पूर्ववर्ती पृष्ठः(अध्यायाः १२१ - १३०) | आगामी पृष्ठः (अध्यायाः १४१ - १५०)



सनत्कुमार उवाच
अथापश्यत्तदायातान् भगवान् गणनायकान् ।
स्वैरनीकैस्सुबहुशः सन्नद्धान् युद्धलालसान् ।।१ ।।
दिण्डिञ्च भारभूतिञ्च सोमशर्माणमेव च ।
करिकं मेघनादं च उदरेमणिमेव च । ।२ । ।
आसत्तिं धूतपापं च चन्द्रमौलिनमेव च ।
आदित्यमालं विक्रान्तं सुकेशं च महाबलम् । ।३ ।।
तालकेतुं ज्वरञ्चैव दण्डपाणिनमूर्जितम् ।
एतांश्चान्यांश्च विख्यातान् गुह्याँश्च गणनायकान् ।।४।।
महागणपतिञ्चैव खोठामुद्गरमेव च ।
संपूज्य भगवान् सर्वान् प्रसाद्य१ च पुनः पुनः । ।५।।



५९... मीश्वरं - क. ख. । ६० विप्रहायान्यकार्याणि - क. । ६१ मुद्यतान् - क. ।
१ प्रसह्य (?) क., संभाष्य - घ. ।

724
उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः ।
दानवैः सह यूयं मे योद्धुमर्हथ सत्तमाः । । ६ । ।
यूयमेव गणाध्यक्षाः पर्याप्तास्तान्प्रबाधने ।
तस्माद्यूयं महासत्वाः सगणाः सपदानुगाः ।
गच्छध्वं संविनाशाय पूजितोस्मि महाबलाः । ।७। ।
त एवमुक्ता देवेन प्रणम्य शिरसा हरम् ।
विप्रजग्मुर्महात्मानो देवोपि संप्रतिष्ठत२ । । ८ ।।
ततः समभवच्छब्द उदधेरिव भिद्यतः ।
अन्धकासुरसैन्यस्य मन्दरं समुपेयुषः । । ९। ।
निशम्य दानवारावं श्रोत्रायासकरं भृशम् ।
प्रमथा३ रुरुधुर्घोरं४ युगान्ते जलदा इव । । 8.131.१० । ।
तावन्योन्यबलोद्धूतावभूतां५ सैन्यसागरौ ।
प्रलयान्त इवोद्धूतौ भिद्यमानौ महार्णवौ ।। ११ ।।
देवदेव उवाच
जुहुध्यरिविनाशाय६ ब्रह्मन्नस्मज्जयाय च ।
त्वं चापि नन्दिन् रक्षस्व सर्वैरेतैर्गणैर्वृतः । । १ २। ।
आकाशस्थाश्च ये ह्येते नदन्त्यम्बुमुचो यथा ।
आकाशगानेव रिपूनेते बाधन्तु७ दानवान् । । १३ । ।
सनत्कुमार उवाच
इत्युक्तौ तौ प्रारभेतां८ कर्तुं भगवतो वचः९ ।
बृहस्पतिर्जुहावाग्निं नन्दी चापि ररक्ष१० तम्११ । । १४। ।
व्यायच्छद्भिर्महद्भिश्च प्रमथैर्मन्दरो गिरिः ।
विप्रस्थित इवाभाति स्रस्तकुञ्जरकेसरिः । । १ ५। ।
ततोन्धकबल दृप्तं दृष्ट्वा सिंहबलं यथा ।
आरोहमाणं तत्तूर्णं चालयत्तमिवाचलम्१२ । । १ ६। ।


२ समतिष्ठत - क. । ३ प्रथमा - ख, । ८ रुरुवुर्घारं ( ?) । ५ भवतु - क., बभतुः - ख । ६ जुह्वत ।- रिविनाशाय - क., जुह्वतो... - ख. । ७ धावन्तु - य्व्र. । ८ प्रारभेते - क.,. तं - ख. । ९ इत्युक्तोसौ चकाराशु तत्तत्कर्म विचार्य च - घ. । १० ररक्षि - ख । ११ ताम् - क., सः - घ । १२ चालयन्त- मिवाचलम् - क. ख. ।

725
ततो हलहलाशब्दः प्रमथानामजायत ।
दैत्यान् वारयतां युद्धं तरुपाषाणसायकैः । ।१७।।
दानवा वार्यमाणास्तु प्रमथैर्जितकाशिभिः ।
विदार्य प्रमथानीकं शीघ्रमारुरुहुस्तदा । । १८।।
प्रमथा ह्यपि निस्सङ्गं१३ योद्धव्यमिति निश्चिताः ।
चिच्छिदुर्बिभिदुश्चैव पफलुश्च सुरेतरान्१४ । । १ ९। ।
गृह्णीष्व१५ मुञ्च तिष्ठेति स्थितस्त्वं किं करिष्यसि ।
एवं वाचः समुत्तस्थुः प्रमथासुरसैन्ययोः । ।8.131.२ ० । ।
समूलाग्रैस्तरुवरैः१६ पर्वतैश्च सपादपैः ।
अन्योन्यं चूर्णयन्ति स्म निर्घृणाः प्रमथासुराः ।।२१ ।।
ततो दाक्षायणीपुत्रैर्दक्षाध्वरविनाशनाः ।
पराङ्मुखा न शकिताः कर्तुं भक्त्यपराङ्मुखाः१७
सनत्कुमार उवाच
अरोहणेचलाग्रस्य१८ अशक्तान् निर्जितान् रिपून् ।
देवोपलभ्य प्रमथानवारयदशेषतः । । २३ । ।
देवदेव उवाच
आरोहन्तु दनोः पुत्रा१९ मन्दरं चारुकन्दरम ।
क्रीडार्थं मम युध्यध्वमेभिस्सह गणाधिपाः । । २४। । ददृशुरनेकचारुकुञ्जस्थितमृगराजविमुक्तभीमनादम् ।
प्रसृतगजकुलाभिघातरुग्ण२० क्षितिरुहपुष्पसमाचितप्रदेशम् भुजगपतिशिरोमणिप्रदीपप्रतिहतचारुशिलागृहान्धकारम् ।
शिशिरविमलनिर्झराम्बुवेगस्फुटितमहोपलजालदृष्टरन्ध्रम् । ।२६।।
क्वचिदभिनवताम्रपल्लवाग्रप्रतिहतबालदिवाकराशुजालम् ।
क्वचिदमरविलासिनीमुखेन्दुप्रविरचितस्फुटचारुपत्रलेखम्२१ । । २७। ।



१३ सन्नद्धः - - ख. । १४ परेतराट् - क. । १५ गृह्णीष्व - क. ख. । १६ समूलाग्रैस्तरुवरैः - क. । १७ भक्त पराङ्मुखाः क । १८ वनाग्रस्य - घ । १९ आरोहत यदाकामं - घ । २० भुग्न (?) । २१ चित्रलेखम् - ख. ।

726
क्वचिदनिलविधूतचारुपुष्पस्तबकविचित्रितकाननप्रदेशम् ।
स्फटिकमणिशिला२२ तलोपविष्टस्थितकपियूथविलोकितात्मदेहम् ।।२८।। सुरयुवतिनिकेतबर्हिकेकाश्रवणसुखप्रतिबुद्धसिद्धसार्थम् ।
कमलदलरजःसुगन्धितोयस्थितकलहंसकलप्रलापरम्यम् । ।२९। ।
दिनकरकरतप्तसूर्यकान्त२३ प्रविगलिताग्निविलीनहेमधातुम् ।
क्वचिदभि२४ पतितांशुचन्द्रकान्त२५ प्रविसृतशैलनदीविकीर्णतोयम् । ।8.131.३ ० ।। वरहरिकरवज्रसन्निपातस्फुटितमहागजकुम्भ२६ मौक्तिकौघैः२७ ।
सितकुसुमचयैरिव प्रकीर्णैः क्वचिदुपशोभितविस्तृतोपकण्ठम् । । ३१ । ।
प्रमुदितगणभैरवाट्टहासप्रसृतमहारवपूरितान्तरालम् ।
तरुगहनलतागृहान्तलीनप्रमुदितसिद्धवधूप्रनृत्तरम्यम् । । ३ २। ।
बहुकटकविचारिमत्तनागं२८ बहुमृगशाव२९ निपीतनिर्झराम्बुम्३० ।
बहुविषमतटप्रपातकुञ्जं३१ बहुविधगुल्मलतावतानवृक्षम् ।।३४।।
मरकतमणिपद्मरागशृङ्गद्युतिशबलीकृतपादपादपाग्र्यम् ।
अलिकुलकलकोकिलाविनादप्रचुरविनादितचारुकाननान्तम् ।।३४। ।
यस्मिन्३२ सदा प्रमुदिता जितमृत्युशोका
गोरोचनाञ्जनशिलालनिधानसिद्धाः ।
सिद्धाः सदा प्रमुदिता वनितासहाया३३
स्तिष्ठन्ति चन्द्रकिरणोपमचारुहाराः ।। ३५। ।
विद्याधराः३४ प्रियतमाविनिबद्धरागाः
पीनेषु तुङ्गतटवत्सु पयोधरेषु ।
धातूत्करैर्हरितरक्तपिशङ्गवर्णै-
र्यत्रालिखन्ति३५ विविधान् कुसुमावतंसान् । । ३ ६। ।
यस्मिन सदा सुरतखेदितगात्रयष्टयः
कान्ताग्रहस्तविनिवेशितहस्तपद्माः ।
सेवन्ति निर्झरजलप्रणयातिशीत३६
मभ्यागतं३७ पवनमप्सरसोतिहृष्टाः३८ ।। ३७ ।।


२२ शिखा - क । २३. तापसूर्यकान्त - क. ख । २४. दर - क ख. । २५ चन्द्रकान्ति - क. । २६ गण्ड (?) । २७ मुक्तिकौघम् - ख., मौक्तिकौघा - ख. । २८ विचारितमत्तनागं - ख । २९ सार्थ - ख. । ३० निर्झरोदम् - (?) । ३१ कूजद् - ख. । ३२ तस्मिन् - क । ३३ विनितासहायाः - क. । ३४ विद्याधरा - क. ख. । ३५ किरन्ति - क. । ३६ गीत - ख । ३७ मन्यागतं - ख. । ३८... धिहृष्टाः - ख. ।

727
नूपुररावविबोधितहंसं हसतनूरुहघट्टितपद्मम् ।
पद्मरजोरुणितामलतोयं तोयपरिष्कृतकाञ्चनशृङ्गम । । ३८।।
शृङ्गसमुत्थितचन्दनवृक्षं३९ वृक्षसमास्थितकोकिलवृन्दम् ।
वृन्दविमुक्तगजेन्द्रनिनादं नादभयाकुलितर्क्षतरक्षुम्४० । ।३९।।
ऋक्षतरक्षुनिलीननिकुञ्जं कुञ्जगुहामुखनिर्गतसिंहम् ।
सिंहविदारितनैकपकुम्भं कुम्भविनिर्गतमौक्तिकरत्नम् । ।8.131.४०। ।
रत्नमयूखविभासितपृष्ठं पृष्ठसमास्थितशङ्करपादम४१ ।
पादसमुत्थितपादपषण्डं४२ षण्डलताकुसुमोत्करमार्गम् । ।४१ ।।
मार्गमार्गमणितोरणचित्रं चित्रचित्रमणितोरणपट्टम् ।
पट्टपट्टविनिवेशितपुष्पं पुष्पपुष्पपरिचुम्बितभृङ्गम् । ।४२ । ।
नानाधातुविचित्रनितम्बं नानापुष्पलतागृहरम्यम् ।
नानामत्तविहङ्गमघुष्टं नानाशृङ्गसमास्थितसिद्धम्४३ ।।४३ ।।
तन्मन्दरं विविधचारणसिद्धसंघै४४ रम्यं स्वयं त्रिनयनेन कृताधिवासम् ।
दैत्यास्तदा भगवतानुमतप्रवेशाः सर्वे समारुरुहुरात्म(?) जयैषिणस्ते४५ । ।४४।।
ततो विसृष्टाः प्रमथैरारोहन्त दितेः सुताः ।
मन्वानाः प्रमथा भीता निवृत्ता इति सत्वरम् ।।४५। ।
मन्दरस्य ततः पृष्ठे नानाद्रुमसमाकुले ।
बद्धस्कन्धाः४६ स्थिता दैत्या आदित्यसदृशप्रभाः । ।४६।।
स मन्दरो भीमशिलोपलद्रुमो विवृद्धशार्दूलतरक्षुवारणः ।
महासुरैर्दर्पितवाजिवारणैर्विकीर्यते मेघ इवानिलै४७र्भृशम्४८ । ।४७।।
क्षिपन्ति शुभ्राभ्रनिभाः शिलाः क्वचित् तरून्समुत्पाट्य नदन्ति मेघवत् ।
निवार्यमाणाः प्रमथान्४९ समार्दयन् वनेषु सिंहा मृगयूथपानिव ।।४८।।
ततस्तु तद् गजरथवाजिदानवैः समावृतं क्षुभितमहोदधिप्रभम् ।
विराजते दितिसुतबाहुपालितं वनं यथा मृगपतिबाहुपालितम् ।।४९। ।
इति स्कन्दपुराणे अन्धकयुद्धोपक्रमे मन्दरवर्णनं नाम एकत्रिंशदुत्तरशततमोध्यायः



३९ - समुच्छ्रितचन्दनवृक्षं (?) । ४०. .कुलमृक्षतरक्षुम् - क । ४१ समर्पितशङ्करपादम् - ख. । ४२ समुच्छ्रित- -पादपषण्डं (?) । ४३ समाश्रितसिद्धम् (?) । ४४ सिद्धसंघं - ख. । ४५ शत्रुजयैषिणस्ते - क. ख. । ४६ बद्धस्कन्धा - क. ख. । ४७ इवानलै - क. ख. । ४८. र्वृतम् - क. । ४९ प्रमथाः - क. ख. ।

728
सनत्कुमार उवाच
मन्दरप्रस्थमासाद्य सोन्धको दानवाधिपः ।
प्राञ्जलिः शुक्रमाहेदं शक्रार्कसदृशद्युतिम्१ ।। १ । ।
अन्धक उवाच
प्राप्ताः स्म भगवञ्छैलं२ मन्दरं चारुकन्दरम् ।
प्रमथैर्भीमसंकाशैः सन्निरुद्धशिलातलम् । । २ । ।
खेचरा मायिनश्चैव योगिनश्च महाबलाः ।
प्रसभं दानवैर्जेतुं३ न शक्या गणनायकाः । ।३ ।।
प्रायेण बलवन्तोपि ह्युपायेनैव साधवः ।
कार्येष्वादौ प्रवर्तन्ते पश्चात्तु विपरीतवत्४ । ।४। ।
तदुपायं५ समास्थाय विशेषेण समाहिताः ।
प्रमथान् संप्रबाधाम यथा वा रुचितं तव६ ।।५।।
स त्वमस्मज्जयप्रेप्सुर्दानवानां जयाय च ।
कुरु देव गिरिव्यूहं परव्यूहविदारणम्७ ।। ६। ।
के चेमे सूर्यकोटीनां प्रभावर्णवपुर्धराः ।
प्रमथानीकमध्येषु स्थिताः पश्यन्ति मां मुहुः ।।७। ।
सनत्कुमार उवाच
ततोन्धकवचः श्रुत्वा क्रुद्धो दैत्यपुरोहितः ।
उवाच दैत्याधिपतिं गोपतिं दर्शयन्निव । ।८। ।
शुक्र उवाच
य एष मधुपिङ्गाक्षस्त्र्यम्बकश्चन्द्रभूषणः ।
व्याघ्रचर्माम्बरधरो देव एष पिनाकधृक् । ।९।।
यस्त्वेष कपिसिंहास्यो नीलवस्त्रश्चतुर्भुजः ।
तरुणार्कसमो भाति नन्द्येष गणनायकः ।। 8.132.१० । ।
तनुरुच्चोग्निसंकाशो य एषोग्निरिवोज्ज्वलः ।
ब्राह्मणाधिपतिर्ह्येष८ बृहद्बुद्धिर्बृहस्पतिः । ।१ १ । ।


१ सहस्रार्कसमद्युतिम् - घ । २ ते प्राप्ताः स्म वयं शैलं - घ. । ३ प्रसभैर्दानवैर्जेतुं - क. । ४ ततो विजय- माप्नुयुः घ. । ५ तमुपायं - क. ख. । ६ वचः - ख. । ७ विधारणम् (?) । ८... पतिर्येष - क. ख. ।

729
य एष नातिदूरस्थो वृषकेतोस्त्रिशूलधृक् ।
एषोन्धक महाकायो महागणपतिर्वरः । । १२ ।।
यैष९ आस्थाय कूजन्तं भाति चित्रकलापिनम् ।
मयूरं बालसूर्याभः शक्तिपाणिर्महाबलः । । १३ । ।
ब्रह्मण्यो ब्रह्मनिरतो ब्रह्मचारी यतव्रतः ।
स्कन्द एष१० हि देवानामग्रणीर्दानवा रणे११ । । १४। ।
य एष ताम्रचूडस्थस्ताम्रचूडशिलाप्रभः१२ ।
शक्तिमुल्लोलयन्१३ भाति१४ तोयदस्तडितं यथा । । १५ । ।
काकपक्षधरो ह्येष पूर्णचन्द्रनिभाननः ।
विशाखो नाम कौमारः१५ कौमारब्रह्मचर्यवान् ।। १ ६।।
तरुणस्तरुणप्रज्ञस्तरुः शाखायुतो यथा ।
स्वाहायास्तनयो ह्येष शाखो नाम१६ महाद्युतिः । । १७। ।
एतस्य यो ह्यसौ पार्श्वं१७ सव्यमावृत्य१८ तिष्ठति ।
दर्शयानः प्रदेशिन्या माञ्च त्वाञ्च पुनःपुनः । । १ ८। ।
मेषमास्थाय बलवान् बाल१९ एव२० व्यवस्थितः ।
नैगमेष इति ख्यात एषोन्धक हरात्मजः२१ ।। । १९ ।।
चतुर्भिरेष पुत्रैस्तु दृश्यतेसुरहा वृतः ।
देवैश्चतुर्भिः संपृक्तो यथैव हि पितामहः । 8.132.२० । ।
देवमीशं महेष्वासं नन्दिसूनुपुरस्सरम्२२ ।
व्यतियुध्या२३ सुरश्रेष्ठ मन्मन्त्रपरिपालितः२४ । ।२ १ । ।
प्रमथैर्निहतान् दैत्यान् शतशोथ सहस्रशः ।
अहमुत्थापयिष्यामि शस्यानि जलदो यथा । ।२२ । ।



९ य एषा - -क, य एषो. - ख । १० एषो - क. ख । ११ दानवानृणे - क ख., दानवाधिप। - घ. । १२ चूर्णशिलाप्रभः - क., चूडानखि... - घ. । १३ मुल्लालयन् - क.,... मुल्लापयन् - घ. मुत्तोलयन् (?) । १४ याति - घ. । १५ गणपः - घ. । १६ विशाखोपि - घ. । १७ पार्श्वे - क । १८ समाश्रित्य च - घ. । १९ बल - ख. । २० एवं (?) । २१ महात्मजः - क । २२ पुरन्दरम् - क । २३ विधियुक्त - क. । २४... समन्त्रपरिपालितः - क. ख. ।

730
सनत्कुमार उवाच
तं२५ भार्गव इति प्रोच्य दानवान्२६ दानवाधिपम् ।
गिरिव्यूहेन तत्सैन्यं प्राक्रमद् व्यूहितुं ततः ।।२३।।
मूलेन्धकरथं कृत्वा सान्धकं साश्वसारथिम् ।
पादातै२७र्बहुसाहस्रैः पादान् तस्य चकार ह ।।२४।।
तेषु पादसहस्रेषु गिरिव्यूहस्य दानवैः ।
वृक्षशैलशिलासंघान् कारयमास भार्गवः ।।२५।।
कोटिभिर्दशभिस्तस्य दानवानां महात्मनाम् ।
नितम्बाँस्ताम्रनयनान् प्रचकार ग्रहेश्वरः ।।२६।।
धातुनिष्यन्दचित्रेषु२८ नितम्बेष्वपि दानवान् ।
तृणवत् क्षुपवच्चापि स्थापयामास भार्गवः ।।२७।।
त्रिंशता कोटिभिश्चापि त्रिदशाधिपविद्विषाम्२९ ।
गिरिव्यूहस्य शृङ्गाणि चकारार्कसमप्रभः३० ।।२८।।
तेषु शृङ्गेषु तुङ्गेषु दानवान्सायुधानथ ।
अमी प्रपाता इत्येवमाचख्यौ३१ भृगुनन्दनः ।।२९।।
ते प्रपातस्थिता दैत्या नीलाम्बुधरवर्चसः ।
शस्त्रतोयानि मुदिताः क्षरन्त इव संस्थिताः ।।8.132.३० ।।
बलस्था ये जवोपेता दैत्या दैवतकण्टकाः३२ ।
श्येनवत्ते भ्रमित्वा तु निलीनाः३३ स्युर्गिरिव्रजे३४ ।।३१।।
निवातकवचान् सर्वान् विविधायुधधारिणः३५ ।
अकरोद् भार्गवो देवो गिरिव्यूहस्य सानुवत्३६ ।।३२। ।
प्रह्रादमथ संह्रादमनुह्रादं शिनिं तथा ।
जम्भं कुजम्भं तारञ्च मयं नमुचिमेव च ।।३३।।


२५ स - क. । २६ तदिदं - घ. । २७ पादपै - क ख. । २८ विष्यन्दचित्रेषु - क. ख. । २९ विद्विषोः - क. । ३० चक्रार्कस्य समप्रभः - ख. । ३१ माचि. क ख. । ३२ देवतकण्टकाः - क. । ३३ न्यलीयन्त - ख. । ३४ गिरिवद् व्रजे - क. । ३५ पाणयः - क. ख. । ३६ सानवः - क., रक्षकान् - घ ।

731
विरोचनं बलिं बाणं वातं कार्तस्वनं कुशम्३७ ।
शम्भुं च भावयत्यं३८ च इल्वकं विल्वकं३९ तथा ।। ३४।।
वितं वृत्तं तुहुण्डं च हुण्डं दण्डं च दानवम् ।
अञ्जनं रुषणं राहुं स्वर्भानुमजकं गजम् । ।३५।।
हस्तिदुर्योधनौ चैव पाकं धुन्धुञ्च दानवम् ।
एतांश्चान्यांश्च बलिनो दैत्यान्दैवतकण्टकान्४० । ।३६।।
व्यूहं रक्षत युध्यध्वमित्युवाचासुराधिपः ।
हिमवानिव शैलेन्द्रो विन्ध्यो वाद्भुतगह्वरः ।।३७।।
स गिरिव्यूह आभाति शस्त्रकण्टकितद्रुमः ।
अन्धकारमिवैकस्थं मेघानामिव संचयम् । । ३८। ।
दृष्ट्वा दृष्ट्वा गिरिव्यूहं प्रमथा विस्मयं ययुः ।
पर्वतव्यूहमालोक्य पर्वतव्यूहसंस्थिताः ४१ ।। ३ ९।।
नेदुस्तेसुरशार्दूला मेघा लोकात्यये यथा ।
ऊचुश्च न हि शक्योयं भेत्तुं देवैस्सवासवैः ।।8.132.४० ।।
प्रमथाः किं करिष्यन्ति स्वल्पवीर्यपराक्रमाः ।
जीवयिष्यति नः शुक्रो मृतानपि न संशयः ।
युध्यध्वं दानवश्रेष्ठा निश्शङ्कैरन्तरात्मभिः । ।४१ । ।
सनत्कुमार उवाच
गिरिव्यूहं ततो दृष्ट्वा भार्गवोत्तमनिर्मितम् ।
देवः कपर्दी प्राहेदं बृहद्बुद्धिं बृहस्पतिम् ।।४२।।
वाचस्पते गिरिव्यूहं पश्य शुक्रेण निर्मितम् ।
शृङ्गवन्तं दरीवन्तं हिमवन्तं यथा गिरिम् । ।४३ । ।
लोकान् सजलपातालान् सविष्णून्४२ सपितामहान् ।
ग्रसेदेष गिरिव्यूह४३ उपेक्षा क्रियते यदि४४ ।।४४। ।


३७ कुभम् - ख., बलं - घ. । ३८ शुंभं च पवनं यक्षं - घ., भावयच्यं - ख, सावपत्यं - क । ३९ पिल्वकं - क., पिण्वक - घ. । ४० दैतेयान्दनुजांस्तथा - क. । ४१ संधितम् - क । ४२ सविष्णुं - क. । ४ । गिरिव्यूहो - क. ख. । ४४ उत्क्षेपः - ख., यदि चायमुपेक्ष्यते - घ, यद्युपेक्षेत सांप्रतम् (?) ।

732
नैनं देवा न गन्धर्वा न नागा न नगास्तथा ।
शक्नुयुर्भेत्तुमुद्युक्ता विनैतान् गणनायकान् । ।४५ । ।
गिरिव्यूहस्य विप्रेन्द्र नान्यं४५ पश्यामि भेदनम् ।
वज्रव्यूहमृते धीमन् सर्वव्यूहभिदं महत् । ।४६। ।
स त्वं ब्रह्मविदां श्रेष्ठ गिरिव्यूहविदारणम् ।
वज्रव्यूदहं कुरुष्वाद्य प्रमथायुतसंवृतम् । ।४७ । ।
शम्भुना चैवमुक्तस्तु ब्राह्मणेन्द्रो४६ बृहस्पतिः ।
वज्रव्यूहेन तं४७ व्यूह प्रत्यव्यूहत्तदा४८ नवम् । ।४८ । ।
बाहुजान् बहुसाहस्रान् भक्ताँश्चैव४९ गणाधिपान् ।
वज्रव्यूहस्य मध्ये वै स्थापयामास बुद्धिमान् । ।४९। ।
स्कन्दस्य पार्षदैः शूरैः सुरासुरनिघातिभिः ।
सहस्र पर्वणां तस्य वज्रव्यूहस्य निर्ममौ५० ।। 8.132.५० । ।
कोटिं कोटिप्रवीराणां प्रमथानां प्रहारिणाम् ।
वज्रधारासु सर्वासु स्थापयामास स द्विजः । ।५१ । ।
कुमारञ्च विशाखञ्च शाखं छागमुखं तथा ।
चकार सोङगिरा देवो वज्रव्यूहस्य कुड्मलम् । ।५२ ।।
कुड्मलाग्रे चतुर्बाहुः कपीन्द्रवदनोरिहा ।
स्थितो वज्रोद्यतकरो नन्दी दिनकरप्रभः । । ५३ । ।
कुण्डोदरं नन्दिषेणं५१ घण्टाकर्णं महोदरम् ।
पश्चार्धे तस्य वज्रस्य कुड्मलं सन्न्यवेशयत्५२ । । ५४। ।
सोमनन्दी तु तस्याग्रे व्याघ्रवक्त्रो गणेश्वरः ।
सार्कचन्द्रायुतप्रख्यः५३ स्थितो वै पट्टिशायुधः५४ ।।५ ५ ।।
रुद्राणां५५ द्वारपालाश्च रुद्रा रुद्रसुताश्च ये ।
इतश्चेतश्च विन्यस्ता वज्रव्यूहाभिरक्षिणः । ।५६ । ।


४५ नान्यत् (?) । ४६ प्राणेन्द्रो च - क । ४७ तद् (?) । ४८ प्रति व्यूहतदा - ( ?) । ४९ रक्तश्वेता - घ, रक्ताँ (?) । ५० निर्मिमौ - क, निर्ममे - घ. । ५१ नन्दिसेन - ख । ५२ सन्निवेशयत् - क, स न्यवेशयत् - ख । ५३ सार्कचन्द्रायुधप्रख्य - क ख । ५४ पट्टशायुधः - क. ख. । ५ ५रुद्राश्च - घ. ।


( ७३३ )
वज्रव्यूहस्य मध्ये तु रथवर्ये प्रतिष्ठितः ।
तस्थावीशो भव:५६ शर्वः कपर्दी नीललोहितः ।।५७।।
तस्य केतुर्महाञ्छ्वेतो विभातीन्द्रध्वजोपमः५७ ।
मन्दरश्चन्द्रबिम्बेन जुष्टश्रृङ्ग इवाचलः ।।५८।।
शतधारो नैकपर्वा चारुशोभितकुड्मल: ।
वज्रव्यूहो गिरिव्यूहं भेत्तु काम इवाभवत् ।।५९।।
तं दृष्ट्वा निर्मितं व्यूहं देवगन्धर्वगुह्यकाः ।।
साधुसाध्विति वै नेदुर्विस्मयोत्फुल्ललोचनाः ।।8.132.६०।।
अथ गणपबलेषु सिंहनादाः
पणवमृदङ्गमशंखनादमिश्राः५८।। 5 ।।
दितितनयभयप्रदाः प्रवृत्ताः
क्षुभितसमुद्रपयोदनादकल्पाः ।।६१ ।।
इति स्कन्दपुराणे अन्धकमथने व्यूहरचनानाम द्वात्रिंशदुत्तरशततमोध्यायः५९ ॥
सनत्कुमार उवाच
तौ दृष्टवा निर्मितौ व्यूहौ प्रमथासुरयोः सुराः ।
विमानकोटिभिः शीघ्रं रुरुधुः सर्वतो नभः ।।१।।
सर्वं तेजोभिराकीर्णं तदम्बरतलं बभौ ।
मेरुकूटवनं रम्यं दह्यमानमिवाग्निना ।।२।।
देवदुन्दुभिशब्दाढ्यं दिव्य१स्त्रीशतसंकुलम् ।
तद्देवमण्डलं भाति यथैवादित्यमण्डलम् ।।३।।
दिव्यपुष्पसमाकीर्णं दिव्यगन्धाधिवासितम् ।
प्रेक्षकै: शतशः पूर्णं खतलं दिव्यमाबभौ ।।४।।


५६ तस्थावशोभन: - ख.। ५७ बभौ शत्रध्वजोपम: - क., बभाविन्द्र ... (? ) । ५८ सशङ्खनादमिश्रा: - क, ख.। ५९ द्वयत्रिशो - क. ।
 १ दीव्या - क, ।

७३४
वादित्राण्यभ्यहन्यन्त जगुश्च सुरगायनाः ।
रम्भाद्या ननृतुश्चापि शुभापाङ्गाः सुराङ्गनाः ।।५।।
अथ वज्रगिरिव्यूहौ परस्परजयैषिणौ ।
समीयतु२ र्महानादै३र्वातोद्धूतौ४ यथार्णवौ ।।६।।
मा त्वरध्वमिति५ प्रोक्ता:६ शुक्रेण सु७महात्मना ।
योधा निवार्यमाणापि चक्रुर्युद्धमसंहतम्८ ।।७।।
ततः शंखाश्च भेर्यश्च पणवा गोविषाणिकाः ।
आडम्बरा डिण्डिमाश्व मण्डूकाः९ पणवा ह्यपि ॥८॥
भेर्यो दुन्दुभयश्चापि मृदङ्गाः किंखरानकाः ।
उभयत्र बले गाढं प्रावाद्यन्त १० सहस्रशः ।९।।
ततः सुरगणैर्नादाः सह गन्धर्वचारणैः ।
कृतास्तूर्यरवं श्रुत्वा प्रमथासुरसैन्ययोः ।।8.133.१०।।
बलयोस्तूर्यशब्देन देवसिंहरवेण११ च ।
मन्दरे रुरुवुर्घोरं सिंहशार्दूलकुञ्जराः ।।११।।
तूर्यारसितब्देन तेन तेमितविक्रमाः१२ ।। २ ।।
अभिन्दन्तः स्वकं व्यूहं युयुधुः प्रमथासुराः ।।१२।।
प्रथमे सन्निपाते तु१३ तेषां युद्धे कृतात्मनाम्१४ ।
अभवद् दारुणो रावो हस्तिनामिव गर्जताम्१५ ।।१३।।
देवासुराः करस्थैस्तु आयुधैस्ते१६ सहस्रशः ।
विशेषयन्ति युद्धे स्म१७ परस्परजिघांसवः ।।१४।।
तच्छूलवज्रोपलवृक्षबाण१८ दृढप्रहारातिशयातिहर्षम् ।
विवर्धते पारिषदासुराणां युद्धं युगं तिष्यमिवातिघोरम्१९ ।।१५।।
 इति स्कन्दपुराणे गणयुद्धे त्रयस्त्रिंशदुत्तरशततमोध्यायः२० ।


पु -घ. ।
२ सीमीयतु - क. । ३ महानादौ - क. ॥ ४ वातोद्वृत्तौ - ख. ॥ ५ तरध्वमिति - क. ।। ६ प्रोच्य (?) । ८ महोत्सवम - क., युद्धोत्सवं महत. - क. ॥ ९ पनुवा (?) - क. ।। १० प्रवाद्यन्त - क. ख. । ११ शंखरवेण -घ. । १२ fस्तमितविक्रमा: - घ. ।। १३ प्रमथ (प्रथमः) सन्निपातस्तु - क. ।। १४ युद्धोद्ध - (द्य) – ख। १५ गर्जितम् - ख. ।। १६ स्वायुधैस्ते - ख., ...श्व - घ. ।। १७ युद्धे ... - क. ख., १८ बाणं - ख., बाणैर् (?) । १९ युगान्तव्यतिपातघोरम् (?) । २० १८३ - ख. ।

७३५
सनत्कुमार उवाच।
संकुले१ वर्तमाने तु प्रमथासुरसैन्ययोः ।
श्रूयन्ते कार्मुकरवाः सिंहनादाश्च दारुणाः ।।१।।
व्याविद्धाङ्गुलयो देवश्चारणोरगगुह्यकाः ।।
नेदुरुद्धूतवस्त्रान्ता युद्धोद्धवकृतस्वनाः ।।२।।
शूरारसितशब्देन तेनोदीरितविक्रमाः ।
चक्रुः कर्माण्यसह्यानि दर्पिताः प्रमथासुराः ।।३।।
असिभिर्व्यायितैश्छिन्नाः पट्टिशै२ र्भिन्नवक्षसः ।
शरसंकृत्तमर्माणः४ पतन्ति प्रमथासुराः ।।४।।
शिरसां पात्यमानानां बहूनां५ चोरुभिः सह ।
राशयस्तत्र दृश्यन्ते प्रमथासुरसंयुगे ।।५।।
भग्नचक्रा विध्वजाश्च विवरूथा विकूबराः ।
दृश्यन्ते शतशो व्यश्वा हतसारथयो६ रथाः ॥६॥
सपताकाः सकेयूराः सवर्मायुधकेतवः ।
निष्कृष्टदन्तमुशलाः७ पतन्ति गजपुङ्गवाः ।।७।।
शरप्रहाररुग्णाङ्गाश्चामरापीडकोज्ज्वलाः ।
ससादिनो निपात्यन्ते८ हयाः सूर्यहयोपमाः ।।८।।
उद्भ्रान्तैस्तुरगैस्त्रस्तैर्दानवैः सरथैरपि ।
तद्बलं१० प्रबभौ मत्तं भ्रान्तग्राहार्णवोपमम्११ ।।९।।
वासोभिरातपत्रैश्व मुकुटैर्मणिकुण्डलैः ।
हारार्धहारैः केयूरैरङ्गुलीयैः स्रगुत्तमैः ।।8.134.१०।।
कराननैः प्रकृत्तैश्च१२ चरणैश्च निपातितैः ।
युद्धभूमिर्वृता भाति द्यौर्नक्षत्रैरिवोदितैः ।।११।।
रुधिरास्राववसना नानाभरणभूषणाः ।
रक्तवस्त्रावृतैर्गात्रैर्मही मृत्युरिवाबभौ ।।१२।।


१ संयुगे (?) । २ व्यायतश्छिन्नाः - क. ।। ३ पट्टशै - क. ख. ॥ ४ ...वर्माणः - क. ॥ ५ बहूनां - क. ख. ।
६ सारथिनो - क. ।। ७ निकृष्टदन्तमुशलाः - क. । ८ सहसा विनिपात्यन्ते - क., सहसादिनो... - ख. ।,
९ माया - क. १०ख. । तत्कालं - क. ।। ११ । पमाः - क. ।। १२ प्रवृत्तैश्च - क. ।

 ७३६
अथ वाजिगजौघानां शोणितोदकवाहिनी ।
नदी प्रववृते१३ घोरा यमसादनवाहिनी ।।१३।।
मृगहस्तिखराश्वोष्ट्रमहाग्राहसमाकुला ।
मांसमेदोयकृत्पंका धनुर्ध्वजशतद्रुमा ।१४॥
छिन्नशीर्षोपलशता हस्तपश्वाननोरगा ।
केशशैवालसंछन्ना धनुर्ज्याशततन्तुका ।।१५।।
पाण्डराम्बरहर्षा वै मुकुटाटिकुलाकुला ।
भेरीकच्छपसंकीर्णा१४ वराभरणदर्दुरा ।१६।।
शरमीनसमाकीर्णा१५ खड्गनक्रदुरासदा१६ ।
रथचक्रमहानक्रा गद१७ यादोविलोडिता ।१७।।
विशीर्णहारसिकता१८ कफसंजातफेनिनी१९ ।
रक्तोत्पलानां मालेव कौङकुमी स्रगिबोज्झिता ॥१८॥
जिह्वेवोरगराजस्य यमस्याज्ञा इवाद्भुता ।
भयदा भीरुयोधानां शूराणां हर्षवर्धिनी२० ।
प्रवृत्ता२१ रुधिराम्भोभिः स्वर्गलोकवहा नदी ।।१९।।
संरब्धदैत्येन्द्रविवृद्धधूमं२२ नन्दीश्वराग्निज्वलितान्तरालम् ।
बभौ बलं सागरतुल्यनादं विनाशि यद्वज्जगदन्तकाले ।।8.134.२०।।
 इति स्कन्दपुराणे गणयुद्धे चतुस्त्रिंशदुत्तरशततमोध्यायः२३ ।
सनत्कुमार उवाच
विवर्धमाने संग्रामे तस्मिन् पारिषदासुरे ।
गिरिव्यूहप्रपातस्थाः१ क्रुद्धा दानवसत्तमाः ।।१।।
ते क्रोधा२च्छूलशक्त्यृष्टिं गदावर्षमतन्द्रिताः ।
ववर्षुः प्रमथानीके४ वर्षं जलधरा इव ।।२।।


१३ प्रवर्तते - क. ।। १४ संपूर्णा - क. ख. ।। १५ शवमीनसमाकीर्णा - घ. ।। १६ ... नक्रा दुरासदा - क. । १७ सदा - क., गज - घ. ।। १८ सिक्ताङ्गा - ध ।। १९ .. फेनिला - घ. । २० हर्षवर्धनी - क., हर्षवर्धना - ख. ।। २१ प्रकृता - ख. ।। २२ संहष्टदैत्येन्द्रविवृद्धधूमं - ख. ।। २३ १८४ - ख. ।
१ गिरिव्यूहप्रवातस्था: - क. ॥ २ क्रुद्धाः - ख. ।। ३ शक्त्य - क. ख. ॥ ४ प्रमथानीकं - क. ।

७३७
शस्त्रवर्षण पनतात्ताड्यमाना ह्यनेकशः ।
अचिन्तयित्वा तत्सर्वं युद्धायैव मनो दधुः ।।३।।
मेघाः सस्यानि हि यथा द्विरदा: पादपानिव ।
पृषतानिव शार्दूलाः शरभा इव वारणान् ।।४।।
वज्रा इव यथा शैलान् कालदूता नरानिव ।
विध्नानिव च शान्त्यर्था नथानविनया इव ५ । ५ ।।
भावानिव यथा भावा दोषा दोषान्यथापि च ।
तथा निवातकवचान् 6 शूलशक्त्यृष्टिवृष्टिभिः७।५ ।।
निजघ्नुः प्रमथाः८ शूराः शतशोथ सहस्रशः ।।६।।
शूलनिर्दारितोरस्का मुशलैर्भिन्नमस्तकाः ।
वज्रावघातम्लानाङ्गा९ दानवा: पतिता भुवि ।।७।।
तेषां निनादाः श्रूयन्ते नदतामतिदारुणा: ।
संवर्त्तकानां मेघानां नदतामिव१० सर्वतः ।। ८ ।।
इषुभिर्बहुधा विद्धा भग्नत्रिककशेरवः११ ।। ९ ।।
चेष्टन्ते१२ ह्यसुरा भूमौ भग्नपृष्ठा इवोरगाः ।।९।।
ततोतिकदनं वीक्ष्य शूरास्तत्र महासुराः ।
निवृत्ताः शतशस्तत्र क्रोधसंरक्तलोचनाः ।।8.135.१०।।
तैर्भृशं१३ प्रमथास्तेपि विद्धा व्यास त्रपान्विताः ।
संमीलिताक्षा वृषभा वर्षं निपतितं यथा ।।११।।
सहन्ते तत्तथा वर्षं१४ प्रमथा दानवेरितम् ।
ते चापि युद्धं तुमुलं कृत्वान्ते१५ पीडितास्तदा ।१२॥
भग्नाः पराङमुखा जाता१६ श्छिन्नभिन्नांगसन्धयः ।
तस्मिन् भग्नेथ सैन्ये तु प्रामथे १७ प्रमथोत्तमाः ।।१३।।
दश चक्रुर्महावेगं दशनागशतोपमाः ।
शंकुकर्णश्च बलवान् घण्टाकर्णश्च वीर्यवान् ।१४॥


५ .. श्चाविनयानिव - घ. ।। ६ कवचाः - क. ।। ७ शक्त्यष्टिवृष्टिभि: - क. ख., .. रिष्टयः - क. । ८ प्रमथान् - क. । ९ वज्रावपातम्लानाङ्गा: - क. ख. | १० नर्दतामिव(? ). ददाति च - क. ! ११ ... करोरवः (? ) ।। १२ वेष्टयन्ते - ख ।। १ ३ तैरितः - घ. ।। १४ तच्छस्त्रवर्षं (? ) ।। १५ ते - घ. ; १६ भीता - घ. ॥ १७ प्रमथे - क. ख ।

( ७३८ )
महाकालश्च कालाभो नन्दिषेणश्च विश्रुतः ।
पिङ्गलो लोहिताक्षश्च सोमनन्दी च वीर्यवान् ।।१५।।
विनायकश्च -- - नन्दी च - - - - - ॥
छागः कुण्डोदरः१८ स्कन्दो मयूरवरमास्थितः ।।१६।।
एते सह समुन्नेदुः१९ पयोदा इव साम्भसः ।
विविशुश्चासुरं सैन्यं समुद्रं मकरा इव ॥१७॥
शंकुकर्णहता दैत्या घण्टाकर्णविदारिताः ।
नन्दिषेणशराभ्यस्ता महाकालप्रकालिताः ।।१८।।
कुण्डोदरगदावेगैश्चूणितास्त्रविभूषणाः ।
पिङ्गलालोडिता नेशुः२० स्कन्दशक्तिविदारिताः२१ ।।१९।।
मुष्टिप्रहारभिन्नास्यै२२ स्तलताडितमस्तकैः ।
अपाहस्तप्रहारैश्च२३ क्षिप्यमाणेरितस्ततः ।।8.135.२०।।
विशस्त्रवस्त्रकवचैर्मुक्तमुर्द्धजबन्धनैः ।
प्रभग्नैर्दानवैस्तूर्णं व्यूहभेदो बभूव ह ।।२१।।
भिद्यमानो गिरिव्यूहो विबभौ घोरदर्शनः ।
इन्द्रवज्राह्तः पूर्वं यथा विन्ध्यो महागिरिः ।२२॥
भिन्नव्यूहाँस्ततो२४ दैत्यान्२५ प्रमथा जितकाशिनः ।
द्रुद्रुवुः शतशो वृक्षान् पक्वाञ्छकुनयो२६ यथा ।।२३।।
ततः पुनरभूद्युद्धं२७ कोलाहलसमाकुलम् ।
प्रमथानाञ्च शूराणामसुराणाञ्च दारुणम् ।२४।।
सन्निपाते२८ पुनस्तेषां गजानामिव दारुणे ।
नेदुर्देवाः सगन्धर्वाः सिद्धाश्च दिवि हर्षिताः ।२५।।
नानाविधास्तूर्यरवास्ततो दानवपार्षदैः२९ ।।
अश्रूयन्त कृता घोरा मेघानां नदतामिव ॥२६॥


१८ छागस्तुण्ड कु .. - क , स्तुकुर्कुट - ख. ।। १९ सह्स्रशः समुन्नेदुः - क., वै सहसा नेदु: - घ. ।। २० नेदुः - घ. । २१ त्तथा (? ), निपातिताः - ख. ।। २२ प्रहन (तिभिन्नाश्यै ) - क ।। २३ अपहस्तप्रहारैश्च (?) । २४ भिन्नव्यूह्स्ततो - क. ।। २५ दैत्याः - क. ।। २६ ...स्त्यक्त्वा शकुनयो - घ. ।। २७ व्यावर्त्य लज्जया चक्रुः - घ. । २८ सन्निपातः - क. ॥ २९ ... दो - क., दानवपर्श्वगै: - ख.


( ७३९ )
गजैश्च नीलाचलसन्निकाशै रथैश्च गन्धर्वविमानकल्पैः॥
हयैश्च वायुप्रतिमानवेगैश्चरन्ति दैत्याः समरे ह्यभीताः ।२७।।
ते शूलशक्त्यृष्टिभुशुण्डिबाणैः शैलोपलैश्चक्रसशूलवज्रैः ।
अन्योन्यमुत्सादयितुं प्रवृत्ता गणेश्वरा दानवपुंगवाश्च ।२८।।
इति स्कन्दपुराणे गणयुद्ध पंचत्रिशोत्तरशततमोध्यायः३०

सनत्कुमार उवाच
विरोचनस्तु दैत्येद्रो१ विरोचन इवोदितः ।
विवेश प्रमथानीकं मेघानीकमिवांशुमान् ।१।
मन्दराग्रप्रतीकाशमीषादन्तं क्षरन्मदम् ।
चतुर्दन्तं समास्थाय दन्तिनं दन्तभूषितम् ।।२।।
स नागस्कन्धगस्तत्र भ्राजतेसुरपुंगवः ।
उदयाग्रं समास्थाय सहस्रांशुज्वलन्निव ।।३।।
तोमरैः सशरैश्चापि दिवाकरकरप्रभै: ।
प्रमथानपतस्तार शतशोथ सहस्रशः ।।४।।
वैनतेयो यथा नागान् सिंहो गोवृषभान् यथा ।
द्रावयामास प्रमथान् तथा शूरो विरोचनः ।।५।।
यान्तमायान्तमप्राप्तं प्राप्तं दूरस्थमेव च ।
प्रमथं पश्यते यं यं तं तं दiरयते३सुरः ।।६।।
मृगाः सिहं यथा दृष्ट्वा गरुडश्च यथोरगाः ।
विरोचनं तथा४ दृष्ट्वा प्रमथा दुद्रुवुर्भयात् ॥७॥
गणेश्वरबलं दृष्ट्वा गणेश्वरवरो द्रुतम् ।
विनायक: सन्निवृत्तः प्रमथानीकनायकः ।।८।।


३० १८४ - ख. !
१ देत्येयो - क. । २...वतस्तारः - ख. ।। ३ वारयते - ख. ।। ४ यथा - ख. ।

७४०
प्रसारयन् करं घोरं पूर्वमैरावतो यथा ।
विरोचनं५ सोभ्यधावच्छार्दूलो हरिणं यथा ।।९।।
तमापतन्तं संवीक्ष्य तीक्ष्णदन्तं गजाननम् ।
कुम्भान्तरे तोमरेण६ दारयामास दानवः ।।8.136.१०।।
तं तोमरं कराग्रेण निष्कृष्य स विनायक: ।
हस्ता क्षिप्तेन७ तेनैव विरोचनमदारयत् ।।११।।
स तोमरेण निभिन्न: करघातातुरश्च ह ।
चचाल विह्वलो रक्तं चक्षार च विरोचनः ।।१२।।
घूर्णमानं तदालक्ष्य दानवेन्द्रं विरोचनम् ।
दन्ताभ्यां चन्द्रशुभ्राभ्यां निर्बिभेद विनायकः ।१३।।
वैनायकं तत् समीक्ष्य कर्म देवाः शशक्रा मुमुचुः प्रणादान् ।
तस्योतमाङ्गोपरि पुष्पमाला पपात देवस्य यथा त्रिमार्गा9 ।।१४।।
तया तु नानाविधपुष्पवत्या विभाति देवः स तदा स्रजा रणे ।
नक्षत्रमालावलिचारुशोभ:१० समुन्नतो मेरुरिवापरः स्थितः ।।१५।।
उद्भिन्नरक्तं तु विदार्यमाणं विरोचनं वीक्ष्य विनायकेन ।
जम्भोम्बुदाभीतुरमारसित्वा११ दुद्राव मा भैरिति१२ भाषमाणः१३ ।।१६।।
तमापतन्तं बहुधा नदन्तं जम्भं वियन्मेघमिवाप्रमेयम् ।
रुरोध नन्दी समताडयच्च वज्रेण वज्री कुपितो यथाद्रिम् ।।१७।।
स वज्रघाताच्छिथिलः क्रियासु व्यसुर्यथा१४ दानवदेवपुत्रः ।
पपात भूमौ मुहुरुत्थितश्च घृतावसिक्तः सदसीव वह्निः ।।१८।।
जम्भेवसन्नेरिबले प्रसन्ने षड्१५ दानवाः षण्मुखपूर्वजं तम् ।
कुठारशूलासिपरश्वधैस्तु म्लेच्छा यथा क्रुद्धमुखास्ततक्षुः ।१९।।
विनायकस्तैरवतक्षितस्तु प्रह्लादिदेहात्१६ प्रविकृष्य दन्तौ१७ ।
मुमोच तं वै रुधिरावसिक्तं राहुर्विवस्वन्तमिवार्धभुक्तम्१८ ।।8.136.२०।।


५ वैरोचनं - क. ।। ६ तो रणन - वि. ।। ७ करेण हत्य (?), हस्तेनाक्षिप्य (?) । ८ तस्योत्तमाङ्गे बहि - क. व., .. माङ्ग प र ? [ा ल (?) । ९ त्रि पागति? - ख । १० ... चारुशोभाः - क. । १ ! त् rर (?). .. मारशिप (?) । । २ भी रति - क. ! १३ भाष्य पाणः - क. ।। १४ ... व्यसुर्यथा - क. ख. । १५ ते - . (क. fट. ) ।। १६ अह्नो ददे ई { - क., प्राह्लादिदेहात् (?) । १७ दन्ते - ख. ।
१८ ...विभास्वन्तमिवार्धभुक्तम् - क. ख. ।

( ७४१ )
स तेन मुक्तोतिरुजावृतश्रीर्विरोचनो नातिबभौ मनोज्ञः ।
मेघाभिरुद्धो१९ नवमेघकाले संपूर्णबिम्बो२० नभसीव चन्द्रः ॥२१॥
विनायकाभान्स विनायकस्तु षड् दानवान् षण्मुखसन्निकाशः२१ ।
विशालदन्ताशनिसंप्रहारैर्व्यर्थद्रावयत् सिंह इव द्विपेन्द्रान् ।।२२।।
करीन्द्रवक्त्रः करमुच्छ्रयित्वा करी सुराणामिव जातदर्पः । ।
प्राकालयद्२२ दानवपुङ्गवाँस्तान् यथा गजान् दर्पितसिहपोतः ।२३।
सिंहेक्षितानामिव गोपतीनां२३ कालेक्षितानामिव मानवानाम् ।
विनायकेनेक्षित कालितानां२४ भयं तदासीन्मिषतां२५ बलानाम् ।२४।।
यतो यत: प्रेक्षति वै स देवो हस्तीव हस्तं स्वकमुच्छ्रयित्वा२६ ।।
ततस्ततो दैत्यबलं प्रभग्नं चण्डानिलेनेव वनं सपुष्पम् ।२५।।
दृष्ट्वा बलं तद् बलिनाभिभूतं बलेः सुतोसौ बलिनां वरिष्ठः ।
विनायकं हन्तुमनाः ससार मत्तं रणे मत्त इव द्विपेन्द्रः ।२६।।
तमापतन्तं तपनाभिवेशं क्रुद्धं रणे कालमिवातवापम् ।
ससार रोद्धुं समरे च योद्धुं कुण्डोदर: सिह इवान्यसिंहम् ।२७।।
तौ सिंहपोताविव जातदर्पौ प्रकीर्णहस्ताविव हस्तिपोतौ ।
समागतौ युद्धरसाभिमत्तौ कुण्डोदरो वै २७ बलिनन्दनश्च ।२८।।
शतानि पंचेव स कार्मुकाणां विकृष्य वज्राशनिनिस्वनानाम् ।
कुण्डोदरायेषुवरान्२३ ससर्ग गर्जन् स बाणस्तु यथा पयोदः ।२९।।
तानागतां३०स्तीक्ष्णमुखांस्तदानीं बाणस्य बाणान् कुपिताहिकल्पान् ।
कुण्डोदरः शैलरुहेण३१ सर्वान् मनोरथान् विघ्न इवाजघान ।8.136.३०।।
तान्निष्फलान् प्रेक्ष्य३२ शरान् सुरारिः सुरेतरारिप्रहतान् क्षितिस्थान् ।
शक्त्या स कुण्डोदरमाजघान शक्तया गुहः क्रौञ्चमिवाचलेन्द्रम् ।३१।।
वक्षः प्रदेशात्तु गणेश्वरस्य बाणस्य शक्तिः क्षतजं पपौ सा ।
शक्रोपनीतं रुचिरं सुगन्धि३३ यथामृतं वज्रधरस्य भार्या ।३२।।


१९ ... भ्ररुद्धो - क. ख. ।। २० संपूर्णबिम्बे क। २१ सन्निकायः - ख. । २२ प्रकालयद् - क ख , प्रकालयन् - ख. ।। २३ (ह) स्तिनीनां (?) । २४ कालिकान्तं - ख. ।। २५ विद्विषतां (?) । २६ प्रविशार्यं सर्वशः - घ ।। २७ ... सौ - घ ।। २८ कार्मुकानां - क. ख. ।। २९ कुण्डौदरायेषुवरान् - क. । ३० नानागणां - क. ।। ३१ शैलवरेण - थ. ॥ ३२ वीक्ष्य - ख. ।। ३३ सुगन्धं - क ख. ।

७४२
शक्तिप्रहाराभिहतस्तु यक्ष:३४ कुण्डोदरोदर्दरमन्दराभ:३५ ।।
पपात संज्ञां विपुलां प्रहाय दावाग्निना दग्ध इवोच्चवृक्षः ॥३३॥
कुण्डोदरं तन्निहतं समीक्ष्य विनायकोसौ च्युतपद्ममालः ।
द्रुद्राव बाणं प्रति हन्तुकामः करीव भृङ्गारकरोच्छ्रयेण३६ ।।३४।।
तमानने वज्रनिभाननैः शरैर्विनायकं ह्याततमेव बाणः ।
बिभेद भित्वा च ततो ररास३७ ग्रीष्मव्यपाये नभसीव मेघः ।॥३५॥
तृणाग्रपातानिव सेषुपातानचिन्तयित्वैव गजेन्द्रवक्त्रः ।
ईषेष३८ नेत्रं३९ सवरूथचक्रं बभञ्ज बाणस्य रथं ससूतम्४० ।३६।।
बाणस्य वाहान् तु तमारुजन्तं४१ विनायकं भूमिगतं यथेभम् ।
सिंहीसुतः सिंह इवाभिपत्य स बाहुपाशेन बबन्ध राहुः ।३७॥
स राहुणा बहुयुगावबद्धो४२ विनायक: सर्पसहस्रमालः ।
प्रस्पदन्त४३ भ्रामितपुष्कराग्रो गजस्तरन् देवनदीं यथैव ।३८।।
तं राहुबाहुप्रतिबद्धचेष्टं विनायकं वीक्ष्य तदा दिविस्थाः ।
देवाः सशक्राः सह यक्षसिद्धैर्हाहेति हाहेत्यसकृद्विनेदुः ।।३९।।
कुण्डोदरो यक्षवरस्तु सोथ आंश्वस्य सस्यं हि यथाम्बुसिक्तम् ।
कुठारमादाय जघान राहुं जत्र्वन्तरे संहतमुष्टिना च ॥8.136.४०॥
कुठारघातात् स तु मुष्टिना च दृढाहतो यक्षवरेण राहुः ।
विनायकं भीमबलो मुमोच शुभेतरं कर्म यथा कुलीनः ।४१।।
तं वै परावृत्य करीव मत्तो गजाननः काननषण्डवासी४४ ।
पद्भिश्च दन्तैश्च जघान राहुं प्रकीर्णहस्तेन च भीमह्स्तः ।४२।।
विनायकेनाभिहतस्तु राहुर्दर्पञ्च गर्वञ्च बलञ्च हित्वा ।
निस्तोयमेघप्रतिमोमरारिः स्थितो यथा सिंहहतो गजेन्द्रः ।४३।।
राहौ तु४५ कुण्डोदरमुष्टिघातै४६र्विनायकेनैव च पीडयमाने ।
कुजम्भसंह्रादमयाः सतारा हुण्डस्तुहुण्डश्च तदा तमीयुः४७ ।४४।।


३४ . स्रा तेन - घ. । । ५ मन्दरदर्शनाभः - घ. ।। ३६ श्रृङ्गाग्रकरोच्छ्रयेण (? ) ।। ३७ ररास तत्र - घ. । ३८ इयेष - क. ख. ।। ३९ नेतुं - ख. ।। ४० सयन्तृ - क. ख. ।। ४१ द्रुतमारुजन्तं - ख. । ४२ बुद्धो - क., न (?) । ४३ प्रस्पदन्ते - क. ख. ॥ ४४ ...वासः - ख. ॥ ४५ राहुस्तु - क. । ४६ मुष्टिपातै - क ।। ४७ तु - क. ख. ।

( ७४३ )
मयस्तु कुण्डोदरमाजघान शूलेन तारो मुशलेन कुक्षौ ।
बलस्तु लम्बाम्बुदसन्निकाशं तं ४८ मुष्टिना वज्रनिभेन चापि ।।४५।। हिरण्यनेत्रावरजात्मजश्च विनायकं भीमबलं तलेन ।
तस्यात्मजश्चापि जघान रोषात् स चापि गत्वा बलवाँस्तुहुण्डः ।४६।।
विनायकस्तं तु तदा गृहीत्वा करेण विक्रम्य तुहुण्डमाजौ ।
आाक्षिप्य चोत्क्षिप्य ४९ च भीमवेगश्चिक्षेप दूरं यमदूतकल्पम्५० ।४७। ।
प्रह्रादमाहत्य ततः स देवो मयश्च मत्ताञ्जनतुल्यवक्षाः ।
 उत्पाट्य तं घोररवं ननाद शुभ्राम्बुपूर्णो नभसीव मेघः ।।४८।।
 कुण्डोदरश्चापि बलं सतारं कुजम्भमाहत्य५१ च यक्षवर्यः ।
उभौ रणस्थौ५२ गजयूथपालौ५३ व्याधूतमालौ५४ भृशजातकोपौ ॥४९॥
ससर्जतुस्तौ५५ शरवृष्टिमुग्रां यथाम्बुवृष्टिं जलदौ सनादौ ।
ततः पुनश्चायुधसर्जगनि५६ पयोदविस्फूजितगजितानि५७ ॥
बलानि तान्यासुरपार्षदानां संसक्तभावं परमं गतानि ।8.136.५०।।
 इति स्कन्दपुराणे गणयुद्धे षट्त्रिंशदुत्तरशततमोध्यायः
सनत्कुमार उवाच
ततो व्यतिकरो भूयः पार्षदासुरसैन्ययोः ।
संबभूवोदधिक्षोभान्मकराणामिवाद्भुतः ।।१।।
पट्टिशासिधनुष्मन्तो१ विद्युत्वन्त इवाम्बुदाः ।
विबभुर्दानवास्तत्र प्रमथाश्च युयुत्सवः ।।२।।
 सहस्व प्रहरस्वेति नश्य नष्टस्त्वमित्यपि ।
तेषामेवं प्रवदतामश्रूयन्त गिरो मुहुः ।।३।।


४८ सन्निकाशस्तं - ख. ।। ४९ सोत्क्षिप्य - क. ख. ।। ५० यमदूतकल्प: - ख. ।। ५१ कुभञ्जमाहत्य - क. । ५२ रणस्ते (स्थो - ख. ॥ ५३ गजयूथपालो - ख. ॥ ५४ व्याधूतमालो - ख. ॥ ५५ तुष्टो - ख. । ५६ पुनस्त्वायुधसर्जनानि - ख. ।। ५७ नादितानि - घ. ।
१ पट्टशासिधनुष्मन्तो - क. ख. ।

 (७४४)
शूलैस्त्रिशूलैश्चक्रैश्च हुण्डैर्लगुडकम्पनैः२ ।
भिन्दिपालैः करसमैः प्रसृतैर्निखरैरपि ।।४।।
 टंकैः कटंकटैः प्रासैः पाशैः३ परशुपट्टिशैः ।
द्रुमोपलशिलाघातैर्गिरीणां शिखरैरपि ॥५॥
एतैः प्रहरणैस्ते वै सूदयन्ति परस्परम् ।
घण्टाकर्णोहमसुर जम्भोहं प्रमथेश्वर ॥६।
सोमनन्द्यहमिन्द्रारे कुजम्भोहं गणाधिप ।
बिल्वकोहमहं४ यक्ष पिङ्गलो नाम दानव ।७।।
प्रह्रादोहमहं नन्दी शंकुकर्णो बलो५ ह्यहम् ।
त्वं कः कुण्डोदरोहं वै वृत्रोहं६ कुण्डकोदर ७ ।।८।।
नन्दिषेणोस्म्यहं शंभुर्महाकाल८ मयो ह्यहम् ।
विशाखोहं बलिरहमहं बाणो गुहो ह्यहम् ।९।।
प्रह्रादोहमहं९ शाखो१० नैगमेषोहमन्धकः११ ।
इत्येवं दानवानां च प्रमथानां च भैरवा:१२ । 8.137.१० ।।
दर्पोद्रेकादधिक्षेपाः१३ श्रूयन्ते युध्यतां रणे ।
गजानामिव मत्तानां मेघानामिव चागमे ।११।
भिद्यतामिव१४ शैलानां समुद्राणां क्षयेष्विव ।
 प्रलयान्तेषु महतां वायूनां जवतामिव ।।१२।।
तेषामासीन्महाञ्छब्दः परस्परनिजघ्नुषाम्१५ ।।
 ब्रह्मदण्डप्रतीकाशैर्यमदण्डनिभैरपि ।
आायुधैस्सूदयन्ति स्म तेन्योन्यकुपिता१६ भृशम् ।।१३।।
वज्राणामिव शैलेषु वंशानामिव१७ दह्यताम् ।
अभूच्चटचटाशब्दः शस्त्राणां पात्यतां१८ तदा ॥१४॥


२ हुलैर्लकुल... - ख. ।। ३ कण्णैः - ख. ॥ ४ पिल्वलोहमहं - ख. । ५ बले - क. । ६ वृतोहं - ख. ॥ ७ कुण्डको दरः - क.ख., ८ महाकायो - ? , य (?) । ९ संह्रादोहमहं (?) । १० शम्भो - ख. ।। ११ ... मप्युत - घ. ।। १२ दारुणा: - क. (? ), बभौ रव: - घ. ।। १३ अधिक्षेपा: (?) । १४ विध्यतामिव - ख. ।। १५ शस्त्राणां पात्यतां तदा - ख., विजघ्नतां - घ. ।। १६ क्षुभिता: - घ. । १७ वेणूनामिव - क. (?) । १८ पततां - घ. ।

 ( ७४५ )
गणेश्वरविमुक्ताभिः शक्तिभिः सुदृढाहताः१९ ।
निपेतुरारसन्तस्ते२० सोल्का इव यथा घना:२१ ।।१५।।
द्रुमप्रहारभग्नाङ्गा गदाचूणितसन्धयः ।
दानवा निपतन्त्युर्व्यां वाजिनश्च्युतजीविताः ।।१६।।
छिन्नध्वजपताकेषा भग्नाक्षयुगकूबराः ।
विध्वस्तास्तत्र दृश्यन्ते विमानप्रतिमा रथाः ।।१७।।
मातङ्गैश्च तुरङ्गैश्च स्यन्दनैश्चावचूर्णितैः ।
विन्ध्याक्रान्तेव सा भूमिर्दुर्गमा समपद्यत ।।१८।।
तत्र देवा: स गन्धर्वाः सयक्षोरगकिन्नराः ।
उत्क्रुष्टवरशब्दाढयं चक्रुः सुबहुशोम्बरम् ।।१९।।
दिव्यानां सुविचित्राणाममृतोपमगन्धिनाम् ।
वर्षं पपात पुष्पाणां युध्यन्ते यत्र२३ ते रणे २४ ॥8.137.२०॥
तथा तु ते गजघननादगर्जनाः२५ शरासिशक्त्यृष्टि२६ गदाविसर्जनाः ।
परस्परं युयुधुरतीव संहता२७ दितेः सुताः प्रमथगणाश्च दर्पिताः ।।२१।।
 इति स्कन्दपुराणे गणयुद्ध सप्तत्रिंशोत्तरशततमोध्यायः
सनत्कुमार उवाच
ताम्यमानेषु१ दैत्येषु दैत्ययूथपयूथपाः२ ।
चक्रुर्वेगं महावेगा युगान्तेष्विव सागराः ।।१।।
प्रह्रादश्चानुह्रादश्च संह्रादः शिनिबाष्कलौ ।
प्रह्लादस्य च ये पुत्राश्चत्वारो भीमविक्रमाः ।।२।।
बलिर्बाणश्च वातश्च शम्भुः कार्तस्वन: कुभः ।
करभो४ नमुचिस्तारस्तारकश्चेन्द्रतापनः५ ।।३।।


१९ प्रासतोमरै: - घ. ।। २० रारसन्तो वै - क. ख. । २१ घनाघनान् - (ना:?) - घ. ॥ २२ खरशब्दाढयं - क. ॥ २३ तत्र - क. ।। २४ तोरणे - ख. ।। २५ गर्जिताः - क. ॥ २६ शरर्ष्टिशक्त्यसि - (? ) ।। २७ संकटे (टा) - क. ख. । १ नाम्यनानेषु - क., नाश्य... - घ. ।। २ अन्ये दैत्या महारथाः - घ. ।। ३ शुभः - क. ।। ४ शरभो (?) । ५ ...स्सेन्द्रतापन: - क्र, ख. ।

७४६
अञ्जनो रूषणो व्यंसो गविष्ठ: पृथिवीञ्जय:५ ।।
इल्वकः पिल्वकश्चैव धुन्धुर्मूकश्च दानवः ।।४।।
खरो९ मुरोथ१० नरकः केशी धेनुक एव च ।
लम्बः प्रलम्बो ह्यजरो११ भावयव्योममार्दवा:१२ ।।५।।
वृषपर्वा शतावतों गवाक्षो गोमुखस्तथा ।
सरो१३ निसुन्दः सुन्दश्च महाबलपराक्रमाः ।।६।।
पाको विपाकः सन्तापो१४ हस्ती दुर्योधनस्तथा ।
मोहनो मथनश्चापि सचक्रश्चक्र एव च ।।७।।
कालकावदनः कालः कालनेमी१५ कलिद्रुम:१६ ।।
ह्यशीर्षश्चेन्द्रशिरा१७स्त्रिशिराः शंकुरेव च ।।८।।
तथा गगनमूर्धा च अविरोमा महामन:१८ ।
असिलोमा तुहुण्डश्च हुण्डो वृत्रश्च दानवः ।।९।।
दशग्रीवश्च बालिश्च मेघनीलः१९ प्रभाकरः ।
यश्चादित्यरथाच्चक्रं जहार बलदर्पितः ।।8.138.१०।।
स विप्रचित्तिः सबलः सन्यवर्तत दंशितः(?)२० ।
एते चान्ये च दितिजाः समदास्ते गजा इव ।।११।।
 चक्रुरुत्साहमुत्सर्तुं२१ प्रमथ्य प्रमथान्२२ रणे ।
आामिषार्थे२३ यथा सिंहा वासितार्थे२४ यथा गजाः ।।१२।।
दानवा विविशुस्तद्वत् प्रमथान् संजिघांसवः ।
तेषामापततो वेगो भीमोभूद्देवविद्विषाम्२५ ।
सनक्रमकरो घोरो वेगः सिन्धुपतेरिव ।।१३।।
ते वै शस्त्रोपलशिलापादपाशनिपाणयः ।
 प्रमथैरुद्धतै रुद्धा नदीवेगा इवार्णवै:२६ । १४ ।।


६ गविष्ठः - ख., गविजः - क. ।। ७ पृथिवीजयः - क. ।। ८ इल्वलः - ख: । ९ सुरो - ख., १० वै - क. । ११ ह्यजकी - घ. ।। १२ ...श्व प्रमर्दनः - घ., मार्दव: - क. । गर्वेवरोथ - घ. । १ ३ खरो - घ. । थेन्द्रशिरा - व्क , हयशिरो - ख. । १४ सन्तापी - घ. ।। १५ कालनेमि: - घ ।। १६ द्रुमा: - घ. । १७ हय:शिरो – ख १८ महामना: (?) । १९ नीलमेघः - घ. ।। २० दंशिता: - घ. । २१...मत्यर्थं - ख. ।। २२ प्रमथाः - क., प्रमथो - ख , प्रमथ - घ , प्रथमं - (?) ।। २३ आमिषार्थ - क. ख. । २४ वासितार्थं - क. ख. ।। २५ देवतारिणाम् - क. ख, देवताद्विषाम (?) । २६ इवार्णवे (?) ।

७४७ }
गणेश्वराधिपो नन्दी महाकायश्च२७ वीर्यवान् ।
घण्टाकर्णः शंकुकर्णः कुण्डोदरमहोदरौ ।१५।।
 नन्दिषेणः सोमनन्दी करिकश्च गणेश्वरः ।
विघ्नो विनायकश्चैव स च सर्वविनायकः२८ । ।॥१६ ।।
पिङ्गलो लोहितश्चैव मयूरः कुक्कुटोपि च ।। ६ ।।
पञ्चाक्षो वीरभद्रश्च विट्पतिः पावकार्दनः ।।१७।।
अदित्याप्यायनश्चैव सोमाप्यायन एव च ।
समुद्राप्यायश्चान्यः पावकाप्यायनस्तथा ।।१८।।
वरबर्हिध्वजश्चैव विशाखः शाख एव च ।
नैगमेषश्च बलवान् रुद्रवीर्यपराक्रमा:३० ।।१९।।
 बाहुलेयोद्भवा३१ ये च प्रमथा भीमरूपिणः ।
तेभ्ययुर्दानवान् युद्धे वृषभा वृषभानिव ।।8.138.२०।।
तेषां तेषांञ्च संग्रामस्तुमुलः समपद्यत ।
अजने३२ गन्धहस्तीनां (?) शरभैरिव दारुणः ।।२१।।
महागजैरिव गजाः पर्वतैरिव पर्वताः ।
सागराः सागरैर्यद्वत् पावकैरिव पावकाः ।।२२।।
तथा३३ सुरा जातदर्पाः क्रोधवैश्वानरावृताः ।
धृताः पारिषदैः३४ शूरैर्विघ्ना धर्मपरैरिव ।।२३।।
टङ्कैर्विदार्यमाणानि गिर्यग्राणि समन्ततः ।
गृध्रचक्रायमाणानि३५ पतन्त्युर्व्यां सहस्रशः ।।२४।।
चक्राणि चक्रै च्छिद्यन्ते शूलैः शूला विदारिताः ।। ६ ।।
इषुभिश्चेषवो विद्धाः पतन्ति भुजगा इव ।। २५ ।।
वदनैश्चन्द्रपद्माभैः करैश्च परिघोपमैः ।
आास्तृता मेदिनी भाति व्याघचर्माम्बरैरिव ।।२६।।


२७ महाकालश्व - ख. ॥ २८ दर्प्पविनायक: - क. ।। २९ ह्यपि - क. ३० पराक्रम: - क. । ३१ बाहुलोमोद्भवा - क., बहुलासोदरा - घ. ।। ३२ अयने - क., अजले - घ. ॥ ३३ तेषां - ख. । ३४ विवृताः पार्षदै - घ. ।। ३५ चक्रोपमानानि - घ. ।। ३६ विरेजिताः - ख ।

७४८
मेदो मज्जास्थिपङ्काङ्कं३७ केशकश्मलसंकुलम्३८ ।
बभूवायोधनं घोरं श्मशानवनसन्निभम् ।।२७।।
हया गजा रथाश्चापि दानवानां गणेश्वरैः ।
संचूर्णिताः प्रदृश्यन्ते तत्र तत्र महीतले ।२८।।
परीक्षणीय३९स्समितौ त्वमद्य सुरेतराणां सुरराजशत्रो४० ॥२९॥
नन्दिन्यथैवं ब्रुवतीन्द्रकल्पे४१ शक्रेन्दुवायु४२ प्रतितुल्यवीर्यः४३ । ।
बद्ध्वा त्रिशाखां भृकुटीं ललाटे स नन्दिनं प्राह तदा४४ कुजम्भः ॥8.138.३०॥
वानरानन किं वाग्भिर्मां भीषयितुमिच्छसि ।
 हिरण्यकशिपोः पौत्रो४५ नाहं प्राकृतदानवः ।।३१।।
यमात्सदण्डाद्वरुणा त्सपाशादिन्द्रात्सवज्रात्सगदाद्धनेशात्४६ ।
नाहं४७ रणस्थो भयमाहरामि भयन्न दैत्येषु पलायितं वा ।।२३।।
अद्येह ते४८ पिङ्गललोलनेत्रं मुखं त्वपात्रं४९ विकृता५० मनोज्ञम् ।
मद्बाणलूनं पततामवन्यां तालाद्यथा तालफलं सुपक्वम् ॥३३।।
इत्येवमुक्त्वा शरजालवृष्टया नन्दीश्वरं दानवराजमेघः५१ ।
सिंहो यथातीव विमुच्य नादं प्राच्छादयन्५२ मेघ इवाचलेन्द्रम् ।३४।।
तरुं यथा पक्वफलं शकुन्ता वल्मीकमुच्चं भुजगा इवोग्राः ।
तथा शरा दानवराजमुक्ता नन्दीश्वरं दीप्तमुखा५३ विशन्ति ॥३५॥
वज्रेण वज्री स तु ता५४ञ्छरौघान् शैलः पयोधानिव५५ सन्निवार्य ।
कुजम्भमुद्दिश्य मुमोच वज्रं ननाद चोच्चेर्नभसीव मेघः ।।३६।। तद्विस्फुलिङ्गोद्गतघोररूपं समाहतारावविमुक्तरावम् ।
वज्रं प्रधावत्यसुरं निहन्तुं गिरेिं यथा देवतराजवज्रम् ।३७।।
 तद्वत्सदन्तैः सुविपाटवस्तैः५६ समीपगैर्दिग्धविकर्ण्णिभिश्च५७ ।
जघान वज्रं शतधा५८ कुजम्भः संवर्त्तकाग्निं समयेव५९ मेघः ।।३८।।


३७ मेदोमांसास्रगापूर्णं - घ. ।। ३८ शाद्वलसंकुलम - घ. ।। ३९ निरीक्षणीय - क. ।। ४० तिष्ठ त्वरेणासुरराजशत्रो - घ ।। ४१ ... कल्पः - क. ।। ४२ शक्रेन्द्रवायु - क. ।। ४३ वेगान् - ख., पुत्र - घ. । ४४ तथा - क ।। ४५ पुत्रो - क. ख । ४६ धनेशT: - क ।। ४७ ... न्नाहं - क. ! ४८ अद्याह (वे) - ख । ४९ नवात्रा - घ. ! ५० विकृतं - घ ।। ५१ ... राजमेघं - क. । ५२ प्रच्छादयन् - क. ख. । ५३ दीपमुखं - ख. ।। ५४ वज्रीशहता - घ. ॥ ५५ पयोदानिव - ख. ॥ ५६ सविपाटवस्तै: - ख । ५७ .. देिर्ग(वीर्घ?)... - क. ।। ५८ स तदा - घ ।। ५९ स यथैव - घ. ।

७४९
तद्वाणवेगप्रहतातिवेगं शैलादिनिर्मुक्तममोघवेगम् ।
वज्रं कुजम्भाभिहतं निवृत्तं दत्तं६० यथोन्मादविकारदत्तम् ।३९।।
विष्टम्भितं वज्रवरं निशाम्य निशाम्य नादश्च कुजम्भमुक्तम् ।
ससार नन्दी कुपितो रिपुं तं राहुर्यथा वे खतले तमोन्घ्रम् ।8.138.४०।।
बलात्स संगृह्य रथं करेण ईषावराग्रे६१ प्रमथेशपालः ।
आक्षिप्य चिक्षेप ससूतवाहं क्षिप्त्वा च भूयस्स ररास घोरम् ।४१।।
संभ्रान्तवक्र: सविसन्धिताश्व:६२ प्रभ्रष्टसूतासिशिरोग्रनेमिः६३ ।।
कुजम्भवाहः खतलात् पपात गिरिर्यथा वज्रनिकृत्तपक्षः ।४२।।
तस्माद्रथान्नन्दिगजप्रनुन्ना६४दपेत्य६५ प्रह्रादिरदीनसत्वः ।
शक्तिं समादाय६६ न दीनसत्वस्तस्थौ सविद्युत्सरवो यथाब्दः ।४३।।
तां सर्पजिह्वामिव लेलिहानो मृत्युं क्षुधार्तामिव भोक्तुकामाम् ।
शिखां महाग्नेरिव दीप्यमानां स नन्दिने सं६७ प्रमुमोच जम्भः६८ ।।४४।।
सा शक्तिरिन्द्रारिभुजप्रमुक्ता उग्रातिदीप्ताङ्गिरसीव कृत्या ।
अभ्याहता नन्दिमुखानलेन दग्धा पतङ्गीव यथानलेन ।४५॥
शक्तिं स दग्ध्वा वदनानलेन कपीन्द्रवक्त्रस्तपनप्रभावः ।
वज्रेण तं सत्वरमाजघान वज्रेण मेरुं भगवानिवेन्द्रः ।४६।।
स वज्रघातादवचूर्णितस्थिः संशीर्णदन्तेक्षणभग्नजानुः ।
कुब्जः कुजम्भो निपपात भूमौ शक्रेण वज्राभिहतो यथाद्रिः ।४७।।
तस्मिन् हते देवगणा विनेदुः सेदुः६९ सुराणामरयश्च दैन्यात्७०
|
भूताधिपं भूतपतिश्च देवं७१ प्रपूजयामास शाशाङ्कचिह्नम्७२ ।४८ ।।
इति स्कन्दपुराणे गणयुद्ध जम्मवधे अष्टत्रिशदुत्तरशततमोध्यायः


६० दानं - क. ।। ६ १ ईशा - क. ख. ।। ६२ प्रविसन्धिताश्वः (? ) ।। ६३ प्रन (ण) ष्टसूतांसि - ख. । ६४ प्रतुन्ना - ख ।। ६५ ... दुत्पत्य (?) - ख. ।। ६६ ह्य (? ) - ख. ।। ६७ तां - घ. । ६८ शक्ति - घ. । ६९ सुखात् - घ. ।। ७० दैत्याः - क. ।। ७१ देवा: (वः) - ख. ।। ७२ चिह्न (? )

७५०
सनत्कुमार उवाच
कुजम्भं निहतं दृष्ट्वा नन्दिना देवनन्दिना१ ।
निनादं२ चक्रिरे३ देवाश्चारणाश्च महोरगाः ।।१।।
तेन देवनिनादेन कुजम्भनिधनेन च ।
जम्भो दानवशार्दूलः क्रोधमाहारयन्महत् ।।२।।
तस्य क्रुद्धस्य गात्रेभ्यो निष्पेतुः पावकार्चिषः ।
मेरोर्वज्राहतस्येव विस्फुलिङ्गाः समन्ततः ।।३।।
सोल्काम्बुदनिभाभासो जम्भ:४ क्रोधसमावृतः५ ।
द्रुद्राव नन्दिनं हन्तुं कुञ्जरं सिंहराडिव ।।४।।
सोर्धभारसहस्रस्य कृतं सैक्यायसं६ महत् ।
उद्वहन् परिघं घोरं दैत्यो दुद्राव नन्दिनम् ।।५।।
तिष्ठेदानीं दुराचार मया दृष्टः क्व यास्यसि ।
एष त्वं वज्रसंकाशः परिघश्चूर्णयिष्यति ।।६।।
इत्युक्त्वा घोरया वाचा जंभो नन्दिनमग्रतः ।
परिघं तस्य चिक्षेप दण्डं यम इवापरः ।७।।
स तस्य करनिर्मुक्तो७ निर्मुक्तोरगसन्निभः ।
परिघो नन्दिनं याति हन्तुं कालानलोपमः ।। ८ ।।
तं वासुकिभुजङ्गाभं ब्रह्मदण्डनिभं महत् ।
वज्रेणाभ्यह्नन्नन्दी देवराजो यथा बलम्९ ।।९।।
वज्रप्रहारं तृणवद्विचिन्त्य परिघः स तु ।
शक्राग्निरिव१० दुर्दृश्य: प्रधावन्नन्दिनं११ प्रति ।।8.139.१०।।
कृतो निनादः सुमहान् प्रमथेश्च सहस्रशः ।
श्रुत्वा निनादं देवानां परिघं वीक्ष्य चागतम् ।।११।।
शंकुकर्णोभिदुद्राव१२ परिघं प्रति वेगितः ।
स तं कर्कोटकप्रख्यं दुर्निवार्यं महास्त्रवत् ।१२।।


१ देववन्दिना ।२ अकुर्वन - ख. ।। ३ निनदं - ख., अकरोद - क. ।
४ भंज: - क, ५ क्रोधाग्निनावृतः - ख. घ. ।। ६ शैक्यायस - क. ।। ७ नियुक्तो - क. ।। ८ कालानलोपमं - क. ९ यथाचल - क. । १० वज्राग्निरिव - घ. ।। ११ प्रधावन् नन्दिनं - क. ख. ।। १२ ...भिजग्राह् - घ, ।

( ७५१ )
शंकुकर्णेन परिघं गृह्णीतं वीक्ष्य तद्बलात् ।।१३।।
विनेदुर्मुदिता देवाः१३ शंकुकर्णश्च तुष्टुवुः ।
शंकुकर्णोपि परिघं गृहीत्वा बलवान् पुनः ।।१४।।
ररास जम्भमुद्दिश्य ससार च रणप्रियः१४ ।।
ततो दानवशार्दूल: ससार रणलालसः ।।१५।।
ततो गणेश्वरबले दानवानां बले तथा१५ ॥
जज्ञे वादित्रनिनदः सिंह्नादविमिश्रितः ।।१६।।
अथ गगनतले बभूव शब्दः क्षुभितसमुद्रपयोदनादकल्पः१६ ।
दनुतनयगणाधिपेशयुद्धं तदुपनिशाम्य दिवौकसां तदानीम् ।१७।। प्रमथगणवरास्सनागरुद्रा१७ ह्यसुरवराश्च सहान्धका रणस्थाः । व्युपरतकलहा१८स्तदावतस्थुर्गणपतिदानवयुद्धमीक्षमाणाः । (१८।।
इति स्कन्दपुराणे गणयुद्ध ऊनचत्वारिंशदुत्तरशततमोध्यायः
सनत्कुमार उवाच
शंकुकर्ण तु धावन्तं जम्भं प्रति महाबलः१ ।
वृत्रोभ्यधावत्तं हन्तुं पंचानन इव२ द्विपम् ।।१।।
उत्सृज्य शंकुकर्णोपि जम्भं गणपपुंगवः ।
वृत्रमेवाभिदुद्राव विघातो वै दमं३ यथा ॥२॥
परिघेणाहनच्चैनं शंकुकर्णो गणेश्वरः।
महागिरिं यथा शक्रो वज्रेण शतपर्वणा ।।३।।
वृत्रोपि चाथ दैत्येन्द्रः परिघेणायसेन४ वै ।
ब्रभ्राम ताडितोत्यर्थँ वायुनुन्न इव द्रुमः ।।४।।


१३ दुरितान्देवा: - क. ।। १४ रणे प्रिय: - क.. रणप्रियः - ख. ।। १५ तदा -- ख. ।। १६ पयोदसमुद्रनादकल्प: - क.ख. घ. ।। १७ ...श्च नfगरुद्रा - क. ख. ।। १८ व्यपगतकलहा - क. ।। १९ १८८ - ख. पु. ॥
१ महाबल - ख. ।
२ नरसिंहो यथा - क. ख. ॥ ३ द्रुमं - क. ॥ ४... नायसेन - क.ख. ।

(७५२ )
स तेन सुप्रहारेण रुधिरस्रावचित्रितः ।
स्वर्णधातुरसोद्गारी नीलाचल इवाबभौ ।।५।।
वृत्रे घूर्णति दैत्येन्द्र परिघाभिहते भृशम् ।
विनेदु५र्देवगन्धर्वाः पूजयन्तो गणेश्वरम् ।।६।।
ततश्चिरात् समाश्वस्य वृत्रो दानवपुङ्गवः ।
गिरे: श्रृङ्गं समुत्पाटय शङकुकर्णमधावत ।
स तस्य तत्सवृक्षर्क्षं सधातूपलपन्नगम् ।
गणेश्वरायाचलाग्रं चिक्षेप च ररास च ।। ८ ।।
तद्वृत्रभुजनिर्मुक्तं गिर्यग्रशिखरं महत् ।
बिभेद नन्दी वज्रेण केशरीव मतङ्गजम् ।।९।।
अथ तौ गणदैत्येन्द्रौ भुजैर्भुजगकोपनौ ।
समेतौ घोरसंह्रादौ नियुद्धकुशलावुभौ ।।8.140.१०।।
निष्टनन्ताविवादित्यौ दीप्यमानाविवानलौ९ ।।
गर्जमानाविव घनौ बृहन्ताविव कुञ्जरौ ।।११।।
मत्ताविव च शार्दूलौ निःश्वसन्ताविवोरगौ ।
नर्दमानौ यथा सिंहौ वल्गमानौ वृषाविव१० ॥१२॥
चलन्ताविव शैलेन्द्रौ घूर्णमानाविवार्णवौ११ ।
पूरयन्तौ यथा मेघौ स्पर्धन्तौ मकराविव ।।१३।।
इत्येवं शंकुकर्णश्च वृत्रश्चासुरपुंगवः ।
प्रयुद्धौ युद्धकुशलौ परस्परजिघांसया ।१४।।
मुष्टिभिर्वज्रकल्पैश्व तलैश्चाशनिसन्निभैः ।
पादप्रहारैर्घोरैश्च१२ ऊर्ध्वमुत्क्षेपणैस्तथा ।।१५।।
आक्षेपैरथ विक्षेपैः कर्षणैरपकर्षणैः ।
पौरुषाख्यापनै१३रुग्रै१४र्नामसंश्रावणैरपि ।।१६।।


५ युयुधु - घ. ॥ ६ गिरेरग्रं - ख. ।। ७ भुजविनिर्मुक्त - क., हस्त... - क. टि. ।। ८ भुजौ भुजगकोपनौ - क., भुजगोपमौ - घ. ॥ ९ .. चलौ - क. ख. ।। १० वेपमानाविव ध्वजौ - घ. ।। ११ नर्दन्ताविवगोवृषौ - घ. ।। १२ बाहुप्रहारैर्घोरैश्च - घ. ।। १३ पौरूषख्यापनै - ख., ख्यापनै - क. ।। १४ ... रुग्रै - ख. ।

७५३
करजाग्रप्रतुदनै१५र्गलग्रहणनिग्रहैः ।
सिंहनादैः सवादित्रैर्वृक्षशैलशिलोपलैः । । १७। ।
शंकुकर्णो गणाध्यक्षः स च वृत्रो१६ दनोस्सुतः ।
जघ्नतुस्तावथान्योन्यमन्योन्यस्यान्तरैषिणौ१७ । । १ ८।।
शंकुकर्णेन वृत्रस्तु१८ दृढमूल इव द्रुमः ।
हस्तावबन्धनोत्क्षिप्तः१९ सहसा पातितः क्षितौ । । १ ९। ।
ततो२०गणेश्वरबले दानवानां तथा बले२१ ।
साधुशब्दो बभूवोच्चैर्वृत्रे२२ तु विनिपातिते । । 8.140.२० । ।
मुष्टिना तमथाहत्य वृत्रं भुवि निपात्य२३ च ।
शंकुकर्णो ह्यपक्रान्तो देहाज्जीव इवाशुगः । । २१ । ।
वृत्रस्तु२४ सुमहावीर्यो मुष्टिताडनविह्वलः२५ ।
इन्द्रकेतुरिवोत्तस्थौ दुद्राव च गणेश्वरम् ।। २२ ।
तमापतन्तं वृक्षेण शंकुकर्णो गणेश्वरः ।
शालेन२६ ताडयामास इत एहीति चाब्रवीत् ।।२ ३ ।।
क्रुद्धेन शंकुकर्णेन वृत्रो वै शालताडितः ।
उपेत्य पादे जग्राह शंकुकुर्णं बली बलात् । । २४। ।
शंकुकर्णं गृहीत्वा तु वृत्रो नाग इवाण्डजम्२७ ।
भ्रामयामास विवशं लोकं मोह इवोद्यतः ।। २५। ।
शंकुकर्णस्य वृत्रेण भ्राम्यमाणस्य सर्वशः ।
शरीरात्समदीर्यन्त भूषणानि सहस्रशः । । २६ । ।
तं भ्राम्यमाणं प्रसमीक्ष्य देवा वृत्रेण सर्वे च तदा गणेशाः ।
हाहेति कृत्वा धृतशस्त्रबाणाः प्रदुद्रुवुस्तस्य विमोक्षणार्थम् ।।२७।।
आगच्छातस्तान् प्रसमीक्ष्य वृत्रः सर्वान् गणेशान् शितशस्त्रहस्तान्२८ ।
मुमोच तं संसदि२९शंकुकर्णं नागं गरुत्मानिव पक्षिराजः ।।२८।।


 १५ करञ्जनाग्रनुदनैः - क । १६ वृत्तो - ख । १७... मन्योन्यस्य वधैषिणौ - घ. । १८ वृत्तस्तु - ख. । १९ बन्धेनोत्क्षिप्त (?) । २० गते - क. । २१ बले तथा - क. । २२ वृत्ते - ख. । २३ तु विनिपात्य - क. । २४ वृत्तस्तु - ख. । २५ मुष्टिघातेन विह्वलः - घ. । २६ सालेन - ख. । २७ इवाण्डकान् - क., शुभं - घ इवांशुकम् (?) । २८ सितशस्त्रहस्तान् - क. । २९ सयति (?) ।

७५४

वृत्रमुक्तस्तु३० गणपः शंकुकर्णो महाबलः ।
योद्धुकामः पुनर्वृत्रं निवृत्तो३१ हस्तिराडिव । ।२ ९। ।
ततः पुनः सिंहरवाः समन्तात्३२ तस्मिन्बले दुन्दुभिनिस्वनाश्च ।
हे शंकुकर्णेति च साधुवादो मनोहरस्तस्य रणे बभूव । । 8.140.३० । ।

इति स्कन्दपुराणे गणयुद्धे चत्वारिंशोत्तरशततमोध्यायः


३० वृत्तमुक्तस्तु - ( ?) । ३१ निर्वृत्तो - क. 7 प्रवृत्तो - घ. । ३२ सशंखाः - क ख., १८९ ः ख
१ महागज - ख. । २ आहत - क., आहत्य - ख । ३ शुभम् - ख. । ४ उच्छृत्य क। ५ दुद्राव विट्पतिं (?) । ६ महाकालो (?) । ७ पश्यमानो - क. ।