हयग्रीवविद्या
[[लेखकः :|]]





हयग्रीवविद्या

नमो रत्नत्रयाय । नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय । नमः सर्वसत्त्वव्यसनघातिने । नमः सर्वसत्त्वभयप्रशमनकराय । नमः सर्वसत्त्वभयोत्तारणकराय । नमः सर्वविद्याधिगताय । नमः सर्वविद्याविधिगतमूर्तये महाकारुणिकाय । नमो महाविद्याराजप्राप्तये महायोगिने ।

तस्मै नमस्कृत्वा इदमार्यावलोकितेश्वरमुखोद्गीर्णं वज्रधरमहीयं हयग्रीवं नाम परमहृदयमावर्तयिष्यामिसर्वकर्मार्थसाधकम् । असह्यं सर्वभूतानां यक्षाणां चविनाशकम् । अमोघं सर्वकर्मणां विषाणां च नाशकम् । तद्यथा

ओं तरुल तरुल वितरुल वितरुल सर्वविषघातक ज्वलितविस्फुलिङ्गाट्टहास केसराटोपप्रवृद्धवेग वज्रखुरनिर्घातक चलितवसुधातल निःस्वसितहसितमारुतोत्क्षिप्तधरणीधर परभृतगणसमूहविक्षोभणकर परविद्यासंभक्षणकर सर्वग्राहोत्सादनकर परमशान्तिकरसर्वग्रहप्रशमनकर बुध्य बुध्य धाव धाव च भगवा हयग्रीव खाद खाद परमंत्राम् । रक्ष रक्ष क्षमस्व क्षमस्व स मयाभिहितां मन्त्राम् । सिद्धिं मे दिशदिश आविश आविश । घोरपिशाच सर्वग्रहेष्वप्रतिहतो मम वरवज्रदंष्ट्र किं चिरापयसि । इदं दुष्टग्रहं दुष्टसत्त्वं दुष्टपिशाचं वा धुन धुन विधुन विधुन कम्प कम्प मथ मथ प्रमथ प्रमथ । तथागताज्ञां पालय बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्रं (ह्ग्व्४४) कुरु कुरु मा विलम्ब । हयग्रीवाय फट्वज्रखुराय फट्वज्रदंष्ट्राय फट्वज्रदंष्ट्रोत्कटभयभैरवाय फट् । परविद्यासंभक्षणाय फट् । परमन्त्रविनाशकाय फट् । सर्वग्रहोत्सादकाय फट् । सर्वविषघातकाय फट् । सर्वग्रहेष्वप्रतिहताय फट् । वडवामुखाय फट् । सर्वग्रहपिशाचान्मे वशमानय । यावन्तो ममये केचितहितैषिणस्तान् सर्वान् वडवामुखेन निकृन्तय फट् । नमो नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय । सिध्यन्तु मम मंत्रपदा हयग्रीवो भगवानाज्ञापयति स्वाहा ।

अयं हयग्रीवविद्या राजा पठितसिद्धः उपचारः आत्मरक्षाजापेन पररक्षा पंचरंगीसूत्रमेकविंशतिग्रन्थयः कृत्वा बन्धितव्यम् । यावजीवं रक्षा कृता भवति । डाइनीग्रहगृहीतस्य प्रतिकृतिं कृत्वा पिण्डशस्त्रेण छेत्तव्या । सर्वपरकृता मंत्राश्छिन्ना भवन्ति सर्वशत्रवस्तम्भनं मनसा व्यवहारे स्वखं मुखे कृत्वा विद्या जप्तया उत्तरायति । स्पृष्टावेशनेषुस्नातं शुचिवस्त्रप्रावृतं शुचौ प्रदेशे सुमनसासंबद्धा आवेशये शुक्लवलिर्यथालंभेन । चन्द्रग्रहे सूर्यग्रहे घृतं ताम्रभाजने कृत्वा तावज्जेपद्यावच्चन्द्रो मुक्तो भवति तं घृतं पिवे मेधावी भवति एकेनोद्देशेन श्लोकशतमुद्गृण्हाति । पद्मां जुहे घृतमक्षयं भवति । अथ साधितुमिच्छेत् । चन्दनमयं लोकेश्वरप्रतिमा कर्तव्या । दक्षिणेनार्यवज्रधरः । वामेनार्यावलोकितेश्वरः (ह्ग्व्४५) त्रिमूर्तिः कार्यः । सर्वोपरि वडवामुखः परविद्यासंभक्षणः । तस्याग्रतः अयं हयग्रीवविद्याराजमष्टसहस्रं जपेत् । ततः सर्वकर्माणि कुर्यात् । स्पृष्टावेशनं गुग्गुलधूपेन । सततजापेन सर्वकार्यसिद्धिर्भवति । सर्वडाइनी दृष्टमात्रा वशीभवति । भस्मना सर्षपेण उदकेन सप्त जप्तेन रक्षा कर्तव्या । सीमाबन्धः कृतो भवति । सर्वमुद्रामोक्षणमुदकेन वशीकरणं फलपुष्पाद्यैः । अयं पठितसिद्धः । असाधित एव सर्वकर्माणि कुरुते ॥ ० ॥

"https://sa.wikisource.org/w/index.php?title=हयग्रीवविद्या&oldid=368678" इत्यस्माद् प्रतिप्राप्तम्