स्वाहासुधाकरः
नारायणभट्टपादः
१९३७

श्रीनारायणभट्टपादकृतः स्वाहासुधाकरः। मङ्गल्यं वः करोतु ज्वलनदयितया संगमे भर्तृभीत्या ग्रस्ताङ्गो हन्त तस्यामपि च हुतभुजा ग्रस्ततां प्रापितायाम् । निश्चन्द्रे व्योममार्गे सदसि च हरिणा कौशलाद्दर्शितात्मा वासोभिः सोपहासं सकलसुरगणैरर्चितोऽयं मृगाङ्कः ॥ १॥ जिह्वायां कमलोद्भवः स्वगृहिणीं वाणी दधत्यादरा- त्कृष्णो वक्षसि सिन्धुराजतनयामाधाय धत्ते मुदम् । देहार्धे गिरिकन्यकां च गिरिशो गृह्णाति मोहाद्यथा स्वाहां हव्यभुगादधाति जठरे कामातुरोऽयं तथा ॥२॥ १. “केरलदेशालंकरणभूताया 'निला नामकपुण्यनद्याः पञ्चाशन्यूनाईयोजन- मात्रमुत्तरे वीरे 'मेप्युर्' इति प्रथिते धरणीसुरवंशे कृत्तावतारोऽयं नारायण- भट्टपादः. सोऽयं बाल्येऽनभ्यस्त्रशास्त्रो बभूव. अवगतवांश्च किंचिस्काव्यादिक- मात्रम्, ततः कदाचन 'अच्युत'नामकस्य वैष्णवदासस्य शिष्यामुपगम्याधीत- सकलशास्त्रस्तस्य कुतोऽपि हेतोः संजातं महान्तमामयं निजतपःशक्त्या स्वस्सि- संक्रमय्य तदपनयनोपायं समालोच्य 'गुरुवायुपुरम्' इति प्रसिद्ध क्षेत्रे सैनि- हितं भगवन्तं श्रीनारायणमभजत. प्रतिदिनमेतत्स्तोत्ररूपं श्रीमद्भागवार्थप्रति- पादनपरं मानसश्रवणसंतोषजनकमतिरमणीयपदनिवघटितं नारायणीयनामकं खोत्ररत्नं रचितवान् . एतदपि केरलीयैरहरहः पर्युपास्यमानं भागवतमिव one स्वाहासुधाकरः। एतावानस्ति विशेषः- ब्रह्मादयस्त्रयो देवाः सदा दधति वल्लभाम् । दधाति याममात्रं न पावकः संध्ययोर्द्वयोः ॥ ३ ॥ विजेजीयते. एतत्स्तोत्रनिर्माणकलिंगतदिवससंख्या तत्रैवान्तिमश्लोके आयुरारो- ग्यसौख्यम्' इति पदेन प्रकाशिता. (१७१२२१० इति गतकलिदिवससंख्या) इत्थं गुरुवायुपुरेशभगवच्छ्रीनारायणप्रसादसमवाप्तनिखिलामयापगमसमुज्ज्वलनि- जशरीरोऽयं देवालयनदीवास्तव्यराज्ञाभ्यर्थितः 'प्रक्रियासर्वस्व'नामकं पाणिनीय- सूत्रव्याख्यानरूपं कमपि ग्रन्थं निर्मितवान् . पुनः कदाचिदयं बालचन्द्रदर्शन- जनितकौतुकैर्भूदेवैः संप्रार्थितः 'कस्मात्कारणानिखिलैर्जनैरयं वासोविक्षेपपूर्वम- भिवन्द्यते इत्यस्मात्प्रबन्धरूपेणैव वक्तव्यम्' इति द्रुतमेवेदं स्वाहासुधाकरनामकं प्रवन्धरत्नं च कृतवान् . अयं वर्षशतत्रयान्न प्राचीनः. तस्मादेतच्छोकास्त्वन्य- ग्रन्थेषु नोदाहृताः एतेनायं प्राचीन इति न परिशङ्कनीयम् . "लोकाम्बिका दिशतु मङ्गलमस्मरकुलदैवतम्". सोपोद्धातोऽयं प्रबन्ध उत्तरमलबार(केरल)देशान्त- र्वर्ति कटथनद'राजेन श्रीमदुदयवर्मणा केरलीयलिपितो भूयसा श्रमेण देवनागरा- क्षरैर्विलिख्य प्रेषितः, अतो वयं तस्य राज्ञो महान्तमुपकारभार शिरसा धारयामः. आशास्महे च तद्देशप्रसिद्धनानाकाव्यनाटकभाणादिप्रेषणेन सर्वदैवास्मानुपकारि- ष्यति रसिकशिरोमणिमहीपतिः. एतत्कविप्रणीतः कश्चन 'चण्डिकासप्तति'नामको देवीस्तवोऽस्तीत्यपि श्रूयते. १. संपूर्णश्लोकस्वित्थम्-'अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ क्षमेथाः स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् । द्वेधा नाराय- गीयं श्रुतिषु च जनुषां स्तुत्यतावर्णनेन स्फीतं लीलावतारैरिदमिह कुरुतामायुरा- रोग्यसौख्यम् ॥' अत्र 'आयुरारोग्यसौख्यम्' इत्यस्मात्पदादार्यभटसिद्धान्तादिज्यो- तिःशास्त्रप्रसिद्धेन वाररुचेन कटपयादिक्रमेण ग्रन्थनिर्माणसमये (१७१२२१०) एतावती गतकालदिवससंख्यासीदिति ज्ञायते. तेन १५९० मिते निस्ताब्दे क- विरयं 'नारायणीयं' नाम स्तोत्रं प्रणीतवान् . २. प्रक्रियासर्वस्वस्येदं मङ्गलाच- रणम्-‘रासविलासविलोलं स्मरत मुरारेमनोरमं रूपम् । प्रकृतिषु यत्प्रत्यय- वत्प्रत्येक गोपिकासु संमिलितम् ॥' इति. काव्यमाला। अथ कदाचित्- संध्योपासनकर्मणे सपदि तां निक्षिप्य कान्ते गते चन्द्रस्तामवलोक्य मन्मथशरैः संतापितात्मा चिरम् । मल्लीचन्दनमन्दमारुतरसेष्वा हन्त निन्दापरः कष्टं काश्चन वासरानगमयत्प्रत्येकमब्दोपमान् ।। ४ ॥ तदनु कदाचन दिवसावसानवेलायां मन्दमन्दमायाति च मलय- शिखरिशिखरशेखरितसुन्दरतरचन्दनतरुमचुलतरमञ्जरीविसृमरमकर- न्दबिन्दुभरणमन्दगमने मन्द पवने, झंकुर्वाणे च संध्यासमयविन- मदुन्नमदतिकोमलदलपेशलसकलकमलकुमुदकुलमधुरतरमकरन्दरस- तुल्यकालसमास्वादनजनितानन्दकन्दलितविरहिवर्गव्यलीके चञ्चरीके, वियुज्यमाने च विरहवेदनाविदीर्णहृदये समाक्रन्दवाचालिताशाचक्र- वाले चक्रवाके, संप्रयाते च कुहचन सहचरी निक्षिप्य विक्षेपादि- कर्मकृतादरे स्वाहासहचरे पुष्पायुधनिष्पादितपीडाकुल एष दोषाकरः कुमुदिनीरोहिणीभ्यामप्यविज्ञातवृत्तान्तं स्वाहया सनार्थीकृतमुटजा- ङ्गणमभिससार । दृष्ट्वा सा कामसेनापतिमतिसुकुमाराङ्गमारादकाण्डे चन्दं नारीजनानामतिशयसुलभादाकुला चित्तलौल्यात् । तस्थौ गत्वा गृहाभ्यन्तर1मररमुखेनास्य संचारयन्ती वक्त्रे मन्दस्मितार्द्रानतिमधुरसुधाशीतपातान्कटाक्षान् ॥ ५ ॥ किमिह बहुभिरुक्तप्रक्रमैः पक्ष्मलाक्ष्याः सकलभुवनबन्धोश्चातिमुग्धाः कटाक्षाः । हृदयहरणदक्षाः प्रोचुरन्योन्यमेत्य प्रणयगतिमशेषां दूतिकातुल्यरूपाः ॥ ६॥ १. कपाटरन्ध्रेण. खाहासुधाकरः। us अनन्तरममृतगुरेवमवादीत्--- पश्य त्वं भृङ्गपोतं कमपि कुमुदिनीतीरभागे चरन्तं सौरभ्यं मन्दवातैरुपहृतमतुलं किंचिदास्वादयन्तम् । एतस्या हन्त माध्वीरसमतिमधुरं जातु पातुं नितान्तं मुग्धे वक्त्रे विकासं दिवसपरिणतिप्राप्तमाकाङ्क्षमाणम् ॥ ७ ॥ अथ स्वाहयाप्येवमभिहितम्- रविरयमस्तं यातः समागतो हन्त हन्त चन्द्रोऽयम् । याति विकासमपीयं कुमुद्वती किं विलम्बसे भृङ्ग ॥ ८॥ अनयोरेवमादिभिः संल्लापैरुल्लासितमल्लिकायुधविलासयोः सपदि परस्परगृहीतहस्ताम्बुजयोरालिङ्गनचुम्बनाडम्बरैः संभृतानन्दयोरतिमधु- रमघरबिम्बमास्वादयतोरतिकोमलवदनकमलसमवलोकनविधुतविरहवे-- दनयोरन्तरान्तरा ससंभ्रमज्वलनसमागमनावलोकनव्यापृतैकैकनेत्रयोः स्वाहाचन्द्रमसोर्मन्दमन्दनिष्पन्दमानमञ्जुलतरमिलितसीत्कारमनोहरा मञ्जुशिञ्जानवलयनूपुरमेखलागुणा दशननिपातविदलितसकलावयवाः प्रसृमरधर्मलेशमिलितनिखिलशरीराः शनैर्लायमानसकलावयवाः सु- रतोत्सवाः संबभूवुः । ततश्च- भूयादेवं प्रभाते दिवसपरिणती चावयोरङ्गजन्म- क्रीडाभेदो निगूढो मुहुरिति सदयं सस्पृहं सप्रमोदम् । संभाषन्तौ युवानौ विरहहुतवास्तदेहावभूतां स्वाहा हा हन्त पश्चादपि च हुतवहग्रस्तदेहा बभूव ॥ ९ ॥ तदनु तयोरेवमेव चौर्यसुरतमनुसेवतोरनुक्षणविजृम्भिताभिला- षयोः कदाचिदप्यपरिपूर्णमनोरथयोः स्वाहासुधाकरयोराज्यधारयेव महा- नलो मदनानलः प्रतिक्षणं समजृम्भत । काव्यमाला। अथ निपुणमतीनामग्रणीरुग्ररूपः स्मरशरपरितापव्याकुलाङ्गो मृगाङ्कः । प्रतिदिनमवियोगे कल्पयन्नभ्युपायं प्रणयपरवशां तां वल्लभामेवमूचे ॥१०॥ ह्रद्यां विद्यामधीष्व त्वमिह सहचरात्पावकाव्याजपूर्व धत्ते सोऽयं यथा त्वामनुदिनमुदरे सादरं हन्त पश्चात् । धृत्वा मां याहि नित्यं जठरकुहरमेतस्य जातानुमोदा- चावां तस्मिन्वसन्तौ तदनु विहरणं कुर्वहे सार्वकालम् ॥११॥ अथ सा हुतवहसहचरी मधुरां जारभारती तथेति प्रतिगृह्य स्त्री- जनसुलभेन निर्बन्धेन निबध्य सुदुर्लभामपि तां विद्यां जडात्मनो हुताशनादधिजगाम । संध्यायामथ निर्गते पुनरहो कामाहवं कुर्वतोः स्वाहाचन्द्रमसोः क्षणेन स गतो यामोऽयमामोदिनोः । संप्राप्त परिणेतरि क्षणमिव स्वाहानु विद्यावशा- त्संजग्राह निजोदरे शशधरं तामप्यसौ पावकः ॥ १२ ॥ ततश्च- कथं वा राकायामिह नहि समायाति गगने शशाङ्को रात्र्यर्धं गतमिति मिथो हन्त गदताम् । नितान्तं तिथ्यर्क्षसंग्रह्णगणनव्याकुलधियां जनानां संजाताः कतिचन महान्तः कलकलाः ॥ १३ ॥ हा हा नः प्राणनाथः क नु खलु विगतः संत्यजन्कष्टमस्मा- नित्थं तारावलीनां क नु मम जनको हन्त हन्तेति चान्द्रेः । स्वाहासुधाकरः। आहारो हन्त हा हा गत इति च सुराणां नितान्तातुराणां वाक्यैरश्रुप्रवाहैरपि च सुरकुलं व्याकुलं संबभूव ॥ १४ ॥ अथ शतमखचतुर्मुखप्रमुखैरखिलैरमरैस्मदापन्निवारणप्रवीणो ना. रायणान्नान्यः कश्चिदिति निश्चिन्वानैरनवरतस्तुतिरवमुखरितहरिद- न्तरालैः संचिन्तितो भगवानम्बुजाक्षः। विज्ञायाथ दयानिधिः स भगवानाकाङ्ज्ञितं नाकिनां सद्यः प्रादुरभूदपारमहिमा मन्दस्मितार्द्राननः । नीलाम्भोधरजालकोमलतरैरानन्दयन्नङ्गकै- श्चन्द्रालोकनकौतुकं सुमनसां वक्त्रेन्दुना पूरयन् ॥ १५ ॥ स्वाहाग्रस्तं मृगाङ्कं तुलितमहदकूपारगाम्भीर्ययासौ बुद्ध्या निध्याय देवान्मुकुलितकरपङ्केरुहानेवमूचे । विज्ञातं वः सुरेन्द्राः सकलमिह मया कारणं मत्प्रणामे संजातं घोरघोरं व्यसनमिदमहं नूनमुन्मूलयामि ॥ १६ ॥ यूयं यात बहिः क्षणं हुतभुजा संभाषणं कुर्महे नास्माकं वचनं तदन्तरगता स्वाहापि गृह्णातु सा । षट्कर्णश्रुतमन्त्ररक्षणविधौ को वा विदग्धः पुमा- नित्थं नीतिविदां वचो न किमिदं युष्माभिराकर्णितम् ॥१७॥ नारायणेन गदिता मुदितानुभावा- मेवंविधामथ गिरं विबुधा विचार्य । स्वाहागतं निखिलचापलमाकलय्य व्रीडापरा नतमुरारिपदाः प्रयाताः ॥ १८ ॥ स्वाहां विन्यस्य याते कुहचन दहने पार्श्वभागं मुरारे- र्देवाः स्वाहासमीपं निभृतमुपगतास्तस्थुरत्यन्तगूढाः । ७० काव्यमाला। सापि प्रीता समन्तात्पति मुहुरवलोक्याशु लब्धावकाशा वासोलेशेन हीनं गगनपथमथो यापयामास चन्द्रम् ॥ १९॥ अथ निभृतमवस्थिताः सुरेन्द्राः परिहसनाभिमुखाः सहस्ततालम् । वसनमुरुतरं समुत्क्षिपन्तो विविधतरां गिरमेवमूचिरे ते ॥ २० ॥ तव हन्त वियोगपीडितं जनमेनं प्रविहाय किं भवान् । गमनं विदधाति गृह्यतां वसनं चेति च केचिदूचिरे ।। २१ ॥ निहितं वसनं क्व तावकं रचयामोऽस्य गवेषणं वयम् । अथवा वसनं प्रगृह्यतामिदमेवेति च केचिदूचिरे ॥ २२ ॥ व्यसनं वसनापहारजं कथमेतद्भवतः समागतम् । त्वरितं च मदीयमंशुकं परिधेहीति च केचिदूचिरे ॥ २३ ॥ देवो नारायणोऽथ ज्वलनमुपगतं मन्दमन्दं बभाषे चन्द्रालोकाभ्युपायं कथयितुमधुना बुद्धिकौशल्यशाली । आनीतः स्वं समीपं स किल शशधरो लक्षितो देववृन्दै- स्तस्माद्याहीति याते तदनु च दहने देवदेवस्तिरोऽभूत् ॥२४॥ निन्दन्तः केचिदिन्दुं कतिचन दयितां पावकस्य क्षिपन्तः स्वाहानाथस्य जाड्यं महदिति च परे निर्विशङ्कं वदन्तः । चित्रं चित्रं चरित्रं सकलसुरपतेर्माधवस्येति भक्त्या वैकुण्ठं संस्तुवन्तो निजमथ विबुधा मन्दिरं भेजिरे ते॥२५॥ स्वाहासुधाकरं नाम प्रबन्धमतिकोमलम् । अकरोदचिरेणैव नारायणमहीसुरः ॥ २६॥ इति श्रीनारायणभट्टपादकृतः स्वाहासुधाकरः समाप्तः ।

"https://sa.wikisource.org/w/index.php?title=स्वाहासुधाकरः&oldid=290832" इत्यस्माद् प्रतिप्राप्तम्