ओं नमः शिवाय स शिवाय शिवदाय नमो नमः ।

ओं नमः परमात्मने ।

ओं नमो विघ्नहर्त्रे ।

अथ हंससारं लिख्यते ॥


श्रुतं देव मया पूर्वममलं हंसयामलम् ।
पुनर्हि श्रोतुमिच्छामि सारात्सारतरं परम् ॥ १ ॥

यत्पुरा कथितं देव सूचितं न प्रकाशितम् ।
वदमे वस्तु सद्भावं प्रसादं कुरु शूल भृत् ॥ २ ॥

साधु साधु महाप्राज्ञे सर्वसत्वार्थबोधिनि ।
तदर्थं संप्रवक्ष्यामि तवस्नेहान्महेश्वरि ॥ ३ ॥

दुर्लभं सर्वदेवानां योगिनीनां तथैव च ।
यो सौ शान्तो ह्यजो देवः शक्त्याधारो ह्यविग्रहः ॥ ४ ॥

जीवभूतः सदा तिष्टेद्वामदक्षिणमध्यगः ।
प्. ६८ब्) च चैष परमोहंसः स वै देवः सनातनः ॥ ५ ॥

स ब्रह्मा स च वै रुद्र ईश्वरो विष्णुरेव च ।
सदाशिवः परंधाम तारकं ब्रह्म एव च ॥ ६ ॥

वाराणस्यां तु देवेशि स्वकं मार्गं प्रकाशितम् ।
अज्ञानं चैव तत्क्षेत्रं ज्ञानिनामव्रतः स्थितम् ॥ ७ ॥

लक्षणं तस्य वक्ष्यामि येन ज्ञास्यन्ति साधकाः ।
गुर्ववस्था गमः सो हि दृश्यते न तु लक्ष्यते ॥ ८ ॥

स परः सर्वतो ह्यात्मा चञ्चलत्वे व्यवस्थितः ।
स बाह्याभ्यन्तरस्थो हि स्पन्दते सर्वदेहिनाम् ॥ ९ ॥

नित्योदितश्च निष्टश्च अनादिर्निधनेश्वरः ।
अव्यक्तो व्यक्तरूपश्च अग्राह्यश्च चलाचलः ॥ १० ॥

भावग्राह्यस्सचिन्मात्रच्चैतन्यासुस्थितः स्थितः ।
तेजोरूपी हि भगवान्हृद्व्योम्नेवस्थितः परः ॥ ११ ॥

प्. ६९अ) बाह्यव्योम्नि स्थितो धूम्रो धूम्राग्रे प्रकृतिर्वपुः ।
शुद्ध स्फटिकसङ्काशं भिन्नं व्योम्नि तु व्योमवत् ॥ १२ ॥

मुक्तेर्लता तदाकारं चित्त्रावलिततादृशम् ।
भ्रमरेण प्रतीकाशं हकारमशिराहतम् ॥ १३ ॥

कुलनाथं परं शान्तं कुलसन्तति दृश्यते ।
सिद्धोति नूनं तत् तस्मिञ्चिव पुष्पाणि पश्यति ॥ १४ ॥

एकोनेक विभेदेन कोटिभेदेन दृश्यते ।
नानाकार विभागेन दृश्यते परमेश्वरः ॥ १५ ॥

हवितो पिङ्गलो दीप्तो निशि वेश्मनि दृश्यते ।
सद्व्योमज्योतिरूपोसौ नदते स मुहुर्मुहुः ॥ १६ ॥

स बाह्याभ्यन्तरं लक्ष्यं यो ददाति दिने दिने ।
अघंशमय ते देवि न क्वचिद्योनि सम्भवः ॥ १७ ॥

प्. ६९ब्) जन्मान्तर सहस्राणि शिवभक्ति परायणः ।
तस्य चापश्चिमंजन्म हंसो दृश्यो वरानने ॥ १८ ॥

भिद्यते हृदयग्रन्थि च्छिद्यन्ते सर्वसंशयः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परापरे ॥ १९ ॥

हंसज्ञानप्रदाता वै दुर्लभो * विदैशिकः ।
पृथिव्यां नास्ति तद् द्रव्यं यद् दत्वा चारिणी * ? वेत् ॥ २० ॥

अथातः संप्रवक्ष्यामि कालज्ञानं च?णाम्बिके ।
कालचिह्नपरिज्ञानं नाधोगतिषु योगिनाम् ॥ २१ ॥

भु?जङ्ग कुटिलाकारमग्रतः सर्वतन्तुषु ।
तं दृष्ट्वापि चिरं देवि पुनर्जन्म न विद्यते ॥ २२ ॥

लिङ्गाकारे ऋ?वेन्मोक्षं घनेन बन्धनं भवेत् ।
रक्तो यदा तनुर्विद्यात्पीते चार्थस्य सम्भवः ॥ २३ ॥

प्. ७०अ) व्यालैर्विशेषगमनं बिन्दुनादप्रसादनम् ।
सुभिक्षं च प्रचारे च दुर्भिक्षं चञ्चु बन्धने ॥ २४ ॥

मध्यच्छेदे त्रिभिर्मासैर्म्रियते नात्रसंशयः ।
त्रिदिवैर्दिवसे युक्ते म्रियते च ततो ध्रुवम् ॥ २५ ॥

पूर्वाह्णे पूर्वसंस्थं तु यथा दृष्ट्वा वरानने ।
अञ्जलिं वारिपूर्णायां भावयेत विचक्षणः ॥ २६ ॥

सामस्थो दक्षिणं गत्वा षण्मासान्मृत्युमादिशेत् ।
सोमसूयविभागेन अहोरात्रं निरीक्षयेत् ॥ २७ ॥

द्वौ मासौ सोमसूर्याभ्यां मासं सोमस्य दक्षिणे ।
पूर्वे दक्षिणमावस्यां प्रविशेद्रविमण्डले ॥ २८ ॥

सोमावस्यां दशाहेतु पञ्चाहं सूर्यगोत्तरे ।
एकः कालस्य पर्यायं कथितं तव सुन्दरि ॥ २९ ॥

प्. ७०ब्) कालस्य वञ्चनं देव कथं जानाति तत्त्वतः ।
एतद्धि संशयं ब्रूहि अत्रकौतूहलं मम ॥ ३० ॥

शृणु देवि परं गुह्यं रहस्यं भुवि दुर्लभम् ।
यन्न कस्य चिदाख्यातं तत् ते वक्ष्यामि सुव्रते ॥ ३१ ॥

चन्द्रमण्डलमध्ये तु ठकारं चिन्तयेत् प्रिये ।
ठ मध्यमे गतोहंसश्चिन्तनीयः प्रयत्नतः ॥ ३२ ॥

ब्रह्मरन्ध्रात्स्रवन्ती च परमामृतरूपिणी ।
अव्यया सर्वगा सूक्ष्मा परा चास्य पराकला ॥ ३३ ॥

हंसोदर गता सा तु स्रवन्ती चिन्तयेत् प्रिये ।
कालो न कलयेच्चात्र न जराव्याधिरेव च ॥ ३४ ॥

प्. ७१अ) कालस्य वञ्चनं देवि गोप्तव्यं वीरवन्दिते ।
गुप्तोसान्निध्यमिच्छन्ति मातरः साधकेश्वरि ॥ ३५ ॥

तस्मात् सर्वप्रयत्नेन न देयं यस्य कस्यचित् ।
दातव्यं भक्ति युक्तानां गुरुभक्तिरतात्मनाम् ॥ ३६ ॥

गुरुश्शिव गतोज्ञेयः शिवोगुरुमुखोद्गतः ।
यो गुरुः स शिवः साक्षात् पूजनीयः प्रयत्नतः ॥ ३७ ॥

शुचिर्दक्षो विनीतश्च शक्तिश्चाप्यस्य तत् प्लुता ।
तस्य ज्ञानं च मोक्षं च सिद्ध्यते परमार्थतः ॥ ३८ ॥

तस्मिन् स्थाने यदा लीनं चित्तं विगतवृत्तिकम् ।
वलीपलितनिर्मुक्तः षण्मासेन भविष्यति ॥ ३९ ॥

न कालं कलयेच्चात्र न च साव्याधिरेव च ।
हंससारं परं ब्रह्म परं व्योम परः शिवः ॥ ४० ॥

त्वच्छ्रेयोर्थमिदं ख्यातं हंससारसमुच्चयम् ।
प्. ७१ब्) अनास्तिकानां नादेयं शठानां क्रुरचेतसाम् ॥

दाम्भिकानामभक्तानां तन्त्राचाररतात्मनाम् ।
यतस्ते पशवः कीटा महामार्गबहिष्कृताः ॥ ३२ ॥

शङ्काविकल्पनिर्दग्धा महामोहान्ध्यपीडिताः ।
अनाश्वस्ता असन्तुष्टाः पशुशास्त्रेषु भाविताः ॥ ३३ ॥

न ते लभन्ते परमं महोर्मिनिकराकुलम् ।
ओघसर्वस्वमतुलं गुरुवक्त्रे समागतम् ॥ ३४ ॥

तस्मात् सर्वप्रयत्नेन दातव्यं वीरवन्दिते ।
गुरुभक्ताय शान्ताय नित्याभ्यासरताय च ॥ ३५ ॥

वीराचारनिषण्णाय द्रव्याद्वैतपराय च ।
समया सेविने नित्यं कुलकालोदिते शिवे ॥ ३६ ॥

प्. ७२अ) अदाम्भिकाय गुप्ताय गुप्ताचाररताय च ।
यतः स्वरस्मिरूपस्थाः पीठेभ्यः पीठविग्रहः ॥ ३७ ॥

नित्यं भ्रान्ति विहीनानां परोक्षाकारितांश्रिताः ।
रक्षन्तिताः कृपाविष्टाः समयाचारपालकाः ॥ ३८ ॥

सर्वभावैः प्रयत्नेन प्राणमध्ये च मातरः ।
विकासयन्ति परमं तेजो यद्वान्तसम्भृतम् ॥ ३९ ॥

ते नोदितो नोदयन्ति मेलापादि समृद्धयः ।
प्रत्यक्षरूपो वीराणां स बाह्याभ्यन्तरं स्थिताः ॥ ४० ॥

संविद्या हृदयादीनां योगिनां कौलशासने ।
रहस्यं ज्ञेयगमनं भूमिरत्रमगाह्यगा ॥ ४१ ॥

जीवन्मुक्तिरहस्यं च वीरेशानां सुखागमम् ।
कथितं सारसर्वस्वमुमयासहरं परम् ॥ ४२ ॥

प्. ७२ब्) उपेय गह्वरं प्रायः सतशोथ सहस्रशः ।
तस्मात् सर्वप्रयत्नेन न देयं यस्य कस्यचित् ॥ ४३ ॥

एकशिष्यमिदं ज्ञानमप्रख्याप्यमहात्मभिः ।
सर्वशास्त्रबहिर्भूतं हृदयं योगिनी कुले ॥ ४४ ॥

"https://sa.wikisource.org/w/index.php?title=हंससारः&oldid=210769" इत्यस्माद् प्रतिप्राप्तम्