॥ हयग्रीवोपनिषत् ॥

स्वज्ञोऽपि यत्प्रसादेन ज्ञानं तत्फलमाप्नुयात् ।
सोऽयं हयास्यो भगवान्हृदि मे भातु सर्वदा ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥ नारदो ब्रह्माणमुपसमेत्योवाचाधीहि भगवन्
ब्रह्मविद्यां वरिष्ठां यया चिरात्सर्वपापं व्यपोह्य
ब्रह्मविद्यां लब्ध्वैश्वर्यवान्भवति ।
ब्रह्मोवाच
हयग्रीवदैवत्यान्मन्त्रान्यो वेद स श्रुतिस्मृतीतिहासपुराणानि वेद ।
स सर्वैश्वर्यवान्भवति ।
त एते मन्त्राः ।
विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे ।
तुभ्यं नमो हयग्रीव विद्याराजाय स्वाहा स्वाहा नमः ॥ १ ॥

ऋग्यजुःसामरूपाय वेदाहरणकर्मणे ।
प्रणवोद्गीथवपुषे महाश्वशिरसे नमः स्वाहा स्वाहा नमः ॥ २ ॥

उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर ।
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय स्वाहा स्वाहा नमः ॥ ३ ॥

ब्रह्मात्रिरविसवितृभार्गवा ऋषयः ।
गायत्रीत्रिष्टुबनुष्टुप् छन्दांसि ।
श्रीमान् हयग्रीवः परमात्मा देवतेति ।
ल्हौमिति बीजम् ।
सोऽहमिति शक्तिः ।
ल्हूमिति कीलकम् ।
भोगमोक्षयोर्विनियोगः ।
अकारोकारमकारैरङ्गन्यासः ।
ध्यानम् ।
शङ्खचक्रमहामुद्रापुस्तकाढ्यं चतुर्भुजम् ।
संपूर्णचन्द्रसंकाशं हयग्रीवमुपास्महे ॥

ॐ श्रीमिति द्वे अक्षरे ।
ल्हौमित्येकाक्षरम् ।
ॐ नमो भगवत इति सप्ताक्षराणि ।
हयग्रीवायेति पञ्चाक्षराणि ।
विष्णव इति त्र्यक्षराणि ।
मह्यं मेधां प्रज्ञामिति
षडक्षराणि, प्रयच्छ स्वाहेति पञ्चाक्षराणि ।
हयग्रीवस्य तुरीयो भवति ॥ ४ ॥

ॐ श्रीमिति द्वे अक्षरे ।
ल्हौमित्येकाक्षरम् ।
ऐमैमैमिति त्रीण्यक्षराणि ।
क्लीं क्लीमिति द्वे अक्षरे ।
सौः सौरिति द्वे अक्षरे ।
ह्रीमित्येकाक्षरम् ।
ॐ नमो भगवत इति सप्ताक्षराणि ।
मह्यं मेधां प्रज्ञामिति षडक्षराणि ।
प्रयच्छ स्वाहेति पञ्चाक्षराणि ।
पञ्चमो मनुर्भवति ॥ ५ ॥

हयग्रीवैकाक्षरेण ब्रह्मविद्यां प्रवक्ष्यामि ।
ब्रह्मा महेश्वराय महेश्वरः संकर्षणाय संकर्षणो नारदाय
नारदो व्यासाय व्यासो लोकेभ्यः प्रायच्छदिति
हकारोंसकारोमकारों त्रयमेकस्वरूपं भवति ।
ल्हौ बीजाक्षरं भवति ।
बीजाक्षरेण ल्हौं रूपेण तज्जापकानां संपत्सारस्वतौ भवतः ।
तत्स्वरूपज्ञानां वैदेही मुक्तिश्च भवति ।
दिक्पालानां राज्ञां नागानां किन्नराणामधिपतिर्भवति ।
हयग्रीवैकाक्षरजपशीलाज्ञया सूर्यादयः स्वतः स्वस्वकर्मणि प्रवर्तन्ते ।
सर्वेषां बीजानां हयग्रीवैकाक्षरबीजमनुत्तमं मन्त्रराजात्मकं
भवति ।
ल्हौं हयग्रीवस्वरूपो भवति ।
अमृतं कुरुकुरु स्वाहा ।
तज्जापकानां वाक्सिद्धिः श्रीसिद्धिरष्टाङ्गयोगसिद्धिश्च भवति ।
अगम्यागमनात्पूतो भवति ।
पतितसंभाषणात्पूतो भवति ।
ब्रह्महत्यादिपातकैर्मुक्तो भवति ।
गृहं गृहपतिरिव देही देहान्ते परमात्मानं प्रविशति ।
प्रज्ञानमानन्दं ब्रह्म
तत्त्वमसि अयमात्मा ब्रह्म अहं ब्रह्मास्मीति महावाक्यैः
प्रतिपादितमर्थं त एते मन्त्राः प्रतिपादयन्ति ।
स्वरव्यञ्जनभेदेन द्विधा एते ।
अथानुमन्त्राञ्जपति ।
यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥ १ ॥

गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ २ ॥

ओष्ठापिधाना नकुली दन्तैः परिवृता पविः ।
सर्वस्यै वाच ईशाना चारु मामिह वादयेति च वाग्रसः ॥ ३ ॥

ससर्परीरमतिं बाधमान बृहन्मिमाय जमदग्निदत्त ।
आसूर्यस्य दुरिता तनान श्रवो देवेष्वमृतमजुर्यम् ॥ ४ ॥

य इमां ब्रह्मविद्यामेकादश्यां पठेद्धयग्रीवप्रभावेन महापुरुषो भवति ।
स जीवन्मुक्तो भवति ।
ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः
श्रुतं माच्योढ्वं ममामुष्य ओमित्युपनिषत् ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
अथ हयग्रीवोपनिषत्समाप्ता ॥
"https://sa.wikisource.org/w/index.php?title=हयग्रीवोपनिषत्&oldid=100779" इत्यस्माद् प्रतिप्राप्तम्