स्मृतिमुक्तावलिः
स्मृतिमुक्तावलिः [[लेखकः :|]] |
पोद्धातप्रकरणम्
सम्पाद्यताम्श्रीगुरुभ्यो नमः
कृष्णाचार्यसंगृहीता
स्मृतिमुक्तावलिः।
श्रुतिस्मृत्युदितो धर्मो यत्प्रीत्यै सुष्ठ्वनुष्ठितः।
सम्यग्ज्ञानापवर्गादिकारणं तं हरिं भजे॥
रुक्मिणीसत्यभामादियोषिद्रत्नसमन्वितम्।
सर्वाभीष्टप्रदं कृष्णं मम स्वामिनमाभजे॥
श्रीमदानन्दतीर्थार्यान् जयतीर्थमुनीनपि।
व्यासतीर्थजयीन्द्रार्यसुधीन्द्रादिगुरून् भजे॥
दुष्टवादीभपञ्चास्यान् मध्वशास्त्रप्रवर्तकान्।
राघवेन्द्रगुरून् वन्दे मम विद्यागुरून् सदा॥
स्मृतिमुक्तावलिर्नाम विदुषां कण्ठभूषणम्।
क्रियते सुजनप्रीत्यै कृष्णाचार्यविपश्चिता॥
श्रीमन्मध्वमताचारः सात्त्विकः स्मृतिमूलतः।
सर्वोऽप्यतिसदाचार इति मन्ददृशां दृढम्॥
विश्वासजननार्थाय सुबोधाय महात्मनाम्।
संगृहीताश्च स्मृतयः पुरा शिष्टैर्महात्मभिः॥
ततोऽपि ताः संग्रहीष्ये सुबोधायाल्पमेधसाम्।
धर्मशास्त्रविचारेण सुप्रीतः फलदो हरिः॥
गुरुवर्यो यतोऽतश्च सफलोऽयं श्रमो मम।
न जानामि पदार्थं वा वाक्यार्थं वापि कुत्रचित्॥
स्मृतिसंग्रहमात्रेण दयां कुर्वंन्तु सज्जनाः॥
कर्मणामनुष्ठेयत्वनिरूपणम्
इह हि सुखं मे स्याद् दुःखं मनागपि मा भूदिति निखिलापेक्षितमोक्षस्य भगवदपरोक्षज्ञानं विनानुदयात्, तस्य च श्रवणादि विनायोगात्, तस्य चान्तः- करणशुद्धिं विनायोगात्, तस्याश्च स्मृत्याद्युक्तसत्कर्मानुष्ठानं विनायोगात्, परम्परया मोक्षसाधनीभूतज्ञानाय स्मृत्युक्तप्रकारेण सत्कर्मानुष्ठानं कर्तव्यमिति प्राप्तं सर्वैः। तदाह मनुः- वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः। तद्धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम्॥ श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः। इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्॥ इति च। सदाचारेण भाव्यमित्यत्र व्यासः- वेदाध्ययनहीनोऽपि श्रद्दधानो जितेंद्रियः। आचारयुक्तो विप्रस्तु पुण्यां गतिमवाप्नुयात्॥ इति। तदकरणे दोषमाह विष्णुः -श्रौतं स्मार्तं च यत्किञ्चिद्विधानं सर्वमादरात्। गृहे निवसतां कार्यमन्यथा दोषमृच्छति॥ संवर्तः- सदाचारेण देवत्वमृषित्वं च तथैव च। प्राप्नुवन्ति कुयोनित्वं मानुष्यं तद्विपर्यये॥ इति। गीतायां -यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न सः सिद्धिमवाप्नोति न सुखं न परां गतिम्॥ व्यासः- नास्तिक्यादथवालस्याच्छास्त्रोक्तं न करोति यः। स याति नरकान् घोरान् तिर्यग्योनिषु जायते॥ प्रमाणसङ्ग्रहे--- श्रुतिस्मृत्युक्तमाचारं यस्तु नाचरति द्विजः। स पाषण्डीति विज्ञेयः सर्वलोकेषु गर्हितः॥ इति। विष्णुपुराणेऽपि --समुल्लङ्घ्य सदाचारं कश्चिन्नाप्नोति शोभनम्। इत्याह भगवानौर्वो मैत्रेयाय च पृच्छते॥ इत्यादि। तस्मात् स्मृत्याद्युक्तप्रकारेण कर्माण्यनुष्ठेयानीति सिद्धम्।
तानि च कर्माणि निष्कामेन विष्णुप्रीत्यर्थं कृतानि स्वगतिहेतुरित्यत्र प्रमाणानि। निष्कामः फलान्तराभिसन्धिरहितः। यज्ञवल्क्यः -वर्णाश्रमोक्तं यः कुर्याद् विध्युक्तं कामवर्जितः। विधिवत् कुर्वतस्तस्य मुक्तिर्गार्गि करे स्थिता॥
चतुर्णामपि वर्णानामहन्यहनि नि यशः। विध्युक्तं कर्म कर्तव्यं कामसंकल्पवर्जितम्॥ इति। कामनापूर्वकत्वे दोषस्तत्रैवोक्तः - वर्णाश्रमोक्तं कर्मैव विध्युक्तंगोष्ठिपूर्वकम् (कामपूर्वकम्)। येन यत्र क्रियते गार्गि बन्धस्तस्य करे स्थितः॥ इत्यादि। हरिप्रीत्यर्थं कर्तव्यानीत्यत्र "नान्यो विमुक्तये पन्था उक्ताश्रमविधिः सुखम्। तस्मात् कर्माणि कुर्वीत तुष्टये परमात्मनः॥" इति व्यासः। वायुपुराणेऽपि-देहिनां स्वाः प्रवर्तन्ते प्रातरारभ्य याः क्रियाः। ताश्च विष्णवर्पणं कुर्वन् कर्मपाशैः प्रमुच्यते॥ गीतायां --यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥ इति। `कायेन वाचा मनसेन्द्रियैरि'त्यादि भागवते॥ हारीतः --तस्माद् दास्यं परां भक्तिमालम्ब्य नृपसत्तम्। नित्यं नैमित्तिकं कर्म कुर्यात् प्रीत्यै हरेः सदा॥ दानं तपश्च यज्ञश्च त्रिविधं कर्म कीर्तितम्। तत्सर्वंभगवत्प्रीत्यै कुर्वीत सुसमाहितः॥ शाण्डिल्यः- प्रवृत्तैश्च निवृत्तैश्च स्वर्गदैर्मोक्षदैरपि। आराध्यो भगवानेव वेदधर्मैः सनातनैः॥ इति। स एव सर्वथोपास्यो नान्यः संसारतारकः। उभाभ्यां ज्ञानकर्मभ्यामाराध्यो भगवान् प्रभुः॥ इति। और्वः- ब्रह्मचारीगृहस्थश्च भिक्षुर्वैखानसस्तथा। कुर्वाणा निजकर्माणि विष्णुमेव यजन्ति ते॥ अग्निकार्यं जपं स्नानं तपः स्वाध्यायमेव च। तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः॥ हारीतः -तमेव चार्चयेन्नित्यं नमस्कुर्यात् तमेव हि। ध्यात्वा जपेत् तमेवेशं तमेवाध्यापयेच्छुतिम्॥ व्रतोपवासनियमांस्तमेवोद्दिश्य कारयेत्। तत्समर्पितभोगी स्यादन्नपानादिभक्षणैः॥ रतिः स्वार्थस्वदारेषु नेतरत्र कदाचन॥ इति॥ विष्णुपुराणेऽपि --वर्णाश्रमाचारवता पुरुषेण परः पुमान्। विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः॥ इति। वायुपुराणेऽपि --सेवार्थं भगवान् विष्णुर्देशं कालं च याः क्रियाः। सृष्टवान् भगवानादौ तस्मात् परिचरेऽनिशम्॥ इति संकल्प्य चोत्थाय सर्वकर्म समारभेत्। विष्णोरर्थे करिष्यामि चाहरामि ददामि च॥ नात्मार्थमिति वै क्वापि वदेत् कर्मकरो नरः॥ इति। गीतायां --यत् करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत् तपस्यसि कौन्तेय! तत् कुरुष्व मदर्पणम्॥ इति। `नैष्कर्म्यमप्यच्युतभाववर्जितमि'त्यादि भागवते। `यतः प्रवृत्तिर्भूतानामि'ति च गीतायाम्, `मयि सर्वाणि कर्माणि सन्यस्याध्यात्मचेतसे'त्यादि च। `अक्षयं कर्म यस्मिन् पर' इति, `यस्मिन् सर्वाणि कर्माणि' इत्याद्यत एवैतदभिप्रायेणोक्तमाचार्यैः सदाचारस्मृत्यादौ॥ कृष्णामृतमहार्णवे च- प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्। ताभ्यामुभाभ्यां पुरुषः सर्वमूर्तिः स इज्यते॥ ऋग्यजुःसामभिर्मार्गैः प्रवृत्तैरिज्यते ह्यासौ। यज्ञेश्वरो यज्ञपुमान् पुरुषः पुरुषोत्तमः॥ ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते। निवृत्ते योगिभिर्मार्गे विष्णुर्मुक्तिफलप्रदः॥ इति।
तदुद्देशेनाकरणे प्रत्यवायमाह हारीतः-- भगवन्तमनुद्दिश्य यः कर्म कुरुते नरः। स पाषण्डीति विज्ञेयः सर्वलोकेषु गर्हितः॥ अश्वमेधशतैरिष्ट्वा वाजपेयशतैरपि। न प्राप्नुवन्ति सुगतिं नारायणपराङ्मुखाः॥ इति। वायुपुराणेऽपि -अनुष्ठाता तपस्वी वा सर्वधर्मपरोऽपि वा। विना तदर्पणं सम्यक् फलं नाप्नोत्यसंशयः॥ इति। गारुडेऽपि -वेदोक्तं यागहोमादि केशवोद्देशतः कृतम्। धर्ममाहुरधर्मस्तु स एव हरिविप्रियः॥ तत्रैवान्यत्र-- यज्ञादीनि च कर्माणि यानि वेदोदितानि वै। देवतायै परायै तदिति मत्वा कृतानि च॥ भवेयुस्तानि भद्राणि नो चेन्मोघफलानि हि॥ इति। भागवते च --तपस्विनो दानपरायशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः। क्षेमं विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः॥ इति शुकस्तुतौ। इत्यादि। ग्रन्थगौरवभयादुपरम्यते। एवं कर्माणि विष्णुप्रीत्यर्थं कृतानि पूर्वोक्तदिशा मोक्षफलकानि॥ तदाह गीताभाष्ये --निवृत्तादीनि कर्माणि ह्यपरोक्षेशदृष्टये। अपरोक्षेशदृष्टिस्तु मुक्त्यै किंचिन्न मार्गते॥ सर्वं ताम(तद)न्तराधाय मुक्तये साधनं भवेत्॥ गीतायां च --`सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते', `कर्मणा ज्ञानमातनोति ज्ञानेनामृतीभवती'त्यादेः। तस्माद् मोक्षसाधनीभूतज्ञानाय विष्णुप्रीत्यर्थं कर्माणि कर्तव्यानीति सिद्धम्।
नन्वेवं सर्वकर्मणां विष्णुप्रीतिफलकत्वे ज्योतिष्टोमचित्रयागादेः स्वर्गपश्वादिफलकत्वं न स्यात्। अन्यहेतोरन्यफलकत्वाभावादिति चेद्, उच्यते। ज्योतिष्टोमादिकर्मणां स्वर्गादिफलकत्वेऽपि तत्साधनत्वेन हरिप्रीतेरवांतरव्यापारत्वेन व्यापारफलभावापन्नोभयकार्यजनकत्वे विरोधाभावात्। अङ्गीकृतं च सर्वैरपि एकस्यैव यागस्य तथाविधापूर्वस्वर्गोभयजनकत्वम्। न च तत्र प्रमाणाभावः। कर्मणा त्वधमः प्रोक्तः प्रसादः श्रवणादिभिः। मध्यमो ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः॥ प्रसादात्त्वधमाद्विष्णोः स्वर्गलोकः प्रकीर्तितः। मध्यमाज्जनलोकादिरुत्तमस्त्वेव मुक्तिदः॥ इति श्रीमद्भाष्ये। भरद्वाजसंहितायां च --अधमः कर्मणा जातो मध्यमः श्रवणादिभिः। उत्तमो ज्ञानसम्पत्त्या प्रसादो मधुविद्विषः॥ प्रसादादधमाद् विष्णोः स्वर्गंलोकः प्रकीर्तितः॥ इत्याद्युक्तेः। अथवा स्वतन्त्रोभयसाधनत्वेऽपि यागादेरविरोधः, नित्यखादिरत्वस्य वीर्यार्थत्ववदस्याप्युभयार्थत्वसम्भवात्। न च विनियुक्तविनियोगविरोधः। `अग्निर्मूद्धे'ति मन्त्रस्य श्रौते आग्नेययागे, स्मार्ते अङ्गारकजपहोमादौ च, तथा आप्यायस्वेति मन्त्रस्य सौम्ये पत्नीसंयाजे सोमरसाप्यायने च विनियोगवदत्राप्युभयवाक्याविरोधायोभयहेतुत्वोपपत्तेर्न काप्यनुपपत्तिः। तथाच विष्णुपुराणे -मामाराध्य नरो मुक्तिमवाप्नोत्यविलम्बितम्। मय्यर्पितमना बाल! किमु स्वर्गादिकं फलम्॥ इति। तत्रैवान्यत्र-- वासुदेवे मनो यस्य जपहोमार्चनादिषु। तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम्॥ इति च। भागवते च-- `किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने' इत्यादि। ब्राह्नोऽपि-- फलदाता हि सर्वेषां स एव परमः पुमान्। न चान्यः कर्मणां भोक्ता फलदो वापि कश्चन॥ इत्यादि। ननु विष्णूद्देशेन सर्वकर्मकर्तव्यतोक्तौ कर्ममात्रे तस्य देवतात्वप्रसङ्गेन एकदैवत्यद्विदैवत्यादिव्यवस्था भङ्गप्रसङ्गाद्, `ऐन्द्रमेकादशकपालमि'त्यादौ पुरन्दरादीनामेव देवतात्वं, किन्तु तद्विशिष्टस्य विष्णोः तत्तत्प्रातिपदिकोपरिश्रूयमाणेन देवतातद्धितेन तत्प्रातिपदिकार्थदेवतात्वं प्रतिपाद्यत इति व्युत्पत्तिसिद्धं `वारुणं यवमयं रौद्रमि'त्यादौ। एवं प्रकृतेऽपीन्द्रादिपदोपरिश्रूयमाणेन देवतातद्धितेन पुरन्दरादिविशिष्टविष्णोर्देवतात्वं, तथाविधस्यैवेन्द्रादिप्रातिपदिकार्थत्वात्। विष्णोरिन्द्रादिप्रातिपदिकार्थत्वं, च `यो देवानां नामधा एक एव', `नामानि सर्वाणि यमाविशन्ती'त्यादिश्रुत्या `मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दन' इत्याद्याचार्यवचनेन चावगम्यते। यद्वा, अङ्गाङ्गिभावापन्नत्वेनोपपत्तिः `देवताः कञ्चुकायन्त' इत्यादेः। तंत्रभागवते च-- कर्मणा निरपेक्षेण विष्णावेवार्पितेन च। सम्यग् ज्ञानं भवेत् पुंसां देवतातृप्तिपूर्वकम्॥ निर्देशाद् भगवत्येव तृप्ताः स्युः सर्वदेवताः। तदङ्गत्वेन निर्देशात् तेषु तृप्तिं व्रजन्ति ते॥ तृप्तेषु तेषु देवेशे विष्णौ चोत्पद्यते परम्। ज्ञानं तेनैव सम्यक्त्वं मोक्ष्यसे कर्मबन्धनात्॥ इति। भागवतेऽपि --त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः। यजन्ते विविधैर्यज्ञैर्नानारूपामराख्यया॥ इति। ब्राह्मपुराणेऽपि -दत्तं युष्मन्मुखाद्भुङ्क्ते हविः स्वर्गेप्सुभिर्हरिः। मुमुक्षुभिस्तथा भुङ्क्ते स्वयमेव जनार्दनः॥ फलदाता हि सर्वेषां स एव परमः पुमान्। न चान्यः कर्मणां भोक्ता फलदो वापि कश्चन॥ स्वातंत्र्यात् कुर्वते ये तु कर्म वेदोदितं महत्। विना वै भगवत्प्रीत्या ते वै पाषण्डिनः स्मृता॥ समस्तयज्ञभोक्तारमविदित्वाच्युतं हरिम्। उद्दिश्य देवता यश्च जुहोति च ददाति च॥ स पाषण्डीति विज्ञेयः स्वतन्त्रो वापि कर्मसु॥ इति। तस्मात् पुरन्दरादिविशिष्टस्य विष्णोरिन्द्रादिपदार्थत्वात् तस्य सर्वकर्मोद्देश्यता नानुपपन्नेति सिद्धम्। एतत्सर्वमानुमानिकनयभाष्यतत्त्वप्रकाशिकायां प्रसिद्धम्। विस्तरभयादुपरम्यते॥
प्रसङ्गात् तानि कर्माणि तत्त्वज्ञानिनापि कर्तव्यानीत्यत्र प्रमाणमुच्यते।`आचार्याद् विद्यामवाप्यैतमात्मानमभिपश्यन् शान्तो भवेद् दान्तो भवेद्' इति श्रुतिः, पश्यन्नपि ममात्मानं कुर्यात् कर्माविचारयन्निति `शक्रेण वर्षकोटीश्च धूमः पीतोऽतिदुःखतः। वर्षायुतं च सूर्येण तपोऽवाक्शिरसा कृतम्॥' इत्याद्यनुव्याख्यानाद्युक्तस्मृतेश्च। न च तेषां तत्त्वज्ञानित्वे विवादः। `न देवपदवीं प्राप्ता ब्रह्मदर्शनवर्जिता' इत्यादिगीतातात्पर्योक्तस्मृतेः। देवतानामपि पुमर्थित्वादेः सत्त्वेन कर्माधिकारस्य देवताधिकरणे `तदुपर्यपि बादरायणः सम्भवाद्' इत्यादिभाष्यादौ सम्यगभिधानात्। श्रुतिषु बहुशो देवानां कर्माधिकारित्वस्य दर्शनाच्च। तथाहि --`यज्ञेनयज्ञमयजन्त देवा' इति, `देवा वै सत्रमासते'ति, `देवा वै यज्ञमतन्वते'ति, `देवा वै चतुर्होतृभिर्यज्ञमतन्वते'ति, `यद्विश्वेदेवाः समयजन्ते'ति, `इन्द्रोऽश्वमेधान् शतमिष्टवानि'ति, देवा व वरुणमयाजयन्नि'त्यादिश्रुतेश्च। ततस्तु देवताः सर्वा ब्रह्मा चैव महर्षयः। वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन्॥ इत्यादि(स्मृतेश्च) न च ज्ञानोत्तरकर्मणां फलाभावेन वैयर्थ्यम्। तथापि `यथा यथा कर्म कुरुते तथा तथाधिको भवतीति कौण्वरव्यश्रुतौ, ज्ञानेनैवाप्यते सर्वं कर्मणा चाधिकं भवेत्। ज्ञानिनामपि देवानां विशेषः कर्मभिर्भवेत्॥ इत्यादिभाष्योक्तस्मृतौ चानन्दवृध्यादेस्तत्फल(त्वात्? त्वकथनात्)। न च तत्र मानाभावः, `सैषानन्दस्य मीमांसेत्यादि श्रुतेः। नृपाद्याः शतधृत्यन्ता मुक्तिगा उत्तरोत्तरम्। गुणैः सर्वैः शतगुणा मोदन्ते इति हि श्रुतिः॥ इति पाद्मे।' `मुक्तानामपि सिद्धानां नारायणपरायणः। सुदुर्लभः प्रशान्तात्मे'त्यादिना भागवतादौ च तथोक्तेः। विस्तरभयाद् न लिख्यते। तस्मात् तत्त्वज्ञानिनां देवानां च कर्माणि कर्तव्यानीति सिद्धम्॥
स्मृत्यादयः, तत्प्रणेतारश्च
अथैतद्ग्रन्थप्रतिपाद्यधर्मे सेतिहासपुराणपञ्चरात्रसंहितानां मन्वादिप्रणीतशास्त्राणामेव प्रमाणत्वादुपयोगितया तत्प्रणेतारः तानि च पुराणानि (ताश्च संहिताः?) प्रथमं निरूप्यन्ते। तत्र याज्ञवल्क्यः-- मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोङ्गिराः। यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती॥ पराशरव्यासशङ्खलिखिता दक्षगौतमौ। शातातपो वसिष्ठश्च धर्मशास्त्रप्रवर्तकाः (प्रयोजकाः)॥ इति। पैठीनसिः-- तेषां मन्वङ्गिरोव्यासगौतमात्र्युशनोयमाः। वसिष्ठदक्षसंवर्तशातातपपराशराः॥ विष्ण्वापस्तम्बहारीताः शङ्खः कात्यायनो गुरुः। प्रचेता नारदो योगी बोधायनपितामहौ॥ सुमन्तुः काश्यपो बभ्रुः पैठीनो व्याघ्र एव च। सत्यव्रतो भरद्वाजो गार्गिः कार्ष्णाजिनिस्तथा॥ व्यासः कात्यायनश्चैव जातूकर्ण्यः कपिञ्जलः। बोधायनः कणादश्च विश्वामित्रस्तथैव च॥ पैठीनसिर्गोभिलश्च उपस्मृतिविधायकाः॥ इति। पुराणानि च पाद्मपुराणे परिगणितानि -ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा। तथान्यन्नारदीयं च मार्कण्डेयं तु सप्तमम्॥ आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं स्मृतम्। दशमं ब्रह्मवैवर्तं लैङ्गमेकादशं स्मृतम्॥ द्वादशं वामनं प्रोक्तं वाराहं तु त्रयोदशम्। मात्स्यं चतुर्दशं प्रोक्तं कौर्मं पञ्चदशं स्मृतम्॥ षोडशं गारुडं प्रोक्तं स्कान्दं सप्तदशं स्मृतम्। अष्टदशं तु ब्रह्माण्डं पुराणानि यथाक्रमम्॥ इति। वायव्यं भार्गवं सोमं ब्रह्माण्डं कौशिकं तथा। पराशरं नारदीयं नारसिंहं तु कापिलम्॥ वासिष्ठं शिवधर्मं च मारीचं मानवं तथा। स्कान्दं दुर्वासमादित्यं वारुणं शाम्बरं तथा॥ एतान्युपपुराणानि अष्टादश समीरितम्॥ इतिहासो महाभारतम्॥ एतानि च स्मृतिपुराणानि त्रिविधानि, सात्त्विकराजसतामसभेदात्। तत्र सात्त्विकान्येव मोक्षफलकत्वाद् ग्राह्याणि। इतराणि स्वर्गनरकफलकानि तदुक्तं पाद्मपुराणे उत्तरखण्डे महेश्वरसंवादे द्विचत्वारिंशेऽध्याये -वैष्णवं नारदीयं च तथा भागवतं शुभम्। गारुडं च तथा पाद्मं वाराहं शुभदर्शने!॥ सात्त्विकानि पुराणानि विज्ञेयानि ततः परम्। ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं तथैव च॥ भविष्यद्वामनं ब्राह्मं राजसानि निबोध मे। मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च॥ आग्नेयं च षडेतानि तामसानि निबोध मे। सात्विका मोक्षदाः प्रोक्ता राजसाः स्वर्गदाः शुभाः॥ तथैव तामसा देवि निरयप्राप्तिहेतवः॥ इति। एवं स्मृतयोऽपि तत्रैवोक्ताः --तथैव स्मृतयः प्रोक्ता ऋषिभिस्त्रिगुणान्वितैः। सात्त्विका राजसाश्चैव तामसाः शुभदर्शने!॥ वासिष्टं चैव हारीतं व्यासं पराशरं तथा। भारद्वाजं काश्यपं च सात्त्विका मुक्तिदाः शुभाः॥ मानवं याज्ञवल्क्यं च आत्रेयं दाक्षमेव च। कात्यायनं वैष्णवं च राजसाः स्वर्गदाः शुभाः। गौतमं बार्हस्पत्यं च सांवर्तं च यमस्मृतिः। शाङ्खं चैशनसं देवि तामसा निरयप्रदाः॥ तामसानां त्याज्यत्वमुक्तं तत्रैव--किमत्र बहुनोक्तेन पुराणेषु स्मृतिष्वपि। तामसा नरकायैव वर्जयेत् तान्विचक्षणः॥ इति। ननु तामसस्मृतिपुराणानामग्राह्यत्वे कथं तत्रोक्तवचनानां सम्मतित्वेनोदाहरणम्। न च `स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम्। शिवशास्त्रेऽपि तद् ग्राह्यं भगवच्छास्त्रयोगि यत्॥ एषां यन्न विरोधि स्यात्तत्रोक्तं तन्नवार्यत' इति तात्पर्यनिर्णये तामसेष्वप्यविरोध्यंशस्य ग्राह्यत्वमुक्तमिति वाच्यम्। उक्तवचनेन तामसेषु भगवच्छास्त्राविरोध्यंशस्य ग्राह्यत्वेऽप्यनुष्ठेयकर्मभागपरवचनानां ग्राह्यता न स्यात्। अनुग्राहकाभावादिति चेदुच्यते। तामसेषु सात्त्विकभागस्य सात्त्विकशास्त्रानुसारित्वेन स्वीकरणीयत्वात्। भगवत्परभागस्यापि स्वीकरणीयत्वे कानुसारित्वातिरिक्तस्य नियामकस्याभावादिति॥ इति स्मृतिकर्तृपुराणनिर्णयः॥
धर्मस्वरूपं, लक्षणं च।
ननु यद्विषये स्मृतिपुराणादीनां प्रामाण्यं प्रतिज्ञातं, स धर्मः कीदृश इति चेदुच्यते-- चोदनालक्षणोऽर्थो धर्म इति जैमिन्युक्तत्वात्, `वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्यय' इति जैमिन्युक्तत्वात्, `वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्यय' इति भागवतेऽप्युक्तत्वात्, अर्थत्वे सति चोदनागम्यत्वमेव तल्लक्षणम्। न चाचारमूलकेष्वव्याप्तिः, तत्राप्याचारानुमितस्मृत्युन्नीतचोदनागम्यत्वस्य सत्त्वात्। तदुक्तम्- आचाराच्च स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनमिति। अत्र मनुरपि --विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः। हृदयेनाभ्यनुज्ञातो यस्तं धर्मं व्यवस्यत॥ इति। अस्यार्थः-- विद्वद्भिः नित्यं सेवितः धर्मत्वेन नित्यमनुष्ठितः, न शोकमोहादिना कादाचित्कनिमित्तेन। किञ्च हृदयेनाभ्यनुज्ञातः इदमेव श्रेयस्साधनमिति स्वारस्ययुक्तेन स्वीकृतः, न तु क्रोधतः। एवंभूतो योऽर्थः तं धर्मं व्यवस्यत इति। विश्वामित्रोऽपि-- यमार्याः क्रियमाणं तु शंसन्त्यागमवेदिनः। स धर्मो यं विगर्हन्ते तमधर्मं प्रचक्षते॥ इति। अत्र विशेषतो धर्मानाह याज्ञवल्क्यः-- देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम्। पात्रे प्रदीयते यत्तत् सकलं धर्मलक्षणम्॥ इति। वेदोक्तः प्रथमो धर्मो धर्मशास्त्रेण चापरः। शिष्टाचारस्तृतीयस्तु त्रिविधं धर्मलक्षणम्॥ इति। स्मृत्यन्तरेऽपि --श्रान्तसंवाहनं मार्गे द्विजोच्छिष्टावमार्जनम्। वेदमार्गानुसरणं त्रिविधं धर्मलक्षणम्॥ इति। स्कन्देऽपि सत्या वाणी प्रपादानं जागरं हरिवासरे। पालनं पोष्यवर्गस्य धर्मसारचतुष्टयम्॥ इति। निस्स्वे दानं क्रिया विष्णोर्निषिद्धस्य च वर्जनम्। सत्कारः साधुवृत्तानां धर्मः पञ्चविधः स्मृतः॥ शय्यादानं रतिर्धर्मे महाभारतकीर्तनम्। चरितं रघुनाथस्य महापातकनाशनम्॥ इति। धात्रीस्नानं हितं वाक्यं वेदाभ्यासो हरेः कथा। भिक्षाशनं गुरोः पूजा षङ्विधं धर्मलक्षणम्॥ स्मृत्यन्तरे --दानं पात्रे मतिः कृष्णे मातापित्रोस्तु पूजनम्। प्रेम्णा वाणी गवा ग्रासः षङ्विधं धर्मलक्षणम्॥ याज्ञवल्क्यः --धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः। ह्रीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्॥ इति। धृतिः धैर्यम्। अपराधेऽपि चित्तस्याविकारः क्षमा। मनःसंयमो दमः। अस्तेयमदत्तास्वीकारः। शौचं बाह्यमाभ्यन्तरं च। इन्द्रियनिग्रहः निषिद्धेभ्य इन्द्रियाणां निवारणम्। ह्रीरकार्यनिवृत्तिः। विद्या आत्मज्ञानम्। सत्यं यथार्थवचनम्। तच्च प्रियमेव वेदितव्यम्। तथाच मनुः- सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम्। प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः॥ इति। अक्रोधः कोपराहित्यम्। एतद्दशकं धर्मलक्षणमित्यर्थः। बृहस्पतिर्धर्मान्तराण्याह-- दया क्षमानसूया च शौचनायासमङ्गलम्। अकार्पण्यं चास्पृहत्वं सर्वसाधारणानि तु॥ तेषां स्वरूपं स एवाह-- परे वा बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा। आपन्नो रक्षितव्यो यद्दयैषा परिकीर्तिता॥ बाह्ये चाध्यात्मिके चैव दुःखे चोत्पतिते क्वचित्। न कुप्यति न वा हन्ति सा क्षमा परिकीर्तिता॥ न गुणान् गुणिनो हन्ति स्तौति मन्दगुणानपि। नान्यदोषेषु रमते सानसूया प्रकीर्तिता। अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः। स्वधर्मे च व्यवस्थानं शौचमेतत्प्रकीर्तितम्॥ शरीरं पीइयते येनसुशुभेनापि कर्मणा। अत्यन्तं तन्न कर्तव्यमनायासः स उच्यते॥ प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम्। एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः॥ स्तोकादपि प्रदातव्यं न दीनेनान्तरात्मना। अहन्यहनि यत्किञ्चिदकार्पण्यं हि तत् स्मृतम्॥ इति। यथोत्पन्नेन सन्तोषः कर्तव्यो ह्यल्पवस्तुनि। परस्याचिन्तयित्वार्थं सास्पृहा परिकीर्तिता॥ इति॥
धर्मभेदाः
अथ धर्मभेदाः। महाभारते --धर्मो बहुविधो लोके श्रुतिभेदमुखोद्भवः। देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च॥ जातिधर्मा वयोधर्मा गुणधर्माश्च शोभने! शरीरकालधर्माश्च आपद्धर्मास्तथैव च॥ एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः॥ इति। सुमन्तुरपि --वर्णत्वमेकमाश्रित्य यो धर्मः संप्रवर्तते। वर्णधर्मः स उक्तस्तु यथोपनयनात् किल॥ यस्त्वाश्रमत्वमाश्रित्य अधिकारः प्रवर्तते। स एवाश्रमधर्मः स्याद् भिक्षादिश्चोदितो यथा॥ वर्णत्वमाश्रमत्वं च योऽधिकृत्य प्रवर्तते। स वर्णाश्रमधर्मस्तु यथा मौञ्जी च मेखला॥ यो गुणेन प्रवर्तेत गुणधर्मः स उच्यते। यथा मूर्धाभिषिक्तस्य प्रजानां परिपालनम्॥ निमित्तमेकमाश्रित्य यो धर्मः सम्प्रवर्तते। नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा॥ इति। इति धर्मलक्षणम्॥
धर्मे प्रमाणानि
अथ धर्मे प्रमाणानि। तत्र याज्ञवल्क्यः-- पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश॥ इति। अपरार्के-- आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः। अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादश स्मृताः॥ इति। याज्ञवल्क्यः -श्रुतिस्मृती सदाचारः स्वस्य च प्रियमात्मनः। सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम्॥ इति। मनुः- व्दोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्। आचारश्चैव साधूनामात्मनस्तुष्टिरेव च॥ आत्मनस्तुष्टिः वैकल्पिकेषु पदार्थेषु यस्मिन् क्रियमाणे आत्मनः प्रीतिः सापि प्रमाणम्। साधवः शिष्टाः। तथाच मनुः-- शिष्टाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम्। लक्षणं प्रमाणमित्यर्थः। शिष्टलक्षणमपि स एवाह --धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः। ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः॥ इति। इतिहासपुराणान्यङ्गानि वेदस्य परिबृंहणानिष। तथाच बृहस्पतिः -इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। बिभेत्यल्पश्रुताद् वेदो मामयं प्रचलिष्यति॥ इति। बोधायनः --शिष्टाः खलु विगतमत्सरा निरहङ्काराः कुम्भ्यादिधान्या अलोलुपा डम्भदर्पलोभमोहमदक्रोधवर्जिता इति। तथारण्यपर्वणि --अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः। ऋजवः शमसम्पन्नाः शिष्टाचारा भवन्ति ते॥ त्रैविद्यवृद्धाः शुचयो बुद्धिमन्तो यशस्विनः। गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्ति ते॥ इति। हारीतोऽपि- साधवः क्षीणदोषाः स्युः सच्छब्दः साधुवाचकः। तेषामाचरणं यत्तु सदाचारः स उच्यते॥ इति। शिष्टाचारः प्रमाणमिति देवताद्याचरणं नाचरितव्यं, प्रत्यवायश्रवणात्। तदाह मनुः-- धर्मव्यतिक्रमो दृष्टो महतां साहसं तथा। तदन्वीक्ष्य प्रयुञ्जानः स सीदत्यवरोऽबलः। तेजो बलानि पूर्वेषां शरीराणीन्द्रियाणि च। दोषैस्तु नोपलिप्यन्ते पद्मपत्रमिवाम्भसा॥ इति। बोधायनः --अनुष्ठितं च यद्देवैर्मुनिभुर्यदनुष्ठितम्। नानुष्ठेयं मनुष्यैस्तु(स्तद्) उक्तं कर्म समाचरेत्॥ इति। अङ्गिराः - प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम्। तत्त्रये विहितं कार्यं धर्मसिद्धिमभीप्सता॥ इति। यत्र पुनः श्रुत्यादयो न सन्ति तत्र परिषद्वचनं प्रमाणमित्याह मनुः --अनाम्नातेषु धर्मेषु कथं स्यादिति चेद् भवेत्। यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः॥ इति। धर्मेषु धर्मप्रमाणेष्वित्यर्थः। तेऽपि शिष्टा दशावराः। तदाह गौतमः-- अनाम्नाते दशावरैः शिष्टैरूहवद्भिः प्रशस्तं कार्यमिति॥ यत्तैः प्रशस्तमित्युक्तं तत्कार्यमित्यर्थः। मनुरपि --ऋग्वेदविद् यजुर्विच्च सामवेदविदेव च। त्र्यवराः परिषञ्ज्ञेया धर्मसंशयनिर्णये॥ इति। अध्यात्मविद्याश्रेष्ठो धर्मज्ञश्च स एको वा यमर्थं धर्मवत्तया ब्रूते, सोऽपि धर्मः स्यात्। परिषद्वाक्यमपि वेदानुसारिणामेव ग्राह्यमित्याह हारीतः-- वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम्। यस्य प्रमाणं न भवेत् प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम्॥ इति। धर्मव्यवस्थाः कः कुर्याद्विरोधे साधुयुक्तिभिः। न्यायविद्धर्मशास्त्रज्ञो हैतुकः परिषन्मतः॥ अव्रतानामन्त्राणां जातिमात्रोपजीविनाम्। सहस्नशः समेतानां परिषत्त्वं न विद्यते॥ यां यांवेदविदो ब्रूयुस्त्रयोऽप्येनस्सु निष्कृतिः। सा तेषां पावनाय स्यात् पवित्रं विदुषां हि वाक्॥ इति। एतदल्पपापविषयम्। धर्मज्ञसमयोऽपि क्वचित् प्रमाणम्। तदाहापस्तम्बः-- धर्मज्ञसमयः प्रमाणं वेदाश्चेति। क्वचित् सम्प्रदायोऽपि प्रमाणम्। तत्र मनुः येनास्य फ्तिरो याता येन याताः पितामहाः। तेन यायात् सतां मार्गे तेन गच्छन्न दृष्यति॥ स्वकुलक्रमागताचारः सम्प्रदायः। सोऽपि शास्त्रविप्रतिपत्तौ प्रमाणम्। यत्र शास्त्रगतिर्भिन्ना सर्वकर्मसु भारत। उदितेऽनुदिते चैव होमभेदो यथा भवेत्॥ यस्मिन् कुले क्रमायातमाचारं त्वाचरेद्बुधः। स गरीयान् महाबाहो सर्वशास्त्रोदितादपि॥ इति सुमन्तुवचनादिति। इति धर्मप्रमाणानि।
स्मृतिप्रामाण्यसमर्थनम्
ननूक्तस्मृत्यादीनां किंत्वेन प्रामाण्यमिति चेद्, वेदमूलत्वेनेति ब्रूमः। नच तासां तन्मूलत्वे तत्प्रणयनवैयर्थ्यम्। वैदिकशब्दानां दुरधिगमार्थत्वेन सुखप्रतिपत्तये विक्षिप्तसङ्ग्रहाय च स्मृतिप्रणयनस्य सफलत्वात्। तदुक्तं मरीचिना-- दुर्बोधा वैदिकाः शब्दाः प्रकीर्णत्वाच्च येऽखिलाः। तञ्ज्ञैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः॥ इति। एवं च इतिहासपुराणबोधायनाद्यष्टादशसूत्राणामपि तुल्यतया प्रामाण्यम्। अत्र श्रुतिस्मृत्योर्विरोधे श्रुतिरेव प्राबल्यम्। स्मृतीनां परस्परविरोधे निरवकाशेन सावकाशस्य प्रबलेन दुर्बलस्य बाधः। प्राबल्यं च निरवकाशत्वेन बहुत्वेन प्रमाणान्तरसंवादित्वेन सात्त्विकत्वादिनेति बोध्यम्। विस्तरस्तु चन्द्रिकायामन्तर्नये बोध्यः॥
तानि चाष्टादशसूत्राण्याग्निवेश्यसूत्रे परिगणितानि- अथातः सूत्रगणनां व्याख्यास्यामः। बोधायनमापस्तम्बं सत्याषाढं दाक्षायणमागस्त्यं शाकल्यमाश्वलायनं शाम्बरीयं कात्यायनमिति नवानि पूर्वसूत्राणि। वैखानसं शौनकीयं भारद्वाजमाग्निवेश्यं जैमिनीयं माधुल्यं माध्यन्दिनं कौण्डिन्यं गौतममिति नवान्यपरसूत्राणि। तथाचाष्टादशसंख्याकाः शारीराः संस्कारा इति। तथाच मनुः -- श्रुतिं पश्यन्ति मुनयः स्मरन्ति च तथा स्मृतम्ष तस्मात् प्रमाणमुभयं प्रमाणैः प्रमितं भुवि॥ योऽवमन्येत ते तूभे हेतुशास्त्राश्रयान्नरः। स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः॥ इति। एतानि स्मृत्यादीनि न निराकार्याणीत्यत्र यमोऽपि --एतैर्यानि प्रणीतानि धर्मशास्त्राणि वै पुरा। तान्येतानि प्रमाणानि न हातव्यानि हेतुभिः॥ इति। यस्तानि हेतुभिर्हन्यात् सोऽन्धे तमसि मज्जतीति॥ वसिष्ठोऽपि --अप्रामाण्यं च वेदानामार्याणां चैव कुत्सनम्। अव्यवस्था च सर्वत्र एतन्नाशनमात्मनः॥ इति। स्मृतिप्रामाण्यमेव परिपालयितव्यमित्यत्राङ्गिराः-- प्रमाणानि प्रमाणज्ञैः परिपाल्यानि यत्नतः। सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः॥ इति। वेदतुल्यत्वेनेतिहासपुराणयोः प्रामाण्यमित्यत्र भविष्यत्पुराणम्-- ऋग्यजुःसामाथर्वाश्च मूलरामायणं तथा। भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः॥ पुराणानि च यानीह वैष्णवानि विदो विदुः। स्वतः प्रामाण्यमेतेषां नात्र किञ्चिद्विचार्यते॥ इति। श्रुतिरपि वेदचतुष्टयं दर्शयित्वा `इतिहासपुराणः पञ्चम' इति॥ इति स्मृतिप्रामाण्यसमर्थनम्॥
धर्मशास्त्राध्ययनम्
अथ धर्मशास्त्रमपि वेदवदध्येतव्यम्। तदाह मनुः --यथैव वेदाध्ययनं धर्मशास्त्रमिदं तथा। अध्येतव्यं प्रमाणेन नियतं स्वर्गमिच्छता॥ इति। तच्च वेदाध्ययनानन्तरमित्याह बृहस्पतिः -- एवं दण्डादिकैर्युक्तं संस्कृत्य तनयं पिता। वेदमध्यापयेत् पश्चाच्छास्त्रं मन्वादिकं तथा॥ इति। अनध्ययने दोषमाह स एव-- श्रुतिस्मृती हि विप्राणां चक्षुषी परमे मते। काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्तितः॥ इति। अधीत्य चतुरो वेदान् षडङ्गं च पदक्रमान्। स्मृतिहीना न शोभन्ते चन्द्रहीनेव शर्वरी॥ इति च। तदध्ययनस्य फलमधिकारिणश्चाह यमः -इदं शास्त्रमधीयानो ब्राह्मणः क्षत्रियोऽथ विट्। पुनातीह पितृन् सर्वान् सप्त सप्त परावरान्॥ इति। मनुरपि-- इदं शास्त्रमधीयानो ब्राह्मणः संशितव्रतः। मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिप्यते॥ विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः। विद्वद्भ्यश्च प्रवक्तव्यं सम्यङ्नान्येन केनचित्॥ इति चः शूद्राधिकारनिवृत्तिपरः। शूद्रस्य नाधिकारोऽस्ति न वेदेषु न च स्मृताविति यमोक्तेः। एतदध्ययनस्य प्रवृत्तिनिवृत्ती फलमाहतुः शङ्खलिखितौ-- चिकित्सा धर्मशास्त्राणि व्याधीनामिव भेषजम्। कुपथप्रतिपन्नानां व्याकुलेन्द्रियचेतसाम्॥ निवर्तकं धर्मशास्त्रं व्याधीनामेव भेषजम्॥ इति। तद्धारणे फलविशेषमाह यमः-- धर्म्यं यशस्यमायुष्यं पुण्यं स्वर्ग्यं तथैव च। धारणं धर्मशास्त्रस्य ब्रह्मलोकमवाप्नुयात्॥ इति। मनुरपि --पुनाति पङ्क्तिं वंश्यांश्च सप्त सप्त परावरान्। पृथिवीमपि चैवेमां कृत्स्नमेकोऽपि सोऽर्हति॥ इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम्। इदं यशस्यं सततमिदं नैश्रेयसं (श्रोयस्करं) परम्॥ धन्यं यशस्यमायुष्यं पुण्यं स्वर्गापवर्गदम्। धारणं धर्मशास्त्रस्य वेदानां धारणं यथा॥ म्रियते नानपत्यश्च नार्थकृच्छ्रं हि गच्छति। ग्रहणादेव शास्त्रस्य सद्भिः साम्यं च गच्छति॥ इति। इति स्मृत्यध्ययनफलम्॥
श्रुतिस्मृत्योर्विरोधे निर्णयः।
अथ श्रुतिस्मृत्योर्विरोधे निर्णयः। तत्र मनुः -- श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ। उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः॥ इति। यत्र श्रुत्योर्द्वैधं परस्परविरोधः तत्र श्रुतिप्रतिपादितौ द्वावपि धर्मौ। यस्माद् मन्वादिभिः पूर्वतरैरपि तौ धर्मावुक्तौ। ननु यथा मानयोर्विरोध एकतरस्यैव प्रामाण्यं, तथा श्रुत्योरपीति द्वावपि धर्मावित्युक्तमयुक्तमिति चेद्, उच्यते। `को हि मीमांसको ब्रूयाद् विरोधे शास्त्रयोर्मिथः। एकं प्रमाणमितरदप्रमाणं भवेदिती' त्युक्तरीत्या सर्वात्मना बाधायोगेन विषयान्तरसञ्चारेण वा कालभेदेन वाधिकारिभेदेन वा देशभेदेन वा सङ्कोचपरत्वेन वा गौणार्थपरत्वेन वा प्रयोगान्तरपरत्वेन वा तात्पर्यान्तरपरत्वेन वा मानान्तरस्योपपन्नत्वेन द्वावपि श्रुतिप्रतिपादितौ धर्मौ प्रमाणसिद्धाविति मनुवचनस्य तात्पर्यम्। यद्वा विरोधे बाधोऽप्यस्तु यत्रैकतरस्य प्राबल्यं, यत्र तुल्यबलता तत्र बाधाभावेन विकल्पस्यावश्यकत्वाद् द्वावपि धर्मावित्येवंपरं मनुवचनम्। एवं च तुल्यन्यायतया स्मृत्योः पुराणयोराचारयोश्च परस्परविरोधे द्वावपि धर्माविति॥ इति श्रुत्यादीनां विरोधे निर्णयः।
श्रुतिस्मृत्युदितबहुविधकर्माणि।
अथ श्रुतिस्मृत्युदितकर्माणि कानिचित्प्रधानकर्माणि कानिचिदङ्गकर्माणि कानिचिदुपाङ्कर्माणि कानिचिद् गौणकर्माणि कानिचित्प्रतिनिधिकर्माणीत्यादिप्रकारेण बहुविधानीति प्रसङ्गात् संक्षेपत उच्यते। तत्राहापस्तम्बः- उदगयनपूर्वपक्षाहः पुण्याहेषु कार्याणि। यज्ञोपवीतिनां प्रदक्षिणं पुरस्तादुदग्वोपक्रमः। तथापवर्गोपक्रमः। तथापवर्गोऽपरपक्षे पित्र्याणि प्राचीनावीतिनापसव्यदक्षिणतोऽपवर्गः॥ इति। वायुपुराणे प्रधानकर्मणः षडङ्गानीत्युक्तम्-- षडप्यङ्गानि चैतानि क्रियमाणस्यं कर्मणः। श्रुतिस्मृतिविचारश्च श्रध्दा सत्सङ्गतिस्तथा॥ आराध्यदेवताभक्तिस्तथा कर्तृत्ववर्जनम्। नियमश्चेति चत्वारि तत्साध्याङ्गानि तानि तु॥ काले काले प्रबोधश्च यथाशक्ति विमर्शनम्। मनःस्वास्थ्यं शुचित्वं च प्रधानाङ्गं त्विदं मतम्॥ इत्येतदङ्गचतुष्टयमपि क्रियमाणकर्मण इति बोध्यम्। अङ्गान्तराण्यप्याह स एव--विष्णोरर्पणमेवैकमास्तिक्यं तु द्वितीयकम्। निष्कामत्वं हरिप्रीतिकामनालोचनद्वयम्॥ इति। षडुपाङ्गान्याह स एव --तथैव षडुपाङ्गानि तान्येतानि विदो विदुः। गण्डूषदन्तकाष्ठे च शौचाचामे तथैव च॥ स्नानं वस्त्रपरीधानं सप्तमं पुण्ड्रधारणम्। एवं कर्म विजानीयात् पश्चात् कर्म समाचरेत्॥ कर्मणानेन सञ्ज्ञानं जायते मोक्षसाधनम्। एतञ्ज्ञानं विना कर्म कृतं वा बहुशो नरैः॥ न तेन वर्धते क्वापि नो कनीयान् भवेत् क्वचित्॥ इति। कात्यायनः प्रकारान्तरेण षडङ्गान्याह-- मनः प्रसादात् सत्योक्त्या तपसा स्नानकर्मणा। आचम्य चात्मनः शुद्धिं कृत्वा कर्म समाचरेत्॥ इति। प्रधानकर्मणः सकाशादादौ कर्तव्यानीमानि कर्माणि। स एव विशेषमाह-- यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते। दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः॥ मनुरपि --कुत्सिते वामहस्तः स्याद्दक्षिणः स्यादकुत्सिते। यज्ञोपवीतिना कार्यं सर्वकर्म प्रदक्षिणम्॥ कात्यायनो विशेषमाह--यत्र दिङ्नियमो न स्याज्जपहोमादिकर्मसु। तिस्त्रस्तत्र दिशः प्रोक्ता ऐन्द्रीसौम्यापराजिताः॥ अपराजिता ऐशानी दिक्। स एव धर्मान्तरे विशेषमाह-- आसीन ऊर्ध्वं प्रह्वो वा नियमो यत्र नेदृशः। तदासीनेन कर्तव्यं न प्रह्वेन न तिष्ठता॥ इति। धर्मे विशेषान्तरमाह कात्यायनः --प्रवृत्तमन्यथा कुर्याद् विधिमोहात् कथञ्चन। यतस्तदन्यथाभूतं तत एव समीरयेत्॥ समाप्तौ यदि जानीयान्मयैतदयथाकृतम्। तावदेव पुनः कुर्यान्नावृत्तिः सर्वकर्मणः॥ प्रधानस्य(स्या) क्रियायां तु साङ्गं तत्क्रियते पुनः। तदङ्गस्य (स्या) क्रियायां तु नावृत्तिर्नैवत्क्रिया॥ गार्ग्यो विशेषमाह-- यो वैदिकमनादृत्य कर्म स्मार्तेतिहासकम्। मोहात् समाचरेद् विप्रो न स पुण्येन युज्यते॥ एतच्छक्तविषयम्। अशक्तविषये --श्रौतं कर्म न चेच्छक्तः कर्तुं स्मार्तं समाचरेत्। अशक्तौ स्मार्तमप्यन्यं कुर्यादाचारमन्ततः॥ तत्रैव व्यासः --श्रौतकर्म न चेच्छक्तः कर्तुं स्मार्तं समाचरेत्। तत्राप्यशक्तः करणे सदाचारं लभेद्बुधः॥ इति। स्वशाखायामनाम्नातं कर्म शाखान्तराधिकरणन्यायेन स्मृत्यन्तरादुपसंहृत्यानुष्ठेयमित्याह कात्यायनः-- यन्नाम्नातं स्वशाखायां पारक्यमविरोधि च। विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत्॥ इति। आत्मतन्त्रे तु यन्नोक्तं तत्कुर्यात्पारतन्त्रिकमिति च। स्मृतिरत्नावल्यां कालद्रव्यसम्पत्त्योः कालस्यैव मुख्यत्वमुक्तम्-- मुख्यकाले हि मुख्यं चेत् साधनं नैव लभ्यते। तत्कालद्रव्ययोः कस्य मुख्यत्वं गौणतापि वा॥ मुख्यकालं समाश्रित्य गौणमप्यस्तु साधनम्। न मुख्यद्रव्यलेभेन गौणकालप्रतीक्षणम्॥ इति। पुलस्त्यः कर्मणि विशेषमाह-- अकाले चेत् (च) कृतं कर्म कालं प्राप्य पुनः क्रिया। कालातीतं तु यत्कुर्यादकृतं तद्विनिर्दिशेत्॥
गौणस्याप्युपादानम्
तत्रापवादः। यदा तु कथञ्चिन्मुख्यकालातिक्रमस्तदाह कात्यायनः- मुख्यकाले यदावश्यं कर्म कर्तुं न शक्यते। गौणकालेऽपि कर्तव्यं गौणोऽप्यत्रे (प्येता) दृशो भवेत्। गौणकाललक्षणं स्मृतिरत्नावल्यामुक्तम्-- स्वकालादुत्तरे गौणः कालः पूर्वस्य कर्मणः। आगामिनी क्रिया मुख्यकालस्याप्यन्तरालवत्॥ गौणकालत्वमिच्छन्ति केचित् प्राक्तनकर्मणः। गौणेष्वेतेषु कालेषु कर्म चोदितमाचरेत्॥ प्रायश्चित्तप्रकारेण प्रोक्तं निष्कृतिमाचरेत्। प्रायश्चित्तमकृत्वा तु गौणकाले तमाचरेत्॥ दिवोदितानि कर्माणि प्रमादादकृतानि वै। यामिन्याः प्रहरं यावत्तावत्कर्माणि कारयेत्॥ अस्यार्थः -- पूर्वस्य कर्मणः आगामिकर्ममुख्यकालस्य च योऽन्तरालः कालः स गौणः। केचित्तु आगामिक्रियामुख्यकालोऽपि गौणकाल इति वदन्ति। गौणमुख्यकालयोरुभयोरप्यतिक्रमे प्रायश्चित्तविध्युक्तप्रकारेण प्रायश्चित्तमेवाचरेत्। तत्र कर्म(णो)गौणकाले च प्रायश्चित्तमकृत्वैव कर्म कुर्यादिति॥ अत्र सङ्ग्रहे विशेषो दर्शितः- रात्रौ प्रहरपर्यंतं दिवाकृत्यानि कारयेत्। ब्रह्मयज्ञं च सौरं च वर्जयित्वा विशेषतः॥ इति। स्मृतिरत्नावल्यां विशेषो दर्शितः --कालातीतानि कर्माणि प्राप्नुवन्त्युत्तराणि च। कालातीतानि कृत्वैव विदध्यादुत्तराणि तु। अकृत्वातीतकर्माणि यः कुर्यादुत्तराणि तु। न च देवान्न च पितृन् न च गच्छन्ति मानुषान्॥ हेमाद्रौ विशेषोऽभिहितः -- लाजहोमे च सीमन्ते देवतावाहने चरे। अर्घ्ये तिष्ठेदुपस्थाने षडेते भृगुणो (भार्गवो) दिताः॥ भरद्वाजो विशेषमाह-- अज्ञाता यदि वा मन्त्राः स्वस्वगृह्येषु चोदिताः। उपवीतिप्रमुख्यानां तेषां वै धारणे द्विजः। केवलं प्रणवे वापि व्याहृतित्रितयं तु वाष। स्यातां विप्रादिवर्णेषु द्वावेतौ सर्वशाखिनाम्॥ इति। स्मृत्यर्थसारे धर्मान्तरमुक्तम्-- उपात्ते तु प्रतिनिधौ मुख्यार्थो यदि लभ्यते। तत्र मुख्यमनादृत्य गौणेनैव समापयेत्॥ मुख्याभावे यदा गौणमुपात्तं तद्विनश्यति। तत्र मुख्योपमं गौणं ग्राह्यं गौणोपमं न तु॥ मुख्यद्रव्यापचारे तु प्रतिनिध्यभिसन्धिना। प्रयुञ्जानस्य मुख्यार्थालाभे ग्राह्यः स एव हि॥ यस्मिन् कस्मिन्नुपात्ते तु मुख्योपचरिते सति। अन्यद्रव्यं सजातीयं विजातीयमथापि वा॥ उपादाय प्रयुञ्जानो पूर्वं कृत्स्नमवाप्नुयात्। संस्काराणामयोग्योऽपि मुख्य एव हि गृह्यते॥ न तु संस्कारयोग्योऽपि गृह्यते प्रतिरूपकः। कार्यो रूपैस्तथा वर्णैः क्षीरैः पुष्पैः फलैरपि॥ गन्धै रसैः सदृग्ग्राह्यं पूर्वाभावे परं परम्। हव्यार्थे गोघृतं ग्राह्यं तदभावे तु माहिषम्॥ आज्यं वा तदलाभे तु लाक्षातैलंग्रहीष्यते। येषां केषाञ्चिदन्येषां हविषामप्यसम्भवे॥ सर्वत्रान्त्यमुपादेयं भरद्वाजमुनेर्मतात्। निमित्तानामिहैतेषां निर्देशैक्यं यदुच्यते॥ तत्सर्वेषु निमित्तेषुजानीयात् प्रतिपादितम्। इक्षूनापः फलं ताम्बूलं पय औषधम्॥ भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः। गोदासीकन्यकाश्चैव तिष्ठन्नेव प्रयोजयेत्॥ बालं केशं तथा हस्तं यस्य हस्ते जलं क्षिपेत्॥ इत्यादिधर्मविशेषाः॥
धर्मदेशः
पूर्वोक्तधर्मानुष्ठानाय धर्मदेशो निरूप्यते। तत्र मनुः -- सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम्। तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते॥ कुरुक्षेत्रं च मात्स्यं च पञ्चालाः शूरसेनयः। एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः॥ हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि। प्रत्यगेव प्रयागाच्च मध्यदेशःप्रकीर्तितः॥ विनशनं नाम सरस्वत्या अन्तर्धानदेशः। आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात्। तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः॥ इति। उक्तदेशेषु पूर्वं पूर्वं प्रशस्यते। तथाच सुमन्तुः -ब्रह्मावर्तः परो देश ऋषिदेशस्त्वनन्तरः। मध्यदेशस्ततो नूनमार्यावर्तस्तथापरः॥ इति। एतच्चतुष्टयालाभे पुनर्देशान्तरमाह मनुः-कृष्णसारस्तु चरति मृगो यत्र स्वभावतः। यज्ञदेशः स विज्ञेयो म्लेच्छदेशस्ततः परः॥ इति। उक्तालाभेऽपि यस्मिन् देशे चातुर्वर्ण्यव्यवस्था दृश्यते सोऽपि पुण्यदेश इत्याह विष्णुः - चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे च विद्यते। धर्मदेशः स विज्ञेयो ह्यार्यावर्तस्ततः परः॥ इति। संवर्तो याज्ञवल्क्यश्च वसिष्ठः शङ्ख एव च। आर्यावर्तं वदन्त्येते देशं कृष्णमृगाश्रयम्॥ उक्तेष्वेषु क्वचिदपवादमाह मनुः-- न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते। न पाषण्डजनाक्रान्ते नोपस्पृष्टेऽन्त्यजैर्नृभिः॥ इति। अत्राप्यपवादमाह पितामहः -- शूद्रदेशेऽपि निवसेद्यत्र मध्ये तु जाह्नवी। सोऽपि पुण्यतमो देशोऽनार्यैरपि समाश्रितः॥ इति। अत्र जाह्नवीशब्दः पुण्यतीर्थदेवतायतनसंयुक्तदेशमात्रोपलक्षकः॥
निषिद्धदेशाः
अथ निषिद्धदेशाः। अत्र बोधायनः --आनर्ताश्चाङ्गमगधाः सौराष्ट्रा दक्षिणापथाः। उपावृत्सिन्धुसौवीरा एते सङ्कीर्णयोनयः॥ आदित्यपुराणे तद्देशगमने दोषमाह-- नर्मदासिन्धुकौशिक्याः पारं पद्मस्य पश्चिमम्। गत्वा नरकमाप्नोति तीर्थकालाधिकं वसन्॥ अङ्गवङ्गकलिङ्गाश्च उग्रमालविकास्तथा। नर्मदादक्षिणं यच्च सिन्धोरुत्तरमेव च॥ पौण्ड्राश्चैव चैद्यमागधिकाः कषाः। न विवाहं तथा श्राद्धं यज्ञं चैषु समाचरेत्॥ पापदेशाश्च ये केचित्पापैरध्युषिता जनैः। गत्वा देशानपुण्यांस्तु कृत्स्नं पापं समश्नुते॥ सौराष्ट्रं सिन्धुसौवीरं चावन्त्यं दक्षिणापथम्। पञ्चैतान् कामतो गत्वा कलिङ्गांश्च पतेद्द्विजः॥ इति। तेषां द्विजानामापदि वृत्त्यर्थं देशानुग्रहः स्कान्दपुराणे दर्शितः -अङ्गवङ्गकलिङ्गान्ध्रपार्वतेयान् कषांस्तथा। सिन्धुसौवीरसौराष्ट्रान् पारदारांश्च मालवान्॥ निवासयेद्विजो नित्यमनापदि विवर्जयेत्। एतानत्यापदि गृही संश्रयेद्वृत्तिकर्शितः॥ इति। इत्यादिनिषद्धदेशनिरूपणम्॥
निषिद्धदेशापवादः।
अथ निषिद्धदेशेषु केषुचिदपवाद उच्यते। पितामहः- शूद्रराज्येऽपि निवसेद्यत्र मध्ये तु जाह्नवी। सोऽपि पुण्यतमो देशोऽनार्यैरपि समाश्रितः। धर्मशास्त्रसारे --चन्द्रायणानि कृच्छ्राणि महासान्तपनानि च। प्रायश्चित्तान्युदीर्यन्ते यत्र गङ्गा न विद्यते॥ गङ्गाशब्दार्थोऽपि तत्रैव निरूपितः --कावेरी तुङ्गभद्रा च कृष्णवेणी च गौतमी। भागीरथीति विख्याताः पञ्च गगाः प्रकीर्तिताः॥ इति। आदित्यपुराणे --यत्र गङ्गा सरिच्छ्रेष्ठा स देशस्तूत्तमो वनम्। सिद्धक्षेत्रं च तञ्ज्ञेयं गङ्गातीरसमाश्रितम्॥ प्रभासे पुष्करे कांश्यां नैमिशेऽमरकुण्डके। गङ्गायां सरयूतीरे निवसेद्धार्मिको जनः॥ इत्यादि। इति निषिद्धदेशापवादः॥
देशधर्माः
अथ देशधर्माः। पञ्चधा प्रतिपत्तिर्हि दाक्षिणात्येषु दृश्यते। पुत्रेणानुपनीतेन पन्त्या च सहभोजनम्॥ पितृष्वसुर्मातुलस्य पुत्र्याश्चोद्वाहनं तथा। तथा पर्युषितान्नस्य भोजनं परिदृश्यते॥ तथा विक्रय ऊर्णाया जीवनं चायुधीयकम्। व्यवहारश्चोभयतोदद्भिर्वारिधियानकम्॥ सिन्धुयानमुदीच्यानां प्रतिपत्तिश्च पञ्चधा। एवमन्ये विरुद्धानि दृश्यन्ते देशभेदतः॥ अभर्तृकभ्रातृभार्याग्रहणं चातिदूषितम्। कुले कन्याप्रदानं च देशेष्वन्येषु दृश्यते॥ तथा मातृविवाहोऽपि पारसीकेषु दृश्यते। विरुद्धेष्वेषु धर्मेषु प्रामाण्यं देशतो भवेत्॥ अत्र बृहस्पतिः -देशजातिकुलानां च ये धर्मास्तत्प्रवर्तिताः। तथैव ते पालनीयाः प्रजा प्रक्षुभ्यतेऽन्यथा॥ देवलोऽपि -- येषु देशेषु ये वेदा येषु देशेषु ये द्विजाः। येषु देशेषु यत्तोयं या च तत्रैवमृत्तिका॥ येषु स्थानेषु यच्छौचं धर्माचारश्च यादृशः। तत्र तान्नावमन्येत धर्मस्तत्रैव तादृशः॥ यस्मिन् देशे पुरे ग्रामे त्रैविद्ये नगरेऽपि वा। यो यत्र विहितो धर्मस्तं धर्मं न विचाल(र) येत्॥ इति। अविशेषेण देशधर्मप्रामाण्यप्रसक्तौ मानाविरुद्धं ग्राह्यमित्याह मनुः- सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः। तद्देशकुलजातानामविरुद्धं प्रकल्पयेत्॥ इति। यत् सद्भिराचरितं तत् श्रुत्यादिप्रमाणाविरुद्धं तद्देशकुलजातानां धर्मत्वेन प्रकल्पयेदित्यर्थः। `शास्त्रदुष्टं यथा त्याज्यं तथा लोकविरोध्यपि'। तत्र मिहिरः दोशाचारस्तावदादौ विचिन्त्यो देशे देशे या स्थितिः सैवकार्या। लोकद्विष्टं पण्डिता वर्जयन्ति दैवज्ञोऽतो लोकमार्गेण यायात्॥ इत्यादि। इति देशधर्मनिरूपणम्॥
युगधर्माः।
अथ युगधर्माः। आरण्यपर्वंणि -कृतं नाम युगं श्रेष्ठं यत्र धर्मः सनातनः। कृतमेव न कर्तव्यं तस्मिन् काले युगोत्तमे॥ न तत्र सीमाः सीदन्ति न जीर्यन्ते च वै प्रजाः। ततः कृतयुगं नाम कालेन गुणतां गतम्॥ कृते युगे चतुष्पादं चातुर्वर्ण्यं च शाश्वतम्। एतत् कृतयुगं नाम त्रैगुण्यपरिवर्जनम्॥ पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः। ज्ञानप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः॥ ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः। स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन्॥ विष्णुः पीतत्वमायाति चतुर्धा वेद एव च। सत्यस्यैव हि विभ्रंशो सत्ये कश्चिदवस्थितः॥ सत्यात् प्रच्यवमानानां व्याधयो बहवोऽभवन्। कामाश्चोपद्रवाश्चैव तथा दैवतकारिताः॥ कामकामा ह्यर्थकामा यज्ञांस्तन्वन्ति चापरे। एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः॥ पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः। वेदाचाराः प्रशाम्यन्ते धर्मा यज्ञाः क्रियास्तथा॥ ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा॥ इति। भिद्यन्ते युगधर्मास्ते युगभेदानुसारतः। भेदे प्रमाणं विज्ञेयं मनोस्तु वचनं हितम्॥ तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते। द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे॥ धर्मस्यतारतम्यापादकान्याह पराशरः - अभिगम्य कृते दानं त्रेतास्वाहूय दीयते। द्वापरे याचमानाय सेवया दीयते कलौ॥ अत्र त्रेतास्विति बहुवचनं कृतद्वापरादिषु जातावेकवचनप्रदर्शनार्थमित्युक्तं माधवीये। निमित्तकृततारतम्यमाह पराशरः - अभिगम्योत्तमं दानमाहूयैव तु मध्यमम्। अधमं याचमानाय सेवादानं तु निष्फलम्॥ इति॥
धर्मे युगभेदेन प्रमाणम्
धर्मे युगभेदेन प्रमाणम्- कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः। द्वापरे शङ्खलिखिताः कलौ पाराशराः स्मृताः॥ इति। अधर्मस्थानमप्याह स एव- त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत्। द्वापरे कुलमेकं तु कर्तारं तु कलौ युगे॥ इति। पतितः पुमान् ग्रामसमूहात्मके देशे निवसति चेत्, सोऽधर्मापादक इति त्याज्यः कृतयुगे। एवं ग्रामादावपि योज्यम्। कर्तृत्यागो नाम तेन सम्भाषणादिवर्जनमित्यर्थो माधवीये दर्शितः। पापनिष्ठितानि विभज्याह पराशरः - कृते सम्भाषणादेव त्रेतायां स्पर्शनेन च। द्वापरे त्वन्नमादाय कलौ पतति कर्मणा। वधादिकर्मणाकलौ पतितो भवति, न सम्भाषणादिनेत्यर्थः। गुर्वादिशापफलकालं विभज्याह स एव-- कृते तत्क्षणिकः शापस्त्रेतायां दशभिर्दिनैः। द्वापरे चैकमासीनः कलौ संवत्सरेण तु॥ इति। धर्मसिद्धेः कालं विभज्योक्तं विष्णुपुराणे --यत्कृते दशभिर्वर्षैस्त्रेतायां हायनेन तु। द्वापरे तच्च मासेन ह्यहोरात्रेण तत्कलौ॥ इति। युगभेदात्तीर्थभेदो विष्णुधर्मोत्तरे -- पुष्करं तु कृते सेव्यं त्रेतायां नैमिशं तथा। द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां समाश्रयेत्॥ इति॥
%कलियुगधर्माः% विशेषेण कलियुगधर्मा निरूप्यन्ते। तत्र व्यासः -ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन्। यदाप्नोपि तदाप्नोति कलौ सङ्कीर्त्य केशवम्॥ इति। धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ। स्वल्पायासेन धर्मज्ञास्तेन तुष्टोऽस्म्यहं कलौ॥ इति। आदित्यपुराणे विशेषोऽभिहितः -यस्तु कार्तयुगो धर्मो न कर्तव्यः कलौ युगे। पापप्रसक्तास्तु यतः कलौ नार्यो नरास्तथा॥ न विद्वत्ता न शुद्धोऽर्थो न शुद्धिर्मनसः कलौ। यतोऽतः सत्यमेवैकं नराणामुपकारकम्॥ इति। कार्तयुगस्तत्संबन्धी। आरण्यपर्वणि कलियुगप्रजास्थितिरुक्ता --ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्ते परस्परम्। शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः॥ स्वभावात् क्रूरकर्माणश्चान्योन्यमभिशङ्किताः। भवितारो नरास्सर्वे सम्प्राप्ते युगसंक्षये॥ इति। विष्णुपुराणेऽपि --कलौ जगत्पतिं विष्णुं सर्वस्त्रष्टारमीश्वरम्। नार्चयिष्यन्ति मैत्रेय! पाषण्डोपहता जनाः॥ सर्वे ब्रह्म वदिष्यन्ति सम्प्राप्ते तु कलौ युगे। नानुतिष्ठन्ति मैत्रेय शिश्नोदरपरायणाः॥ इति। पराशरोऽपि-- जितो धर्मो ह्यधर्मेण सत्यं चैवानृतेन च। जिताश्चोरैस्तु राजानः स्त्रीभिस्तु पुरुषाः कलौ॥ सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति। कुमार्यश्च प्रसूयन्ते तस्मिन् कलियुगे सति॥ इति। यथा यथा कलेर्वृद्धिस्तथा तथा अधर्मवृद्धिः। विष्णुपुराणे-- यदा यदा सतां हानिर्वेदमार्गानुसारिणाम्। तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः॥ न प्रीतिर्वेदवादेषु पाषण्डेषु यदा रतिः। तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः॥ इत्यादि। कृते त्वस्थिगताः प्राणास्त्रोतायां मांसमाश्रिताः। द्वापरे रुधिरं चैव कलौ त्वन्नादिषु स्थिताः॥ इति। युगसामर्थ्यात् फलमपि पराशरेणोक्तम्- युगे युगे च ये धर्मास्तेषु तेषु च ये द्विजाः। तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः॥ इति। आरण्यपर्वणि --भूमिर्नद्यो नगाः शैलाः सिद्धा देवर्षयस्तथा। कालं समनुवर्तन्ते तथा भावा युगे युगे॥ इत्यादि। इति युगधर्माः॥
कलौ निषिद्धाः।
अथ कलियुगे निषिद्धधर्माः -तत्रादित्यपुराणे -दीर्घकालब्रह्मचर्यं धारणं च कमण्डलोः। सगोत्रात्तु सपिण्डात्तु विवाहो गोवधस्तथा॥ नराश्वमेधौ मद्यं च कलौ वर्ज्या द्विजातिभिः। ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गोवधं तथा॥ कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम्॥ इति। क्रतुरपि --देवरेण सुतोत्पत्तिर्दत्ता कन्या न दीयते। न यज्ञे गोवधः कार्यः कलौ च न कमण्डलुः। इति। तथान्येऽपि धर्मज्ञसमयप्रमाणकाः सन्ति। विधवायाः प्रजोत्पत्तौ देवरस्य नियोजनम्। बालिकाक्षतयोन्याश्च वरेणान्येन संस्कृतिः। ऊढायामपि पुंसंबन्धात्पूर्वं पुनर्विवाह इत्यर्थः। कन्यानामन्यवर्णानां विवाहश्च द्विजातिभिः। आततायिद्विजाग्य्राणां धर्मयुद्धेन हिंसनम्॥ द्विजस्याब्धौ तु नौयातुः शोधितस्यापि सङ्ग्रहः। सत्रदीक्षा च सर्वेषां कमण्डलुविधारणम्॥ महाप्रस्थानगमनं गोसंज्ञप्तिश्च गोसवे। सौत्रामण्यां सुराग्राहश्चमसोच्छिष्टभक्षणम्॥ अग्निहोत्रहवन्याश्च लेहो लीढापरिग्रहः। वानप्रस्थाश्रमस्यापि प्रवेशो विधिचोदितः॥ यतेश्च सर्ववर्णेषु भिक्षाचर्या विधानतः। शवोदके दशाहं च दक्षिणा गुरुचोदिता॥ वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं कलौ। प्रायश्चित्तविधानं च विप्राणां मरणान्तिकम्॥ संसर्गदोषः स्तेनाद्यैर्महापातकनिष्कृतिः। वरातिथिपितृभ्यश्च पशूपाकरणक्रिया॥ दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः। सवर्णानां तथा दुष्टैस्संसर्गः शोधितैरपि॥ हीनेन सङ्ग्रहे वृत्ते परित्यागो गुरोः स्त्रियः। अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च। स्वामित्वं चैव विप्राणां सोमविक्रयणं तथा। षड्भक्तानशनेनान्नाहरणं हीनकर्मणः॥ शूद्रेषु दासगोपालकुलमित्रार्धसीरिणाम्। भोज्यान्नता गृहस्थस्य तीर्थसेवा च दूरतः॥ एतद् गङ्गादियात्राव्यतिरिक्तविषयम्। `कलौ गङ्गां समाश्रयेदि'ति वचनात्। विप्राणां भोजनं तद्वद्ग्रहे क्षत्रियवैश्ययोः। शिष्यस्य गुरुदारेषु गुरुवृत्तिरीरिता॥ आपद्वृत्तिर्द्विजाग्य्राणामश्वस्तनिकता तथा। प्रजार्थं तु द्विजाग्य्राणां परदारपरिग्रहः॥ ब्राह्मणानां प्रवासित्वं मुखाग्निधमनक्रिया। बलात्कारादिदुष्टस्त्रीसङ्ग्रहो विधिचोदितः॥ ब्राह्मणादिषु शूद्रस्य पचनादिक्रियापि च। भृग्वग्निपतनं चैव वृद्धादिमरणं तथा॥ गोतृप्तिशिष्टे पयसि शिष्टैराचमनक्रिया॥ पितापुत्रविरोधेषु साक्षिणां दण्डकल्पनम्। यतेः सायंगृहस्थत्वं सूरिभिस्तत्त्वतत्परैः॥ एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः। निवर्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः॥ समयश्चापि साधूनां प्रमाणं वेदवद्भवेत्॥ इति। इति कलियुगवर्ज्यधर्माः॥
इत्युपोद्धातप्रकरणम्।
अथ कालनिर्णयप्रकरणम्।
सम्पाद्यताम्%कालस्वरूपं, तद्विशेषाश्च% अथेदानीं कर्मणः कालसाध्यत्वात् कालस्वरूपं तद्विशेषाश्च निर्णीयन्ते। श्रुतिस्मृत्युक्तकर्मणश्च कालाधीनत्वम् `अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ती'ति श्रुतौ पिण्डपितृयज्ञस्यामावास्यापराह्णादिकालसापेक्षत्वेन, तथा `दर्शे स्नात्वा पितृभ्यस्तु दद्यात्कृष्णतिलोदकम्। अन्नं च विधिवद्दद्यात् सन्ततिस्तेन वर्धत'ति स्मृतौ तिलोदकदानादेरुक्तकालसापेक्षत्वेन च, तथा `अमावास्यायां नाधीयीत नाध्यापयेन्नच्छिन्द्यादार्द्रान् दारून् नाद्यादन्नं परस्ये'ति, `अमावास्यायां न गच्छेत् प्राप्तकालामपि स्त्रियम्। तैलं च न स्पृशेदामं वृक्षादींश्च न छेदयेदि'ति विधिनिषेधयोरुक्तकालसापेक्षत्वेन, तथा `पौर्णमास्यां पौर्णमास्यां यजेत्,' `अमावास्यायाममावास्यायां सायं जुहोति प्रातर्जुहोती'त्यादौ च कालसापेक्षत्वेनावगम्यते। अत एव कालः कर्माङ्गमेव, न प्रधानमित्यवगन्तव्यम्। स च कालो द्विविधः। सामान्यरूपो विशेषरूपश्चेति। कालविशेषेषु सर्वेष्वप्यनुस्यूतः नक्षत्रग्रहपरत्वाद्यनुमेयः सामान्यकालः, निमेषादिस्तद्विशेषः। तदुक्तं भारतेकर्षेणाप्यधिकैः षङ्भिः पलैस्ताम्रस्य भाजनम्। त्रिंशदङ्गुलविस्तारमुच्छ्रितं चतुरङ्गुलम्॥ स्वर्णमात्रेण कृत्वा च चतुरङ्गुलकार्षिकाः। मध्यभागतया विद्धा नाडिका घटिका स्मृता॥ तद्रन्घ्रेणाम्भसा पात्रं यावत्कालेन पूर्यते। स कालो नाडिका तस्याः षष्टिभागो विनाडिका॥ नाडीद्वयं मुहूर्तस्तु ते पञ्चदश वासरः। एवं रात्रिस्तथा पक्षमासर्त्वयनवत्सराः॥ इति॥
%संवत्सरनामानि।% एते संवत्सराः प्रभवादिभेदेन षष्टिसङ्ख्याकाः। तदुक्तम्-- प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः आङ्गीरसः श्रीमुखश्च भावोऽथ युववत्सरः॥ धात्वीश्वरौ बहुधान्यः प्रमाथी विक्रमो विषुः। चित्रभानुः स्वभानुश्च तारणः पार्थिवो व्ययः॥ सर्वजित् सर्वधारी च विरोधी विकृतिः खरः। नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ(खी)॥ हेमलम्बी विलम्बी च विकारी शार्वरी प्लवः। शुभकृत् क्रोधी विश्वावसुपराभवौ॥ प्लवङ्गः कीलकः सौम्यः साधारणविरोधिकृते। परीधावी प्रमादी च आनन्दो राक्षसो नलः॥ पिङ्गलः कालयुक्ताक्षी सिद्धार्थी रौद्रिदुर्मती। दुन्दुभी रुधुरोद्गारी रक्ताक्षी क्रोधनः क्षयः॥ इति॥
%चान्द्रादिसंवत्सरनिर्णयः।% तत्र चान्द्रप्रभवादीनामुपक्रमश्चैत्रप्रतिपदीत्युक्तं दीपिकायाम्-- `चान्द्रोमधुशुक्लप्रतिपदारम्भ' इति। मेषस्थे सूर्ये सौरप्रभवादीनामुपक्रमः। सावनस्त्वैच्छिकः। यत्तु विष्णुधर्मोत्तरे माघशुक्लसमारम्भे चन्द्रार्कौ वासवर्क्षगौ। जीवशुक्रौ यथा स्यातां षष्ट्यब्दादिस्तथा स्मृतः॥ इति माघशुक्लप्रतिपदुपक्रमत्वं संवत्सराणामुक्तम्। तज्ज्योतिः शास्त्रप्रसिद्धशुभाशुभफलप्रतिपादनार्थं, न तु कर्मानुष्ठानार्थमित्यवगन्तव्यम्। वत्सरादौ प्रवृत्तस्यैवानुष्ठानोपयोगित्वात्। तदाहार्ष्टिषेणः - स्मरेत् सर्वत्र कर्मादौ चान्द्रं संवत्सरं सदा। नान्यं यस्माद्वत्सरादौ प्रवृत्तिस्तस्य कीर्तिता॥ इति। तत्र चान्द्रस्यावान्तरभेदा उच्यन्ते-- संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः। इडावत्सरस्तृतीयश्च चतुर्थश्चानुवत्सरः॥ उद्वत्सरः पञ्चमस्तु तत्सङ्घो युगसं (ज्ञकः)ज्ञितः॥ इति। प्रभवमारभ्य क्षयान्तेषु सर्वेषु द्वादश पञ्चकानि। तत्रैकस्मिन् पञ्चके क्रमेण संवत्सरादयो भवन्ति। एतत्सर्वं ज्योतिश्शास्त्रे प्रसिद्धम्। विस्तरभयान्न लिख्यते। सौरादीनां त्रयाणामुपयोगो ज्योतिर्गर्गेण दर्शितः - सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः। आब्दिके पितृकार्ये च चान्द्रो मासः प्रशस्यते॥ इति। अत्र प्रथमादिशब्देन उपनयनपूजाव्रतनियमप्रतिष्ठागृहकरणयात्रादयो गृह्यन्ते। द्वितीयादिशब्देन दानहोमगर्भाधानसीमन्तोन्नयनजातकर्मऋणक्रयव्यापाराणां ग्रहणम्। आब्दिके सांवत्सरिपमृताहश्राद्धे। पितृकार्य
े षाण्मासिकश्राद्धादौ। चशब्दान्माससंवत्सरसाध्ययज्ञव्यतिरिक्ते सर्वस्मिन्नेव कार्ये चान्द्रो मासः प्रशस्यत इत्युक्तं हेमादौ। ननु विवाहादीना `मष्टवर्षं ब्राह्मणमुपनयीते'त्यादौ सावनपुरस्कारेण प्रवृत्तत्वात्, `सौरो मासो विवाहादावि'ति कथम्? तथा `यासौ वैशाख्यामावास्यामादधीते'ति चान्द्रामावास्यायामाधानविधानाद् `विवाहव्रतयज्ञेषु सौरं मानं प्रशस्यत' इति वचनेन सौरेऽपि विधानाद्यज्ञादौ सावन इति कथम्?, तथा `कन्याकुम्भवृषस्थेऽर्के कृष्णपक्षेषु सर्वदा। अनेन विधिना श्राद्धं पैतृव्यमिह निर्वपेदि'त्यादौ सौरमानेनापि पितृकार्यविधानात् `आब्दिके पितृकार्ये च चान्द्रो मासः प्रशस्यत' इति कथमिति चेद्, न। एते सौरादयः केषुचित् कर्मविशेषेषूपस्थिताः, केषुचिद्विकल्पाः। ते यथा भविष्योत्तरे-- `चैत्रशुक्लप्रतिपदमारभ्य तिलकव्रतं कार्यमि'त्युक्तम्। तच्चान्द्रेणैव कर्तव्यम्। शुक्लकृष्णप्रतिपदादीनां सौरसावनानुपजीवनात्। यत्तु विष्णुधर्मोत्तरे --`मेषसङ्क्रमणे भानौ सोपवासो नरोत्तमे'ति सुजन्मावाप्तिव्रतादिकमुक्तम्, तत्सौरेणैव कर्तव्यम्। यत्तु संवत्सरसाध्यगवामयनादिकं, तत्सावनेनैव कर्तव्यम्। चान्द्रस्य षड्भिरहोरात्रैर्न्यूनत्वात्। सौरस्य पञ्चभुरहोरात्रैरधिकत्वात्। निरूढपशुबन्धेऽपि चान्द्र एव। `अमावास्यायां पौर्णमास्यां चे'ति सूत्रकारैश्चान्द्रतिथौ तदनुष्ठानविधानात्। तथाच एतादृशस्थलेषूपस्थितः संवत्सरः। अन्यत्र तु उपनयनविवाहादिषु विकल्पा इति माधवीयेऽभिहितम्। अपरे तु `प्रशस्यत' इति वचनस्वारस्यात् क्वचित् कस्यचित् प्रशस्तत्वमित्याहुः। तदेवं चान्द्रादीनामुपयोगो द्रष्टव्य इति॥ इतिसंवत्सरनिर्णयः॥
%संवत्सरनिर्णयोपयोगः।% एतद्वत्सरनिर्णयस्योपयोग उच्यते-- भगवन्! कर्मणा केन तिर्यग्योनौ न जायते। म्लेच्छदेशे च पुरुषस्तन्ममाचक्ष्व वै मुने!॥ मार्कण्डेयः--`मेषसंक्रमणे भानौ सोपवासो द्विजोत्तमः। पूजयेद्भार्गवं देवं रामं शक्त्या यथाविधी'त्यारभ्य `मीनसंक्रमणे मत्स्यं वासुदेवं च पूजयेदि'त्यन्तेन मार्कण्डेयोक्तसुजन्मव्रतं, मासिके चाब्दिके वस्त्रधान्यस्वर्णादिवृद्धिषु। भृत्योपकल्पनादौ च मासाब्दौ सौरसावनौ॥ इत्यादिको व्यापारः, तथा `अनन्तस्य व्रतं कार्यं नव वर्षाणि पञ्च चे'त्याद्युक्तानन्तव्रतादिकं, तथा भागवतोक्तमशून्यशयनव्रतादिकं च, तथा वत्सरनिर्वर्त्यसर्वाण्यपि कर्माण्येतस्य फलम्॥
%युगनिर्णयः% अथ युगनिर्णयः - पित्र्यदैवाद्यहोरात्रादिक्रमेण युगस्वरूपमाह मनुः- पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः। कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी॥ प्रविभाग उच्यत इति शेषः। कर्मचेष्टासु कर्मचेष्टार्थमित्यर्थः। दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः। अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्॥ ब्राह्मस्य तु क्षपाहस्य प्रमाणं यत्समासतः। एकैकशो युगानां तु क्रमशस्तन्निबोधत॥ ब्राह्मस्य हैरण्यगर्भस्य। प्रमाणं परिमाणम्। चत्वार्याहुः सहस्त्राणि वर्षाणां तु कृतं युगम्। तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः॥ वर्षाणां देववर्षाणाम्। सन्ध्या युगारम्भकालः। सन्ध्यांशः युगावसानकालः। इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु। एकापायेन वर्तन्ते सहस्त्राणि शतानि च॥ इतरेषु त्रेताद्वापरकलिषु। एकापायेन एकलोपेन। यदेतत् परिसङ्ख्यातमादावेव चतुर्युगम्। एतद् द्वादशसाहस्त्रं देवानां युगमुच्यते॥ दैविकानां युगानां तु सहस्त्रपरिसंख्यया। ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरेव च॥ इति। महाभारते आरण्यपर्वण्यपि --चत्वार्याहुः सहस्त्राणि वर्षाणां तु कृतं युगम्। तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परः। त्रीणि वर्षसहस्त्राणि त्रेतास्यात्परिमाणतः। तस्यास्तावच्छती सन्ध्या सन्ध्यांशश्च ततः परः॥ अथ वर्षसहस्त्रे द्वे द्वापरं परिमाणतः। तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च ततः परः॥ सहस्त्रमेकं वर्षाणां तथा कलियुगं स्मृतम्। तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परः॥ सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणमवधारय। क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम्॥ एषा द्वादशसाहस्त्री युगसंख्या प्रकीर्तिता। एतत्सहस्त्रपर्यन्तमहो ब्राह्ममुदाहृतम्॥ इत्यादि। इति युगनिर्णयः॥
%ऋतुनिर्णयः% अथ यथाक्रममयननिर्णयः। यात्यनेन ऋतुत्रयेण सूर्यो दक्षिणादिदिशमिति ऋतुत्रयमयनम्॥ तथाच श्रुतिः-- `तस्मादादित्यः षाण्मासो दक्षिणेनैति षड्डत्तरेणैती'ति। इदं तु सौरमेव। सूर्यमुपजीव्य प्रवृत्तत्वात्। अत्रोत्तरायणे कर्तव्यं दक्षिणायने निषिद्धं च ज्योतिःशास्त्रे प्रतिपादितम्-- गृहप्रवेशस्त्रिदशप्रतिष्ठा विवाहचौल (मौञ्जी)व्रतबन्धपूर्वम्। सौम्यायने कर्म शुभप्रदं स्याद्यद्गर्हितं तत्खलु दक्षिणायने॥ इति। दक्षिणायने उग्रदेवताप्रतिष्ठादिकं कर्तव्यमित्युक्तं वैखानससंहितायाम्- मातृभैरववाराहनारसिंहत्रिविक्रमाः। महिषासुरसंहर्त्री स्थाप्या वै दक्षिणायने॥ इति। इत्ययननिर्णयः॥
अथ ऋतुनिर्णयः। `ऋ गतावि' त्यस्माद्धातोर्निष्पन्न ऋतुशब्दः। इयर्ति गच्छतीति वसन्तादिकालविशेषवाचक ऋतुशब्दः। स चाशोकपुष्पविकासाद्यसाधारणलिङ्गेनानुमेय इति माधवीये। संवत्सरावयवभूतमासद्वन्द्वे रूढोऽयम् ऋतुशब्द इत्येके । स च ऋतुः षोढा-- वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तशिशिरा इति। तत्र श्रुतिः -- `षड्वा ऋतव' इति। ननु `द्वादश मासाः पञ्चर्तव' इति श्रुतेः कथं षाड्विध्यमिति चेन्न। हेमन्तशिशिरयोरैक्याभिप्रायेण पञ्चत्वस्यो (संख्यो) पपत्तेः। `हेमन्तशिशिरावृतूनां प्रीणामी'ति श्रुतेः। एते वसन्तादय ऋतवो द्विविधाः। चान्द्राः सौराश्चेति। चन्द्रगतिप्रकल्प्यत्वाच्चान्द्रः। सौरेषु(तु) ऋतुषु बोधायनेन `मीनमेषयोर्मेषवृषभयोर्वा वसन्त' इत्यभिधानान्मीनादित्वं मेषादित्वं च वैकल्पिकं वसन्तस्याङ्गी कृतम्। तथाच तदनुसाराद् ग्रीष्मादयोऽपि यथायथं विकल्प्यन्ते। तेषामुपयोगो `वसन्ते ब्राह्मणोऽग्नीनादधीत, वसन्ते ब्राह्मणमुपनयीते'त्यादिना द्रष्टव्यः। अत्र चान्द्राणामतिशयमाह त्रिकाण्डिः -श्रौतस्मार्तक्रियाः सर्वाः कुर्याच्चान्द्रमसर्तुषु। तदभावे तु सौरर्तुष्विति ज्योतिर्विदांमतम्॥ इति। इति ऋतुनर्णयः॥
%मासनिर्णयः% अथ मासनिर्णयः क्रियते। मस्यते परिमीयते चन्द्रवृद्धिक्षयादिर्येषु कालविशेषेषु स मासः। स त्रिविधः चान्द्रसावनसौरभेदात्। तदुक्तं ब्रह्मसिद्धान्ते --चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः। एकराशौ रविर्यावत्कालं मासः स भास्करः॥ इति। चान्द्रो मासः शुक्लप्रतिपदादिदर्शान्तः कृष्णप्रतिपदादिपूर्णिमान्तश्चेति द्विविधः। तत्राद्यो `अमावास्यया मासान् सम्पाद्याहरुत्सृजन्ती'ति, `इन्द्राग्नि यत्र हूयेते मासादिः सम्प्रकीर्तितः। अग्नीषोमौ तथा मध्ये समाप्तौ पितृसोमकावि'ति `चान्द्रः शुक्लादिदर्शान्त' इत्यादिश्रुतिस्मृतिसिद्धः। द्वितीयस्तु `पौर्णमास्या मासान् सम्पाद्याहरुत्सृजन्ति। पौर्णमास्यां हि मासान् सम्पश्यती'त्यादि श्रुत्यादिसिद्धः। अत्रोभयोर्मध्ये पूर्णिमान्ते मासे श्रुतेः कटाक्षो भूयानित्यवगम्यते। `यो वै पूर्ण आशंचती'त्यादिना `यज्ञं प्रत्यवरोहन्ती'त्यन्तेनार्थवादेन, `मासो वै प्रजापतिः तस्य कृष्णपक्ष एव रयिः शुक्लः प्राण' इत्याथर्वणे कृष्णपक्षस्यादित्वेनोक्त्या, तथा `आश्वयुक्कृष्णपक्षे तु श्राद्धं कार्यं दिने दिने। मासि भाद्रपदेऽष्टम्यां कृष्णपक्षेऽर्धरात्रके॥ भवेत्प्रोष्ठपदे मासि जयन्ती नाम सा स्मृते'त्यादि स्मृत्यादौ आश्वयुक्कृष्णपक्षे महालयस्य भाद्रपदकृष्णाष्टम्यां जयन्तीत्यस्य विधानान्यथानुपपत्त्या चावगम्यते। तथाहि -- अत्र महालयकृष्णपक्षस्याश्वयुगन्तर्गतत्वं जयन्त्याश्च भाद्रभदान्तर्गतत्वं च दर्शान्तत्वेऽनुपपन्नं सत् पौर्णिमान्तत्वं मासस्यावगमयतीति। तथा यतिप्रकरणे `ऋतुसन्धिषु वापयेदि'त्यादिस्मृत्या यतीनाम् ऋतुसन्धौक्षौरं तावत्प्रसिद्धम्। तथा शिष्टाचारात्। तच्च वपनं मासस्य पौर्णिमान्तत्वाभावे दर्शस्यैव ऋतुसन्धित्वात् तत्रैव वपनं प्रसज्येतेति पौर्णमास्यां न स्यात्। अस्ति च तत्। तदन्यथानुपपत्त्या चावगम्यत इति। तथा माघस्नानादौ पौर्णमास्यन्तस्य मासस्य शिष्टानामाचारदर्शनात्। तथा क्वचिच्चातुर्मास्यव्रतादिषु शुक्लपक्षदशमीमारभ्य शुक्लपक्षदशमीपर्यन्तं शाकव्रतादिकं कर्तव्यमिति विधीयत इति सोऽप्येको मासोऽवगन्तव्यः। अत्र वचनान्युत्तरत्र स्पष्टीकरिष्यन्ते। तस्मात् पौर्णमास्यन्तो मासो भूयान्। तथा विष्णुधर्मोत्तरे नाक्षत्रो मासो दर्शितः -सर्वर्क्षपरिवर्तैस्तु नाक्षत्रो मास उच्यते। सौरस्याद्यन्तौ राशीनामाद्यन्ताभ्यां व्यवस्थितौ॥ सावनस्तु त्रिंशद्दिनगणनायां मास उच्यते। तत्र पुरुषेच्छादिर्नियामकः। नाक्षत्रे नक्षत्रं नियामकमिति सर्वत्र व्यवस्था द्रष्टव्या। दर्शान्तादिमासोपयोगस्तु ब्रह्मसिद्धान्ते दर्शितः-अमावास्यापरिच्छिन्नो मासः स्याद् ब्राह्मणस्य तु। सङ्क्रान्तिपौर्णमासीभ्यां तथैव नृपवैश्ययोः॥ इति। तथा वायुपुराणे माद्यमाहात्म्ये विशेषोऽभिहितः- दशम्यादिदशम्यन्तः स मासः शुभकर्मणि। पूर्णिमादिर्याज्ञिकानां पितृणां सङ्क्रमादिकः॥ एतेष्वन्यतमं पक्षं समारभ्य व्रतं चरेत्॥ इत्यादि। एवं द्विविधानां चान्द्रद्वादशमासानां चैत्रादिसंज्ञा नक्षत्रसम्बन्धप्रयुक्ता। यस्मिन् मासे पूर्णिमा चित्रादिनक्षत्रेण युज्यते, स चैत्रादिः। साक्षात्तदयोगेऽपि चैत्रादीनां पञ्चानां नक्षत्रद्वन्द्वं प्रयोजकम्। षष्ठसप्तमयोस्त्रिकं त्रिकम्, अष्टमाद्येकादशान्तानां चतुर्णां द्विकं द्विकम्, अन्त्यस्य तु त्रिकमिति विभागो द्रष्टव्यः। तदुक्तं सङ्कर्षणकाण्डे --द्वे द्वे चित्रादिताराणां परिपूर्णेन्दुसङ्गमे। मासाश्चैत्रादयो ज्ञेयास्त्रिकैः षष्ठान्त्यसप्तमाः॥ इति। अन्यत्रापि --अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः। शेषमासा द्विभा ज्ञेयाः कृत्तिकादिव्यवस्थया॥ इति। बृहदारण्यकभाष्येऽपि-- `चित्रादितारकाद्वन्द्वं यदा पूर्णेन्दुसंयुतम्। चैत्रादिमासा विज्ञेया' इत्यादि। अत्र माससामान्यस्योपयोगः तैत्तिरीयकादौ-- `मासि पितृभ्यः क्रियत' इति `मासि मासि पृष्ठन्युपयन्ति मासि मास्यतिग्राह्या गृह्यन्त' इति च। शाखान्तरे -- कुण्डपायिनामयने मासमग्निहोत्रं जुहोती'ति सिद्धो द्रष्टव्यः।
%मासविशेषोपयोगः% मासविशेषोपयोगास्तु वैशाखमाहात्म्ये स्कान्दे --दध्नोऽधिकं घृतं यद्वदूर्जो मासोऽधिकस्तथा। कार्तिकादधिको माघो माघाद्वैशाख उत्तमः। तस्मिन् मासे कृतो धर्मो वर्धते वटबीजवत्॥ इति। तथा वायुपुराणे माघमाहात्म्ये-- प्रातः स्नानेऽप्यशक्तश्चेत् कुर्यान्मासत्रयं बुधः। तुलासंस्थे दिनकरे मकरस्थे च भास्वति। मेषगे च सदा कुर्यात् प्रातः स्नानमतन्द्रितः। न कुर्यात् त्रिषु मासेषु प्रातः स्नानं नराधमः॥ रौरवं नरकं याति यावदिन्द्राश्चतुर्दश॥ इति। तथा स्कान्दे कार्तिकमासमाहात्म्ये --माघमासोत्सवो विष्णोर्गृहे यस्मिन् प्रतीयते। न पापैः कलिकालोत्थैर्लिप्यते च कृतैरपि॥ इति। तथा तत्रैव-- कार्तिकं सर्वमासेभ्यः सहस्त्रफलदं विदुः। तस्माल्लक्षगुणे माघ इति प्राह जनार्दनः। न माघस्नानात् परमोऽस्ति धर्मो न माधस्नानादपरा परा गतिः। न माघस्नानात्परमोऽस्ति लाभो न माघस्नानादपरं परायणम्॥ अकृत्वा माघमासे तु प्रातःस्नानं नराधमः। पैशाचीं योनिमासाद्य तिष्ठत्याभूतसंप्लवम्॥ तथाग्नेये --यो स्नायाच्च वैशाखे मेषसंस्थे दिवाकरे। कावेर्यां वा तुलामासे कार्तिके माघमास्यपि॥ इति। तथा तत्रैव --कार्तिक्यां वाथ वैशाख्यां चैत्रे वा पितृमुक्तये। छत्रंच पानकं दिव्यं यो न दद्याद्गृहाश्रमी॥ इति। तथा-- कार्मुके मासि मुद्गान्नं यो विष्णोर्न निवेदयेत्। दध्योदनं च वैशाखे चैत्रेऽमायां च पानकं॥ यो न दद्याच्च दध्यन्नं वैशाखे पितृमुक्तये। नार्चयेन्माधवं यस्तु चातुर्मास्येऽरुणोदये॥ कार्तिके मासि यो विष्णोर्न दीपाराधनं चरेत्। यश्छत्रदानं विप्राय कार्तिके न ददाति च॥ इत्यादौ मासप्रयुक्तस्नानदानादावुपयोगो द्रष्टव्यः। आग्नेये भरतवाक्ये -- एतेषां यदघं मातस्तन्मे स्याद्रामदूषक इति दोषो द्रष्टव्यः॥
%धनुर्मासविशेषः% तथा तत्रैव धनुर्मासविषये द्विपञ्चाशेऽध्याये -- धनुर्मासे हरिः प्रीत उषःकालार्चने ध्रुवम्। ददात्यभीष्टमक्षय्यं सत्यमेव ब्रवीमि ते॥ उषःकाले धनुर्मासे स्नात्वा सम्यग् जनार्दनम्। समभ्यर्च्य च मुद्गान्नं दध्ना सह निवेदय॥ भोजय द्विजवर्यांश्च प्रातःकाले यथाबलम्। भुक्त्वेह सकलान् भोगान् प्राप्स्यसे वैष्णवं पदम्॥ धनुर्मास उषःकाले दध्यार्द्रकमनोहरम्। आज्यैलाशर्करायुक्तं सहामलकमूलकम्॥ निवेदयित्वा हरये ब्राह्मणान् भोजयेत्सुधी। यं यं कामयते कामं तं तं प्राप्य सुदुर्लभम्॥ स स्याद्योगी सुधीः श्रीमान् वैष्णवो जन्मजन्मनि॥ इति। अकरणे प्रत्यवाय उक्तस्तत्रैव -- उषःपूजां धनुर्मासे यो न कुर्वीत वैष्णवीम्। सप्तजन्मसु रिक्तःस्तात् क्षयरोगी च मूढधीः॥ इति। करणे फलान्तरमुक्तं तत्रैव --कोदण्डस्थे सवितरि मुद्गान्नं यो निवेदयेत्। सहस्त्रवार्षिकी पूजा दिनेनैकेन सिध्यति॥ यथा तुष्येद्धनुर्मासे मुद्गान्नेन रमापतिः। न तथा व्रतदानद्यैर्न तपोभिर्न चाध्वरैः॥ कोदण्डस्थे दिवानाथे यो मुद्गान्नं सहार्द्रकम्। निवेदयेद्धरेः सम्यग् जित्वा शत्रून् क्षणेन सः॥ सदध्यार्द्रकमुद्गान्नं यो धनुर्मासि विष्णवे। समर्पयेत्स दीर्घायुर्धनाढ्यो वेदपारगः॥ सहार्द्रकं च मुद्गान्नं योऽच्युताय निवेदयेत्। किं तस्य गङ्गास्नानाद्यैःकिं जपैः किमिहाध्वरैः॥ आयुरारोग्यमैश्वर्यं यदीच्छेत्सद्य एव हि॥ इति। तथान्यत्र --- प्रीणयेत् स धनुर्मासे मुद्नान्नेनाम्बुजेक्षणम्। निवेदयित्वा मुद्गान्नं पुरेन्द्राणी सहार्द्रकम्॥ विष्णवे दुःखिता साध्वी नित्यैश्वर्यमवाप सा। इदं द्वादशवारं तु जपन् लक्ष्मीं समर्चय॥ निवेद्य गुडमुद्गान्नं धनुर्मासेऽर्थसिद्धये। सद्य एवाप्नुयाल्लक्ष्मीकटाक्षेणाक्षयं धनम्॥ श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा। तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी॥ पञ्चमं विष्णुपत्नीति षष्ठं श्रीवैष्णवीति च॥ सप्तमं तु वरारोहा अष्टमं हरिवल्लभा॥ नवमं शार्ङ्गीणी प्रोक्ता दशमं देवदेविका। एकादशं महालक्ष्मीः द्वादशं लोकसुन्दरी॥ श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मीस्त्रिलोकेश्वरी मा क्षीराब्धिसुतारविन्दजननी विद्या सरोजात्मिका। सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादश प्रातः शुद्धतराः पठन्ति सततं सर्वान् लभन्ते शुभान्॥ भद्रलक्ष्मीस्तवं नित्यं पुण्यमेतच्छुभावहम्। तौलौ स्नात्वापि कावेर्यां जप श्रीवृक्षसन्निधौ॥ इति युधिष्ठिरं प्रति नारदवचनम्। तत्रैवान्यत्र-- दध्यार्द्रकं च मुद्गान्नं दध्याज्यैलागुडोज्ज्वलम्। सुसुखोष्णं सकन्दं च विष्णवे यः समर्पयेत्॥ दृष्ट्वातच्छुभमुद्गान्नं सन्तुष्टो भक्तवत्सलः। ददाति सकलान् भोगान् मोक्षं च जगदीश्वरः॥ इत्यादि तत्र तत्र बहु विस्तृतमस्ति। ग्रन्थगौरवभयान्न लिख्यते॥
%महाव्यतीपातः% आग्नेयपुराणे धनुर्मासव्यतीपातविषये -यः स्नात्वोषसि चापर्क्षे भास्करे भक्तिमान्नरः। निवेदयेन्मे मुद्गान्नं स वै भागवतोत्तमः॥ यः कार्मुकार्के मुद्गान्नं ब्राह्मणेभ्यः प्रयच्छति। तस्य मुक्तिं प्रयच्छामि किं पुनर्भोगसम्पदः॥ अग्निष्टोमसहस्त्राणि वाजपेयशतानि च। मुद्गान्नस्य व्यतीपाते चापे नार्हति तुल्यताम्॥ वेदभ्रष्टो व्रतभ्रष्टः सुहृद्रिपुः। चापे पाते च मुद्गान्नं दत्त्वा विप्राय शुध्यति॥ देवर्षिपितरः सर्वे सर्वे लोकाः सहेश्वराः। प्रशंसन्ति व्यतीपाते मुद्गान्नं मार्गशीर्षके॥ निवेदयित्वा मुद्गान्नं धनुष्युषसि विष्णवे। पितृन् यो भोजयेत् पाते तस्य पुण्यफलं श्रृणु॥ गयाक्षेत्रे रामसेतौ सम्यक् श्राद्धायुतं भवेत्। तद्वंश्याश्चापि पितरः सर्वे यान्ति हरेः पदम्॥ निवेदयित्वा मुद्गान्नं शर्कराज्यफलैर्युतम्। उषःकाले धनुर्मासे ब्राह्मणेभ्यः प्रयच्छति॥ कायक्लेशकरैस्तस्य किं तीर्थैर्व्रतकोटिभिः। येऽर्चयन्ति हरिं स्नात्वा प्रातश्चापे बहिर्जले॥ इन्द्राद्यास्तानुपास्यन्ति सर्वभूतानि बिभ्यति। स्नातः स्यात्सर्वतीर्थेषु कावेर्यादिनदीषु च॥ अर्धोदयसहस्त्राणि वाजपेयादयोऽध्वराः। मार्गशीर्षव्यतीपातकलां नार्हन्ति षोडशीम्॥मार्गशीर्षव्यतीपाते पितृनुद्दिश्य तर्पयन्। अर्घ्यं दद्याद्धरिं ध्यायन् मूलमन्त्रेण मानवः॥ मूलमन्त्रः - व्यतीपात! महासत्व! सर्वपापप्रणाशन!। सहस्त्रबाहो! विश्वात्मन् गृहणार्घ्यं नमोऽस्तु ते॥ व्यतीपात! नमस्तेऽस्तु नमस्ते विश्वमङ्गल!। विष्णुचक्रस्वरूपाय नमस्ते दिव्यतेजसे॥ एवं दत्त्वार्घ्यमेकं तु प्रमाणं दक्षिणामुखः। वंशद्वयपितृन् ध्यात्वा तर्पयेत् पितृतृप्तये॥ विष्णुप्रिय! व्यतीपात! पितृणामनृणप्रद! पितृणां मम वैकुण्ठं प्रयच्छ भगवन् हरे!॥ त्वत्प्रसादेन मे भक्तिरस्त्वेवमनपायिनी। ज्ञानविज्ञानवैराग्यं प्रयच्छ भगवन्! मम॥ अस्य धर्मस्य सौरधनुर्माससाध्यत्वादत्र कथितः॥
किञ्च तद्विषये तत्रैव विष्णुशचीसंवादे विशेषोऽभिहितः -तस्मान्मासि च चापाख्ये कर्म त्यक्त्वारुणोदये। मुद्गान्नपूजां यः कुर्यात्तस्य मुक्तिप्रदो भव॥ धनुर्मासे कृता पूजा मध्याह्ने निष्फला भवेत्। मुख्यारुणोदये पूजा मध्यमा लुप्ततारका॥ अधमा सूर्यसहिता मध्याह्ने निष्फला भवेत्। मुद्गं तण्डुलमानं स्यादुत्तमोत्तममुच्यते॥ मध्यमं तण्डुलादर्धं तदर्धमधमं भवेत्। मुद्गं तु द्विगुणं केचित् प्रशंसन्ति मुनीश्वराः॥ यथाबलं प्रकुर्वीत न हीयेत्तण्डुलार्धतः। यस्तु दारिद्य्रदुर्बुध्या मुद्गान्नं न निवेदयेत्॥ विष्णवे कार्मुके प्रातः सप्तजन्मसु निर्धनः। यः कर्महानिमाशङ्क्य नार्चयेदुषसीश्वरम्॥ चापेऽर्के निर्धनो रोगी विष्णुद्रोही पतेदधः। यथा सङ्कोच्य सत्कर्म भुङ्क्तेऽल्पद्वादशीदिने॥ तथा प्रातर्धनुर्मासे त्यक्त्वा कर्मार्चयेच्च माम॥ ज्योतिःशास्त्रे भास्करीयेऽपि --अयनं दक्षिणं रात्रिरुत्तरं तु दिवा भवेत्। दैवं तत्तदहोरात्रं चापमासं विदुर्बुधाः॥ तस्मात् सर्वप्रयत्नेन चापमासे दिने दिने। उषःकाले तु सम्प्राप्ते अर्चयित्वा जनार्दनाम्। उपचारैः षोडशभिर्मुद्गान्नं च निवेदयेत्॥ इति। आदित्यपुराणेऽपि --चापे गते तथा सूर्ये प्रत्यूषे स्नानमाचरेत्। अर्चयेच्च जगन्नाथं यावत्सूर्योदयात् पुरा॥ ततः प्रभातसमये अर्घ्यं प्रक्षिप्य वै द्विजः। गायत्रीं च ततो जप्त्वा उपतिष्ठेत भास्करम्॥ इति। स्मृत्यर्थसारेऽपि --अर्चयित्वा हरिं पश्चाद्धनुर्मासेऽन्त्ययामकम्। पश्चात् सन्ध्यामुपासीत धर्मलोपो न विद्यते॥ इति। पञ्चरात्रे च- कोदण्डस्थे सवितरि प्रत्युषःपूजनाद्धरेः। सहस्त्राब्दार्चनफलं दिनेनैकेन लभ्यते॥ इति। पारमेष्ठये च--चापंगते दिनकरे प्रत्युषः पूजयेद्धरिम्। महाभिषेकविधिना वेदपारायणादिभिः॥ इति। यामले च-- धनुर्मासि व्यतीपातेऽप्युषःकाले विशेषतः। मुद्गान्नैश्चोटिकायुक्तैः पायसेन विशेषतः॥ नानाविधैर्भक्ष्यभोज्यैर्दध्योदनसमन्वितैः। धूपैर्दीपैश्च नैवेद्यैर्विष्णुं सम्पूज्य भक्तितः॥ ब्राह्मणान् भोजयेत्तत्र प्रातःकाले विशेषतः। विष्णोर्नैवेद्यशेषेण पायसेन विशेषतः॥ गोभूतिलहिरण्यादिदानं कुर्याच्च यत्नतः। सर्वान् कामानवाप्नोति सौदार्ये? दानतो द्विजः॥ इति। मात्स्ये दानखण्डे च-- धनुर्मासे तु सौदार्ये? प्रत्यूषे हरिपूजनात्॥ ब्राह्मणानां भोजनेन नानादानैश्च सत्तम!॥ विष्णुलोकमवाप्नोति पितृभिःसह नित्यदा॥ इत्यादि। सङ्ग्रहे च-- धनुर्मासं गते भानौ प्रातरुत्थाय यो द्विजः। हरेः पूजां प्रकुर्वाणो लभते हरिमन्दिरम्॥ तथा -धनुर्मासे हरेः प्रीत्यै मुद्गान्नं गुडसंयुतम्। योऽर्पयेत् प्रातरुत्थाय स विष्णुपदमश्नुते॥ इत्यादितन्मासपूजासाधनद्रव्यकालविशेषवचनानि द्रष्टव्यानीति॥
%चातुर्मास्यधर्माः% मासप्रसङ्गाच्चातुर्मास्यस्वरूपं तत्र कर्तव्यधर्माश्च निरूप्यन्ते। तत्प्रशंसा वराहपुराणे चातुर्मास्यमाहात्म्ये धरणीवराहसंवादे वराहः- अस्ति प्रियतमः कालश्चातुर्मास्याभिधो मम। स्नानं व्रतं जपो होमस्तत्रानन्तगुणं स्मृतम्॥ मासेष्वन्येषु यत्किञ्चित् क्रियते मम तोषणम्। तस्मात् कोटिगुणं पुण्यं माघेमकरगे रवौ॥ ततोऽपि कोटिगुणितं वैशाखे मासि लभ्यते। ततोऽप्यनन्तगुणितं चातुर्मास्ये न संशयः॥ इत्यादि। तत्स्वरूपं च तत्रैवोक्तम्- आषाढाद्यास्तु षण्मासा दक्षिणायनमीरितम्। पौषाद्या देवि! षण्मासा उत्तरायणमीरितम्॥ चान्द्रो मासो द्विधा प्रोक्ता दर्शान्तः पौर्णिमान्तकः। व्रतादौ गृह्यते तत्र पौर्णिमान्तो हि सूरिभिः॥ आषाढे दशमीं शुक्लामारभ्य स्यात्तु कार्तिकी। पौर्णमासी तावदिदं चातुर्मास्यव्रतादिकम्॥ इत्यादि। तस्य सर्वकालोत्तमत्वं च तत्रैवोक्तमाख्यायिकया। वराहः --पुरा सर्वैर्देवगणैर्वृतोऽहं मेरुमस्तके। तथा याम्यायनं प्राप्य देवास्सर्वेऽप्यथोचिरे॥ भगवन्! रात्रिरस्माकं प्राप्ता हि भवदाज्ञया। स्वस्वस्थानं प्रयास्याम इति तावदुपस्थिता॥ शुक्लाम्बरधरा नारी श्यामा परशुधारिणी। साष्टाङ्गं प्रणिपत्याह रात्रिस्त्वां प्रार्थयाम्यहम्॥ नहि याम्यायने किञ्चिद्विवाहोपनयादिकम्। शुभं कर्म प्रकुरुते ततोऽहं निन्दिता जनैः॥ वृथा मे जीवनं स्वामिन्! यत्सर्वैर्गर्हितास्म्यहम्। यदि त्वमनुगृह्णासि तर्हि जीवामि नान्यथा॥ तप एव करिष्यामि त्वत्प्रसादार्थमत्र वै। इत्युक्त्वा प्रणता भूयस्ततो देवा विजिज्ञपुः॥ नाथ! नाथ! कृपासिन्धो! शरणगतवत्सल!। विधत्स्व करुणां रात्रौ व्रजेद्येन कृतार्थताम्॥ ततः प्रसन्नहृदयस्तस्यै प्रादां वरोत्तमम्। प्रिया मे ते त्रयो यामास्तत्राद्यौ द्वौ महाप्रियौ॥ स्यातां तत्र कर्म जपदानव्रतादिकम्। अनन्तगुणमेव स्यादष्टमासकृतादपि॥ आद्यः स्याच्छ्रावणो मासो नभस्योऽथ द्वितीयकः। तृतीयश्चाश्विनो मासश्चतुर्थः कार्तिकः स्मृतः॥ चातुर्मास्येऽपि पुण्यस्य वृद्धिः स्याच्च दिने दिने। न कार्तिकसमावृद्धिः पुण्यस्योक्ता मनीषिभिः॥ इति वाचं मम श्रुत्वा तुष्टास्सर्वे तदा सुराः। रात्रिदेवी च सन्तुष्टा प्रणनाम मुहुर्मुहुः॥ ततः प्रभृति लोकेऽस्मिन् चातुर्मास्यं मम प्रियम्। प्रथितं यत्र कुर्वन्ति तस्मिन् दानव्रतादिकम्॥ दिने दिनेऽनन्तगुणं तत्फलं प्रददाम्यहम्। अतस्तत्र विशेषेण स्नानदानादिकं नरैः॥ प्रकर्तव्यं मम प्रीत्यै भक्त्या संसारभीरुभिः॥ इत्यादि॥
अथ तत्र कर्तव्यानि स्कान्दे व्रतकाण्डे-- आषाढस्य सिते पक्षे एकादश्यां समारभेत्। कार्तिकस्य सिते पक्षे पौर्णमास्यां समापयेत्॥ उपवासस्वरूपाणि व्रतान्यन्यानि सन्ति वै। तानि सर्वाणि विप्रेन्द! प्रबोधिन्यां समापयेत्॥ द्वादश्यां कारयेत्तेषां होमं ब्राह्मणपूजनम्। इतराणि च सर्वाणि पौर्णमास्यां समापयेत्॥ इति॥
%चातुर्मास्यव्रतम्% अथ चातुर्मास्यव्रतं तत्रैवोक्तम् -- अच्युते शयनं याते द्विजेन्द्रैर्भावितात्मभिः। नारीभिर्वा मासि किं कर्तव्यं व्रतं च किम्॥ कोऽयं विधिः क आचारो वद मे वदतां वर!। ब्रह्मोवाच --आषाढस्य तु मासस्य सूर्ये कर्कटगे तथा। एकादश्यां सिते पक्षे देवानां रात्रिरिष्यते॥ तन्मध्यगो महाविष्णुरुपेन्द्र इति संज्ञकः। अवस्थात्रयमादाय नानामूर्तिभिरव्ययः॥ समस्तैर्विबुधैः स्तुत्यो योगनिद्रामुपेयिवान्। समस्तममलानां च देवता च जनार्दनः॥ तस्मिंस्तु शयनं याते नोद्वाहादिक्रिया भवेत्। चौलोपनयने चैव विवाहाद्यं त्यजेद्वुधः॥ अज्ञानाद्यदि कुर्वन्ति मृतिस्तेषां न संशयः। कल्याणदेवतादृष्टिहीनानां तु कुतः सुखम्॥ चातुर्मास्यविधिं वक्ष्येश्रुतिस्मृत्युदितं शुभम्। पूर्वभाण्डानि सर्वाणि रसभाण्डविवर्जितम्॥ विसर्जयेन्नवम्यां तु शूर्पादीन् शोधयेत्तथा॥ गोमयाद्युपलेपेन शुद्धिं कृत्वा विचक्षणः॥ अभ्यन्तरं गृहस्यैव वासोभिः कम्बलैस्तथा। कटैश्च कशुभिश्चैव सचेलं स्नानमाचरेत्॥ ततः प्रातः समुत्थाय दशम्यां तु शुभे दिने। स्नात्वा निर्वर्त्य कर्माणि गृहं गत्वा जितेन्द्रियः॥ देवस्योद्वर्तनं कुर्यादलंकुर्याच्च मण्डपम्। पञ्चगव्यं प्राशयित्वा शुद्धिं कृत्वा तनोर्दृढम्॥ पूजयित्वा यथान्यायं देवदेवं जनार्दनम्। व्रतानां वक्ष्यमाणानां सङ्कल्पं विधिवच्चरेत्॥ नैमित्तिकानां काम्यानां नित्यानां च तथैव च। व्रतान्येतानि सर्वाणि चतुराश्रमवर्तिनाम्॥ प्रथमे मासि कर्तव्यं नित्यं शाकव्रतं शुभम्। द्वितीये मासि कर्तव्यं दधिव्रतमनुत्तमम्॥ पयोव्रतं तृतीये तु चतुर्थे तु निशामय। द्विदलं बहुबीजं च वर्जयेच्छुद्धिमिच्छता॥ नित्यान्येतानि विप्रेन्द्र!व्रतान्याहुर्मनीषिणः। जम्बीरं राजमाषं च तुवरं राजमुद्गकम्॥ अभक्ष्याणि च शाकानि चातुर्मास्ये त्यजेद्वुधः। द्वादश्यां तु दशम्यां च शाकं दशविधं त्यजेत्॥ शाकं दशविधं प्रोक्तं वर्ज्यं शाकव्रते शुभे। पत्रं पुष्पं फलं नालं मूलं कुङ्मलमेव च॥ तिलपिष्टं पल्लवं चच्छत्राकं चामिषं तथा। शाकं दशविधं प्रोक्तं व्रतकर्मसु निष्ठितैः॥ कार्तिक्यां वर्जयेद्विद्वान् द्विदलं बहुबीजकम्। बीजमेव समुद्भूतं द्विदलं चाङ्कुरं विना॥ दृश्यते यत्र सस्येषु द्विदलं सद्भिरुच्यते। शिलया भिद्यमाने तु द्विदलं यत्र दृश्यते॥ द्विदलं तद्धि विज्ञेयं तन्मे निगदतः श्रृणु। माषं च मुद्गकं चैव चणकं च मसूरकम्॥ कुलित्थं चैव निष्पावमाढकं राजमाषकम्। राजमुद्गं तिन्त्रिणीं च तथा वै नखपञ्चकम्॥ नूतनान्यथ जीर्णानि सर्वाण्येतानि वर्जयेत्॥ नाले फले वै दृश्यन्ते बहुबीजानि नारद!॥ बहुबीजं तदित्याहुः पत्रकीरादिकं तथा। प्रातःस्नानं दीपदानं कार्तिक्यां तु विशेषतः॥ जागरं तु प्रबोधिन्यां कुर्याद्वै नियतेन्द्रियः॥ गुरोर्गोमिथुनं दत्त्वा द्वादश्यां भोजयेद् द्विजान्। आसायाह्नं पुराणाद्यैरहःशेषं नयेद्वुधः॥ अस्तङ्गते दिनकरे पुनः स्नात्वा यथाविधि। वृन्दावने ततः कुर्यान्मण्डपं चतुरश्रकम्॥ पुष्पमाल्यैः फलैर्दिव्यैर्नालिकेरादिभिः शुभैः। पूगीफलैरिक्षुदण्डै रम्भास्तम्भैश्च शोभितम्॥ पूजयेत्तत्र देवेशं क्षीराम्बुधिनिवासिनम्। नानाविधैश्चोपचारैर्गीतवादित्रनर्तनैः॥ मार्गतालानि सर्वाणि नृत्तं नाट्यं तदुद्भवम्। वसन्तं श्रावयेद्गीतं विष्णोर्देवस्य चक्रिणः॥ महाराजोपचारेण तं भजेद्गरुडध्वजम्। निवेदितैश्चोपहारैर्दक्षिणाभिर्द्विजोत्तमान्॥ सन्तोषयेन्महाभक्त्या वैष्णवान् भावितव्रतान्। आशिषः प्रतिगृह्णीयात्तत्सर्वं विष्णवेऽर्पयेत्॥ ततस्तु पौर्णमास्यां तु धात्रीवृक्षोपशोभिते। वने दामोदरं विष्णुं चित्रान्नैस्तोषयेद्विभुम्॥ कल्पोक्तविधिना तत्र होमं कुर्याद्विचक्षणः। ब्राह्मणान् भोजयेत्पश्चात् स्वयं भुञ्जीत बन्धुभिः॥ इदं व्रतं महापुण्यंसर्वपापहरं शुभम्। सर्वापराधशमनं सर्वोपद्रवनाशनम्॥ सर्वैरवश्यं कर्तव्यं चतुराश्रमवासिभिः। इदं नैमित्तिकं प्राहुश्चतुराश्रमवर्तिनाम्॥ पराकं षष्ठकालं च तथा धारणपारणम्। लक्षवर्तीव्रतं चैव भीष्मपञ्चकमेव च॥ तथा लक्षनमस्कारव्रतं लक्षप्रदक्षिणम्। चातुर्मास्ये व्रतान्याहुरेतत्काम्यमितीरितम्॥ रङ्गवल्याश्च निष्पेषं चातुर्मास्ये न कारयेत् (विवर्जयेत्)। तुलस्योप्तं नैव कुर्यात्सर्वमेतत् तवोदितम्॥ नित्यं कार्यं च सर्वेषामेतद्व्रतचतुष्टयम्। नारीभिश्च नरैर्वापि चतुराश्रमवर्तिभिः॥ ब्राह्मणः क्षत्रियो वैश्यः स्त्रियः शूद्रो व्रती तथा। गृही वनस्थः कुटीचो बहूदः परहंसकः। नरकान्न निवर्तन्ते त्यक्त्वा व्रतचतुष्टयम्॥ इति श्रीरकान्दपुराणे ब्रह्मनारदसंवादे चातुर्मास्यव्रतकथनेऽष्टमोऽध्यायः॥ इति श्रीरकान्दपुराणे ब्रह्मनारदसंवादे चातुर्मास्यव्रतकथनेऽष्टमोऽध्यायः॥
%चातुर्मास्यव्रताकरणे प्रत्यवायः।% तथादित्यपुराणे चातुर्मास्यव्रतमुक्तमकरणे प्रत्यवायपूर्वकं ब्रह्मनारदसंवादेन। ब्रह्मोवाच-- गोविन्दे शयनं प्राप्ते गृह्णन् व्रतचतुष्टयम्। विष्णोः प्रीतिमवाप्नोति व्रतैरेतैश्च नारद!॥ श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा। क्षीरमाश्वयुजे मासि कार्तिक्यां द्विदलं त्यजेत्॥ यो भुङ्क्ते प्रथमे मासे शाकं दशविधं मुने!। पुंसा तेन महाविष्णोर्हृदि शल्यं समर्पितम्। मूलपत्रकरीरग्रफलकाण्डाधिरूढकाः। त्वक्पुष्पं कवचं चेति शाकं दशविधं स्मृतम्॥ अतसी तुलसी चैव धात्री चूतफलं तथा। ग्राह्याण्येतानि चत्वारि विष्णुनात्तं यतः पुरा॥ नान्यत्किञ्चित्समश्नीयाद्भुक्त्वा चान्द्रायणं चरेत्। सुप्ते देवे द्वितीये तु मास्येनांसि समस्तशः॥ दध्याश्रितानि तिष्ठन्ति तद्भुक्त्वा पापभुग् भवेत्। व्रतस्थितश्चयो मर्त्यस्तृतीये शयनान्मम॥ गव्याज्यमाहिषावीनां क्षीराणां सेवनात्पुमान्। सुरापलोकमाप्नोति यावदाभूतसंप्लवम्॥ चतुर्थे मासि सम्प्राप्ते व्रतं कुर्याद्द्विजोत्तमः। बहुबीजद्विदलानां व्रतस्यानन्त्यमिच्छता॥ अङ्कुराद्भर्जनाद्वापि द्विदलं यत्र दृश्यते। द्विदलं तदिति प्राहुर्व्रतकर्मसु कर्शिताः॥ बहून्येकतुषाबद्धान्यपि तानि फलेऽपि च। बहुबीजानि तान्याहुस्तुषात्वाछादनात्त्वचा। अद्यमानं तु यत्सर्वं तदन्नमभिधीयते। तदन्नं द्विविधं प्रोक्तं जन्मकालनिमित्ततः॥ उत्तरायणजं चैव दक्षिणायनजं तथा। उत्तरायणजं चान्नं शुद्धमाग्रयणेष्टितः॥ दक्षिणायनजं चान्नं कार्तिके वनभोजनात्। उपेन्द्रे सर्वदेवेज्ये शयनादुत्थिते सति॥ कार्तिक्यां च चतुर्दश्यां पञ्चम्यां वनभोजनम्। कृत्वा सर्वं समश्नीयादन्यथा त्वघभुग् भवेत्॥ शयिष्णुना च विभुना यदत्रास्वीकृतं च तत्। अभक्ष्यमिति तत्प्राहुर्महान्तो व्रतकर्शिताः। अत एव वदन्त्यन्ये पुराणं ग्राह्यमित्यपि॥ अव्रतेन नयेद्यस्तु चातुर्मास्यमनुत्तमम्॥ स पापी नरकं याति यावदाभूतसंप्लवम्। तस्माद्व्रतमिदं धार्यमन्यथा नास्य निष्कृतिः॥ यत्किञ्चिद्भक्ष्यते शाकं प्रथमे मासि नारद!। तेनार्पितं हरेः शल्यं हृदि नात्र विचारणा॥ द्वितीये भक्षिते दध्नि गोमांसं तेन भक्षितम्। क्षीरे पीते तृतीये तु सुरा पीता न संशयः॥ चतुर्थे मासि विप्रेन्द्र! द्विदलेऽपि च भक्षिते। कृमयो भक्षितास्तेन यावदुद्वोधनं हरेः॥ ततः प्रभाते द्वादश्यां कृत्वा कालोचितक्रियाः। संपूज्य तुलसीपत्रैर्लक्ष्मीदामोदरं प्रभुम्॥ दद्यात्संपूज्य विप्रं च पश्चात्तस्मै कुटुम्बिने। देव देव! जगन्नाथ! लक्ष्मीदामोदर! प्रभो!॥ चातुर्मास्ये त्वयाज्ञप्तः कृत्वा व्रतचतुष्टयम्। भवन्मूर्तिं प्रदास्यामि त्वत्प्रसादाभिकाङ्क्षया॥ मन्त्रेणानेन तां दद्यात्स्वर्चितां तुलसीदलैः। ब्राह्मणान् भोजयेत्पश्चाद्यथावित्तानुसारतः॥ इत्यादि। इति चातुर्मास्यविधिः॥
%श्राद्धादौ शाकव्रताद्यनुष्ठानम्।% अथ प्रसङ्गात् श्राद्धे आषाढे कार्तिके च शाकव्रतं कार्यमित्यत्र कात्यायनः -- शुच्यूर्जयोश्च शाकादीन्न दद्याच्छ्राद्धकर्मसु। दीयमानं तु तच्छाकं सुरया सममुच्यते॥ मासाविहितशाकादीनाघ्राय पितरः स्थिताः। शापं यच्छन्ति गच्छन्ति नाश्नन्तो दोषशङ्किताः॥ इति। यमोऽपि --आषाढे मासि सम्प्राप्ते क्षयाहः सम्भवेद्यदि। शाकादिकं न कर्तव्यमन्यथा नरकं व्रजेत्॥ उशनापि --अच्युते शयनं याते सम्प्राप्ते तु क्षयाहनि। चणकांश्च मसूरांश्च महिषीक्षीरमेव च॥ गृञ्जनं लशुनं चैव पित्रर्थे नैव दापयेत्। प्रातःकाले पितृदिने दशम्यादिदिनत्रये॥ क्षौराभ्यङ्गं न कुर्वीत सुरापानसमं भवेत्॥ इति॥
%चातुर्मास्यविशोषधर्माः% अथ प्रसङ्गाच्चातुर्मास्ये कर्तव्यधर्मान्तरमुच्यते। लक्षप्रदक्षिणं तावच्चातुर्मास्ये कर्तव्यमिति विष्णुधर्मोत्तरे श्रीकृष्णः --`चातुर्मास्ये तु कुर्याल्लक्षप्रदक्षिणम्। स्वकृतं पापमुच्चार्य पश्चात्तापपुरस्सरः। आषाढ्यां च समारभ्य कार्तिक्यां तु जितेन्द्रियः। लक्षं समाप्य पश्चात्तु कुर्यादुद्यापनं व्रती'॥ इत्यन्तेन तथा कथनात्। तथा लक्षनमस्कारोऽपि भविष्योत्तरपुराणे वसिष्ठाम्बरीषसंवादे वसिष्ठः -- `चातुर्मास्ये तु सम्प्राप्ते केशवे शयनं गते। आषाढस्य सिते पक्षे एकादश्यां समाहितः॥ मम लक्षनमस्कारव्रतस्य पुरुषोत्तम!। निर्विघ्नं तद्व्रतं साङ्गं कुरु त्वं कृपया हरे!॥ इति सङ्कल्प्य मनसा कार्तिक्यां तु समापयेत्। प्रातः स्नात्वे'त्यादिना नियमपूर्वं तत्कथनात्। तथा धारणपारणव्रतमपि कर्तव्यमिति तत्रैवोक्तम्। `श्रीभगवानुवाच-- श्रृणु कौन्तेय! वक्ष्यामि व्रतं धारणपारणम्। बन्ध्वादिवधदोषघ्नं सर्वेन्द्रियनियामकम्॥ चातुर्मास्ये तथाचाद्ये मासि कौन्तेय!सुव्रतम्। पश्चात्सङ्कल्प्य राजेन्द्र! तदारभ्य समाचरेत्॥ आदौ मासि तथाचान्ते चातुर्मास्यथापि वे'त्यारभ्य तद्व्रतारम्भसमाप्त्योरभिधानात्। तथा षष्ठकालव्रतं स्कान्दे ऋषिव्याससंवादे चातुर्मास्ये कर्तव्यमित्युक्तम्। ऋषयः -- `यत्कृत्वा मुच्यते जन्तुरि'त्यारभ्य, `चातुर्मास्ये तु कर्तव्यमशक्तौ कार्तिके भवेत्। अहस्त्रयं द्विरात्रे च कुर्याद्वाचाप्युपोषणम्॥ त्रिरात्र्यां पारणं कुर्याद्दृष्ट्वा नक्षत्रमण्डलम्।एवं समाप्ते मासे तु कुर्यादुद्यापनं बुधः॥ कार्तिके तु सिते पक्षे चतुर्दश्यामुपोषणम्। कृत्वा रात्रौ प्रकुर्वीत पूजाकर्म हरेस्तदा॥' इत्यादिना तद्विधानात्। वायुपुराणे माघमाहात्म्ये लक्षवर्तिव्रतं कार्तिकादिमासत्रये कर्तव्यमित्युक्तम् -- `लक्षवर्तिव्रतस्यास्य विधानं कीदृशं वदे'त्यारभ्य `कालो हि कार्तिको मासो वैशाखो माघ एव वा। सहस्त्रगुणितं धत्ते व्रतमेतद्धि कार्तिके॥ तस्मात्कोटिगुणं धत्ते माघे मासि व्रतोत्तमम्। तस्मादनन्तगुणितं फलं वैशाखमासि वै॥' इत्यादिना तत्र तद्विधानात्। तथा पञ्चरात्रागमे ब्रह्मनारदसंवादे भीष्मपञ्चकव्रतं कार्तिके मासि कर्तव्यमित्युक्तम् -- `व्रतं चैतन्महापुण्यं महापातकनाशनम्। अतो व्रतं प्रयत्नेन कर्तव्यं भीष्मपञ्चकम्॥ कार्तिकस्यामले पक्षे स्नात्वा सम्यग्विधानतः। एकादश्यां तु गृह्णीयाद्व्रतं पञ्चदिनात्मकमि'त्यादिना तद्विधानात्।
%विष्णुपञ्चकम्% प्रसङ्गात् विष्णुपञ्चकव्रतानुष्ठानकाल उच्यते। स्कान्दं प्रति रुद्रः --मासि भाद्रपदे शुक्ले श्रवणेन युता यदि। एकादशी तदा ग्राह्यं व्रतं वर्षात्मकं शुभम्॥ मार्गशीर्षेऽथवा कुर्यादेकादश्यां सिते शुभे। हीनायां विष्णुभेनापि व्रतमेतत्समाचरेत्॥ मासि मास्युपवासानि पञ्च पञ्चेति संख्यया। द्विजैर्वर्षं तु कार्याणि तत्र चैकादशीद्वयम्॥ पर्वद्वयं तथा श्रोणा पञ्चोपोष्याणि मासि वै। पूर्वविद्धं न कर्तव्यमित्यादिना तत्कर्तव्यताविधानाद् भाद्रपदे वा मार्गशीर्षे वा तद्व्रतमारभ्यणीयमिति।
%मासविशेषपयोगः।% अथ मासविशेषोपयोगस्तु हेमाद्रौ गुडपर्वतदानप्रकरणे -- दद्यात्तं माघमासस्य तृतीयायां विशेषतः। चैत्रस्य वा विधानेन तृतीयायां प्रदापयेत्॥ इति। तत्रैव पर्वतदानाधिकारे -- आषाढे कार्तिके चैव माघवैशाखयोरपि। पौर्णमास्यां तु दातव्यं दानमेतद्युधिष्ठिर!॥ इति। तथा विष्णुधर्मोत्तरे शिखरदानप्रस्तावे --`माघशुक्लतृतीयायां मार्गशीर्षस्य वा पुनः। तृतीया वाथ वैशाखे शुक्लाया रोहिणीयुते'त्यारभ्य, `शिखराणि प्रदापयेदि'त्यन्तेन तदुपयोगो दर्शितः। तथा स्मृत्यन्तरे -- आश्वयुक्कृष्णपक्षे तु श्राद्धं कार्यं दिने दिने। तथा जयन्तीप्रकरणे --मासि भाद्रपदेऽष्टम्यां कृष्णपक्षेऽर्धरात्रके। भवेत्प्रोष्ठपदे मासि जयन्ती नाम सा स्मृता॥ इति। तथा आपस्तम्बेनाप्युक्तम् --`अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति। फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजेत्। चातुर्मास्येष्वाषाढ्यां श्रावण्यां वोदवसाय वरुणप्रघासैर्यजेते'त्यादि। चान्द्रसौरसावनानां कुत्रचत्कर्मविशेषे प्राशस्त्यमुक्तं ज्योतिषार्णवे --सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः। आब्दिके पितृकार्ये च चान्द्रो मासः प्रशस्यते॥ इति। उक्तं च गर्गेण- (अन्वष्टक्यां च पूर्वेद्युरष्टकामायुगादयः। मन्वादयोक्षयापञ्चम्यादौ चान्द्रौ प्रकीर्तितौ॥?) मासिके चाब्दिके वस्त्रधान्यस्वर्णादिवृद्धिषु। भृत्योपकल्पनादौ च मासाब्दौ सौरसावनौ॥ इति। इति मासनिर्णयः॥
%मासदेवताः।% अथ प्रसङ्गान्मासदेवता उच्यन्ते। ताश्च वाराहे पठिताः -- मार्गशीर्षादिमासेषु केशवाद्याश्च देवता इति॥ चातुर्मास्यदेवाताश्च तत्रैवोक्ताः-- श्रीधरश्च हृषीकेशः पद्मनाभस्तृतीयकः। दामोदरः कार्तिकस्य चातुर्मास्ये तु देवताः॥ मासदेवतानैवेद्यानि स एवाह-- नवनीतं दधि क्षीरं घनीभूतं घृतं तथा। अनिरुद्धादिमूर्तीनां चतसृणां क्रमात्प्रियम्॥ नारायणस्य चत्वापि सर्वेषां शर्करापि च। प्रियं मासाधिपस्यापि तत्तन्मूर्तिप्रियं हि तत्॥ नभस्ये दधि नो दद्यान्न दद्यात्क्षीरमाश्विने।क्षीरस्थाने घृतं दद्याद्दधिस्थाने घृतं पयः॥ सर्वदैव घृतं दद्यात्सति क्षीरादिकेऽपि च। सर्वसारं घृतं प्रोक्तं देवानां परमं हविः॥ इत्यादि॥
%मलमासनिर्णयः।% अथ मलमासनिर्णयः क्रियते। असङ्क्रान्तो द्विसङ्क्रान्तो वाचान्द्रो मासो मलमासः। तदुक्तं काठकगृह्ये--यस्मिन् मासि न सङ्क्रान्तिः सङ्क्रान्तिद्वयमेव वा। मलमासः स विज्ञेयो मासः स्यात्तु त्रयोदशः॥ इति। तथा ब्रह्मसिद्धान्ते --चान्द्रो मासो ह्यसङ्क्रान्तो मलमासः प्रकीर्तित इति। मलत्वं च कालाधिक्यात्। तदुक्तं गृह्यपरिशिष्टे --मलं वदन्ति कालस्य मासं कालविदोऽधिकमिति। कालाधिक्यं च विष्णुधर्मोत्तरे दर्शितम्-- सौरेणाब्दुस्तु मानेन यदा भवति भार्गव! सावनेन तु मानेन दिनषट्केण पूर्यते॥ दिनरात्रास्तु ते राम! पोक्ताः संवत्सरेण षट्। सौरसंवत्सरस्यान्ते मानने शशिजेन तु॥ एकादशातिरिच्यते दिनानि भृगुनन्दन!। समाद्वये साष्टमासे तस्मान्मासोऽतिरिच्यते॥ स चाधिमासकः प्रोक्तः काम्यकर्मसु गर्हितः॥ इति। अयमर्थः --सौरसंवत्सरः षड्भिर्दिनैः सावनादतिरिच्यते। सावनसंवत्सरश्च पञ्चभिर्दिनैश्चान्द्रनैरधिकं भवति। तदर्ध्वं सौरमासाष्टकं चान्द्रमासाष्टकात् सौर्द्धैः सप्तभिर्दिनैरतिरिच्यते। तथाच मिलित्वार्धदिनन्यूनमासो भवति। सोऽयमधिकात् सार्द्धैः सप्तभिर्दिनैरतिरिच्यते। तथाच मिलित्वार्धदिनन्यूनमासो भवति। सोऽयमधिमास इति। अवशिष्टार्धदिनपूरणं च यथोक्तकालादूर्ध्वं षोडशभिर्दिनैः सम्पद्यते। अत एव सिद्धान्तेऽभिहितम् -द्वात्रिंशद्भिर्गतैर्मसैर्दिनेः षोडशभिस्तथा। घटिकानां चतुष्केण पतत्यधिकमासकः॥ इति। नपुंसकत्वं च ज्योतिश्शास्त्रेऽभिहितम् -- असङ्क्रान्तिर्हि यो मासः कदाचित्तिथिवृद्धितः। कालान्तरात् समायाति स नपुंसक इष्यते॥ इति। सूर्याभावे नपुंसकत्वं मलिम्लुचत्वं च तत्रैवोक्तम् अरुणस्सूर्यो भानुस्तपनश्चेन्द्रो रविर्गभस्तिश्च। अर्यमहिरण्यरेतोदिवाकरा मित्रविष्णू च॥ एते द्वादश सूर्या माघाद्येषूदयन्ति मासेषु। निस्सूर्योऽधिकमासो मलिम्लुचाख्यस्ततः पापः॥ मासेषु द्वादशादित्यास्तपन्ते हि यथाक्रमम्। नपुंसकेऽधिके मासि मण्डलं तपते रवेः॥ इति। राक्षसाद्याक्रान्तत्वेन तथात्वं शातातप आह-- वत्सरान्तर्गतः पापो यज्ञानां फलनाशकृत्। नैर्ऋतैर्यातुधानाद्यैः समाक्रान्तो विनाशकैः॥ मलिम्लुचैः समाक्रान्तः सूर्यसङ्क्रांतिवर्जितः। मलिम्लुचं विजानीयाद्गर्हितं सर्वकर्मसु॥ इति। नन्वधिकमासाङ्गीकारे वत्सरस्य `द्वादश मासास्संवत्सर' इतिकथमिति चेन्न। ययोर्मासयोर्मध्ये मलमासो दृश्यते तयोरुत्तरस्मिंस्तस्यान्तर्भावः। तथाचासौ षष्टिदिवसात्मको मलिनशुद्धभागद्वयात्मक एको मास इति न तस्य पृथक्त्वशङ्कावकाश इति। उत्तरस्यन्तर्भावश्च ज्योतिःपितामहेन दर्शितः -- षष्टया तु दिवसैर्मासः कथितो बादरायणैः। पूर्वार्धं तु परित्यज्य उत्तरार्धं प्रशस्यते॥ इति। इत्धिमासनिर्णयः॥
%शून्यमासनिर्णयः।% अथ शून्यमासो निर्णीयते। क्षयमासोऽपि मलमास इति व्यवह्रियते। तदुक्तं काठकगृह्ये -यस्मिन् मासे न सङ्क्रान्तिस्सङ्क्रान्तिद्वयमेव वा। मलमासः स विज्ञेयः सर्वकर्मसु गर्हितः॥ इति। अयमेव च शून्यमासोंऽहस्पतिरिति च व्यवह्रियते। तदुक्तं सिद्धान्तशिरोमणौ --शुद्धेन्दुमासे शुद्धार्कसङ्क्रान्तिद्वयमस्ति चेत्। शून्यमासः स विज्ञेयो न तत्र शुभमाचरेत्॥ तत्स्वरूपं ब्रह्मसिद्धान्तेऽभिहितम् --असङ्क्रान्तिमासोऽधिमासः स्फुटः स्याद्द्विसङ्क्रान्तिमासः क्षयाख्यः कदाचित्। क्षयः कार्तिकादित्रये नान्यथा स्यात्तदा वर्षमध्येऽधिमासद्वयं च॥ इति। यदा कार्तिकादित्रये क्षयमासो भवति, तदा पूर्वमेकोऽधिमासः परत्र चैकोऽधिमासो भवतीत्यर्थः। एतादृशः क्षयः कदाचिदेवायाति। तदागमनप्रकारस्तु ज्योतिश्शास्त्रे दर्शितः -कलियुगे चतुर्विंशत्युत्तरशतद्वयाधिकपञ्चसहस्त्रवर्षेषु गतेषु तदनन्तरस्वभानुवर्षे श्रावणबहुलचतुर्दश्यां सिंहेऽर्कः। 48। अनन्तरं भाद्रपदबहुलामावास्या। 47। तस्मिन् दिने कन्यार्कः। 49। तत्संवत्सरस्य पौषबहुलामावास्या। 36। तस्मिन् दिन एव मकरेऽर्कः। 46। तत्संवत्सरस्य माघबहुलामावास्या। 24। तस्मिन् दिन एव कुम्भेऽर्कः। 23। इति माघमासस्य द्विसंक्रान्तित्वम्। तत्संवत्सरस्य फाल्गुनबहुलामावास्या।4। तस्मिन् दिने च मीनेऽर्कः। 30। तथा च एवमुक्तं भवति। क्षयमाघमासाद्गतभाद्रपदमासः संक्रमरहितो भवति। क्षयमाघमासदनन्तरफाल्गुनमासोऽपि सङ्क्रमरहितो भवतीति। न चैवं सति `क्षयः कार्तिकादित्रये नान्यथा स्यादि'ति वचनविरोध इति वाच्यम्। कार्तिकादित्रये चैव यत्र कुत्रापि बाह्यतः। सङ्क्रान्तिद्वयसंयुक्तश्चान्द्रोऽहस्पतिरिष्यते॥ चैत्रादिसप्तमासेषु भवेदंहस्पतिर्न च। ऊर्जादिपञ्चमासेषु कदाचन भवेद्यदा॥ तदा द्वावधिकौ स्यातां तस्मिन्नूर्जादिपञ्चके॥ इति। तत्र क्षयात् पूर्वोऽधिमासः प्राकृतः शुद्धः, सर्वकर्मार्ह इति यावत्। क्षयोत्तराधिमासश्च मलिम्लुचः, सर्वकर्मानर्ह इत्यर्थः। अयं चाधिमासउत्तरशेषः। तथाच ज्योतिःपितामहः -षष्ट्या तु दिवसैर्मासः कथितो बादरायणैः। पूर्वार्धं तु परित्यज्य कर्तव्या उत्तरे क्रियाः॥ इति। ननु यदा क्षयमासः, तदैकमासस्य क्लृप्तत्वात् तन्मासकर्तव्यकर्मलोपः स्यादिति चेन्न। तन्मासकर्तव्यस्यापि क्षय एव विधानात्। तथाच स्मृतिः -एक एव यदा मासः सङ्क्रान्तिद्वयसंयुतः। मासद्वयगतं श्राद्धं क्षयमासे विधीयते॥ तिथ्यर्धे पूर्वो द्वितीयेऽर्धे तदुत्तरः। मासाविति बुधैश्चिन्त्यौ क्षयमासस्य मध्यगौ॥ इति। इति शून्यमासनिर्णयः॥
अथाधिमासे कर्तव्याकर्तव्यकर्मोच्यते -तत्र कर्तव्यान्याह बृहस्पतिः -नित्यनैमित्तिके कुर्यात् प्रयतश्च मलिम्लुच इति। नित्यानि अग्निहोत्रादीनि। नैमित्तिकानि सोदकुम्भादीनि। तानि मलमासे कुर्यादित्यर्थः। नित्यनैमित्तिकानि कालादर्शे दर्शितानि -द्वादशाहं सपिण्डान्तं कर्म ग्रहणजन्मनोः। सीमन्ते पुंसवे श्राद्धं द्वावेतौ जातकर्म च। रोगशान्तिरलभ्ये च योगे श्राद्धव्रतानि च। प्रायश्चित्तं निमित्तस्य वशात् पूर्वे परत्र च इति। सन्ध्यातिक्रमादिदोषप्रायश्चित्तं वशादित्यनेन यदा मासद्वये निमित्तमुत्पद्यते, तदोभयत्रैकस्मिन्नेव चेदेकत्रैव कुर्यादित्यर्थः। अब्दोदकुम्भमन्वादिमहालययुगादिषु। श्राध्दं दर्शेऽप्यहरहः श्राद्धमूनादिमासिकम्॥ मलिम्लुचान्यमासेषु मृतानां श्राद्धमाब्दिकम्। श्राद्धं च पूर्वदृष्टेषु तीर्थेषु च युगादिषु॥ मन्वादिषु च यद्दानं दानं दैनन्दिनं च यत्। तिलभूगोहिरण्यानां सन्ध्योपासनयोः क्रियाः॥ पर्वहोमश्चाग्रयणं स्वाग्नेरिष्टिश्च पर्वणि। नित्याग्निहोत्रहोमश्च देवतातिथिपूजनम्॥ स्नानं च स्नानविधिनाप्यभक्ष्यापेयवर्जनम्। तर्पणं च निमित्तस्य नित्यत्वादुभयत्र च॥ इति।
वर्ज्यान्यपि तत्रैवोक्तानि- अनित्यमनिमित्तं च दानं च महदादिकम्। अग्याधानाध्वरापूर्वतीर्थयात्रामरेक्षणम्॥ देवारामतटाकादिप्रतिष्ठां मौञ्जिबन्धनम्। आश्रमस्वीकृतिं काम्यवृषोत्सर्गं च निष्क्रमम्॥ राजाभिषेकं प्रथमं चूटाकर्म व्रतानि च। अन्नप्राशनमारम्भं गृहाणां च प्रवेशनम्॥ स्नानं विवाहं नामातिपन्नं देवमहोत्सवम्। व्रतारम्भं समाप्तिं च काम्यकर्म च पाप्मनाम्॥ प्रायश्चित्तं च सर्वस्य मलमासे विवर्जयेत्॥ इति। एतेषामर्थ उच्यते -- अनित्यपदेनाहरहर्विहितदानव्युदासः। अनिमित्तपदेनालभ्ययोगादितिथिविहितदानव्युदासः। स्वेच्छयोद्दिष्टार्थदानमित्यर्थः। स्मार्तमष्टकादि। काम्यं ज्योतिष्टोमादि। प्रायश्चित्तं तु त्रैवार्षिकषड्वार्षिकादिसर्वप्रायश्चित्तम्। (आरम्भं च?)
शुद्धमासे कर्तव्यान्युक्तानि कालादर्शे --उपाकर्मोत्सर्जनं च पवित्रदमनार्पणम्। अवरोहश्च हैमन्तः सर्पाणां बलिरष्टका॥ ईशानस्य बलिर्विष्णोः शयनं परिकीर्तितम्। दुर्गेन्द्रस्थापनोत्थाने ध्वजोत्थानं च वज्रिणः॥ न पूर्वत्र निषिद्धानि परत्रान्यच्च दैविकम्॥ इति। ननु `श्रौचस्मार्तक्रियाः सर्वा द्वादशे मासिकीर्तिताः। त्रयोदशे तु सर्वास्ता निष्फला इति कीर्तिताः॥ तस्मात् त्रयोदशे मासि कुर्यात् ता न कथञ्चने'त्यादिवचनैः कर्ममात्रप्रतिषेधात् कथमेतदिति चेद्, न। तेषां वचनानां काम्यकर्मनिषेधपरत्वात्। तथाच स्मृतिः -इष्ट्यादि सर्वं काम्यं च मलमासे विवर्जयेदिति। अयं च काम्यकर्मनिषेध आरम्भसमाप्तिविषयः। `असूर्या नाम ये मासा न तेषु मम सम्मताः। व्रतानां चापि यज्ञानामारम्भाश्च समाप्तय'इत्यारम्भसमाप्त्योरेवाधिमासे प्रतिषेधात्। आरम्भसमाप्त्योर्मध्ये पतिताधिमासे प्रारब्धं काम्यमनुष्ठेयम्। `अधिमासे निपतिते त्वेष एव विधिक्रम' इति स्मरणात्। अत्रायं क्रमः -- मलमासात् प्राक् प्रारब्धकर्मणो न निषेधः। `प्रारब्धं मलमासात् प्राक् काम्यकर्मासमापितम्। आगते मलमासेऽपि तत् समाप्यं न संशयः' इति वचनात्। किन्तु अज्ञानाद् ये मलमासेऽपि काम्यं कर्मारभन्ते, तैस्तत्र समाप्तौ कृतायां दोषाधिक्यं स्यादित्येतदर्थमिदं वाक्यमिति हेमाद्रिः। माधवीये तु `प्रवृत्तं मलमासात्प्रागि'ति वचनं सावनमासप्रवृत्तकृच्छ्रचान्द्रायणाहीनसत्रादिविषयम्। न सर्वकर्मविषयमित्यदोष इत्युक्तम्। अनन्यगतिकं यत् काम्यं तन्मलमासेऽपि कर्तव्यम्। तच्च कारीर्यादिकम्। कारीरियागादेः शुद्धमासप्रतीक्षायां तत्काले वृष्ट्यादिहानि स्यात्। एवमाग्नेयराक्षोघ्यादि द्रष्टव्यम्। एवमनन्यगतिकं नित्यं नैमित्तिकं च मलमासेऽपि कार्यम्। नत्वन्यगतिकम्। `मले नान्यगतिं कुर्यान्नित्यनैमित्तिकक्रियामि'ति निषेधात्। अनन्यगतिकानि नित्यानि औपासनवैश्वदेवदर्शपौर्णमासपार्वणस्थालीपाकादीनि। नित्यान्यवश्यकर्तव्यानि, अकरणे प्रत्यवायक्षवणात्। अन्यगतिकं नित्यमपि ज्योतिष्टोमादि हेयमेव। तस्य मलमासे वर्जनेऽपि शुद्धमासेऽनुष्ठानसम्भवात्। आग्रयणमनन्यगतिकं कार्यमेव। पुराणधान्याभावे निर्वाहायोगेन मलमासेऽपि तत्कर्तव्यत्वस्यावश्यकत्वात्। पैठीनसिना तु विकल्प उक्तः --सङ्क्रान्तिरहिते मासे कुर्यादाग्रयणं नवेति। अगतिकानि नैमित्तिकानि ग्रहणस्नानादीनि। तदुक्तं यमेन --चन्द्रसूर्यग्रहे स्नानं श्राद्धदानजपादिकम्। कार्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा॥ इति। सगतिकं ज्योतिष्टोमादिकं नैमित्तकम्। ननु `महालययुगादिष्वि'ति तस्योभयत्र कर्तव्यत्वं प्रतीयते। तन्न युक्तम्। `वृद्धिश्राद्धं गयासोमे अग्याधेयं महालयम्। राजाभिषेकं काम्यं च न कुर्यात्तु मलिम्लुचे' इति निषेधादिति चेद्, अत्र महालयशब्देनापरपक्षकं श्राद्धमुच्यते। तदनेन निषिध्यत इत्याहुः। तदयुक्तम्। तस्यैव नैमित्तिकत्वेनानिषेध्यत्वात्। संक्रान्तिवद् नित्यनैमित्तिकत्वमुक्तं पुराणे-- कन्यागते सवितरि यान्यहानि च षोडश। क्रतुभुस्तानि तुल्यानि पितृणं दत्तमक्षयम्॥ इति। तथाचचास्य नैमित्तिकत्वेन निषेधविषयत्वम्। `मुक्त्वा नैमित्तिकं कर्मे'ति तदन्यस्यैव निषेधात्। `अब्दोदकुम्भमन्वादिमहालययुगादिष्वि'त्यादिना विशिष्य विधानात्। अमाश्राद्धविषये केचित्तु -संवत्सरातिरेकेण मासो यः स्यान्मलिम्लुचः। तस्मिंस्त्रयोदशे श्राद्धं न कुर्यादिन्दुसंक्षये॥ इति दर्शश्राद्धं न कार्यमिति वदन्ति। तदयुक्तम्। तस्य काम्यदर्शश्राद्धविषयत्वात्। किन्तु `अधिमासे निपतिते यदि संवत्सरान्तरे। उभयोर्मासिकं कुर्याद् दार्शिकं चोभयोश्चरेदि'ति शातातपेन तत्रापि तत्कर्तव्यत्वोक्तेः। `कुर्यान्मासद्वयेऽपि चे'ति यमस्मृतौ विशेष उक्तः --गर्भे वार्धुषिके भृत्ये श्राद्धकर्मणि मासिके। सपिण्डीकरणे नित्ये नाधिमासं विवर्जयेत्॥ इति। गर्भे पुंसवने। वार्धुषिके वृद्धिविषये। अत्राब्दिकविषये विशेष उच्यते। तथा च हारीतः --प्रत्यब्दः द्वादशे मासे कार्या पिण्डक्रिया द्विजैः। क्वचित् त्रयोदशेऽपि स्यादाद्यं मुक्त्वा तु वत्सरम्॥ इति। अत्र यद्यपि `वर्षे वर्षे तु यच्छ्राद्धं मातापित्रोर्मृतेऽहनि। मासद्वयेऽपि तत् कार्यं व्यासस्यवचनं यथे' त्येवमादिवचनैः सांवत्सरिकश्राद्धमुभयत्रापि कर्तव्यमिति कालादर्शे प्रतिपादितम्। तथापि हेमाद्रिमाधवापरार्कादिमतात् प्रथमवार्षिकं मलमासे, द्वितीयाद्याब्दिकं तु शुद्धमास एव कार्यम्। असङ्क्रान्तेऽपि कर्तव्यमाब्दिकं प्रथमं द्विजैः। तथैव मासिकं श्राद्धं सपिण्डीकरणं तथा॥ इति हारीतोक्तेः। `आब्दिकं प्रथमं यत् स्यात् तत् कुर्वीत मलिम्लुच' इति स्मरणाच्च। `मालिमासे निपतिते भवेद्यत् प्रथमाब्दिकम्। द्वादशे मासि कर्तव्यमन्येषामुत्तरत्र ही'ति व्यासवचनात् `शुद्धमासमृतानां तु मलिने प्रथमाब्दिकमि'ति लौगाक्षिवचनाच्च। द्वादशे मासि परिपूर्णे सति अनन्तरदिने कार्यमिति व्यासवचनस्यार्थः। `मासपक्षतिथिस्पृष्टे यो यस्मिन् हि मृतोऽहनि। प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुरि'ति वचनात्। न च `चतुर्दशे तु सम्प्राप्ते कुर्वीत पुनराब्दिकमि'ति वचनविरोध इति वाच्यम्। पुनराब्दिकमिति द्वितीयादिवार्षिकस्योक्तेः। त्रयोदशे मासेऽतीते चतुर्दशाद्यदिने कुर्यादित्यर्थ इत्यविरोधः। यत् तु वृद्धवसिष्ठवचनम् `श्राद्धीयेऽहनि सम्प्राप्तेऽधिकमासो भवेद् यदि। मासद्वयेऽपि कुर्वीत श्राद्धमेवं न मुह्यति। यच्च व्यासः --उत्तरे देवकार्याणि पितृकार्याणि चोभयोरिति। तन्मासिकादिविषयम्। यौगादिकं मासिकं च श्राद्धं चापरपक्षिकम्। मन्वादिकं तैर्थिकं च कुर्यान्मासद्वयेऽपि च॥ इति चन्द्रिकोक्तेः। तैर्थिकं च पूर्वदृष्ट्या तीर्थश्राद्धम्। तच्च मलमासेऽपि कार्यमिति त्रिस्थलीसेतुभट्टाः। यदपि निर्णयामृते --पूर्वोक्तकालादर्शवचनाद् मलमासश्राद्धदिनस्य वन्ध्यत्वनिरासार्थं पित्रुद्देशेन ब्राह्मणान् भोजयित्वा शुद्धमासे सपिण्डं श्राद्धं कुर्यात्। पिण्डवर्जं त्वसङ्क्रान्ते सङ्क्रान्तौ पिण्डसंयुतम्। प्रतिसंवत्सरं श्राद्धमेव मासद्वयेऽपि च॥ इति वृद्धपराशरोक्तेरिति। तदपि चिन्त्यम्। पूर्वोक्तवचनस्य क्षयपूर्वभाव्यधिकमासविषयत्वात्। तत्र हि मासद्वये श्राद्धमुक्तम्। तदाह सत्यव्रतः -एक एव यदा मासः संक्रान्तिद्वयसंयुतः। मासद्वयगतं श्राद्धं मलमासेऽपि शस्यते॥ इति। मासद्वयगतं पूर्वसङ्क्रान्तिगतं क्षयगतं च। मलमासे क्षयमासे। अपिशब्दात् तत्पूर्वाधिमासे चेति हेमाद्रिः। मलमासमृतानां तु यदा कदाचित् एव समायाति तस्मिन्नेव सांवत्सरिकं कर्तव्यम्। तदाह भृगुः --मलमासमृतानांतु यच्छ्राद्धं प्रतिवत्सरम्। मलमासे तु तत् कार्यं नान्येषां तु कदाचन॥ इति। द्विराषाढोऽपि अधिकमासप्रभेद एव। तदाह मिहिरः --योऽयमुक्तो द्विराषाढो नान्यः स्यादधिमासतः। संज्ञाभेदात् स एवोक्तो विवेक्तुं शयनं हरेः॥ इति। तदेवाह मेषादिमिथुनान्तेतु यदा दर्शद्वयं भवेत्। अब्दान्तरे तदावश्यं मिथुनार्के हरिः स्वपेत्॥ कर्कटादित्रिके चापि यदा दर्शद्वयं भवेत्। अब्दान्तरे तदावश्यं कर्कटार्के हरिः स्वपेत्। इत्यादि। द्विराषाढे शयनैकादशीनिर्णयविषये विद्यारण्यश्रुतौ वृद्धमिहिरः --कृष्णपक्षे दशम्यादौ यदा संक्रमते रविः। द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे॥ इति। मरीचिरपि --कृष्णपक्षे दशम्यादौ मेषं गच्छेद्दिवाकरः। द्विराषाढः स विज्ञेयः शेते कर्कटके रविः॥ इत्यादि। इति मलमासनिर्णयः।
%पक्षनिर्णयः% अथ पक्षनिर्णयः क्रियते। चन्द्रस्य पञ्चदशकलानामापूरणं क्षयो वा यत्र परिगृह्यते स पक्ष इत्यादि। तत्र तैत्तिरीयकहोतृब्राह्मणे --प्रजापतिकामयतेत्यारभ्य तौ पूर्वपक्षश्चापरपक्षश्चाभवतां पूर्वपक्षं देवा अन्वसृज्यन्त अपरपक्षमसुराः। ततो देवा अभवन् परासुराः। यं कामयीत वसीयान् स्यादिति। तं पूर्वपक्षे याजयेत्। यं कामयीत पापीयान् स्यादिति तमपरपक्षे याजयेत्। पापीयानेव भवति। तस्मात् पूर्वपक्षोऽपरपक्षात् कारुण्यतरः॥ इति। वसीयान् वसुमत्तरः। पापीयान् द्रव्यहीनः। कर्तृणां शुभफलप्रापकत्वेन करुणामावहतीति कारुण्यतरः इत्यर्थः। तत्र विनियोगो वाराहे उक्तः --स मास इति लोकेऽस्मिन् गीयते पक्षयुग्मवान्। वर्धमानकलः शुक्लः क्षीयमाणकलोऽसितः॥ देवाश्च पितरश्चापीत्यारभ्य `तदा तद्वचनं श्रुत्वा नियमं कृतवानहम्। तत्र सामान्यतः शुक्लं देवेभ्यो दत्तवानहम्॥ पितृभ्यः कृष्णपक्षं चे'त्यादिना तदुपयोगकथनात्। तथा --शुक्लपक्षे चतुर्दश्यामित्यादावुपयोगस्तत्र तत्राभिधीयते॥ इति पक्षनिर्णयः॥
%तिथिस्वरूपम्।% अथ तिथिसामान्यनिर्णयः। तिथिस्वरूपमुक्तं सिद्धान्तशिरोमणौ-तन्यन्ते कलया यस्मात् तस्मात्तास्तिथयः स्मृताः। इति। एतदभिप्रायेणैव स्कान्देप्युक्तम् --अमादिपौर्णमास्यान्ता या एव शशिनः कलाः। तिथयस्तास्समाख्याताः षोडशैव वरानने॥ इति। तथाच तनोति वर्धमानां क्षीयमाणां वा चन्द्रकलामेकां यः कालविशेषः सा तिथिः, यथोक्तकलया वा तन्यते इति तिथिः, इत्युक्तं भवति। ननु प्रतिपदादयः पञ्चदशेति, कथं षोडशेति चेत्। क्षयोदयत्वयो दिवसव्यवहारोपयोगिन्यः पञ्चदश। अमा षोडशभागेन देवी प्रोक्ता महाकला। संस्थिका परमा माया देहिनां देहधारिणाम्॥ इति वचनेन चन्द्रमण्डलषोडशभागेन परिमिता तिथिसंज्ञिका माहाकलेति प्रोच्यते। तामादाय षोडशेत्यविरुद्धं वचनम्।तासां कलानां मध्ये एकैकां कलां वह्न्यादयः प्रजापत्यन्ताः पञ्चदश देवताः क्रमेण पिबन्ति। तत्र वह्निपेया कला प्रथमं पीयते इति प्रथमेत्युच्यते। तया युक्तः कालविशेषः प्राथम्यवाचिना प्रतिपच्छब्देनाभिधीयते। एवं द्वितीयादीनां पञ्चदश्यन्तानां तिथीनां नामान्यवगन्तव्यानि। एताः कृष्णपक्षतिथयो भवन्ति। पुनश्च ताः पीताः कलाः तेनैव क्रमेण बह्न्यादिदेवताभ्यो निर्गत्य चन्द्रमण्डलं पूरयन्ति। ताभिर्युक्ताः कालविशेषाःशुक्लपक्षगताः प्रतिपदाद्यास्तिथयो भवन्ति। तदुत्पत्तिप्रपञ्चस्तु सोमोत्पत्तौ द्रष्टव्यः। ननु स्मृत्यन्तरे --`चन्द्रार्कगत्या कालस्य परिच्छेदो यदा भवेत्। तदा तयोः प्रवक्ष्यामि गतिमाश्रित्य निर्णयमि'त्यादिना चन्द्रकलानां सूर्यप्रवेशनिर्गमौ प्रतिपादितौ। सोमोत्पत्तौ तु वह्न्यादिदेवतास्वित्यतो विरोध इति चेद्, न। तत्र कलानां सूर्ये वा वह्न्यादिदेवतासु वा प्रवेशनिर्गमौ स्यातान्। तथापि कलाप्रयुक्ता एव प्रतिपदादयस्तिथय इत्यत्र न विरोध इति। तत्र सामान्यतस्तिथिस्त्रिविधा खर्वा दर्पा हिंस्त्राचेति। खर्वा समतिथिः। दर्पा वृद्धियुक्ता। हिंस्त्रा क्षययुक्ता। त्रिविधापि तिथिर्द्विविधा सम्पूर्णा खण्डा चेति। तत्र सम्पूर्णा स्कान्दे दर्शिता- प्रतिपत्प्रभृतयः सर्वा उदयादुदयाद्रवेः। सम्पूर्णा इति विख्याता हरिवासरवर्जिताः। इति। या नैवंविधा सा खण्डा। तत्र विधिनिषेधयोः सम्पूर्णायां तिथौ सन्देहाभावात् खण्ड तिथौ विधिनिषेधः क्रियते।
तत्र प्रतिपदादिपौर्णिमान्ताः खण्डतिथयो निर्णीयन्ते॥ तत्र प्रतिपच्छब्द उपक्रमे वर्तते। चान्द्रः पक्षो मासो वा प्रतिपद्यते आरभ्यते यस्यां तिथौ सा प्रतिपत्। सा च यदा सूर्योदयमारभ्य पुनरुदयपर्यन्ता भवति तदा शुद्धत्वात् प्रतिपदि विहितं सर्वं निश्शङ्कतयानुष्ठेयम्। शुद्धत्वं च नारदीये दर्शितम्-- आदित्योदयवेलायामारभ्याषष्टिनाडिकम्। या तिथिः सा तु शुद्धा स्यात्सर्वतिथ्योर्ह्ययं विधिः॥ इति। यदा सा तिथिः प्रतिपदादिः पूर्वोत्तरदिनाभ्यां दर्शादिद्वितीयादिभ्यां युज्यते तदा खण्डा। तत्र किं दर्शादियुक्तायां प्रतिपदादौ प्रतिपदादिप्रयुक्तव्रतोपवासादिकं सर्वमनुष्ठेयम्, उत द्वितीयादियुक्तप्रतिपदादाविति सन्देहे निर्णयः क्रियते। तत्रामायुक्तप्रतिपद्येव व्रतोपवासादिकं कार्यम्। युग्मवाक्यात्। युग्मवाक्यं च निगमे --युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः। रुद्रेण द्वादशी युक्ता चतुर्दश्या तु पूर्णिमा॥ प्रतिपद्यप्यमावास्या तिथ्योर्युग्मं महाफलम्। एतद्व्यस्तं महादोषं हन्ति पुण्यं पुरातनम्॥ इति। अत्र युग्मादिरन्ध्रान्ताः शब्दा द्वितीयातृतीयादिनवम्यन्ततिथिवाचकाः। रुद्र एकादशी। द्वितीया तृतीयया युता, सा च द्वितीयया युतेत्येवं सप्त युग्मानीत्यर्थः। अनेन युग्मवाक्येन शुक्लपक्षप्रतिपदः पूर्वविद्धायाः प्रशस्तत्वं गम्यते, प्रतिपद्यप्यमावास्येत्युक्तत्वात्। दशम्या विशेषः पुराणसमुच्चये --सम्पूर्णा दशमी कार्या मिश्रिता पूर्वयाऽथवेति। शुक्लपक्षे त्रयोदशी सुमन्तुनोक्ता -त्रयोदशी तु कर्तव्या द्वादशीसहिता मुने!॥ इति। इत्थममावास्याप्रतिपद्विषये `पञ्चमी सप्तमी चैव दशमी च त्रयोदशी। प्रतिपन्नवमीचैव कर्तव्या सम्मुखा तिथिः'॥ इत्येवमादीनि पैठीनस्यादिवचनानि द्रष्टव्यानि। सम्मुखा नाम दर्शयुक्ता प्रतिपदित्युक्तं हेमाद्रौ। अपराह्णव्यापिनी सायाह्नव्यापिनी वेत्यपरे। प्रतिपत् सद्वितीया स्याद् द्वितीया प्रतिपद्युता। चतुर्थ्या संयुता या च सा तृतीया फलप्रदा॥ इति यदापस्तम्बवचनं तत् कृष्णपक्षविषयमित्यवगन्तव्यम्। अत्रैवं विवेकः शुक्लपक्षे पूर्वविद्धा ग्राह्या, कृष्णे परविद्धेत्येव सामान्यतः। क्वचिदन्यथा। विशेषस्तु वचनविशेषादवगन्तव्यः। कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी। पूर्वविद्धा प्रकर्तव्या परविद्धा न कुत्रचित्॥ इति वचनात्। वेधस्वरूपं पैठीनसिनोक्तम्-- पक्षद्वयेऽपि तिथयस्तिथिं पूर्वां तथोत्तराम्। त्रिभिर्मुहूर्तैर्विध्यन्ति सामान्योऽयं विधिः स्मृतः॥ इति। हेमाद्रौ तु द्विमुहूर्तोऽप्युक्तः --उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ। द्विमुहूर्ता त्रिरह्नश्च सा तिथिर्हव्यकव्ययोः॥ इति। द्विमुहूर्तत्वं चानुकल्पः। द्विमुहूर्तापि कर्तव्या या तिथिर्वृद्धिगामिनी'ति दक्षोक्तेः। अयं वेधः प्रातरेव। सायं तु त्रिमुहूर्तवेध एव।' यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीपतिः। सा तिथिस्तद्दिने प्रोक्तात्रिमुहूर्तैव या भवेत्॥' इति स्कान्दोक्तेः। यानि तु --`व्रतोपवासस्नानादौ घटिकैकापि या भवत्। उदये सा तिथिर्ग्राह्या विपरीता तु पैतृके॥' इत्यादीनि स्कान्दवचनानि, तानि स्वावयवघटिकादिस्तुतिद्वरा त्रिमुहूर्तप्रशंसापराणि॥ अत एव बोधायनः --उदयस्था तिथिर्या हि त्रिमुहूर्ता तु सा तिथिः। व्रतकर्मणि शस्ता तु स्नानदानजपादिषु॥ इति। एवं त्रिमुहूर्तप्राधान्यप्रतिपादकानि वचनानि बहूनि सन्ति, तानि ग्रन्थविस्तरभयान्न लिख्यन्ते। अत्र त्रिमुहूर्तादिकालमनादृत्य कर्मकालव्यापिन्यां प्रयोगपर्याप्तायां व्रताद्यनुष्ठेयम्। तदुक्तं व्यासेन --त्रिमुहूर्तात्मके काले दानं दातुं न शक्यते। ग्राह्या प्रयोगपर्याप्ता सर्वदानेष्वयं विधिः। इति। तथा विष्णुधर्मोत्तरे-- कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः। तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम्॥ इति। एतदसम्भवे त्रिमुहूर्तपक्षः। यत्तु `खर्वो दर्पस्तथा हिंस्त्रस्त्रिविधं तिथिलक्षणम्। खर्वदर्पौ परौ पूज्यौ हिस्त्रा स्यात् पूर्वकालिकी॥' इति व्याघ्रवचनम्, तत्तु एकोद्दिष्टादिश्राद्धविषयम्। `प्रत्याब्दिकादिश्राद्धादौ वृद्धिह्रासादिचोदने'त्यादिनिगमोक्तेः। यत्तु स्मृत्यन्तरं -मध्याह्नव्यापिनी या स्यात् तिथिः पूर्वा परापि वा। तत्र कर्माणि कुर्वीत ह्रासवृद्धी न कारणम्॥ इति, तदेकभुक्तविषयम् एकोद्दिष्टविषयं च। अत्र कर्मकालव्याप्त्यभावे तु कर्मोपक्रमकालव्याप्तैव ग्राह्या। `कर्मोपक्रमकालगा ननु तथिर्ग्राह्या न युग्मादयः (रः)' इति दीपिकोक्तेः। यानि तु -यांतिथिं समनुप्राप्य उदयं याति भास्करः। सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु॥ इत्यादीनि, तानि वचनानि त्रिमुहूर्तादिस्तुतिपराणि। अत्र पूर्वविद्धायां त्रिमुहूर्ताधिकायां कर्मकालव्यापिन्यां वा योऽयमुपवासदानादिर्विहितस्तत्र पूर्वतिथौ वा कर्मतिथौ वा सङ्कल्पस्नानादिकं कार्यमिति सन्देहे दक्षः --प्रातः सङ्कल्पयोद्विद्वानुपवासव्रतादिकम्। तत्तिथौ कर्म कुर्वीत ह्रासवृद्धी न कारणम्॥ इति। स्कान्देऽपि --प्रातरारभ्य मतिमान् कुर्यान्नक्तव्रतादिकम्। नापराह्णे न मध्याह्ने पित्र्यकालौ हि तौ स्मृतौ॥ इति। एवमादिवचनबलात् प्रातरेव सङ्कल्पः कार्यः। यद्यपि `ये यस्य विहितः कालः कर्मणस्तदुपक्रमे। विद्यमानो भवेदङ्गं नोज्झितोपक्रमेण च॥' इति वचनेन सङ्कल्पकालेऽवश्यं प्रतिपदा भाव्यम्. तथापि तदानीं ज्योतिश्शास्त्रप्रसिद्धप्रतिपदभावेऽपि स्मृतिषूपपादितायाः प्रतिपदः सत्त्वात्। अत एव देवलः -यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः। सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु॥ इति। अत्र पूर्वविद्धायां प्रतिपदि बल्युत्सवः कार्यः। `श्रावणी दुर्गनवमी तथा दुर्गाष्टमी च या पूर्वविद्धा तु कर्तव्या शिवरात्रिर्बलेर्दिनम्॥' इत्यादिस्मृतेः। स चोत्सवो ब्रह्मपुराणे वामनपुराणे भविष्योत्तरपुराणे चाभिहितः। तथा वराहपुराणे तत्र कर्तव्यविशेषोऽभिहितः -प्रतिपद्यपि तैलेन ततः स्नायाद्बलेर्दिने। पूर्व बलिः स्वर्गराज्यमाप्तवान् कृपया मम॥ वरं तु दत्तवानस्मै यो नरः प्रतिपद्दिने। हर्षेण वाथ रोषेण दुःखेनाथ सुखेन वा॥ युक्तोऽवतिष्ठते तद्वत् प्रायो वर्षं क्रमेदसौ। अतस्तत्र प्रकुर्वीत विशेषान्मङ्गलोदयम्॥ ब्राह्मणेभ्यस्तथा दानं महापुण्यफलप्रदम्। वस्त्राण्यश्वान् गजान् गाश्च रथान् दिव्यपरिच्छदान्॥ ब्राह्मणेभ्यः प्रदद्याच्च विविधानि धनानि च। यथा यथोत्सवं तस्यां कुर्याद्भक्त्या नरोत्तमः॥ तथा तथा भवेत्तस्य ह्युत्सवे जन्मजन्मनि॥ इति। प्रतिपदि विशेषः -- `प्रतिपत्तु सिते पक्षे दर्शविद्धा शुभा स्मृता॥ कृष्णे द्वितीयया विद्धा त्रिमुहूर्ता भवेद्यदि॥' इति। ज्योतिःकाश्यपोऽपि प्रतिपच्छुक्लपक्षे तु पूर्वविद्धा शुभावहा। कृष्णपक्षे शुभा ज्ञेया सङ्गवस्पर्शिनी भवेत्॥ इत्यादि। बल्युत्सवेऽपि विशेषोऽभिहितो मत्स्यपुराणे --सम्प्राप्ते कार्तिके मासि सिता या प्रतिपद्भवेत्। बल्युत्सवस्तु कर्तव्यः सम्मुखा या तिथिर्भवेत्॥ प्रतिपत्सम्मुखा कार्या शुक्लपक्षस्य कार्तिके॥ सम्मुखा सायाह्नव्यापिनी। गर्गः --बल्युत्सवं च पूर्वेद्युस्त्रिसुहूर्ता यदा भवेत्। वृद्धगर्गः --मुखायाः पूर्वविद्धायाः प्रतिपद्यद्यसम्भवे। बल्युत्सवस्तु कर्तव्यो द्यूतादीन्युत्तरेऽहनि॥ सङ्गवे पूर्वविद्धे वा निषिद्धा परसम्मिता॥ इत्यादि। एवं वत्सरादिप्रतिपदादावपि बोध्यम्।
अत्र शुक्लपक्षप्रतिपदुपवासादेः केनचिन्निमित्तेनाननुष्ठाने सति गौणाप्युत्तरविद्धा ग्राह्या, कर्मणस्त्यागापेक्षया गौणकालस्यैव ज्यायस्त्वादिति। तथा वराहपुराणे सप्तदशेऽध्याये प्रतिपदादितिथिषु विशेषोऽभिहितः-- नन्दा भद्रा जया रिक्ता पूर्णा स्युस्तिथयः क्रमात्। प्रतिपत्पूर्वकाः पञ्च पञ्चैवोभयपक्षयोः॥ अनिरुद्धश्च प्रद्युम्नस्तथा सङ्कर्षणस्तथा। वासुदेवः पञ्चमी तु मूर्तिर्नारायणाभिधा॥ तिथीनां क्रमशो देवाः पूजानां ग्राहकाः स्मृताः। नवनीतं दधि क्षीरं घनीभूतं घृतं तथा॥ अनिरुद्धादिमूर्तीनां चतसृणां क्रमात् प्रियम्। नारायणस्य चत्वारि सर्वेषां शर्करापि च॥ सर्वदैव घृतं दद्यात् सति क्षीरादिकेऽपि च। सर्वसारं घृतं प्रोक्तं देवानां परमं हविः। निवेद्य मां ततो दत्त्वा ब्राह्मणेभ्योऽपि शक्तितः। भुञ्जीत स्वयमप्येतत् सकुटुम्बो दिने दिने॥ यस्य शक्तिः सदा नास्ति कर्तुमेवं निवेदनम्(दिने दिने)। एकदापि प्रकुर्वीत चातुर्मास्ये दिने दिने॥ नवनीतादिनैवेद्यं नन्दादिदिनपञ्चके। सत्यामपि हि शक्तौ यो न कुर्यान्मन्निवेदनम्। वृथा जन्म भवेत् तस्य सम्पत्तिश्चापि निष्फला॥ इति विष्णुपूजाविषये विशेषोऽभिहितः॥
%एकभुक्तकालनिर्णयः।% अथैकभुक्तकालनिर्णयः। तत्रैकभुक्तं त्रिविधं स्वतन्त्रमन्याङ्गमुपवासप्रतिनिधिरूपं चेति। तत्र स्वतन्त्रैकभुक्तविषये देवलः --दिनार्धसमयेऽतीते भुज्यते नियमेन यत्। एकभुक्तमिति प्रोक्तं न्यूनं ग्रासत्रयेण तु॥ इति। स्कान्देऽपि --दिनार्धसमयेऽतीते भुज्यते नियमेन यत्। एकभुक्तमिति प्रोक्तमतस्तत् स्याद्दिवैव हि॥ इति। अत्र दिनार्धस्योपरि सार्धमुहूर्तः काल एकभुक्तस्य मुख्यकाल इत्याहुः। अपरे तु पञ्चधा विभक्तस्याह्नोऽपरभागो मुख्यकाल इति। हेमाद्रौ तु त्रेधाविभक्तस्याह्नो मध्यभागो मध्याह्न इत्युक्तम्। अत्राह्नस्त्रिधा द्वेधा विभागापेक्षयापञ्चधाविभागस्य मुख्यत्वात् स एवाश्रयणीयः। अत्राह्नो विभागविभेदाः शातातपगोभिलशङ्खप्रभृतिवचनैः प्रवर्तिताः। तत्र द्वेधा विभागः स्कान्दे --`आवर्तनात्तु पूर्वाह्ण अपराह्णस्ततः पर' इति। तदेवाभिप्रेत्य मनुराह-- यदा चैवापरः पक्षः पूर्वपक्षाग् विशिष्यते। तदा श्राद्धस्य पूर्वाह्णादपराह्णे विशिष्यते॥ इति। त्रिधा विभागोऽपि स्कान्दपुराणे दर्शितः --ऊर्ध्वं सूर्योदयात् प्रोक्तं मुहूर्तानां तु पञ्चकम्। पूर्वाह्णः पञ्चकं प्रोक्तो मध्याह्नस्तु ततः परम्॥ अपराह्णस्ततः प्रोक्तो मुहूर्तानां तु पञ्चकम्॥ इति। गोभिलश्चातुर्धा विभागमाह --पूर्वाह्नः प्रहरश्चाद्यो मध्याह्नः प्रहरस्ततः। तृतीयमपराह्णः स्यात् सायाह्नः स्यात् ततः परम्॥ इति। पञ्चधा विभागं व्यासः -मुहूर्तत्रितयं प्रातस्तावानेव तु सङ्गवः। मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णश्च तादृशः॥ सायाह्नस्त्रिमुहूर्तस्तु सर्वकर्मबहिष्कृतः॥ इति। पञ्चदशधा विभागः शङ्केन दर्शितः-- रौद्रश्चैत्रश्च मैत्रश्च तथैवारभटस्तथा॥ सावित्रश्च जयन्तश्च गान्धर्वः कुतपस्तथा॥ रौहिणश्च विरिञ्चश्च विजयो नैर्ऋतस्तथा। माहेन्द्रो वारुणश्चैव धृतः पञ्चदश स्मृताः॥ इति। एतेषु सकलश्रौतस्मार्तोपयोगितया पञ्चधा विभागो मुख्यः। अतः पञ्चधा विभक्त (दिनतृतीयांश)मध्याह्नस्यापरभाग एकभुक्तमुख्यकालः। दिनार्धेऽतीते सति समनन्तरभावित्वात्। अस्तमयात् प्राचीनः कालो गौणः। दिवैवेत्यभ्यनुज्ञानात्। एवं व्यवस्थिते सति मुख्यकालव्यापिनी तिथिर्ग्राह्या। अत एव पद्मपुराणम्-- मध्याह्नव्यापिनी ग्राह्या एकभुक्ते सदा तिथिरिति। बोधयनोऽपि --उदये तूपवासस्य नक्तस्यास्तमये तिथिः। मध्याह्नव्यापिनी ग्राह्या एकभुक्तव्रते तिथिः॥ इति। मध्याह्नव्यापिनीत्यत्र निर्णेतव्योऽर्थः षोढा। पूर्वेद्युरेव मध्याह्नव्याप्तिः, परेद्युरेव तद्व्याप्तिः, उभयत्र तद्व्याप्तिः, उभयत्र साम्येन तदेकदेशव्याप्तिः, उभयत्र वैषम्येण तदेकदेशव्याप्तिरिति। तत्र प्रथमद्वितीययोर्मध्याह्नव्यापित्वस्यैव निर्णायकत्वम्। तृतीये तु पूर्वविद्धा ग्राह्या, मुख्यकालव्याप्तेः समत्वेऽपि गौणकालव्याप्तेरधिकत्वात्। चतुर्थे उभयत्र मुख्यकालव्याप्त्यभावेऽपि परेद्युर्गौणकालव्याप्त्यभावात् पूर्वविद्धैव ग्राह्या। पञ्चमेऽप्ययमेव न्यायो योज्यः। षष्ठे तु यदा पूर्वेद्युर्मध्याह्नेकदेशादधिकं व्याप्नोति, तदानीं तदाधिक्याद् गौणकालव्याप्तेश्च पूर्वेद्युरेव ग्राह्या। यदातु परेद्युर्मध्याह्नैकदेशमधिकं व्याप्नोति, तदा गौणकालव्याप्त्यभावेऽपि मुख्यकालव्याप्त्याधिक्यात् परेद्युरेव ग्राह्येति। इति स्वतन्त्रैकभुक्तनिर्णयः॥