हनुमत्पञ्चरत्नम्
शङ्कराचार्यः
१९१०

॥ श्री ॥

॥ हनुमत्पञ्चरत्नम् ॥


वीताखिलविषयेच्छं
 जातानन्दाश्रुपुलकमत्यच्छम् ।
सीतापतिदूताद्यं
 वातात्मजमद्य भावये हृद्यम् ॥ १ ॥

तरुणारुणमुखकमलं
 करुणारसपूरपूरितापाङ्गम् ।
सजीवनमाशासे
 मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २ ॥

शम्बरवैरिशरातिग-
 मम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टं
 बिम्बज्वलितोष्ठमेकमवलम्बे ॥ ३ ॥

दूरीकृतसीतार्तिः
 प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः
 पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥

वानरनिकराध्यक्षं
 दानवकुलकुमुदरविकरसदृशम् ।
दीनजनावनदीक्षं
 पवनतपः पाकपुञ्जमद्राक्षम् ॥ ५ ॥

एतत्पवनसुतस्य
 स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखिलान्भोगा-
 न्भुक्त्वा श्रीरामभक्तिभाग्भवति ॥ ६ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
हनुमत्पञ्चरत्नं सपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=हनुमत्पञ्चरत्नम्&oldid=288101" इत्यस्माद् प्रतिप्राप्तम्