अथ पञ्चमोऽङ्कः
(ततः प्रविशति पद्मिनिका)
पद्मिनिका - महुअरिए! महुअरिए! आअच्छ दाव सिग्घं। (मधुकरिके! मधुकरिके! आगच्छ तावच्छीघ्रम्।)
(प्रविश्य)
मधुकरिका - हला! इअम्हि । किं करीअदु । (हला! इयमस्मि । किं क्रियताम् ।)
पद्मिनिका - हला किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खाविदेत्ति । (हला किं न जानासि त्वं भर्तृदारिका पद्मावती
शीर्षवेदनया दुःखितेति ।)
मधुकरिका - हद्धि । (हा धिक् ।)
पद्मिनिका - हला! गच्छ सिग्घं, अय्यं आवन्तिअं सद्दावेहि। केवलं भट्टिदारिआए सीसवेदणं एव्व णिवेदेहि । तदो सअं एव्व आगमिस्सदि
। (हला! गच्छ शीघ्रम् आर्यामावन्तिकां शब्दापय। केवलं भर्तृदारिकायाः शीर्षवेदनामेव निवेदय। ततः स्वयमेवागमिष्यति।)
मधुकारिका - हला! किं सा करिस्सदि। (हला किं सा करिष्यति।)
पद्मिनिका - सा हु दाणिं महुराहि कहाहि भट्टिदारिआए सीसवेदणं विणोदेदि ।
(सा खल्विदानीं मधुराभिः कथाभिर्भतृदारिकायाः शीर्षवेदनां विनोदयति ।)
मधुकरिका - जुज्जइ । कहिं सअणीयं रइदं भट्टिदारिआए। (युज्यते। कुत्र शयनीयं रचितं भर्तृदारिकायाः।)
पद्मिनिका - समुद्दगिहके किल सेज्जात्थिण्णा । गच्छ दाणिं तुवं। अहं वि भट्टिणो णिवेदणत्यं अय्यवसंतअं अण्णेसामि। (समुद्रगृहके किल
शय्यास्तीर्णा । गच्छेदानीं त्वम् । अहमपि भत्र्रे निवेदनार्थमार्यवसन्तकमन्विष्यामि।)
मधुकरिका - एव्वं होदु (निष्क्रान्ता) (एवं भवतु।)
पद्मिनिका - कहिं दाणिं अय्यवसंतअं पेक्खामि । (कुत्रेदानीमार्यवसन्तकं पश्यामि।)
(ततः प्रविशति विदूषकः)
विदूषकः - अज्ज खु देवीविओअविहुरहिअअस्स तत्तहोदो वच्छराअस्स पदुमावदीपाणिग्गहणस-मीरिअमास्सो अच्चंतसुहावहे मङ्गलोसवे
मदण्ग्गिदाहो अहिअदरं वड्ढइ (पद्मिनिकां विलोक्य) अयि पदुमिणिआ । पदुमिणिए! किं इह वत्तदि । (अद्य खलु देवीवियोगविधुरहृदयस्य23
तत्रभवतो वत्सराजस्य पद्मावतीपाणिग्रहण-समीर्यमाणोऽत्यन्तसुखावहे मङ्गलोत्सवे मदनाग्निदाहोऽधिकतरं वर्तते। अयि पद्मिनिका!
पद्मिनिके! किमिह वर्तते।)
पद्मिनिका - अय्य वसन्तअ! किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्वाविदेत्ति। (आर्य वसन्तक! किं न जानासि त्वं
भर्तृदारिका पद्मावती शीर्षवेदनया दुःखितेति।)
विदूषकः - भोदि सच्छं ण जाणामि। (भवति! सत्यं, न जानामि।)
पद्मिनिका - तेण हि भट्टिणो णिवेदेहि णं। जाव अहं वि सीसाणुलेवणं तुवारेमि । (तेन हि भर्ते निवेदयैनाम्। यावदहमपि शीर्षानुलेपनं
त्वरयामि।)
विदूषकः - कहिं सअणीअं रइदं पदुमावदीए। (कुत्र शयनीयं रचितं पद्मावत्याः ।
पद्मिनिका - समुद्दगिहके किल सेज्जात्थिण्णा (समुद्रगृहके किल शय्यास्तीर्णा।)
विदूषकः - गच्छदु भोदी। जाव अहं वि तत्तदोदौ णिवेदइस्सां। (गच्छतु भवती। याव दहमपि तत्रभवते निवेदयिष्यामि।)
(निष्क्रान्तौ)
इति प्रवेशकः ।
(ततः प्रविशति राजा)
राजा - श्लाध्यामवन्तिनृपतेः सद्दशीं तनूजां
कालक्रमेण पुनरागतदारभारः।
लावाणके हुतवहेन हृताङ्गयष्टि
तां पद्मिनीं हिमहतामिव चिन्तयामि।।
(प्रविश्य)
विदूषकः - तुवरदु तुवरदु दाव भवं। (त्वरतां त्वरतां तावद् भवान्।)
राजा - किमर्थम् ।
विदूषकः - तत्तहोदी पदुमावदी सीसवेदणाए दुक्खाविदा । (तत्र भवती पद्मावती शीर्षवेदनया दुःखिता।)
राजा - कैवमाह ।
विदूषकः - पदुमिणिआए कहिदं । (पद्मिनिकया कथितम्।)
राजा - भोः! कष्टं
रूपश्रिया समुदितां गुणतश्च युक्तां
लब्ध्वा प्रियां मम तु मन्द इवाद्य शोकः ।
पूर्वाभिघातसरुजोऽप्यनुभूतदुःखः
पद्मावतीमपि तथैव समर्थयामि ।। 2
अथ कस्मिन् प्रदेशे वर्तते पद्मावती।
विदूषकः - समुद्दगिहके किल सेज्जात्विण्णा। (समुद्रगृहके किल शय्यास्तीर्णा।)
राजा - तेन हि तस्य मार्गमादेशय।
विदूषकः - एदु एदु भवं (एत्वेतु भवान्) (उभौ परिक्रामतः) इदं समुद्दगिहकं। पविसदु भवं (इदं समुद्रगृहकम् । प्रविशतु भवान्।)
राजा - पूर्वं प्रविश।
विदूषकः - भो! तह। (प्रविश्य) अविहा, चिट्ठदु, चिट्ठदु दाव भवं । (भोः ! तथा। अविधा, तिष्ठतु, तिष्ठतु तावद् भवान्।)
राजा - किमर्थम्।24
विदूषकः - एसो खु दीवप्पभावसूइदरूवो वसुधातले परिवत्तमाणो अअं काओदरो (एष खलु दीपप्रभावसूचितरूपो वसुधातले परिवर्तमानोऽयं
काकोदरः।)
राजा - (प्रविश्यावलोक्य सस्मितम्) अहो सर्पव्यक्तिर्वैधेयस्य।
ऋज्वायतां हि मुखतोरणलोलमालां
भ्रष्टां क्षितौ त्वमवगच्छसि मूर्ख! सर्पम् ।
मन्दानिलेन निशि या परिवर्तमाना
किंचित् करोति भुजगस्य विचेष्टितानि।। 3 ।।
विदूषकः - (निरूप्य) सुट्ठु भवं भणादि। ण हु अअं काओदरो । (प्रविश्यावलोक्य) तत्तहोदी पदुमावदी आअच्छिअ णिग्गदा भवे। (सुष्टु
भवान् भणति। न खल्वयं काकोदरः । तत्रभवती पद्मावतीहागत्य निर्गता भवेत्)
राजा - वयस्य! अनागतया भवितव्यम् ।
विदूषकः - कहं भवं जाणादि। (कथं भवान् जानाति।)
राजा - किमत्र ज्ञेयम् । पश्य,
शय्या नावनता तथास्तृतसमा न व्याकुलप्रच्छदा
न क्लिष्टं हि शिरोपधानममलं शीर्षभिघातौषधैः ।
रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित् कृता
प्राणी प्राप्य रुजा पुनर्न शयनं शीघ्रं स्वयं मुञ्चति।।
विदूषकः - तेण हि इमÏस्स सय्याए मुहुत्तअं उवविसिअ तत्तहोदि पडिवालेदु भवं । (तेन ह्यस्यां शय्यायां मुहूर्तकमुपविश्य तत्रभवतीं
प्रतिपालयतु भवान्)
राजा - बाढम्। (उपविश्य) वयस्य! निद्रा मां बाधते। कथ्यतां काचित् कथा।
विदूषकः - अहं कहइस्सं । हो त्ति करेदु अत्तभवं। (अहं कथयिष्यामि। हुमिति करोत्वत्रभवान्।)
राजा - बाढम् ।
विदूषकः - अत्थि णअरी उज्जइणी णाम । तहिं अहिअरमणीआणि उदआण्हाणाणि वत्तन्ति किल। (अस्ति नगर्युज्जयिनी नाम।
तत्राधिकरमणीयान्युदकस्नानानि वर्तन्ते किल।)
राजा - कथमुज्जयिनी नाम।
विदूषकः - जइ अणभिप्पेदा एसा कहा, अण्णं कहइस्सं। (यद्यनभिप्रेतैषा कथा, अन्यां कथयिष्यामि।)
राजा - वयस्य ! न खलु नाभिप्रेतैषाकथा । किं तु,
स्मराम्यवन्त्याधिपतेः सुतायाः
प्रस्थानकाले स्वजनं स्मरन्त्याः ।
बाष्पं प्रवृत्तं नयनान्तलग्नं
स्नेहान्ममैवोरसि पातयन्त्याः ।। 4 ।।
अपि च,
बहुशोऽप्युपदेशेषु यया मामीक्षमाणया।
हस्तेन स्त्रस्तकोणेन कृतमाकाशवादितम् ।। 5 ।।
विदूषकः - भोदु, अण्णं कहइस्सं । अत्थि णअरं बम्हदत्तं णाम । तहिं किल राआ कंपिल्लो णाम। (भवतु, अन्यां कथयिष्मामि । अस्ति
नगरं ब्रह्मदत्तं नाम । तत्र किल राजा काम्पिल्य नाम।)
राजा - किमिति किमिति?
विदूषकः - (पुनस्तदेव पठति)25
राजा - मूर्ख! राजा ब्रह्मदत्तः, नगरं काम्पिल्यमित्यभिधीयताम् ।
विदूषकः - किं राआ बमहदत्तो, णअरं कंपिल्लं । (किं राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् ।)
राजा - एवमेतत् ।
विदूषकः - तेण हि मुहुत्तअं पडिवालेदु भवं, जाव ओट्ठगअं करिस्सं । राआ ब्रम्हदत्तो, णअरं कंपिल्लं (इति बहुशस्तदेव पठित्वा) इदाणिं
सुणादु भवं । अयि सुत्तो अत्तभवं । अदिसीदला इअं बेला। अत्तणो पावरअं गणिहअ आअम्स्सं । (निष्कान्तः) (तेन हि मुहूर्तकं
प्रतिपालयतु भवान्, यावदोष्ठगतं करिष्यामि । राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् । इदानीं शृृणोतु भवान् । अयि सुप्तोऽत्रभवान्
। अतिशीतलेयं वेला । आत्मनः प्रावारकं गृहीत्वागमिष्यामि ।)
(ततः प्रविशति वासवदत्ता आवन्तिकावेषेण चेटी च)
चेटी - एदु एदु अय्या । दिढं खु भट्टिदारिआ सीसवेदणाए दुक्खाविदा । (एत्वेत्वार्या । हढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता ।)
वासवदत्ता - हद्धि, कहिं सअणीअं रइदं पदुमावदीए । (हा धिक्, कुत्र शयनीयं रचितं पद्मावत्याः।)
चेटी - समुद्दगिहके किल सेज्जात्थिण्णा । (समुद्रगृहके किल शय्यास्तीर्णा ।)
वासवदत्ता - तेण हि अग्गदो याहि । (तेन ह्यग्रतो याहि ।)
(उभे परिक्रामतः)
चेटी - इदं समुद्दगिहकं । पविसदु अय्या । जाव अहं वि सीसाणुलेवणं तुवारेमि । (निष्क्रान्ता) । (इदं समुद्रगृहकम् । प्रविशत्वार्या ।
यावदहमपि शीर्षानुलेपनं त्वरयामि ।)
(निष्क्रान्ता)
वासवदत्ता - अहो अकरुणा खु इस्सरा मे । विरहपय्युस्सुअस्स अय्यउत्तस्स विस्समत्थाणभूदा इअं पि णाम पदुमावदी अस्सत्था जादा । जाव
पविसामि । (प्रविश्यावलोक्य) अहो परिजणस्स पमादो । अस्सत्थं पदुमावदि केवलं दीवसहाअं करिअ परित्तजदि। इअं पदुमावदी
ओसुत्ता। जाव उवविसामि । अहव अञ्ञासणपरिग्गहेण अप्पो विअ सिणेहो पडिभादि । ता इमस्सि सय्याए उवविसामि ।
(उपविश्य) किं णु खु एदाए सह उवविसन्तीए अज्ज पह्लादिदं विअ मे हिअअं। दिट्ठिआ अविच्छिण्णसुहणिस्सासा।
णिय्वुत्तरोआए होदव्वं । अहव एअदेससंविभाअदाए सअणीअस्स सुएदि मं आलिङ्गेहि त्ति। जाव सइस्सं। (शयनं नाटयति) ।
(अहो अकरुणाः खल्वीश्वरा मे। विरहपर्युत्सुकस्यार्यपुत्रस्य विश्रमस्थानभूतेयमपि नाम पद्मावत्यस्वस्था जाता। यावत् प्रविशामि
। (प्रविश्याक्लोक्य) अहो परिजनस्य प्रमादः। अस्वस्थां पद्मावतीं केवलं दीपसहायां कृत्वा परित्यजति । इयं पद्मावत्यवसुप्ता।
यावदुपविशामि। अथवान्यासनपरिग्रहेणाल्प इव स्नेहः प्रतिभाति। तदस्यां शय्यायां उपविशामि। (उपविश्य)- किं नु खल्वेतया
सहोपविशन्त्या अद्य प्रह्लादितमिव मे हृदयम् । दिष्ट्याविच्छिन्नसुखनिःश्वासा । निवृत्तरोगया भवितव्यम्। अथवैकदेशसंविभागतया
शयनीयस्य सूचयति मामालिङ्गेति । यावच्छयिष्ये ।)
राजा - (स्वप्नायते) हा वासवदत्ते ।
वासवदत्ता - (सहसोत्थाय) हं अय्यउत्तो । ण हु पदुमावदी। किं णु खु दिट्टाम्हि । महन्तो खु अय्यजोअन्धराअणस्स पडिण्णाहारो मम दंसणेण
णिप्फलो संवुत्तो। (हम् आर्यपुत्रः। न खलु पद्मावती। किं नु खलु दृष्टास्मि । महान् खल्वार्ययौगन्धरायणस्य प्रतिज्ञाभारो मम
दर्शनेन निष्फलः संवृत्तः ।)
राजा - हा अवन्तिराजपुत्रि!
वासवदत्ता - दिट्ठिआ सिविणाअदि खु अय्यउत्तो। ण एत्थ कोच्चि जणो । जाव मुहुत्तअं चिट्ठिअ दिÏट्ठ हिअअं च तोसेमि। (दिष्ट्या
स्वप्नायते खल्वार्यपुत्रः । नात्र कश्चिज्जनः। यावन्मुहूर्र्तकं स्थित्वा दृष्टिं हृदयं च तोषयामि।)
राजा - हा प्रिये! हा प्रियशिष्ये! देहि मे प्रतिवचनम्।
वासवदत्ता - आलवामि भट्टा! आलवामि । (आलपामि भर्तः! आलपामि।)
राजा - किं कुपितासि।
वासवदत्ता - ण हि ण हि। दुक्खिदम्हि । (नहि नहि। दुःखितास्मि ।)26
राजा - यद्यकुपिता, किमर्थं नालंकृतासि।
वासवदत्ता - इदो वरं कि। (इतः परं किम् ।)
राजा - किं विरचिकां स्मरसि ।
वासवदत्ता - (सरोषम्) आ अवेहि, इहावि विरचिआ । (आ अपेहि, इहापि विरचिका।)
राजा - तेन हि विरचिकार्थं भवतीं प्रसादयामि । (हस्तौ प्रसारयति)
वासवदत्ता - चिरं ठिदम्हि। को वि मं पेक्खे । ता गमिस्सं । अहव, सय्यापलम्विअं अय्यउत्तस्स हत्थं सअणीए आरोविअ गमिस्सं । (तथा
कृत्वा निष्क्रान्ता) । (चिरं स्थितास्मि। कोऽपि मां पश्येत्। तद् गमिष्यामि । अथवा, शय्याप्रलम्बितमार्यपुत्रस्य हस्तं शयनीय
आरोप्य गमिष्यामि।)
राजा - (सहसोत्थाय) वासवदत्ते! तिष्ठ तिष्ठ । हा धिक् ।
निष्क्रामन् संभ्रमेणाहं द्वारपक्षेण ताडितः।
ततो व्यक्तं न जानामि भूतार्थोऽयं मनोरथः ।। 7 ।।
(प्रविश्य)
विदूषकः - अइ पडिबुद्धो अत्तभवं (अयि प्रतिबुद्धोऽत्रभवान्।)
राजा - वयस्य! प्रियमावेदये, धरते खलु वासवदत्ता ।
विदूषकः - अविहा वासवदत्ता । कहिं वासवदत्ता । चिरा खु उवरदा वासवदत्ता । (अविधा वासवदत्ता। कुत्र वासवदत्ता । चिरात् खलूपरता
वासवदत्ता ।)
राजा - वयस्य मा मैवं,
शय्यायामवसुप्तं मां बोधयित्वा सखे गता ।
दग्धेति ब्रुवता पूर्वं वञ्चितोऽस्मि रुमण्वता।।
विदूषकः - अविहा असम्भवणीअं एदं । आ ! उदअण्हाणसङ्कित्तणेण तत्तहोदिं चिन्तअन्तेण सा सिविणे दिट्टा भवे । (अविधा
असंभावनीयमेतद् । आः! उदकस्नानसंकीर्तनेन तत्रभवतीं चिन्तयता सा स्वप्ने दृष्टा भवेत् ।)
राजा - यदि तावदयं स्वप्नो धन्यमप्रतिबोधनम् ।
अथायं विभ्रमो वा स्याद् विभ्रमो ह्यस्तु मे चिरम् ।। 9 ।।
विदूषकः - भो! वअस्स! एदस्स णअरे अवन्तिसुन्दरी णाम जक्खिणी पडिवसदि । सा तुए दिट्ठा भवे । (भोः! वयस्य ! एतस्मिन्
नगरेऽवन्तिसुन्दरी नाम यक्षिणी प्रतिवसति। सा त्वया दृष्टा भवेत् ।)
राजा - न न,
स्वप्नस्यान्ते विबुद्धेन नेत्रविप्रोक्षिताञ्जनम् ।
चारित्रमपि रक्षन्त्या दृष्टं दीर्घालकं मुखम् ।। 10 ।।
अपि च वयस्य! पश्य पश्य,
योऽयं संत्रस्तया देव्या तया बाहुर्निपीडितः ।
स्वप्नेऽप्युत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति ।। 11 ।।
विदूषकः - मा दाणिं भवं अणत्थं चिन्तिअ। एदु एदु भवं। चउस्सालं पविसामो (मेदानीं भवाननर्थं चिन्तयित्वा । एत्वेतु भवान् । चतुःशालं
प्रविशावः ।)
(प्रविश्य)
काञ्चुकीयः - जयत्वार्यपुत्रः। अस्माकं महाराजो दर्शको भवन्तमाह- ‘एष खलु भवतोऽमात्यो रुमण्वान् महता बलसमुदयेनोपयातः
खल्वारुणिमभिघातयितुम् । तथा हस्त्यश्वरथपदातीनि मामकानि विजयाङ्गानि संनद्धानि । तदुत्तिष्ठतु भवान् । अपि च,27
भिन्नास्ते रिपवो भवद्गुणरताः पौराः समाश्वासिताः
पाष्र्णीं यापि भवत्प्रयाणसमये तस्या विधानं कृतम् ।
यद्यत् साध्यमरिप्रमाथजननं तत्तन्मयानुष्ठितं
तीर्णा चापि बलैर्नदी त्रिपथगा वत्साश्च हस्ते तव।। 12 ।।
राजा - (उत्थाय) बाढम् । अयमिदानीम्,
उपेत्य नागेन्द्रतुरंगतीर्णे
तमारुणिं दारुणकर्मदक्षम् ।
विकीर्णबाणोग्रतरङ्गभङ्गे
महार्णवाभे युधि नाशयामि।। 13 ।।
(निष्कान्ताः सर्वे)
इति पञ्चमोऽङ्कः ।