यजन्देवान् - ख. । ९१ तत्फलमवाप्नुयात् - ख. । ९२ तथा - ख. । ९३ प्रचरीकृताः - ख. ग. ।
- - - -- - -- - ---- - -- -- -- - -- - --
एवमेतद्यथोक्तं वो नानृतं वो वचः शुभम् ।
परस्पर९४ पितृत्वं हि सर्वेषां समुदाहृतम् । ।५४। ।
वरं भूय इमं९५ मह्यं प्रयच्छत गणेश्वराः ।
. . .... . .. .. ।
एतेन प्रश्नमिष्टं हि कथितं द्विजसत्तम (?) ।।५५।।
पितर ऊचुः
नास्ति किंचिदविदितं भवतः प्रवरेश्वर९६ ।
भवानस्मत्प्रमाणार्थं व्याख्यातत्त्वमिहेच्छसि ।। ५६ ।।
ब्रूहि यद्विदितं नोस्ति कथायिष्याम तद्धि ते९७ ।
श्रुतं वाप्यनुभूतं ९८ वा यथाशक्ति ९९ यथातथम्१००
. .... . . ... . । । । ५ ७। ।।
सुकेश उवाच
भवन्तो नरके घोरे परिक्लिष्टाः सुदारुणे ।
अतः श्रुतिज्ञाः सर्वेषां नरकाणामसंशयम् । ।५८। ।
तेषां सतत्त्वं योगञ्च १०१ कालभेदं तथा क्रमम् ।
तत्सर्वं श्रोतुमिच्छामि परं कौतूहलं हि मे । ।५९ । ।
कियन्तो१०२ नरकास्ते च किं प्रमाणाः किमाश्रयाः१०३ ।
किं रूपा के च यात्यन्ते१०४ कथं चैव सुदुःखिताः ।।8.36.६ ० । ।
- - - - - - - - - - - - - - - - - ।
- - - - - - - - - - - - - - - । ।६१ ।।
कथं च तप्यते जन्तुर्वाच्यते (?) च कथं तथा ।
कियता चैव कालेन नरकात् स विमुच्यते ।
मुक्तश्चोत्तिष्ठते केन कथं संसरते१०५ पुनः । ।६ २।।
- - - -- - -- - ---- - -- -- -- - -- - --
९४ परस्परं - घ. । ९५ वरन्तुदत्तं - ख. । ९६ प्रचरेश्वर - ग. । ९७ तद्विभो - घ । ९८ वा अनुभूतं - ख., यदनुभूतं वा - ग. । ९९ वृष्टं वापि - ख. । १०० यथाबलम् - घ. । १०१ त्वं - घ. । १०२ कीर्त्यन्ते - घ. । १०३ किमाश्रयात् - ख. । १०४ पात्यन्ते - घ. । १०५ सन्तरते - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
एतत्सर्वमशेषेण विस्तरेण यथातथम् ।
कथयध्वं महाप्रज्ञाः परं कौतूहलं हि मे१०६ ।।६३ ।।
तमुपेन्द्रपितामहेश्वरेशप्रवरेशं विदितार्थतत्त्वकोशम् ।
दुरितांकित - -मुक्तयोगं प्रतियोगं त्विदमाहुरग्रयोगम् ।।६४। ।
इति स्कन्दपुराणे सुकेश१०७ महाभाग्यं नाम षट्त्रिंशोध्यायः

सनत्कुमार उवाच
ततस्ते पितरस्तस्य प्रतिष्ठां१ स्वसुतं प्रति२ ।।
सुमर्माणमिति ख्यातं कथयामासुरव्ययाः ।।१ ।।
पितर ऊचुः
अयन्ते३ जनकः पुत्र४ सुशर्मा लोकविश्रुतः ।
कथायिष्यति तत्त्वेन यत्त्वया समुदाहृतम् । ।२ ।।
सनत्कुमार उवाच
ततः सुशर्मा विप्रर्षे तमामन्त्र्य५ महामनाः६ ।
उवाचेदं महासत्त्वं७ सुकेशं गणसत्तमम् । ।३ । ।
सुशर्मोवाच
सुकेश न वयं साक्षात् पतिता नरकार्णवे ।
त्वय्यालम्बितचित्तास्तु पतिष्यामस्त्वया विना । ।४। ।
किन्तु तद्यातनाभीताश्चिंतयामस्त्वहर्निशम् ।
कीदृशास्ते महाघोरा नरकाः श्रुतिदारुणाः ।।५।।
ततस्ते कथयिष्याम यथाप्रज्ञं यथाश्रुतम् ।
गणेश्वरेश८ शृणु मे९ नरका ये १० प्रकीर्तिताः ।।६।।
- - - -- - -- - ---- - -- -- -- - -- - --
१०६.. स्तत्सर्वं विस्तरेण तु - ष. । १०७ पितृपक्षे - घ. ।
१ पितरं - घ. । २ सुमहाप्रभं - घ. । ३ अयन्नो - घ. । ५८ पुत्रः - ग. । ५ तमोहंता - घ । ६ महाबलाः - घ. । ७... त्व - घ. । ८ गणेश्वर त्वं - घ. । ९ ये - ख. । १० मे - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
दुरासदा महादुर्गाः सर्व११ प्राणिभयंकराः ।.
प्रथमो नरकस्तत्र विश्रुतो यमलाचलः१२ । ।७। ।
द्वितीयः शाल्मलो नाम तृतीयः कालसूत्रकः ।
कुम्भीपाकश्चतुर्थश्च असिपत्रवनोपरः१३ ।।८।।
तथा वैतरणी षष्ठः सप्तमश्चाप्ययोघनः१४ ।
अष्टमः पद्म इत्येव महापद्मस्तथापरः ।।९।।
रौरवो दशमश्चैव महारौरव एव च ।
द्वादशश्च तमो नाम तमस्तमतरस्तथा१५ । ।8.37.१ ० ।।
एते महान्तो नरका उच्छ्रायाश्च तथापरे ।
एकैकस्योच्छ्रया ह्यष्टौ नरकास्तेपि कीर्तिताः ।। ११ । ।
उच्छ्रयेषु सविश्रामा यातना भवतीश्वर१६ ।
इतरेषु त्वविश्रामो विशेषो ह्येष१७ कीर्तितः । । १ २।।
तेषां सततदुःखं तु नॄणां पापेन कर्मणा१८ ।
भेदः क्षयाच्च१९ पापस्य क्रमस्तेषां प्रवक्ष्यते२० ।।१ ३ । ।
प्रमाणं तु गणेशेह न शक्यं२१ वक्तुमेकशः ।
विभुत्वात् कर्मणस्तस्य क्षयादन्तं प्रपश्यति२२ ।।१४।।
नरके पतितः२३ सर्वो नान्तं तस्य प्रपश्यति ।
क्षीणपापाः प्रपश्यन्ति यथा तच्छृणु मेव्यय ।। १ ५। ।
पतितो२४ नरके घोरे दुष्कृती स्वेन२५ कर्मणा ।
यात्यमानो२६ तिकरुणं२७ दिशमेकां प्रपद्यते । ।१ ६। ।
स गत्वा शीघ्रमध्वानं बहुयोजनविस्तृतम् ।
बहूनन्या२८ ननासाद्य तस्यान्तं२९ विनिवर्तते ।। १७। ।
- - - -- - -- - ---- - -- -- -- - -- - --
११ सर्वे - घ. । १२ यमलोचनः - घ. । १३... स्ततः परः - घ. । १४ यमः - घ. । १५ ततस्तमपरस्तमः - घ., स्तमोत्तमः - ग. । १६ त्वरः - ग. । १७ ह्यत्र - ख. । १८ तु पापकर्मणाम् - घ. । १९ भेदक्षयश्च - ख । २० प्रवर्तते - घ. । २१ न शक्यं - क. ग., वै शक्यते - घ. । २२ प्रयस्यति - ग. । २३... तितवः - क. ग. । २४ पातितो - ख, पतते - घ । २५ दुष्टतित्वेन - घ. । २६ पात्यमानो - घ., पात्यमानो पि - ख. । २७ करुणां - क. । २८... ध्या - क. ग. । २९ तस्मात - ग. ।
- - - -- - -- - ---- - -- -- -- - -- - --
विनिवृत्य ततो भूयो यात्यमानो विचेतनः ।
अन्या दिशं३० पुनर्गत्वा तथैव विनिवर्तते ।।१८।।
एवं सर्वा दिशो३१ गत्वा ह्यन्तमप्राप्य दुःखितः ।
यात्यते करुणं तत्र न कश्चिदिह विद्यते ।।१ ९।।
यातनान्ते त्वकरुणं३२ पापस्यान्ते ततः पुनः ।
प्रपश्यते३३ परिमितं परिच्छिन्नं च सर्वशः ।।8.37.२०।।
द्वारेण महता युक्तं ततस्तस्माद्विमुच्यते ।
एवं हि नरकास्सर्वे ह्यनन्ताश्चाक्षयाव्ययाः ।।२ १ ।।
न तेषां परिसंख्यानं योजनैस्संविधीयते ।
येन कालेन तु पुनर्जन्तुः पतति३४ दुःखितः । ।२२।।
यथा३५ चैतच्छृणु विभो कथ्यमानं मयानघ३६ ।
कृत्वा पापानि कर्माणि क्षयान्ते३७ दुष्टचेतनः३८ । ।२३ । ।
व्याध्याधियुक्तः क्लेशेन त्यजति स्वान्तनून् ततः ।
यमदूतैर्महापाशैर्बद्ध्वा दुःखसमीरितः । ।२४। ।
विषमेण पथा देव नीयते विकृताकृतिः३९ ।
अयोमयैः कण्टकैश्च विध्यमानस्ततस्ततः ।।२५।।
केशमज्जास्थिपंकैश्च४० दिह्यमान४१ स्समन्ततः ।
विषमेषु च गर्तेषु प्रपतन्भिद्यते पुनः४२ ।। २६ । ।
क्वचिच्चोपलवर्षेण महता सन्निकीर्यते ।
तत्र भिन्नशिरोजानुपादबाहूरूबन्धनः । ।२७।।
कृष्यते यमदूतैश्च पुनः कण्टकिभिर्द्रुमैः४३ ।
यात्यते४४ भिद्यते चैव वल्लीभिश्चा४५ वबद्ध्यते४६ । ।२८। ।
एवं बहुविधाकारैर्दुःखदैः पथिभिः प्रभो ।
नीयमानो वशः४७ क्लेशान् प्राप्नोति यमसादनम्४८ । २९।।
- - - -- - -- - ---- - -- -- -- - -- - --
३० दिशां - क. ग. । ३१ सर्वदिशो - ग. । ३२ तु करुण - ख. । ३३ प्रपश्यन्ते - - क ख । ३४ काले पुनः जन्तुः पथिभिः पथि - ख. । ३५ तथा - घ, वै - ख. । ३६ पतन्ति घोरेस्मिन् तत् शृणुह्यपरं विभो - घ., तयानघ - ख. । ३७ भ्रमन्ते - घ. । ३८ चेतसः - ख.,... चेतसां - घ. । ३९... ति - क. ग- । ४० केशामेध्यास्थिपंकैश्च - क. घ. । ठ १ दह्यमानः - क ख. घ. । ४२ प्रतापा (प्रपाता) विचेतनः - घ । ४३... र्वृतः - घ. । ४४ पात्यते - ख, पाद्यते - घ. । ४५ बलिभिश्चा - घ. । ४६. पि बध्यते. - घ. । ४७ नीयमना स वै - घ., वशं - क. । ४८ मयसाधनं - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
स ततो यममप्राप्य दूरादेव यमाज्ञया।
चित्रगुप्तमुपागम्य श्राव्यते कर्म यत्कृतम्।।8.37.३०।।
सोमोग्निर्वरुणो वायुः सूर्यश्चेति तदा नरम्४९ ।
साक्षिणस्तत्र जन्तूनां५० ब्रुवते यत् कृताकृतम्५१ ।।३१।।
उक्तो विभावितश्चैव चित्रगुप्तेन चोषितः।
नरके पात्यते आर्त्त५२ ऊर्ध्वपादो ह्यधःशिराः५३ ।।३२।।
तोमरै५४ श्चातितीक्षणाग्रैश्शरैश्चाथ परश्वधैः।
भिन्दिपालैर्मुद्गरैश्च अतिभिर्दीर्घवेधनैः५५ ।।३३।।
परिघैः करपत्रैश्च वज्रैष्टंकैर्हलोपलैः५६।
कीलैश्च मुशलैश्चैव क्षारपिष्टेन चैव हि।।३४।।
प्रदीप्तैश्चायुधैर्घोरैरग्निवर्षेण चाप्युत ।
हन्यमानो दिवारात्रं विनदन्५७ करुणं बहु ।।३५।।
वर्षाणां तु सहस्रेण नरकं प्राप्नुते शुभम्।
स तत्र पतितो भूयो यात्य५८मानः सुदुःखितः ।।३६।।
वर्षकोटिमविश्रान्तं५९ निरयान्तं प्रपद्यते।
महानरकमुक्तश्च उच्छ्रयान्तरमाश्रितः।।३७।।
शीतेन वायुना स्पृष्टः सुखं६० तत्र स विन्दति।
स तं विश्राममासाद्य विस्मृतो यातनां तदा ।।३८।।
मुहूर्त्तमाहृते६१ स्वप्ने राक्षसेनापकृष्यते।
स तेन कृष्यमाणश्च भूयो दुःखशुचार्दितः६२ ।।३९।।
करुणं बहुधातीव६३ प्रविलप्यावतिष्ठते६४।
ततो भूयः समाकृष्य यातनायां स राक्षसः।।8.37.४०।।
यातयत्येव ६५ तं जन्तुं सविश्रामं६६ सचेतसम्६७ ।
तत्र वर्षसहस्रं वै यातितः पुनरेव सः।।४१।।
- - - -- - -- - ---- - -- -- -- - -- - --
४९ तदाननम् - घ. । ५०.. स्सर्वजन्तूनां - ध. । ५१ कर्म यत् - क. ग. । ५२ निपतत्यार्त - क. ग., निपतत्याशु - घ । ५३. ..,त्यधशिराः - ख., ह्यधोमुखः - घ । ५४ तैरेतै - घ. । ५५ ऋष्टिभिर्दीर्घ- वेधनैः घ. भेदनैः- - ख घ- । ५६. ज्वलोपलैः - क घ. । ५७ विलप ( न्) - घ. । ५८ याप्य... - घ. । ५९ प्रविश्रम्य - कः ग,, स विश्राम्य - घ. । ६० दुःखं - क । ६१ मुहूर्ते प्रगते - घ । ६२ दुःखेन चार्दितः क ख । ६३ चैव - क । ६४ विप्रलप्यावतिष्ठते - क. । ६५ पातयत्येव? । ६६ जन्तुमवि-श्रामं? । ६७ सचेतनम् - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
अन्यस्मिन्नुच्छ्रये घोरे यात्यते६८ तावदेव हि ।
एवं स उच्छ्रयान् प्राप्य अष्टौ पापेन कर्मणा ।।४२ ।।
संसारे६९ कृमिकीटादिजन्तुः संप्रतिपद्यते ।
ये तु गच्छन्ति तान् घोरान् नरकान्७० पुरुषाधमाः। ।४३ ।।
तानहं संप्रवक्ष्यामि तव पुत्र समासतः ।
प्रथमो यो मया प्रोक्तो नरको यमलाचलः । ।४४। ।
यात्यन्ते७१ तत्र पुरुषा महानिरयगामिनः ।
पर्वतौ द्वौ भहासत्वसिंहव्याघ्रसमाकुलौ ।।४५। ।
शरभेभसमाकीर्णौ७२ बहुसर्पसमाकुलौ७३ ।
पक्षिभिर्विविधाकारैः पुरुषैश्चोद्यतायुधैः ।।४६। ।
वृक्षैरपर्ण्णैस्संयुक्तौ सूचीभिर्वज्रकण्टकैः ।
तयोरन्तरमेकं वै समं सूचीभिरावृतम् । ।४७।।
ऊर्ध्वाभिर्वज्रतुण्डाभिरभेद्याभिस्तथैव च ।
अन्यतः पुरुषैर्घोरैः शस्त्रपाणिभिरावृतौ७४ । ।४८। ।
प्राकारेण च लौहेन७५ समन्तात् परिवारितौ ।
आकाशे चापि लौहेन तौ जालेन७६ समावृतौ ।।४९ ।।
यात्यन्ते तत्र पुरुषा ये वै स्त्रियमनिच्छतीम् ।
आक्रमन्ति परक्यां७७ वै कन्यादूषक एव च । । 8.37.५० । ।
न्यासापहारकश्चैव तथा मांसापहारकः७८ ।
रसापहारकश्चैव यश्चापि परदूषकः । ।५१ । ।
इन्द्रियग्रामघाती च मिथ्यालिङ्गी तथैव च७९ ।
मृगश्वापदहन्ता च पृष्ठमांसाशिनश्च ये । ।५२ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
६८ पात्यते - घ. । ६९ ससार - क. घ.,.. र - ख. ग. । ७० तं घोरं नरकं - क. ख. घ. । ७१ पात्यन्ते - घ. । ७२... ण - ग. । ७३ समाकुलैः - ग. । ७४.. .रावृतैः - क । ७५ लोहेन - क. ख. ग. । ७६ तोजलेन - ख । ७७ पराक्यां - क., पाराक्य - ग., परकीया? ७८ मांसापहारकाः घ. । ७९ मिथ्यालापिन एव च - घ , मिथ्यालिङ्ग - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
वृथामांसाशिनो ये च हिंसां८० ये च प्रकुर्वते ।
एते नराधमाः पुत्र गच्छन्ति यमलाचलम्८१ । ।५ ३ । ।
यमलेषु८२ च जातेषु८३ यो न कुर्यान्नराधमः ।
प्रायश्चित्तमशुद्धात्मा स च तं प्रतिपद्यते । ।५४। ।
स प्रसन्नो यथोक्तैस्तैः पुरुषैः समभिद्रुतः ।
आयुधैश्छिद्यमानश्च८४ पर्वतं तं प्रपद्यते८५ ।।५५। ।
तत्र व्याघ्रैश्च८६ कुपितैः शरभैश्च८७ तरक्षुभिः ।
सर्पैर्विडालैः पतगैरयस्तुण्डैश्च भक्ष्यते ।।५६ । ।
तैर्भक्ष्यमाणो यदि च वृक्षं समधिरोहति ।
तत्र तैः कण्टकैस्तीक्ष्णैर्भिद्यते८८ पक्षिभिश्च ह । ।५७। ।
अथ चेत् कन्दरां तस्य गुहां वा यातुमिच्छति ।
तत्रापि ह्यग्निना दग्धो दुःखार्त्तो विनिवर्तते । ।५८। ।
अथ चेदन्तरं घोरं तयोः संप्रतिप्रद्यते ।
तत्र सूचीभिरुग्राभिः८९ पादयोर्भिद्यते नरः । ।५९ ।।
भिन्नञ्च तं समालक्ष्य९० ह्यशक्तमपसर्पणे ।
समागमम्याचलौ क्षिप्रं पीडयेतामतीव हि ।।8.37.६ ० । ।
पीड्यमानोचलाभ्यां स९१ यन्त्रेणेक्षुवदातुरः ।
करुणं क्रन्दमानस्तु यातनां तां समश्नुते । ।६ १ ।।
भक्षितस्याथ भिन्नस्य विलुप्तस्य च पक्षिभिः ।
दग्धस्य च नवं भूयः शरीरमभिजायते । । ६२ ।।
एवं स यात्यमानो९२ वै बहूनब्दान् सुःदुखितः ।
द्वारं लब्ध्वा विनिर्यात९३ उच्छ्रायेषु९४ निपात्यते । ।६३ । ।
- - - -- - -- - ---- - -- -- -- - -- - --
८० वृष - क. ग, विंश - रव्र । ८१ यमलोचनं - घ. । ८२ अपराधेषु - घ. । ८३ यातेषु - घ. । ८४... श्छिद्यमानाश्च - क. ग., छिद्यतेतमं - ख । ८५ स च तं प्रतिपद्यते - ख. । ८६ सिंहैश्च - ख. । ८७ शार्दूलैस्स - .ख. । ८८.?. र्भक्ष्यते - व. । ८९ सूचिभिरुग्राभिः - ग. । ९० ससालोक्य - घ । ११ च - क ख. । ९२ पात्यमानो - घ । ९३ विनिःसृत्य - क. ख. घ. । ९४ उच्छ्रयेषु - क. ।
- - - -- - -- - ---- - -- -- -- - -- - --
यमलाचलमेतमुग्रवेगं बहुधापापसमेत९५कर्मयोगम् ।
शृणुयाद्य अभीक्ष्णशोतिवेगं स न यात्येव९६ तमुग्रपापयोगम् । ।६४ ।।
इति स्कन्दपुराणे नरकवर्णने यमलाचलकथनं नाम सप्तत्रिंशोध्यायः

सुशर्मोवाच
अतः परं प्रवक्ष्यामि शाल्मलीनरकं पुनः ।
यात्यन्ते१ तत्र पुरुषाः सुभृशं२ पापकर्मिणः । ।१ । ।
शाल्मलीनां सहस्राणि बहूनि प्रवरेश्वर ।
उच्चास्सर्वाश्च ता घोरा बहुयोजनविस्तृताः ।।२ ।।
महाशाखा महापत्रा महाकण्टकसंयुताः३ ।
लौहेन महता चैव प्राकारेणाभिसंवृताः । । ३ । ।
जालेन महता सर्वा४ उपरिष्ठान् समावृताः ।
पुरुषास्तत्र तिष्ठन्ति बहवो रुषिताननाः । ४४।।
वज्रदण्डोपलधरा५ असिमुद्गरधारिणः ।
अन्यैश्च विविधाकारैरायुधैर्वृतपाणयः६ । । ५। ।
यातयन्ति भृशं जन्तूनवशास्ते८ सुदारुणाः९ ।
छिद्यमानाश्च तत्रापि राक्षसैः क्रूरकर्मभिः ।।६।।
दिशः प्रपद्यते सर्वा वेदनार्तः सुदुःखितः ।
व्रजते यत्र यत्रासौ तत्र तत्राभिहन्यते । ।७।।
गर्तेषु पतितं चैव राक्षसाः प्राप्य सर्वशः ।
शस्त्रैश्च विविधाकारै१० र्निकृन्तन्त्यतिदारुणाः११ । ।८ ।।
- - - -- - -- - ---- - -- -- -- - -- - --
९५ वहु पापस्य सहेत - ख. । ९६ याति - क ख. ग. ।
१ पतन्ति - घ. । २ स्वदृशं - घ. । ३ महाकंटकिभिर्द्रुमाः - ख. । ४ सर्वमुपरिष्टात् - घ. । ५ टंको- पलधारा - ख ग. । ६ धृ (र्धू) तपाणयः - ख. घ. । ७ पातयन्ति - क ख. ग, घातयन्ति - घ । ८ मुखरास्ते - घ । ९ सदावशा. - घ. । १० अन्यैर्नानाविधाकारै - क. । ११ निकृत्यन्तेतिदारुणैः - ख ।
- - - -- - -- - ---- - -- -- -- - -- - --
श्रावयन्तः१२ पुरानेन१३ कृतं पापं दुरात्मना१४ ।
भर्त्सयन्तश्च१५ दुर्वृत्तं पतितं क्वचिदेव हि१६ । । ९ ।।
तत उत्थाय भिन्नाङ्गः सोनुबद्धश्च राक्षसैः ।
सूचीकण्टकसंयुक्तं देशमन्यं प्रपद्यते ।।8.38.१ ० ।।
तत्र सूचीभिरुग्राभिः कण्टकैश्चायसैः पुनः ।
भिद्यमानो नदन्१७ दुःखान्निपतत्यतिदुःखितः ।। ११ । ।
तत्राप्येनं समासाद्य विविधायुधपाणयः ।
राक्षसाभिद्रवन्त्येव१८ वैरिणो१९ वैरिणं२० यथा । । १ २।।
तस्मादुत्थाय२१ वेगेन वृक्षं यद्यभिरोहति ।
तत्र२२ तैः कण्टकैस्तीक्ष्णैर्भिद्यते छिद्यतेपि च२३ ।। १३ ।।
पत्रैश्च२४ विविधाकारैरयस्तुण्डैश्च पक्षिभिः ।
हृतकर्णाक्षिनासोष्ठः पतितो धरणीतले ।। १४।।
तत्र सूचीभिरुग्राभिः सर्वाङ्गेषु विभिद्यते ।
एवं बहुविधाकारा यातनास्तत्र दुःखिताः ।।१ ५।।
प्राप्नुवन्ति दुराचारा ये तान्निगदतः२५ शृणु ।
अग्निदो गरदाता च वियोनौ२६ यश्च गच्छति ।।१ ६।।
पुंसि यो वोच्छृजेच्छुक्रं२७ विषदो मांसविक्रयी ।
समुद्रयायी दुष्टात्मा यश्चैको मिष्टमश्नुते२८ ।। १७।।
अतिथिन्नार्चयेद्यश्च२९ यश्च मिथ्याव्रती भवेत्३०।
ब्रह्मोज्ळ(?)श्च३१ विवासाश्च योपः प्रविशते द्विजः३३ ।।१८। ।
घण्टिको ग्रामयाजी च शूद्राध्यापक एव च३४ ।
तथा वार्धुषिको लुब्धो३५ ब्रह्मणश्चैव विक्रयी३६ ।।१९।।
- - - -- - -- - ---- - -- -- -- - -- - --
१२ श्रावयन्ते - ख. । १३ पुराणानि - घ । १४ महाबलाः - क. ग. घ. । १५.. न्त्येव - ख । १६ केचिदेव हि - क. । १७ रुदन् - घ. । १८... भिभवन्त्येवं - घ. । १९ वैरिणं - घ. । २० वैरिणो - घ. । २१ अस्मादुत्याय - ख. घ. । २२ अत्र - ख. । २३ वा - ख. । २४ यन्त्रैश्च क. ख । २५ तान्मे निगदतः - ग.,.. .मेतान्निगदितान् - घ. । २६ अयोनौ - क- घ. । २७ विन्यसे.. - क. घ., च्छृजते शुक्रं - क, गर्भं - घ. । २८ मृष्टमश्नुते - क. । २९ अतिथीन्नार्चयेद्यश्च - घ., यस्तु - ख. घ. । ३० मिथ्याचरति यो व्रती ऽ तं) - ख., मिथ्याप्रवी (ब्रुवो) - क. । ३१ ब्रह्महा - घ. । ३२ विवस्त्रश्च - ख. । ३३ नरः - ख । ३४ देवद्रव्याप्रहारकः - घ. । ३५.. कान्नाध्वा - घ. । ३६ विक्रेता चैव ब्रह्मणः -.. .विक्रेता ब्रह्मणस्तु- यः घ. ।
- - - -- - -- - ---- - -- -- -- - -- - --
एते गच्छन्ति दुर्वृत्ताः कूटशाल्मलिसंज्ञकम्३७ ।
कोटीद्वयेन तूत्तीर्णा३८ वर्षाणां वै पुनश्च३९ ते ।।8.38.२० ।।
उच्छ्रये४० पातिताः४१ स्तोकं कालं विश्राम्य वै पुनः ।
पात्यन्ते नरके तस्मिन् यावत् क्षीणं तदेनसम् ।
एषैव विधिरन्येषां नरकाणां मुने स्मृतः४२ । ।२ १ । ।
य इमं४३ भृशदुःखितोपलम्भं४४ सुकृतीनामतिदुर्गमाचलम् ।
शृणुयात् प्रयतः कुतूहलात्मा न स गच्छेन्निरयं हि शाल्मलम्४५ ।।२२।।
इति स्कन्दपुराणे नरकवर्णने कूटशाल्मलिकथनं नाम अष्टत्रिंशोध्यायः

सुशर्मोवाच
अतः परं प्रवक्ष्यामि१ नरकं कालसूत्रकम् ।
समन्तान्महतोच्चेन प्राकारेण सुसंवृतम् ।। १ । ।
लोहजालेन च तथा आकाशेप्यभिसंवृतः ।
यथैकश्च तथा सर्वे नरका अभिसंवृताः ।। २।।
सोच्छ्रयाश्चैव विज्ञेया न वक्ष्ये तानहं४ पुनः ।
लोकद्रुहो५ जनास्तत्र यात्यन्ते६ पुरुषाधमाः । ।३ । ।
ये हरन्ति स्त्रियं७ वापिविक्रेता८ यस्तथा९ गवाम् ।
धर्मस्य चात्मनश्चैव ब्राह्मणानां च निन्दकः । ।४। ।
छद्मना यश्च शास्त्राणि१० गुरुभ्योपह्नवेत्११ पुनः ।
गुरुं निन्दति यश्चापि १२ वितर मातरं तथा ।।५।।
- - - -- - -- - ---- - -- -- -- - -- - --
३७.. संज्ञके - ख. । ३८... द्वयं तु संयात्य - ख, द्वयं तु तत्तीर्णा - घ । ३९ पुरं च - ख. । ४० उत्थाय - घ. । ४१ पतिताः - घ. । ४२... णामुपस्मृतः - घ । ४३ इदं - ख. । ४४.. .पलभ्यं - घ । ४५ सांप्रतं - घ., शाल्मलिम् - ख ।
१ अतः परस्तृतीयस्तु - क., तृतीयन्तु - ख. । २ नरकः कालसूत्रकः - क । ३ सुसंवृतः - क. । ४ तदहं - क. । ५ शोकद्रोहं - क. ख., शोकद्रोहकरा - घ. । ६ पात्यन्ते - घ. । ७ श्रिय - घ. । ८ वाजिविक्रेता - ख, चाश्वं - घ. । ९ विक्रेतारस्तथा - घ. । १० दत्त्वा चैव महद्द्रव्यं - घ. । ११ शिक्षा निह्नवेत् - ख. । १२ यो गुरुं निन्दते चापि - क., शास्त्रं गृह्य गुरुं निन्देत् - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
श्वशुरं भ्रातरं ज्येष्ठं१३ तथा चान्यान् गरीयसः ।
आक्रोशयति१४ यस्तान्वै तथा चाप्यवमन्यते । ।६ । ।
आश्रमाणां तथा भेत्ता रहस्यानां च सर्वशः ।
अदत्तं यः समादद्यात् स गच्छेद् द्विज तत्र वै१५ । ।७। ।
ते तत्र पतिता घोरे नरके पापचेतसः ।
तिस्रः कोटीस्तु संपूर्णा वर्षाणान्तु नराधमाः ।
यात्यन्ते मृत्युवचनात्१६ क्रन्दमाना विचेतसः ।।८।।
कालसूत्रेण महता मित्वा मित्वा तु दुष्कतम् ।
छिन्दन्त्यङ्गानि जन्तूनां कुण्ठाग्रैरायुधैर्भृशम् । ।९।।
किंकरैस्तैरविश्रान्तं१७ दिवारात्रमतन्द्रितैः१८ ।
पूर्णे काले१९ ततो जंतुरुच्छ्रयान्२० प्रतिपद्यते । ।8.39.१ ०। ।
विश्राम्य स तदा जन्तुः पात्यते२१ नरके पुनः ।
यावदस्य कृतं पापं क्षीणं सर्वमशेषतः । ।१ १ ।।
य इमं बहुपापकर्तृसूत्रं शृणुयाद् दुष्करलोककर्मसूत्रम् ।
न स याति२२ तदुग्रदुःखसूत्रं नरकं तद् यमलोककालसूत्रम् । ।१ २।।
इति स्कन्दपुराणे नरकवर्णने कालसूत्रं नाम ऊनचत्वारिंशत्तमोध्यायः

सुशर्मोवाच
अतः परं प्रवक्ष्यामि कुम्भीपाकं महाभयम् ।
श्रोतॄणामपि तत्कालं१ भयदं ह्यकृतात्मनाम् । ।१ । ।
आयस्यस्तत्र ब्रह्मणश्च अञ्जनाचलसन्निभाः ।
कुम्भ्यस्तैलेन२ संपूर्णा वह्निवर्णाः३ सुदुःसहाः । ।२ । ।
दुष्कृतीन्४ तासु तप्तासु५ बद्ध्वा बद्ध्वा महाबलाः६ ।
क्षिपन्ति७ राक्षसा घोराः८ क्रन्दमानाः सुभैरवम् ।।३ ।।
- - - -- - -- - ---- - -- -- -- - -- - --
१३ श्रेष्ठं - घ. । १४ आकोश... - क. । १५ कालसूत्रकम् - ख. । १६ मृत्युवदनात् - ख. । १७... रविश्रान्तै - ख. । १८ रात्रावतन्द्रिताः - ख,... तं - क. । १९ गते काले - घ. । २०... राश्रयं - घ. । २१ जन्तुर्जायते - घ. । २२ गच्छति - ख. ।
१ यं श्रुत्वा - ख. । २ कुम्भास्तैलस्य - क. । ३ वह्नितप्ताः - ख. । ४ दुष्कृतीनां - क. । ५ सुतप्ताश्च - क., ६ भयावहाः - क., महाबलैः - ख. । ७ क्षिप्यन्ते - ख. । ८ राक्षसैर्घोरैः - ख. ।
- - - -- - -- - ---- - -- -- -- - -- - --
वर्षकोटीश्चतस्रश्च९ पच्यन्ते तत्र जन्तवः ।
ये तानिमान्निबोध त्वमुच्यमानान्मया विभो ।।४।।
इष्टकापाककारी१० च कुम्भपाककरस्तथा११ ।
तौ विनाशयते यश्च अग्निदो यो१२ गृहेषु च ।। ५। ।
वने खलेथ गोष्ठे वा अन्नपानविनाशकः ।
भोजने विघ्नकारी च यज्ञहा यज्ञदाहकः । । ६। ।
कूटकर्मकरो यश्च कूटसाक्षी तथैव च ।
मिथ्याग्निचयनी चैव मिथ्याग्न्याहरणी तथा । ।७। ।
मिथ्यापाकप्रदाता च वेदानां यश्च दूषकः ।
हर्तोपकरणानां च शिल्पिनां यो नराधमः । ।८। ।
एवं ते यातितास्तत्र विश्रामं पुनरुच्छ्रये ।
संप्राप्य नरके भूयो निपतन्ति क्षयान्तिकम् ।।९। ।
य इमं बहुदुष्कृतान्तपाकं शृणुयाद्वा मनुजो हि कर्मपाकम् ।
न स गच्छति तं दुरात्म१३ पाक१४ नरकं साधनदुःखकुम्भिपाकम्१५ ।।8.40.१ ०।।
इति स्कन्दपुराणे नरकवर्णने कुम्भीपाको नाम चत्वारिंशोध्यायः


आगामी पृष्ठः (अध्यायाः ४१ - ५०)