स्वप्नवासवदत्तम्/द्वितीयोऽङ्कः

<poem> अथ द्वितीयोऽङकः (ततः प्रविशति चेटी) चेटी - कुञ्जरिए! कुञ्जरिए! कहिं कहिं भट्टिदारिआ पदुमावदी ? किं भणासि एसा भट्टिदारिआ माह्वीलदामण्डवस्स पस्सदो कन्दुएण कीलदिति । जाव भट्टिदारिअं उवसप्पामि । (परिक्रम्यावलोक्य) अम्मो इअ भट्टिदारिआ उक्करिदकण्णचूलिएण वाआमसंजादसेद बिन्दुविइत्तिदेण परिस्सन्तरमणीअदंसणेण मुहेण कन्दुएण कीलन्दी इदो एव्व आअच्छदि । जाव उवसप्पिस्स । (कुञ्जरिके ! कुञ्जरिके कुत्र कुत्र भर्तृदारिका पद्मावती। किं भणसि! एषा भर्तृदारिका माधवीलतामण्डपस्य पाश्र्वतः कन्दुकेन क्रीडतीति । यावद् भतृर्दारिकामुपसर्पामि । अम्मो इयं भतृर्दारिका उत्कृतकर्णचूलिकेन व्यायाम संजातस्वेदबिन्दुविचित्रितेन परिश्रान्तरमणीयदर्शनेन मुखेन कन्दुकेन क्रीडन्तीत एवागच्छति, यावदुपसर्पामि ।)13 (निष्क्रान्ता) इति प्रवेशकः (ततः प्रविशति कन्दुकेन क्रीडन्ती पद्मावती सपरिवारा वासवदत्तया सह) वासवदत्ता: - हला! एसो दे कन्दुओ ।। (हला! एष ते कन्दुकः ।) पद्मावती - अय्ये । भोदु दाणिं एत्तअं । (आर्ये ! भवत्विदानीमेतावत्) वासवदत्ता - हळा! अदिचिरं कन्दुएण कीलिअ अहिअसञ्जादराआ परकेरआ विअ दे हत्था संवुत्ता। (हला! अतिचिरं कन्दुकेन क्रीडित्वाधिकसंजातरागौ परकीयाविव ते हस्तौ संवुतौ ।) चेटी - कीळदु कीलदु दाव भट्टिदारिआ । णिव्वत्तीअदु दाव अअं कण्णाभावरमणीओ काळो । (क्रीडतु क्रीडतु तावद् भतृर्दारिका । निर्वत्र्यतां तावदयं कन्याभावरमणीयः कालः ।) पद्मावती - अय्ये! किं दाणिं मं ओहसिदुं विअ णिज्झाअसि । (आर्ये! किमिदानीं मामपहसितुमिव निध्यायसि ।) वासवदत्ता - णहि णहि । हळा! अधिअं अज्ज सोहदि । अभिदो विअ दे अज्ज वरमुहं पेक्खामि । (नहि नहि । हला ! अधिकमद्य शोभते । अभित इव तेऽद्य वरमुखं पश्यामि ।) पद्मावती - अवेहि । मा दाणिं मं ओहस । (अपेहि । मेदानीं मामुपहस ।) वासवदत्ता - एसम्हि तुह्णिआ भविस्सम्महासेणवहू! ।। (एषास्मि तूष्णीका भविष्यन्महासेनवधु! पद्मावती - को एसो महासेणो णाम । (क एष महासेनो नाम ।) वासवदत्ता - अत्थि उज्जइणीओ राआ पज्जोदो णाम । तस्स बळपरिमाणणिव्युत्तं णामधेअं महासेणो त्ति।। (अस्त्युज्जयिनीयो राजा प्रद्योतो नाम । तस्य बलपरिमाणनिर्वृत्तं नामधेयं महासेन इति ।) चेटी - भट्टिदारिआ तेण राञ्ञा सह संबंधं णेच्छदि । (भतृर्दारिका तेन राज्ञा सह संबन्धं नेच्छति।) वासवदत्ता - अह केण खु दाणिं अभिळसदि । (अथ केन खल्विदानीमभिलषति ।) चेटी - अत्थि वच्छराओ उदअणो णाम । तस्स गुणाणि भट्टिदारिआ अभिळसदि। (अस्ति वत्सराज उदयनो नाम । तस्य गुणान् भर्तृदारिकाभिलषति ।) वासवदत्ता - (आत्मगतम्) अय्यउत्तं भत्तारं अभिळसदि । (प्रकाशम्) केण कारणेण । (आर्यपुत्रं भर्तारमभिलषति। केन कारणेन ।) चेटी - साणुक्कोसो त्ति ।। (सानुक्रोश इति ।) वासवदत्ता - (आत्मगतम्) जाणामि जाणामि । अअं वि जणो एव्वं उम्मादिदो । (जानामि जानामि। अयमपि जन एवमुन्मादितः।) चेटी - भट्टिदारिए! जदि सो राआ विरूवो भवे । (भर्तृ दारिके! यदि स राजा विरूपो भवेत्।) वासवदत्ता - णहि णहि । दंसणीओ एव्व। (नहि नहि। दर्शनीय एव।) पझ्मावती - अय्ये! कहं तुवं जाणासि । (आर्ये! कथं त्वं जानासि।) वासवदत्ता - (आत्मगतम्) अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो। किं दाणिं करिस्सं । होदु, दिट्ठं। (प्रकाशम्) हळा! एव्वं उज्जइणीओ जणो मन्तेदि। (आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः। किमिदानीं करिष्यामि । भवतु, दृष्टम्। हला! एवमुज्जयिनीयो जनो मन्त्रयते।) पद्मावती - जुज्जइ। ण खु एसो उज्जइणीदुल्लहो। सव्वजणमणोभिरामं खु सोभग्गं णाम। (युज्यते। न खल्वेष उज्जयिनीदुर्लभः। सर्वजनमनोभिरामं खलु सौभाग्यं नाम।) (ततः प्रविशति धात्री) धात्री - जेदु भट्टिदारिआ। भट्टिदारिए! दिण्णासि। (जयतु भर्तृदारिका। भर्तृदारिके। दत्तासि।) वासवदत्ता - अय्ये! कस्स? (आर्ये! कस्मै?)14 धात्री - वच्छराअस्स उदअणस्स । (वत्सराजायोदयनाय।) वासवदत्ता - अह कुसळी सो राआ। (अथ कुशली स राजा।) धात्री - कुसळी सो आअदो। तस्स भट्टिदारिआ पडिच्छिदा अ।। (कुशली स आगतः। तस्य भर्तृ दारिका प्रतीष्टा च) वासवदत्ता - अच्चाहिदं । (अत्याहितम्।) धात्री - किं एत्थ अच्चाहिदं? (किमत्रात्याहितम्?) वासवदत्ता - ण हु किंञ्चि। तह णाम सन्तप्पिअ उदासीणो होदि त्ति। (न खलु किंचित्। तथा नाम संतप्योदासीनो भवतीति।) धात्री - अय्ये! आअमप्पहाणाणि सुळहपय्यवत्थाणाणि महापुरुसहिअआणि होन्ति। (आर्ये! आगमप्रधानानि सुलभपर्यवस्थानानि महापुरुषहृदयानि भवन्ति।) वासवदत्ता - अय्ये! सअं एव्व तेण वरिदा? (आर्ये! स्वयमेव तेन वृत्ता?) धात्री - णही णहि। अण्णप्पओअणेण इह आअदस्स अभिजणविञ्जाणवओरूवं पेक्खिअ सअं एव्व महाराएण दिण्णा। (नहि नहि अन्यप्रयोजनेनेहागतस्याभिजनविज्ञानवयोरूपं दृष्ट्वा स्वयमेव महाराजेन दत्ता ।) वासवदत्ता - (आत्मगतम्) एव्वं। अणवरद्धो दाणिं एत्थ अय्य उत्तो ।। (एवम्। अनपराद्ध इदानीमत्रार्यपुत्रः।) (प्रविश्यापरा) चेटी - तुवरदु तुवरदु दाव अय्या । अज्ज एव्व किळ सोभणं णक्खत्तं। अज्ज एव्व कोदुअमङगळं कादव्वं त्ति अम्हाणं भट्टिणी भणादि।। (त्वरतां त्वरतां तावदार्या। अद्यैव किल शोभनं नक्षत्रम् । अद्यैव कौतुकमङ्गलं कर्तव्यमित्यस्माकं भट्टिनी भणति।) वासवदत्ता - (आत्मगतम्) जह जह तुवरदि, तह तह अन्धीकरेदि मे हिअअं। (यथा यथा त्वरते, तथा तथा अन्धीकरोति मे हृदयम्।) धात्री - एदु एदु भट्टिदारिआ। (एत्वेतु भर्तृदारिका।) (निष्क्रान्ताः सर्वे) इति द्वितीयोऽङ्कः।