स्तवचिन्तामणिः
- मूलम्
सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया ।
जयत्युल्लासितानन्द- महिमा परमेश्वरः । । १ । ।
यः स्फीतः श्रीदयाबोध- परमानन्दसम्पदा ।
विद्योद्द्योतितमाहात्म्यः स जयत्यपराजितः । । २ । ।
प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने ।
नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे । । ३ । ।
द्विष्मस्त्वां त्वां स्तुमस्तुभ्यं मन्त्रयामोऽम्बिकापते ।
अतिवाल्लभ्यतः साधु विश्वङ्नो धृतवानसि । । ४ । ।
संहृतस्पर्शयोगाय सम्पूर्णामृतसूतये ।
वियन्मायास्वरूपाय विभवे शम्भवे नमः । । ५ । ।
भिन्नेष्वपि न भिन्नं यच्छिन्नेष्वछिन्नं एव च ।
नमामः सर्वसामान्यं रूपं तत्पारमेश्वरं । । ६ । ।
प्रणवोर्ध्वार्धमात्रातोऽप्यणवे महते पुनः ।
ब्रह्माण्डादपि नैर्गुण्य- गुणाय स्थाणवे नमः । । ७ । ।
ब्रह्माण्डगर्भिणीं व्योम- व्यापिनः सर्वतोगतेः ।
परमेश्वरहंसस्य शक्तिं हंसीं इव स्तुमः । । ८ । ।
निरुपादानसम्भारं अभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने । । ९ । ।
मायाजलोदरात्सम्यगुद्धृत्य विमलीकृतं ।
शिवज्ञानं स्वतो दुग्धं देह्येहि हरहंस नः । । १० । ।
षट्प्रमाणीपरिच्छेद- भेदयोगेऽप्यभेदिने ।
परमार्थैकभावाय बलिं यामो भवाय ते । । ११ । ।
अपि पश्येम गम्भीरां परेण ज्योतिषाभितः ।
उन्मृष्टतमसं रम्यां अन्तर्भव भवद्गुहां । । १२ । ।
नमस्तेभ्योऽपि ये सोम- कलाकलितशेखरं ।
नाथं स्वप्नेऽपि पश्यन्ति परमानन्ददायिनं । । १३ । ।
भगवन्भव भावत्कं भावं भावयितुं रुचिः ।
पुनर्भवभयोच्छेद- दक्षा कस्मै न रोचते । । १४ । ।
यावज्जीवं जगन्नाथ कर्तव्यं इदं अस्तु नः ।
त्वत्प्रसादात्त्वदेकाग्र- मनस्कत्वेन या स्थितिः । । १५ । ।
शाखासहस्रविस्तीर्ण- वेदागममयात्मने ।
नमोऽनन्तफलोत्पाद- कल्पवृक्षाय शम्भवे । । १६ । ।
वाङ्मनःकायकर्माणि विनियोज्य त्वयि प्रभो ।
त्वन्मयीभूय निर्द्वन्द्वाः कच्चित्स्यामापि कर्हिचिथ् । । १७ । ।
जगतां सर्गसंहार- तत्तद्धितनियुक्तिषु ।
अनन्यापेक्षसामर्थ्य- शालिनि शूलिने नमः । । १८ । ।
व्यतीतगुणयोगस्य मुख्यध्येयस्य धूर्जटेः ।
नामापि ध्यायतां ध्यानैः किं अन्यालम्बनैः फलं । । १९ । ।
नमो नमः शिवायेति मन्त्रसामर्थ्यं आश्रिताः ।
श्लाघ्यास्ते शाम्भवीं भूतिं उपभोक्तुं य उद्यताः । । २० । ।
कः पन्था येन न प्राप्यः का च वाङ्नोच्यसे यया ।
किं ध्यानं येन न ध्येयः किं वा किं नासि यत्प्रभो । । २१ । ।
अर्चितोऽयं अयं ध्यात एष तोषित इत्ययं ।
रसः स्रोतःसहस्रेण त्वयि मे भव वर्धतां । । २२ । ।
नमो निःशेषधीपत्रि- मालालयमयात्मने ।
नाथाय स्थाणवे तुभ्यं नागयज्ञोपवीतिने । । २३ । ।
अज्ञानतिमिरस्यैकं औषधं संस्मृतिस्तव ।
भव तत्तत्प्रदानेन प्रसादः क्रियतां मयि । । २४ । ।
नम ईशाय निःशेष- पुरुषार्थप्रसाधकः ।
प्रणन्तव्यः प्रणामोऽपि यदीय इह धीमतां । । २५ । ।
मग्नैर्भीमे भवाम्भोधौ निलये दुःखयादसां ।
भक्तिचिन्तामणिं शार्वं ततः प्राप्य न किं जितं । । २६ । ।
निरावरणनिर्द्वन्द्व- निश्चलज्ञानसम्पदां ।
ज्ञेयोऽसि किल केऽप्येते ये त्वां जानन्ति धूर्जटे । । २७ । ।
निर्गुणोऽपि गुणज्ञानां ज्ञेय एको जयत्यजः ।
निष्कामोऽपि प्रकृत्या यः कामनानां परं फलं । । २८ । ।
श्रीरत्नामृतलाभाय क्लिष्टं यत्र न कैः सुरैः ।
तत्क्षीरोददं ऐश्वर्यं तवैव सहजं विभो । । २९ । ।
नमो भक्त्या नृणां मुक्त्यै भवते भव तेऽवते ।
स्मृत्या नुत्या च ददते शम्भवे शं भवेऽभवे । । ३० । ।
सर्वज्ञः सर्वकृत्सर्वं असीति ज्ञानशालिनां ।
वेद्यं किं कर्म वा नाथ नानन्त्याय त्वयार्प्यते । । ३१ । ।
इच्छाया एव यस्येयत्फलं लोकत्रयात्मकं ।
तस्य ते नाथ कार्याणां को वेत्ति कियती गतिः । । ३२ । ।
ब्रह्मादयोऽपि तद्यस्य कर्मसोपानमालया ।
उपर्युपरि धावन्ति लब्धुं धाम नमामि तं । । ३३ । ।
अयं ब्रह्मा महेन्द्रोऽयं सूर्याचन्द्रमसाविमौ ।
इति शक्तिलता यस्य पुष्पिता पात्वसौ भवः । । ३४ । ।
भ्रमो न लभ्यते यस्य भ्रान्तान्तःकरणैरपि ।
दूरगैरपि यस्यान्तो दुर्गं अस्तं स्तुमो मृडं । । ३५ । ।
नमः स्तुतौ स्मृतौ ध्याने दर्शने स्पर्शने तथा ।
प्राप्तौ चानन्दवृन्दाय दयिताय कपर्दिने । । ३६ । ।
किं स्मयेनेति मत्वापि मनसा परमेश्वर ।
स्मयेन त्वन्मयोऽस्मीति मामि नात्मनि किं मुदा । । ३७ । ।
चिन्तयित्वापि कर्तव्य- कोटीश्चित्तस्य चापलाथ् ।
विश्राम्यन्भव भावत्क- चित्तानन्दे रमे भृशं । । ३८ । ।
सूक्ष्मोऽपि चेत्त्रिलोकीयं कलामात्रं कथं तव ।
स्थूलोऽथ किं सुदर्शो न ब्रह्मादिभिरपि प्रभो । । ३९ । ।
वाच्य एषां त्वं एवेति नाभविष्यदिदं यदि ।
कः क्लेशं देव वाग्जालेष्वकरिष्यत्सुधीस्तदा । । ४० । ।
क्रमेण कर्मणा केन कया वा प्रज्ञया प्रभो ।
दृश्योऽसीत्युपदेशेन प्रसादः क्रियतां मम । । ४१ । ।
नमो निरुपकार्याय त्रैलोक्यैकोपकारिणे ।
सर्वस्य स्पृहणीयाय निःस्पृहाय कपर्दिने । । ४२ । ।
अहो क्षेत्रज्ञता सेयं कार्याय महते सतां ।
ययानन्तफलां भक्तिं वपन्ति त्वय्यमी प्रभो । । ४३ । ।
महतीयं अहो माया तव मायिन्ययावृतः ।
त्वद्ध्याननिधिलाभेऽपि मुग्धो लोकः श्लथायते । । ४४ । ।
आरम्भे भव सर्वत्र कर्म वा करणादि वा ।
विश्वं अस्तु स्वतन्त्रस्तु कर्ता तत्रैकको भवान् । । ४५ । ।
त्रिगुणत्रिपरिस्पन्द- द्वन्द्वग्रस्तं जगत्त्रयं ।
उद्धर्तुं भवतोऽन्यस्य कस्य शक्तिः कृपाथवा । । ४६ । ।
दोषोऽपिदेव को दोषस्त्वां आप्तुं यः समास्थितः ।
गुणोऽपि च गुणः को नु त्वां नाप्तुं यः समास्थितः । । ४७ । ।
रागोऽप्यस्तु जगन्नाथ मम त्वय्येव यः स्थितः ।
लोभायापि नमस्तस्मै त्वल्लाभालम्बनाय मे । । ४७ । ।
अहो महदिदं कर्म देव त्वद्भावनात्मकं ।
आब्रह्मक्रिमि यस्मिन्नो मुक्तयेऽधिक्रियेत कः । । ४८ । ।
आरम्भः सर्वकार्याणां पर्यन्तः सर्वकर्मणां ।
तदन्तर्वृत्तयश्चित्रास्तवैवेशो धियः पथि । । ४९ । ।
यावदुत्तरं आस्वाद- सहस्रगुणविस्तरः ।
त्वद्भक्तिरसपीयूषान्नाथ नान्यत्र दृश्यते । । ५० । ।
उपसंहृतकामाय कामायतिं अतन्वते ।
अवतंसितसोमाय सोमाय स्वामिने नमः । । ५१ । ।
किं अशक्तः करोमीति सर्वत्रानध्यवस्यतः ।
सर्वानुग्राहिका शक्तिः शांकरी शरणं मम । । ५२ । ।
गुणातीतस्य निर्दिष्ट- निःशेषातिशयात्मनः ।
लभ्यते भव कुत्रांशे परः प्रतिनिधिस्तव । । ५३ । ।
निर्द्वन्द्वे निरुपाधौ च त्वय्यात्मनि सति प्रभो ।
वयं वञ्च्यामहेऽद्यापि माययामेयया तव । । ५४ । ।
अणिमादिगुणावाप्तिः सदैश्वर्यं भवक्षयः ।
अमी भव भवद्भक्ति- कल्पपादपपल्लवाः । । ५५ । ।
या या दिक्तत्र न क्वासि सर्वः कालो भवन्मयः ।
इति लब्धोऽपि कर्हि त्वं लप्स्यसे नाथ कथ्यतां । । ५६ । ।
नमः प्रसन्नसद्वृत्त- मानसैकनिवासिने ।
भूरिभूतिसिताङ्गाय महाहंसाय शम्भवे । । ५७ । ।
हृतोद्धततमस्तान्तिः प्लुष्टाशेषभवेन्धना ।
त्वद्बोधदीपिका मेऽस्तु नाथ त्वद्भक्तिदीपिका । । ५८ । ।
विसृष्टानेकसद्बीज- गर्भं त्रैलोक्यनाटकं ।
प्रस्ताव्य हर संहर्तुं त्वत्तः कोऽन्यः कविः क्षमः । । ५९ । ।
नमः सदसतां कर्तुं असत्त्वं सत्त्वं एव वा ।
स्वतन्त्रायास्वतन्त्राय व्ययैश्वर्यैकशालिने । । ६० । ।
त्रैलोक्येऽप्यत्र यो यावानानन्दः कश्चिदीक्ष्यते ।
स बिन्दुर्यस्य तं वन्दे देवं आनन्दसागरं । । ६१ । ।
अहो ब्रह्मादयो धन्या ये विमुक्तान्यसंकथं ।
नमो नमः शिवायेति जपन्त्याह्लादविह्वलाः । । ६२ । ।
निष्कामायापि कामानां अनन्तानां विधायिने ।
अनादित्वेऽपि विश्वस्य भोक्त्रे भव नमोऽस्तु ते । । ६३ । ।
स्तुमस्त्रिभुवनारम्भ- मूलप्रकृतिं ईश्वरं ।
लिप्सेरन्नोपकारं के यतः सम्पूर्णधर्मणः । । ६४ । ।
महत्स्वप्यर्थकृच्छ्रेषु मोहौघमलिनीकृताः ।
स्मृते यस्मिन्प्रसीदन्ति मतयस्तं शिवं स्तुमः । । ६५ । ।
प्रभो भवत एवेह प्रभुशक्तिरभङ्गुरा ।
यदिच्छया प्रतायेते त्रैलोक्यस्य लयोदयौ । । ६६ । ।
कुकर्मापि यं उद्दिश्य देवं स्यात्सुकृतं परं ।
सुकृतस्यापि सौकृत्यं यतोऽन्यत्र न सोऽसि भोः । । ६७ । ।
एष मुष्ट्या गृहीतोऽसि दृष्ट एष क्व यासि नः ।
इति भक्तिरसाध्माता धन्या धावन्ति धूर्जटिं । । ६८ । ।
स्तुमस्त्वां ऋग्यजुःसाम्नां शुक्रतः परतः परं ।
यस्य वेदात्मिकाज्ञेयं अहो गम्भीरसुन्दरी । । ६९ । ।
विधिरादिस्तथान्तोऽसि विश्वस्य परमेश्वर ।
धर्मग्रामः प्रवृत्तो यस्त्वत्तो न स कुतो भवेथ् । । ७० । ।
नमस्ते भवसम्भ्रान्त- भ्रान्तिं उद्भाव्य भिन्दते ।
ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते । । ७१ । ।
यस्याः प्राप्येत पर्यन्त- विशेषः कैर्मनोरथैः ।
मायां एकनिमेषेण मुष्णंस्तां पातु नः शिवः । । ७२ । ।
वैराग्यस्य गतिं गुर्वीं ज्ञानस्य परमां श्रियं ।
नैःस्पृह्यस्य परां कोटिं बिभ्रतां त्वं प्रभो प्रभुः । । ७३ । ।
ब्रह्मणोऽपि भवान्ब्रह्म कस्य नेशस्त्वं ईशितुः ।
जगत्कल्याणकल्याणं कियत्त्वं इति वेत्ति कः । । ७४ । ।
किं अन्यैर्बन्धुभिः किं च सुहृद्भिः स्वामिभिस्तथा ।
सर्वस्थाने ममेश त्वं य उद्धर्ता भवार्णवाथ् । । ७५ । ।
जयन्ति मोहमायादि- मलसंक्षालनक्षमाः ।
शैवयोगबलाकृष्टा दिव्यपीयूषविप्रुषः । । ७६ । ।
गायत्र्या गीयते यस्य धियां तेजः प्रचोदकं ।
चोदयेदपि कच्चिन्नः स धियः सत्पथे प्रभुः । । ७७ । ।
अष्टमूर्ते किं एकस्यां अपि मूर्तौ न नः स्थितिं ।
शाश्वतीं कुरुषे यद्वा तुष्टः सर्वं करिष्यसि । । ७८ । ।
वस्तुतत्त्वं पदार्थानां प्रायेणार्थक्रियाकरं ।
भवतस्त्वीश नामापि मोक्षपर्यन्तसिद्धिदं । । ७९ । ।
मुहुर्मुहुर्जगच्चित्रस्य्- -आन्यान्यां स्थितिं ऊहितुं ।
शक्तिर्या ते तया नाथ को मनस्वी न विस्मितः । । ८० । ।
दुष्करं सुकरीकर्तुं दुःखं सुखयितुं तथा ।
एकवीरा स्मृतिर्यस्य तं स्मरामः स्मरद्विषं । । ८१ । ।
जयन्ति गीतयो यासां स गेयः परमेश्वरः ।
यन्नाम्नापि महात्मानः कीर्यन्ते पुलकाङ्कुरैः । । ८२ । ।
भवानिव भवानेव भवेद्यदि परं भव ।
स्वशक्तिव्यूहसंव्यूढ- त्रैलोक्यारम्भसंहृतिः । । ८३ । ।
मन्त्रोऽसि मन्त्रणीयोऽसि मन्त्री त्वत्तः कुतोऽपरः ।
स मह्यं देहि तं मन्त्रं त्वन्मन्त्रः स्यां यथा प्रभो । । ८४ । ।
भारूपः सत्यसंकल्पस्त्वं आत्मा यस्य सोऽप्यहं ।
संसारीति किं ईशैष स्वप्नः सोऽपि कुतस्त्वयि । । ८५ । ।
तदभङ्गि तदग्राम्यं तदेकं उपपत्तिमथ् ।
त्वयि कर्मफलन्यास- कृतां ऐश्वर्यं ईश यथ् । । ८६ । ।
क्षमः कां नापदं हन्तुं कां दातुं सम्पदं न वा ।
योऽसौ स दयितोऽस्माकं देवदेवो वृषध्वजः । । ८७ । ।
मायामयमलान्धस्य दिव्यस्य ज्ञानचक्षुषः ।
निर्मलीकरणे नाथ त्वद्भक्तिः परमाञ्जनं । । ८८ । ।
निर्भयं यद्यदानन्द- मयं एकं यदव्ययं ।
पदं देह्येहि मे देव तूर्णं तत्किं प्रतीक्षसे । । ८९ । ।
अहो निसर्गगम्भीरो घोरः संसारसागरः ।
अहो तत्तरणोपायः परः कोऽपि महेश्वरः । । ९० । ।
नमः कृतकृतान्तान्त तुभ्यं मदनमर्दिने ।
मस्तकन्यस्तगङ्गाय यथायुक्तार्थकारिणे । । ९१ । ।
ऐश्वर्यज्ञानवैराग्य- धर्मेभ्योऽप्युपरि स्थितिं ।
नाथ प्रार्थयमानानां त्वदृते का परा गतिः । । ९२ । ।
त्वय्यनिच्छति कः शम्भो शक्तः कुब्जयितुं तृणं ।
त्वदिच्छानुगृहीतस्तु वहेद्ब्राह्मीं धुरं न कः । । ९३ । ।
हरप्रणतिमाणिक्य- मुकुटोत्कटमस्तकाः ।
नमेयुः कं परं कं वा नमयेयुर्न धीधनाः । । ९४ । ।
सर्वविभ्रमनिर्मोक- निष्कम्पं अमृतह्रदं ।
भवज्ज्ञानाम्बुधेर्मध्यं अध्यासीयापि धूर्जटे । । ९५ । ।
चित्रं यच्चित्रदृष्टोऽपि मनोरथगतोऽपि वा ।
परमार्थफलं नाथ परिपूर्णं प्रयच्छसि । । ९६ । ।
को गुणैरधिकस्त्वत्तस्त्वत्तः को निर्गुणोऽधिकः ।
इति नाथ नुमः किं त्वां किं निन्दामो न मन्महे । । ९७ । ।
कीर्तनेऽप्यमृतौघस्य यत्प्रसत्तेः फलं तव ।
तत्पातुं अपि कोऽन्योऽलं किं उ दातुं जगत्पते । । ९८ । ।
निःशेषप्रार्थनीयार्थ- सार्थसिद्धिनिधानतः ।
त्वत्तस्त्वद्भक्तिं एवाप्तुं प्रार्थये नाथ सर्वथा । । ९९ । ।
नमस्त्रैलोक्यनाथाय तुभ्यं भव भवज्जुषां ।
त्रिलोकीनाथतादान- निर्विनायकशक्तये । । १०० । ।
निःशेषक्लेशहानस्य हेतुः क इति संशये ।
स्वामिन्सोऽसीति निश्चित्य कस्त्वां न शरणं गतः । । १०१ । ।
भुक्त्वा भोगान्भवभ्रान्तिं हित्वा लप्स्ये परं पदं ।
इत्याशंसेह शोभेत शम्भौ भक्तिमतः परं । । १०२ । ।
नाथ स्वप्नेऽपि यत्कुर्यां ब्रूयां वा साध्वसाधु वा ।
त्वदधीनत्वदर्पेण सर्वत्रात्रास्मि निर्वृतः । । १०३ । ।
ज्योतिषां अपि यज्ज्योतिस्तत्र त्वद्धाम्नि धावतः ।
चित्तस्येश तमःस्पर्शो मन्ये वन्ध्यात्मजानुजः । । १०४ । ।
मन्ये न्यस्तपदः सोऽपि क्षेम्ये मोक्षस्य वर्त्मनि ।
मनोरथः स्थितो यस्य सेविष्ये शिवं इत्ययं । । १०५ । ।
स्थित्युत्पत्तिलयैर्लोक- त्रयस्योपक्रियास्विह ।
एकैवेश भवच्छक्तिः स्वतन्त्रं तन्त्रं ईक्षसे । । १०६ । ।
त्रिलोक्यां इह कस्त्रातस्त्रिताप्या नोपतापितः ।
तस्मै नमोऽस्तु ते यस्त्वं तन्निर्वाणामृतह्रदः । । १०७ । ।
कृत्रिमापि भवद्भक्तिरकृत्रिमफलोदया ।
निश्छद्मा चेद्भवेदेषा किंफलेति त्वयोच्यतां । । १०८ । ।
तच्चक्षुरीक्ष्यसे येन सा गतिर्गम्यसे यया ।
फलं तदज जातं यत्त्वत्कथाकल्पपादपाथ् । । १०९ । ।
श्रेयसा श्रेय एवैतदुपरि त्वयि या स्थितिः ।
तदन्तरायहृतये त्वं ईश शरणं मम । । ११० । ।
अहो स्वादुतमः शर्व- सेवाशंसासुधारसः ।
कुत्र कालकलामात्रे न यो नवनवायते । । १११ । ।
मुहुर्मुहुरविश्रान्तस्त्रैलोक्यं कल्पनाशतैः ।
कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः । । ११२ । ।
मलतैलाक्तसंसार- वासनावर्तिदाहिना ।
ज्ञानदीपेन देव त्वां कदा नु स्यां उपस्थितः । । ११३ । ।
निमेषं अपि यद्येकं क्षीणदोषे करिष्यसि ।
पदं चित्ते तदा शम्भो किं न सम्पादयिष्यसि । । ११४ । ।
धन्योऽस्मि कृतकृत्योऽस्मि महानस्मीति भावना ।
भवेत्सालम्बना तस्य यस्त्वदालम्बनः प्रभो । । ११५ । ।
शुभाशुभस्य सर्वस्य स्वयं कर्ता भवानपि ।
भवद्भक्तिस्तु जननी शुभस्यैवेश केवलं । । ११६ । ।
प्रसन्ने मनसि स्वामिन्किं त्वं निविशसे किं उ ।
त्वत्प्रवेशात्प्रसीदेत्तदिति दोलायते जनः । । ११७ । ।
निश्चयः पुनरेषोऽत्र त्वदधिष्ठानं एव हि ।
प्रसादो मनसः स्वामिन्सा सिद्धिस्तत्परं पदं । । ११८ । ।
वचश्चेतश्च कार्यं च शरीरं मम यत्प्रभो ।
त्वत्प्रसादेन तद्भूयाद्भवद्भावैकभूषणं । । ११९ । ।
स्तवचिन्तामणिं भूरि- मनोरथफलप्रदं ।
भक्तिलक्ष्म्यालयं शम्भो भट्टनारायणो व्यधाथ् । । १२० । ।
- विवृतिः
विवृतिश्चात्र
तत्रभवत्स्तुतिसूक्तिकारप्रशिष्यमहामाहेश्वराचार्यवर्यश्रीमद-
भिनवगुप्तपादपद्ममधुपराजस्य राजानकक्षेमराजस्य
(पृष्ठम् १३१)
सद्विद्यानां संश्रये ग्रन्थविद्वद् -
व्यूहे ह्रासं कालवृत्त्योपयाते ।
तत्तत्सद्धर्मोद्दिधीर्षैकतान-
सत्प्रेक्षौजःशालिना कर्मवृत्त्यै ॥ १ ॥
श्रीमत्कश्मीराधिराजेन मुख्यै -
र्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य ।
प्रत्यष्ठापि ज्ञानविज्ञानगर्भ -
ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः ॥ २ ॥
तत्राजीवं निर्विशद्भिर्मुकुन्द -
रामाध्यक्षत्वाश्रितैः सद्भिरेषः ।
पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात्
पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् ॥ ३ ॥ तिलकम् ॥
श्रीशिवार्पणं समावेशनिर्वाणावहं च श्रोतृं - पाठकजनानां
भूयात् ॥
अयं ग्रन्थः
पंडित विश्वनाथ एंड सन्स
फोटोग्राफर्स प्रोप्रा - इटर्स इत्यादि
इत्येतैः स्वकीये
कश्मीर प्रताप स्टीम प्रेस श्रीनगर
इत्याख्याख्याते
मुद्रणायन्त्रे सम्मुद्रितः
स्तवचिन्तामणौ
द्वितीयपरिशिष्टम् ।
मूलश्लोकानां संक्षेपेण विषयार्थसंग्रहः ।
१ विकल्पमयवैखरीमध्यमाप्रशमनपूर्वकं
पश्यन्तीदशामुन्मज्जयतस्तद्व्याप्तिकामनाश्रितदशामपि
वेद्यत्वेनाभासयतः
परमानन्दात्मकपराद्वयप्रमातृतामुन्मीलयतः
स्वात्मपरमार्थपरमेश्वरस्य स्वरूपसमावेशविमर्शनम् ।
२ पूर्वोक्तस्वरूपस्यैव परमेश्वरस्य शक्तिप्राधान्येन स्तवनम् ।
३ सदाशिवेश्वरादिना वेद्यपर्यन्तेन पराद्वैतप्रथानुप्रविष्टेन
विश्वात्मना रूपेण प्रसरज्ज्ञानक्रियाशक्तेः प्रकाशात्मनो
नरप्रधानभगवत्स्वरूपस्य प्रहीभावेन विमर्शनम् ।
४ तत्तद्द्वेष्यस्तुत्याद्यवस्थास्वपि भगवदनुग्रहात्
तदभेदप्रथात्मिकाया विभूतेरासादनकथनम् ।
(पृष्ठम् १४०)
५ वासनाप्लोषयुक्त्यैवाख्यातिप्रशमनपूर्वकं
पाशक्षपणपूर्णस्वरूपप्रथनेन स्वात्मरूपमहेश्वरस्य
अनुग्राह्यानुग्रहसमावेशार्थनम् ।
६ वैशेषिकाभ्युपगतपरापरसामान्यव्यतिरिक्तसर्वसामान्य-
पूर्णाहन्तात्मकमहाचैतन्यरूपपारमेश्वरस्वरूपविमर्शनं
नमस्करणमुखेन ।
७ अनुपलभ्यमूर्तित्वादतिसुसूक्ष्मत्वेऽपि
शक्त्यण्डपर्यन्तसमस्तजगद्व्यापकस्य
चित्प्रकाशधर्मभगवत्स्वरूपस्याभिवन्दनम् ।
८ विश्वसृष्टिसंहारात्मकहानसमादानधर्मत्वेन
उपचरितहंसस्वरूपस्य परमेश्वरस्यैवान्तरभेदेन
धृतब्रह्माण्डगर्भोन्मनारूपहंसीशक्तिपरामर्शनम् ।
९ उपादानादिकारणासत्त्वे शून्यभुव्येव
जगच्चित्ररचनात्मातिदुर्घटकर्मणोऽव्याहतस्वातन्त्र्यपरमेश्वरविष-
यस्वात्मसमावेशनम् ।
१० मायासंपर्करहितत्वेन स्वच्छशिवज्ञानस्य परमेश्वराअत्
प्रार्थनम् ।
११ मेयपदे प्रमाणगम्यत्वेऽपि वस्तुतोऽभेदरूपतया
प्रमाणव्यापारातीताय परमेश्वराय
शरीरप्राणपुर्यष्टकादिसमर्पणरूपबलिनिवेदनम् ।
(पृष्ठम् १४१)
१२ गाम्भीर्यादिगुणतया दुर्बोधायाः
शुद्धप्रकाशप्रशमिताख्यातितिमिरायाः
पारमेश्वरमायाशक्तेर्दर्शनाकांक्षणम् ।
१३ भक्त्युद्रेकवशात् स्वप्नेऽपि
साकारपरमेश्वरप्रणामतत्परेभ्यः प्रणमनम् ।
१४ पारमेश्वरं स्वरूपं प्रत्यवम्रष्टुं
जन्ममरणोन्मूलनशक्ताया
रुचेर्बुद्धिमतामत्यभिलषणीयतातिदेशनम् ।
१५ परमेश्वरप्रसादात् यावज्जीवितावस्थं तदेकाग्रमनस्कतया
स्थितेः प्रार्थनम् ।
१६ अनन्तशाखाविस्तीर्णवेदागममयत्वेन
तत्तत्फलोत्पादककल्पवृक्षरूपशंभोरभिवन्दनम् ।
१७ वाङ्मनःकायनिर्वर्त्यसमस्तकर्मणो भगवति समर्पणात्
तत्तादात्म्येन तद्वन्निर्द्वन्द्वताया आशंसनम् ।
१८ जगद्विषयकसृष्टिसंहारादिनियोगेषु
निजस्वातन्त्र्यशालिताप्रशंसितशंभवे प्रणमनोक्तिः ।
१९ निस्त्रैगुण्यमहाप्रकाशात्मभगवन्नाममात्रचिन्तनेनाभीष्टा-
वाप्तेरन्यालम्बनानां ध्यानानां निष्प्रयोजनताकथनम् ।
२० भगवद्वाचकमहामन्त्रसत्तानुप्रविष्टानां
शांभवविभूतिचमत्करणोद्युक्तताकथनम् ।
२१ सर्वस्यैव कायवाङ्मनोविषयस्य भगवन्मयत्वात्
भक्तिमतामप्रयासमेव भगवत्स्वरूपलाभकथनम् ।
(पृष्ठम् १४२)
२२ भगवद्विषयकस्य
शरीरमनोवाङ्निर्वर्त्यार्चनध्यानादिरामस्योत्तरोत्तरवर्धनाशं-
सनम् ।
२३ आकृतिमत्त्वेऽपि तात्त्विकस्वरूपापरित्यागात् सर्वसंविदां
स्थिरपूर्णाहन्तात्मनि विश्रान्तिप्रदस्य भगवतोऽभिवन्दनम् ।
२४ अज्ञानरूपतिमिरप्रशमोपायभूतस्वस्मृतिप्रदानोत्तरं
प्रहविषयनैर्मल्याश्रयणप्रार्थनम् ।
२५ भोगापवर्गसंसाधकभगवत्प्रणामस्यापि प्रणम्यतया
समाश्रयणीयत्वकथनपूर्वकं भगवदभिवन्दनम् ।
२६ दुरुत्तरभवाम्भोधिमग्नानां तदुत्तरणोपायभूतायाः
सर्वाभीष्टप्रदभक्तेर्भगवत एवासादनोत्तरं
भोगमोक्षात्मसंपूर्णेष्टावाप्तेरनुशासनम् ।
२७ केषांचिदेव लोकोत्तराणां भगवत्तत्त्वज्ञानाद
ख्यात्यपगमोत्तरं निश्चलपरमाद्वैतज्ञानलाभानुशंसनम्
२८ निर्गुणस्य निष्कामस्यापि भगवतो
ज्ञानात्मकतद्गुणावभासिनां भक्तानां ज्ञेयतया
तत्तद्भोगमोक्षात्मपार्यन्तिकफलतया सर्वोत्कृष्टत्वेन परामर्शनम् ।
२९ श्रीरत्नामृतादिनिदानभूतक्षीरोददानेन
भगवतोऽसामान्यैश्वर्यप्रकर्षकथनम् ।
३० नुतिस्मृत्यात्मानुत्तरोपायभक्तिमात्रेण भोगापवर्गफलदात्रे
परमेश्वराय प्रणमनम् ।
(पृष्ठम् १४३)
३१ सर्वज्ञः सर्वकृत्सर्वमयश्च परमेश्वर एव
इतीदृशज्ञानशालिनां सर्वं ज्ञेयं कार्यं च भगवता
वैश्वात्म्येनानुभाव्यते इत्यनुशासनम् ।
३२ विश्वस्य यदीयेच्छामात्रेण निष्पत्तिस्तस्य भगवतः कार्यज्ञानं
ब्रह्मादीनामपि दुरूहमिति निर्देशनम् ।
३३ तत्तत्प्रयत्नशतानुष्ठानेनापि
ब्रह्मादिकारणानामप्यलभ्यधाम्नः परमेश्वरस्य प्रणमनम् ।
३४ ब्रह्मादयोऽपि यच्छक्तिविकासभङ्गिभूताः
तस्मात्परमेश्वरात्पालनार्थनम् ।
३५ परमेश्वरस्य महाव्यापकतया दुर्ज्ञेयत्व-
दुष्प्राप्यत्वकथनमुखेन स्तवनम् ।
३६ भक्तिशालिनां स्तुतिस्मृत्याद्यवस्थासु
तदभेदावष्टम्भमयताधिगमात् तत्कालतः
परमानन्दस्फारफलोद्भावकाय परमेश्वराय नमस्करणम् ।
३७ सृष्ट्यादिकारिपरिमितब्रह्मादिपदविषयकस्मयपरित्यागात्
भक्तानां भगवत्स्वरूपप्रत्यभिज्ञावशोन्मिषितसर्वाहंभाव-
रूपमहास्मयग्रहणेन परिपूर्णतया स्फुरणानुशासनम् ।
३८ भक्तिशालिनां भगवच्चैतन्यानन्दविश्रान्त्या
विकल्पात्मकव्युत्थानदशाया अपि समाधिरसपरिप्लुतताकथनम् ।
(पृष्ठम् १४४)
३९ अतिसूक्ष्मरूपत्वे सर्वस्यास्त्रिलोक्यास्तत्कलामात्रत्वेन
दर्शनात्, स्थूलरूपत्वे ब्रह्मादिभिरपि दुर्लक्ष्यत्वात्, सर्वथैव
अपरिच्छेद्यमूर्तेर्भगवतस्तात्त्विकरूपविषयातर्क्यताया भङ्ग्या
प्रतिपादनम् ।
४० सर्वशास्त्राणां शब्दराशिशरीरतात्त्विकपरमेश्वरस्वरूपप्रति-
पादनतात्पर्यसत्तया प्रेक्षावतां प्रवृत्तिविषयत्वानुकीर्तनम् ।
४१ तात्त्विकानायासयादृशक्रमकर्मबुद्ध्यादिना
परमेश्वरज्ञानविषयोपदेशात्मप्रसादाभ्यर्थनम् ।
४२ स्वयमनुपकार्यत्वे विश्वोपकारकतया निःस्पृहत्वे
सर्वस्पृहणीयतया लोकोत्तरोत्कर्षशालिभगवतोऽभिवन्दनम् ।
४३ अपरिच्छिन्नपारमेश्वरस्वरूपप्राप्तिफलकभक्त्यधिष्ठान-
भूतायाः क्षेत्रज्ञतायाः सामान्योक्त्या श्लाघनम् ।
४४ भगवत्स्वरूपनिधिप्रापिकायां भक्तौ विमुखानां
दुरतिक्रमभगवन्माययैव व्यामोहितताप्रतिपादनम् ।
४५ सर्वत्र परमेश्वरस्यैव मुख्यं कर्तृत्वमन्येषां तु
तदुत्थापिततत्तदभिमानमात्रसतत्त्वमिति प्रतिपादनं स्तुतिमुखेन ।
४६ गुणत्रयकार्यभूतसुखदुःखादिद्वन्द्वमग्नजगदुद्धरणाय
ऋते परमेश्वरमन्यस्य शक्तिः कृपा वा नास्तीति प्रतिपादनम् ।
(पृष्ठम् १४५)
४७ भगवदैक्यभावनाभावाभावयोरेव गुणिनां
गुणवत्तया दुष्टानां दोषवत्तया निदर्शनम् ।
४७ (२) सर्वथान्यविषये त्यागप्रार्थनोत्तरं भगवद्विषययोरेव
रागलोभयोरप्यभ्यर्थनम् ।
४८ स्वर्गफलकाग्निष्टोमाद्यधिकारिनियमनवैशिष्ट्येन मुक्तिफलके
निरायासभगवद्भावनात्मके कर्मणि सर्वस्य
जन्तुमात्रस्याधिकारानुशासनम् ।
४९ भोगापवर्गफलकसग्रस्तकर्मणामादिमध्यावसानेषु
भगवत्संविल्लग्नत्वादेशनम् ।
५० अतिसेवनाद्वैरस्यावहेतरास्वादनीयविषयवैशिष्ट्येन
भगवद्भक्तिसुधाया
एवोत्तरोत्तरसेवनान्नवनवचमत्कारप्रदत्वादुत्कृष्टमहिमादेशनम् ।
५१ कामसंहरणादिविश्वातिशायिकार्यवैचित्र्यकारितया
आकृतिमत्त्वेऽपि अतिदुर्घटैश्वर्यशालिपरमेश्वरविषयप्रणमनम् ।
५२ मायाव्यामोहेनास्वातन्त्र्यापत्त्या किंचित्कर्तुमशक्तजन्तुवर्गस्य
तत्क्षणाच्छक्त्यापादिपारमेषानुग्रहशक्तेरेव शरणाख्यानम् ।
५३ स्वतन्त्रचिदेकमूर्तेः परमेश्वरस्य सर्वत्र
निष्प्रतिद्वन्द्विताकथनम् ।
(पृष्ठम् १४६)
५४ भगवदात्मकत्वान्निरस्तसमस्तोपाधीनां जीवानां
मोहापादितया मायायाः प्रभावातिशयद्योतनम् ।
५५ अणिमादिसिद्ध्यवाप्त्यचलैश्वर्याधिगमभवविरतिफलानां
भगवद्भक्तिकल्पपादपस्यैव प्रभवत्वादेशनम् ।
५६ सर्वदेशकालव्यापकतया लब्धेऽपि भगवत्स्वरूपे
सूक्ष्मतमदेहादिसंस्कारगलनाय तदात्मसाद्भावस्य
पुनाराशंसनम् ।
५७ सन्मानसनिवासि- भूतिसिताङ्गमहाहंसरूपाय शंभवे
पुनरपि भक्तिभरेण नमस्करणम् ।
५८ अशेषतमोऽपहरणभवकदर्थनेन्धनदाहभगवत्स्वरूप-
भूतमहाप्रकाशननिदानभगवद्भक्तिदीपिकाया अभ्यर्थनम् ।
५९ भगवत एव विश्वसर्जनादिनाटकप्रस्तावनोत्तरं
तत्संहरणात्मनिर्वहणकृत्यक्षमकवितानुशासनम् ।
६० सदसतोरसत्त्वसत्त्वसंपादनस्वतन्त्रस्य
जगदुत्पत्तिविनाशनैश्वर्यशालिनो भगवतोऽभिवन्दनम् ।
६१ आनन्दसागरात्मभगवतो
विश्ववर्तियावन्मात्रानन्दस्यैकविन्दुरूपकथनोत्तरम् नमस्करणम् ।
६२ भगवद्वाचकमहामन्त्रविमर्शनैकतानतया ब्रह्मादीनां
धन्यत्वानुशासनम् ।
(पृष्ठम् १४७)
६३ स्वयं निरीहस्यापि भक्तेष्टसंपादकतया, अद्वयात्मत्वेऽपि
भोग्यभूतविश्वचमत्कर्त्रे भगवतेऽभिवन्दनम् ।
६४ सर्वकारणकारणाद्भगवत एव ब्रह्मादिकीटान्तानां
सर्वेष्टसिद्ध्याप्त्यावेदनम् ।
६५ निश्चेतुमशक्यजगद्विचारादिप्रयोजनसंकटेषु
मायास्फारमलिनीकृताया बुद्धेः तत्स्मरणमात्रेण
प्रसादाधिगमात्तत्त्वज्ञानसामर्थ्यानुशासनम् ।
६६ इच्छामात्रेणैव विश्वोदयप्रलयकृत्सामर्थ्यस्य भगवत
एवाभङ्गुरप्रभुशक्त्यावेदनम् ।
६७ भगवदभेदभावनासत्तासत्तयोस्तदुद्देशेन विहितस्य
निषिद्धस्यापि सुकृतता, तदनुद्देशेन विहितस्य सुकर्मणश्च दुष्कृतता-
इत्येवमनुशासनम् ।
६८ सततोदितभगवत्समावेशात्मभक्तिरसास्वादरूपद्रविणयुतानां
भगवत्स्वात्मीकरणसाक्षात्करणादिविकल्पैः
परामर्शनाद्धन्यत्वनिर्देशनम् ।
६९ परमानन्दविश्रान्तिप्रदवेदात्माज्ञानियोक्तुः, तथा
तदृगादिवेदत्रयपरामर्शनीयतेजोरूपादप्युत्तीर्णस्य परमेश्वरस्य
स्तवनम् ।
७० परमेश्वरस्यैव विश्ववर्तिवेदोदितविधिनिषेधात्मविचित्रस्वभाव-
परिस्पन्दप्रवर्तकत्वप्रतिपादनम् ।
(पृष्ठम् नो. १४८, १४९ इस् ंइस्सिन्ग्)
(पृष्ठम् १५०)
८५ स्वात्मनः प्रकाशैकात्मसत्यसंकल्पभगवत्स्वरूपाभि-
न्नतामनुभूय संसारित्वस्य स्वप्नकल्पतयाप्यसंभवत्ताकथनम् ।
८६ यत्तद्भेदबुद्ध्यपगमोत्तरं भगवति
निखिलकर्मतत्फलसंन्यासिना-मतिश्लाध्यैश्वर्यभागित्वानुशासनम् ।
८७
सर्वापदपहरणसर्वसंपद्दानसमर्थभगवद्वाल्लभ्याधिगम्
ए भक्तानां स्वात्मश्लाघनम् ।
८८ मायाव्याध्यन्धीकृतज्ञानचक्षुषः
पूर्णप्रथानयनात्मारोग्या-पादिभगवद्भक्तेः परमाञ्जनतया
निरूपणम् ।
८९ गाढोत्कण्ठावशात्क्षणमात्रासहनविरावणोत्तरं
निर्भयानन्दाद्-व्याव्ययभगवत्पदाधिगमाभ्यर्थनम् ।
९० ब्रह्मादिभिरपि दुस्तरस्य गभीरदुःखमयभवसागरस्य
तात्पर्येण भगवदुपासत्तेस्तरणोपायतयाशंसनम् ।
९१ जगद्विघातदुर्मदकालकामयोर्निग्रहणेन, पतितपावनतया
जगदुपकर्त्र्या गङ्गायाः शिरोधृत्या च, आकारधारित्वे भगवत एव
यथोचितकारिताशंसनम् ।
९२
ब्रह्मादिवर्त्यैश्वर्यादिपदचतुष्कोत्कृष्टशुद्धचिदात्मस्थित्यर्थिन
अं भगवत एव तद्दातृतया परायणानुशासनम् ।
(पृष्ठम् १५१)
९३ भगवदनिच्छया ब्रह्मादीनामपि
तृणकुब्जीकरणासामर्थ्यस्य, तथा
तदिच्छानुगृहीतकीटादेरपिब्राह्मपदोद्वहनसामर्थ्यस्य निर्देशनम् }
९४ महेश्वरप्रणामासक्त्यात्मामूल्यरत्नभरितमुकुटोन्नतशिर-
स्कतया तत्त्वावबोधाक्षयद्राविणानां देवेष्वपि
स्वप्रणतसंपादनसामर्थ्यसंभूत्यनुशासनम् ।
९५ सर्वमोहत्यागोत्तरं
प्रकाशात्मकभगवद्विमर्शानन्दस्वातन्त्र्यशक्त्यासादनामृताशंस
नम् ।
९६ चित्रदृष्टमनोरथोल्लिखितस्यातात्त्वित्वेऽपि भगवदाकृतिमात्रस्य
भक्तजनसर्वेष्टसंपत्प्रदातृत्वकथनम् ।
९७ परमेश्वरादन्यस्य गुणाधिक्यादर्शनात् तथा
नैर्गुण्यादर्शनाच्च पक्षद्वयव्याजस्तुतिनिन्दयोः
पर्यवसानानिश्चयनाख्यानम् ।
९८ भगवत्कीर्तनजन्यामृतास्वादनेऽपि अन्यस्य
देवादेरसामर्थ्यसूचनोत्तरं भगवत एव
तदमृतदानसामर्थ्यसूचनम् ।
९९ इतरकामानभीप्सया सर्वेष्टासिद्धिनिधेर्भगवतः
परसिद्धिलाभात्मतदेकान्तभक्त्याशंसनम् ।
१०० स्वभक्तेभ्यः
स्वात्मैकप्रथनात्मत्रैलोक्यस्वाम्यदानेऽनर्गलस्वातन्त्र्यौदार्यभगवत्
ओऽभिवन्दनम् ।
(पृष्ठम् १५२)
१०१ सर्वदुःखापहरणहेतुः कः ! इति संदिह्य परमेश्वर एव
तादृगिति निश्चिनुतां तच्छरणताकथनम् ।
१०२ भगवद्भक्तिमतामेव
योगप्रभावाकृष्टसांसारिकभोगोपभोगोत्तरमख्यात्यात्मभवभ्रान्त्
इं हित्वा परपदावाप्त्याशंसनौचित्यानुशंसनम् ।
१०३ भगवदद्वयात्मतया तदायत्तानां मोहमयीषु
स्वप्नाद्यवस्थास्वपि कृतस्य यत्तत्पुण्यापुण्यात्मकर्मणः
परानन्दफलजनकतावेदनम् ।
१०४ परप्रकाशात्मभगवद्धामनिष्ठचित्तस्य
तमःसपर्कात्यन्ताभावकथनम् ।
१०५ परमशिवसेवोत्साहाय कृतमनोरथमात्रस्यापि मोक्षपदे
पदन्यासानुशासनम् ।
१०६ नानाभोगासञ्जनात्मस्थित्या,
यथोचितशरीरभवनजननात्मोत्पत्त्या
भोगपरम्परानुषङ्गश्रान्तानां विश्रान्तिदानायेत्कालं
संहारात्मलयेन च जगदुकरणे पारमेशाद्वयशाक्तेः
परमस्वातन्त्र्यावेदनम् ।
१०७ आध्यात्मिकाधिदैविकाधिभुतिकात्मत्रितापतापितसमस्तप्राणिनां
तापशमनामृहूदतानिरूपणोत्तरं भगवतोऽभिवन्दनम् ।
(पृष्ठम् १५३)
१०८
सव्याजपूजाध्यानजपादिनिर्वर्त्यभगवद्भक्तेर्मोक्ष-
फलजनकत्वानुवादोत्तरं निर्व्याजभगवदनुरागोच्छलिततत्समावेशोप-
लक्षितभक्तेरनिर्वचनीयफलत्वेनापरिमेयफलत्वसूचनम् ।
१०९ चक्षुषो भगवल्लिङ्गादिप्रेक्षणे, गतेश्च
भगवत्पूजादिस्थानगमने,
भगवत्कथात्मसर्वेष्टप्रदकल्पापादपजन्यफलस्य च
शब्दार्थद्वारा सफल्यमावेद्य, ज्ञानस्य
भगवत्स्वरूपज्ञापकतया, योगादिगतेश्च भगवत्पदप्रापकतया
सर्वसंपत्प्रदकल्पपादपरूपभगवत्स्वरूपचर्चायाः
समुद्भवत्परानन्दविकासात्मकफलस्य च श्लाघ्यसाफल्यावेदनम् ।
११० निखिलैश्वर्याप्त्यात्मश्रेयसामुत्कृष्टश्रेयोभूतचिदानन्दघन-
विश्रान्त्यै मध्यत उद्भवद्भगवदख्यात्यात्मान्तरायध्वंसाय
भगवच्छरणताभ्यर्थनम् ।
१११ उत्तरोत्तरास्वादने नवनवचमत्कारजनकतया क्षणमपि
त्यक्तुमशक्यस्य भगवद्भक्त्यमृतरसस्याशंसनम् ।
११२ तत्तत्प्रमातृप्रमेयाभाससंयोजनवियोजनक्रमेण
रुद्रक्षेत्रादित्रैलोक्यं कल्पनाशतैरनवरतं कल्पयतोऽपि भगवतो
निर्विकल्पावस्थया स्थित्यावेदनम् ।
(पृष्ठम् १५४)
११३ त्रिमलात्मतैलमलिनसंसारवासनावर्तिदाहितत्त्वाव-
बोधात्मदीपावलम्बनोत्तरं परमेशसंनिधौ
स्वोपस्थितिक्षणाशंसनम् ।
११४ भगवदनुग्रहेणैव प्रक्षीणपूर्वतनकुत्सितसंस्कारे चित्ते
क्षणमात्रमपि परमेश्वराधिष्ठानस्य
स्वाभीष्टसंपादकत्वानुशासनम् ।
११५ भगवदाश्रितजनस्यानुत्तरधन्यत्वकृतकृत्यत्वमहत्त्वादि-
गर्वाणां वास्तवशोभित्वावेदनम् ।
११६ परमेश्वरस्य मिश्रशुभाशुभफलजनकत्वं, तद्भक्तेस्तु
शुद्धोत्कृष्टशुभफलजनकत्वमनूद्य भक्तिमतां
बहुमानमान्यतावेदनम् ।
११७ - १८ किं मलापगमेन प्रसन्नं मनो भगवताधिष्ठीयते, उत
भगवदधिष्ठानेनमलापगमात् प्रसन्नतामासादयेत् ! इति
शङ्कनपूर्वकं भगवदधिष्ठित्त्यैव मलहान्या प्रसन्नमनसः
सर्वासिद्ध्याप्तिपरपदासादनानुशासनम् ।
११९ वाङ्मनः कर्ममायानां भगवदनुग्रहासादनोत्तरं
भगवद्भक्तिभूषणभूषितत्वाभ्यर्थनम् ।
१२० ग्रन्थकृतः प्रसिद्धप्रभावस्वनामोदीरणोत्तरं स्वकृतग्रन्थस्य
भगवत्समावेशात्मानुत्तरैश्वर्यफलप्रसवतया
(पृष्ठम् १५५)
चिन्तामण्यभिख्यापनेनात्यन्तोपादेयतानिर्देशनम् ।
इति स्त्वचिन्तामणौ ग्रन्थप्रकाशक० पं० मुकुन्दराम शास्त्रिणा
विरचितः प्रतिश्लोकं प्रतिपादितार्थसंक्षेपः समाप्तः ॥
द्वितीयपरिशिष्टभागश्च समाप्तः ॥