हयशीर्षपञ्चरात्रम्
प्. १)
हयशीर्षपञ्चरात्रम्
आदिकाण्डम्
प्रथमः पटलः
(शास्त्रावतारः)
ओं नमो विघ्नेश्वराय [ओं नमो गणेशाय ख्, ग्] ।
मार्कण्डेय उवाच -
कथं हयशिरा विष्णुः प्रादुर्भूतः पुरा विभुः ।
किं निमित्तञ्च देवेशो दधार रुचिरं वपुः ॥ १ ॥
हयशीर्षं जगत्स्वामी पुरा नारायणः प्रभुः ।
श्रुतमासीच्च भवता यदुक्तं परमेष्ठिना ॥ २ ॥
आद्य यत् पञ्चरात्राणां तन्ममाचक्ष्व पृच्छतः [पृच्छतः क्, पूर्वतः
ख्, ग्] ।
भृगुरुवाच -
शृणु वत्स ! प्रवक्ष्यामि पञ्चरात्रं पुरातनम् ॥ ३ ॥
सप्तिशीर्षं नमस्कृत्य यस्माद् भक्तोऽसि केशवे ।
तस्मादर्हसि तच्छ्रातुं पञ्चरात्रं पुरातनम् ॥ ४ ॥ [सप्तीत्यतः
पुरातनमित्यन्तं पादचतुष्टयं ख्, ग्, पुस्तकयोर्नास्ति ।]
श्रीश्रीहयशीर्षाय नमः ।
१।२। हयशीर्षमिति - जगत्स्वामी नारायणः प्रभुः किं निमित्तं हयशीर्षं
वपुर्दधरिति पूर्वश्लोकेन श्रुतमासीदिति परमेष्ठिनोक्तमित्यनेन चान्वयः ।
४ । प्रकृतशास्त्रश्रवणोपयोगितामाह सप्तिशीर्षमित्यादिना । सप्तिशीर्षं
हयशीर्षम्
प्. २)
पुरा किल विरूपाक्षः सार्द्धं गौर्या महेश्वरः ।
चतुर्मुखञ्च [च क्, स क्, ग्] पप्रच्छ वैराजभवने स्थितम् [स्थितं क्, ग्, स्थितः
ख्] ॥ ५ ॥
महेश्वर उवाच -
पञ्चरात्रं पुरा पृष्टस्त्वया हयशिरा विभुः ।
मधुकैटभयोर्हन्ता सैकार्णवञ्जले विभुः ॥ ६ ॥
समर्पितेषु देवेषु [समर्पितेषु वेदेषु ख्, ग्, क् पुस्तके मनं इति ।] चतुर्ष्वेव
महामते ।
तत् सर्वं मे समाचक्ष्व विस्तराच्चतुरानन ॥ ७ ॥
ब्रह्मोवाच -
एकार्णवे दुरालोके नष्टे स्थावरजङ्गमे ।
नष्टचन्द्रार्कपवने विनष्टग्रहतारके ॥ ८ ॥
५ । स्थितमितिपाठे चतुर्मुखविशेषणम् । स्थित इतिपाठे महेश्वरविशेषणं तत्र
आगत्य स्थित इत्यर्थः ।
६ । सैकार्णवजल इति - गम्यमानस्य भूतल इत्यस्य विशेषणम् ।
७ । समर्पितेष्विति - वेदेषु समर्पितेषु त्वत्तो वेदानपहृत्य रसातलं प्रविष्टाभ्यां
मधुकैटभाभ्यां तानादाय भगवता हयशिरसा तुभ्यं प्रत्यर्पितेष्वित्यर्थः
।
८ । अत्र ब्रह्मोवाचेत्यनन्तरं -
द्विधा चकार वै तूर्णं मण्डलन्तु हिरण्मयम् इति ख् ग् पुस्तकयोरधिकः पाठो
दृश्यते परमत्र प्रकृतप्रलयवर्णनप्रसङ्गे हिरण्याण्डस्यानवसरत्वात् ततो
नारायणो देवस्तेजसा तेन वै सृजत् । हिरण्यमण्डं भगवान् इत्यादिवक्ष्यमाण-
चतुर्दशश्लोकांशेन ततः स्वयम्भुर्भगवानिति प्रक्रम्याभिहितेन
तदण्डमभवद्धैम मित्यादिमनुवचनेन च सृष्टिप्राक्क्षण एव
हिरण्मयाण्डोत्पत्तिवर्णनात् द्विधा चाकरवं तूर्णं मण्डलन्तु हिरण्मयम् । इति
वक्ष्यमाणग्रन्थेन
प्. ३)
शेषपर्यङ्कमासाद्य सुप्ते देवे जनार्दने ।
शृणु वै [वै क्, मे ख्, ग्] यत्तदा वृत्तमेकार्णवज्जले पुरा ॥ ९ ॥
शेते योऽर्णवमध्यस्थो नागशय्यागतः प्रभुः ।
नारायणः स भगवानादिदेवः पुरातनः ॥ १० ॥
संहृत्य सर्वलोकान् वै योगनिद्रावशं गतः ।
तस्य सुप्तस्य देहे तु तेजो दिव्यं महद् विभोः ॥ ११ ॥
पद्मरूपेण नाभौ तु प्रभूत [तु प्रभूतं क्, तत्प्रसूतं ख्, ग्]
निर्जगाम ह ।
प्रदीप-इव तत् पद्मं प्रदीप्तं विष्णुतेजसा ॥ १२ ॥
सहस्रादित्यसङ्काशं सहस्रदलकेशरम् ।
ततो नारायणो देवस्तेजसा तेन वै सृजत् ॥ १३ ॥
हिरण्यमण्डं भगवान् गर्भस्तस्मिन्नहं पुनः ।
द्विधा चाकरवं [चाकरवं क्, चकार वै ख्, ग्] तूर्णमण्डं तत्तु [अण्डं
तत्तु क्, असुप्तं तु ख्, ग्] हिरण्मयम् ॥ १४ ॥
तत्र चेदं महद्रूपं [रूपं क् कूपं ख्, ग्] हिरण्मयमिदं मम ।
चतुर्वाहुं चतुर्वक्त्रं जटामुकुटमण्डितम् ॥ १५ ॥
पीनरक्त्यापत्तेः , क् संज्ञिते प्राचीनतमपुस्तकेऽपरिगृहीतत्वाच्च नायमंशो
मूले निवेशितः ।
१३ । सृजदित्यडागमाभाव आर्षः ।
१४ । गर्भ इति - तस्मिन् अण्डे गर्भभूतोऽहं तदण्डं द्विधाकरवमित्यन्वयः
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो
ध्यानात्तदण्डमकरोद्विधेति मनुवचनसंवादात् । चकारेति पाठेऽप्यहमिति
योज्यम् ।
प्. ४)
एवम्भूतदपुः सोऽहं तस्मिन् पद्मे व्यवस्थितः ।
आवर्तयस्तदा [आवर्त्तयं क्, अवर्त्त(र्ण) यं ख्, ग्] वेदान् [वेदान् ख्, ग्, वेदं
क्] साङ्गोपाङ्गपदक्रमान् ॥ १६ ॥
उपासाञ्चक्रिरे मह्यं वेदा देहभृतस्तदा [देहभृतः क्, दरभृतः ख्, ग्] ।
वेदाभ्यासरतेस्तत्र स्वेदविन्दुरजायत ॥ १७ ॥
स पद्मपत्रमासाद्य द्विधाभूतोऽपतत्तदा ।
रजस्तमोमयौ तस्माज्जातौ दैत्यौ बलोत्कटौ ॥ १८ ॥
मधुकैटभनामानौ महाबलपराक्रमौ ।
ततस्तौ मम वेदान् वै जह्नतुः पापनिश्चयौ ॥ १९ ॥
सशरीरेषु वेदेषु हृतेष्वथ महेश्वर [महेश्वर ग्, महेश्वरः क्, ख्] ।
बोधितोऽसौ मया देवः पद्मनाभस्य चाननात् ॥ २० ॥
१५ । चतुर्वाहुमिति न्वागम आर्षः ।
१९ । पापनिश्चयाविति साभिप्रायं विशेषणं यागादिप्रतिपादकानां वेदानां
विध्वंसनबुद्ध्या नतु तेषु बहुमानेनेत्यर्थः ।
२० । सशरीरेष्विति साङ्गेषु शिक्षाकल्पाद्व्यङ्गसहितेष्वित्यर्थः । महेश्वर इति
निर्विसर्गपाठे शिवसम्बोधनम् । सविसर्गपाठे तु देव इत्यस्य विशेषणं तत्र
महेश्वरशब्दो न शिववाची ।
पद्मनाभस्येति - पद्मनाभस्य आननात् असौ देवो भगवान् विष्णुर्मया बोधितः
स्त्रोत्रादिभिराविर्भावितः । एतेन स विबुद्धस्तदा देवः कृत्वा हयशिरोधनम् इत्यनेन
च गर्भोदशय-बालमुकुन्दमुखाविर्भूतं हयशीर्षात्मकं द्वितीयं
रूपमित्यवगन्तव्यम् अन्यथा द्वितीयेन शरीरेण रसातलतलं गतः इति
वक्ष्यमाणग्रन्थो नोपपद्यते । अथ यदि द्वितीयेन शरीरेणेत्यनेन गर्भोदशय एव
भगवान् स्वं रूपं
प्. ५)
स विबुद्धस्तदा देवः कृत्वा हयशिरोधरम् ।
शशाङ्कशतसङ्काशं नानाभरण-भूषितम् ॥ २१ ॥
चतुर्भुजं गदा-चक्र-पद्म-शार्ङ्गधरं [पद्मशार्ङ्गधरं क्,
शङ्खपद्मधरम् ख्, ग्] शुभम् ।
द्वितीयेन शरीरेण रसातलतलं गतः ॥ २२ ॥
तेनाश्वशिरसा गत्वा वेदानादाय शाश्वतान् ।
पौष्णवं [पौष्णवं ख्, ग्, पौक्षवं क्] भवनं दिव्यं
महर्षिगणसेवितम् [सेवितं क्, भूषितं ख्, ग्] ॥ २३ ॥
सोऽप्यसौ प्रददौ वेदान् भूय एव जगद्गुरुः ।
तस्मिन् काले मया पृष्टो देवो यत्तत् शृणुष्व मे ॥ २४ ॥
कियन्ति पञ्चरात्राणि त्वया प्रोक्तानि वै पुरा ।
कथं ते स्थापनं देव क्रियते मुक्तिकाङ्क्षिभिः [भुक्ति क्, ख्, मुक्ति (क्
पादटिप्पन्यां) भक्ति ग्] ॥ २५ ॥
परिहाय हयशीर्षात्मकं द्वितीयं रूपं दधरित्युच्यते पद्मनाभस्येति
भेदबोधिका षष्ठी आननादित्यपादानबोधिका पञ्चमी च नोपपद्येति । तस्मात्
सत्रे ममास भगवान् हयशीरषाथो साक्षात् स यज्ञपुरुषस्तपनीयवर्णः ।
छन्दोमयो मखमय इत्यादिश्रीमद्भागवत-द्वितीयस्कन्धीय-
सप्तदशाध्यायैकादशश्लोकेन तथा विष्णुः शिवाय जगतां
कलयावतीर्णस्तेनाहृता मधुभिदा श्रुतयो हयास्ये । इत्येकादशस्कन्धीय-
चतुर्थाध्याय-सप्तदशश्लोकेन चांशावताररूपतया प्रतिपादनादपर एव
गर्भोदशयादयं हयशीर्षो नामेति प्रतिज्ञातमुपपद्यत इति सर्वमवदातम् । अत्र
विष्णुकर्णमलोद्भूतावित्यादि-मार्कण्डेयपुराणीय-
देवीमाहात्म्यवचनविरोधस्तु कल्पभेदेन समाधेयः ।
प्. ६)
आचार्यमूर्तिपानाञ्च कीदृशं लक्षणं विभो । [आचार्येत्यादि विभो
इत्यन्तं पादद्वयं ख्, ग् पुस्तकयोर्नास्ति ।]
वास्तुयागविधानञ्च अर्घ्यदानविधिन्तथा ॥ २६ ॥
शिलान्यासविधानञ्च क्षेत्रादिसाधनन्तथा ।
प्रासादलक्षणञ्चैव [सर्वं क्, चैव ख्, ग्] प्रतिमालक्षणन्तथा ॥ २७ ॥
प्रतिष्ठापञ्चकं सर्वं ध्वजारोहविधिन्तथा [विधिं ख्, ग् विधिः (?) क्] ।
यदप्यन्यद् भवेत् पृष्टप्रतिष्ठाङ्गं [पृष्टं क् लक्ष्म् ख्, ग्] सुरेश्वर ॥ २८ ॥
अज्ञानाद् वा [वा क्, च ख्, ग्] प्रमादाद् वा [वा क्, च ख्, ग्] यन्मया
नानुकीर्तितम् ।
तत् सर्वमखिलं देव ! प्रसादाद् वक्तुमर्हसि ॥ २९ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (शास्त्रावतारो नाम)
प्रथमः पटलः [प्रथमः पटलः ख्, ग् प्रथमपटलम् क्] ॥ १ ॥
आदितः श्लोकसंख्या - २९
२६ । अर्घ्यदानविदिमित्यादीनां द्वितीयान्तानां वक्तुमर्हसीत्यनेनान्वयः ।
२९ । तत्सर्वमखिलमिति - सर्वमिति कर्मपदम् अखिलमिति क्रियाविशेषणं
सामग्र्येणेत्यर्थः अतो न पौनरुक्त्यम् ।
प्. ७)
द्वितीयः पटलः
(पञ्चरात्रस्वरूपनिरूपणम्)
श्रीबगवानुवाचं -
यत्त्वया पृष्टमखिलं तत् सर्वं कथयामि ते ।
प्रोक्तानि पञ्चरात्राणि कल्पे कल्पे पुरा मया ॥ १ ॥
व्यस्तानि मुनिभिर्लोके पञ्चविंशतिसंख्यया ।
आद्यं समस्ततन्त्राणां हयशीर्षं प्रकीर्त्तितम् ॥ २ ॥
त्रैलोक्यमोहनं तन्त्रं वैभवं पौष्करन्तथा ।
नारदीयं तथा तन्त्रं प्राह्रादं [प्राह्रादं क्, ग्, प्राह्लादं ख्]
गार्ग्यगालवम् ॥ ३ ॥
श्रीप्रश्नं शाण्डिलं तन्त्रं तन्त्रमीश्वरसंहिता ।
सत्योक्तमुत्तमं [सत्योक्तमुत्तमं क्, सत्योक्तयुक्तमत् (?) ख्, ग्] तन्त्रं
वाशिष्ठं शौनकं तथा ॥ ४ ॥
नारायणीयमन्यच्च तन्त्रं ज्ञानार्णवं तथा [ज्ञानार्णवं तथा क्,
ज्ञानस्य कारणम् ख्, ग्] ।
स्वायम्भुवं कापिलञ्च विहगेन्द्रं तहापरम् ॥ ५ ॥
आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणम् ।
बौधायनं तथा तन्त्रं तन्त्रं वैश्वावतारितम् [वैश्वावतारितम् क्,
विश्वाभिभाषितम् ख्, ग्] ॥ ६ ॥
१ । प्रोक्तानीति एतेन पञ्चरात्राणां प्रवाहरूपतयानादित्वाभिधानादमीषां
सादित्ववादिनो निरस्ताः ।
२ । आद्यमिति - आदौ भवमित्यर्थः सृष्टेः प्राक् प्रथममेव भगवताभिहितत्वात्
प्. ८)
अष्टाक्षरविधानन्तु महातन्त्रं तदुच्यते ।
समासैर्विस्तरैरेते भूतलं व्याप्य संस्थिताः ॥ ७ ॥
तन्त्रं भागवतत्त्रैव शिवोक्तं विष्णुभाषितम् ।
पद्मोद्भवं पुराणञ्च वाराहञ्च तथापरम् ॥ ८ ॥
इमे भागवतानान्तु [तु क्, ग्, च ख्] तथा सामान्यसंहिता ।
व्यासोक्ता संहिता चान्या [अन्या क्, एव ख्, ग्] तथा परमसंहिता ॥ ९ ॥
यदन्यन्मुनिभिर्गीतमेतेष्वेवाश्रितं हि तत् ।
प्रतिष्ठाद्येकदेशञ्च तत् सर्वं विष्णुभाषितम् ॥ १० ॥
कर्त्तुमिच्छति यः [यः क् यत् (?) ख्, ग्] पुण्यं मम मूर्तिप्रतिष्ठया ।
अन्वेषणीयस्त्वाचार्यस्तेन लक्षणसंयुतः ॥ ११ ॥
संशुद्धब्रह्मयोनिस्तु प्रलयोत्पत्तिसंस्थितिम् [संस्थितिं क् संस्थितः ख्, ग्] ।
यो वेत्ति कुलजो धीमानाचार्यत्वन्तु [तु क् च ख्, ग्] सोऽर्हति ॥ १२ ॥
ब्राह्मणः सर्ववर्णानां पञ्चरात्रविशारदः ।
क्रोधलोभविनिर्मुक्तो दोषमात्सर्यवर्जितः ॥ १३ ॥
१० । यदन्यदिति - एतेन प्रागुक्तानि पञ्चविंशतिसंख्यकानि मुख्यतया
पञ्चरात्नशब्दप्रतिपाद्यानि अन्यानि तु भगवदुपासनपराणि तन्त्रपुराणादीनि
पञ्चरात्रशास्त्रेष्वेवान्तर्भूतानीत्यवधेयम् । ततश्च भगवदुपासनपरं यत्
शास्त्रं तदेव पञ्चरात्रमिति प्रतिभाति ।
११ । कर्त्तुमिति - पाञ्चरात्रस्वरूपं निरूप्य प्रतिष्ठानुगुणाचार्यलक्षणमाह
कर्त्तुमिच्छतीत्यादिना ।
प्. ९)
क्षयापस्माररहितः कुष्ठरोगविवर्जितः ।
अन्यूनानतिरिक्ताङ्गो युवा लक्षणलक्षितः ॥ १४ ॥
अनन्यदेवताभक्तः शूद्रान्नपरिवर्जितः ।
ब्राह्मणानामलाभे [अलाभे क्, अभावे ख्, ग्] तु क्षत्रियो वैश्यशूद्रयोः ॥ १५
॥
क्षत्रियाणामलाभे तु वैश्यः शूद्रस्य कल्पितः ।
कदाचिदपि शूद्रस्तु न चाचार्यत्वमर्हति ॥ १६ ॥
गृहस्थं ब्रह्मचर्यस्थं ककाराष्टकवर्जितम् ।
गुरुं कुर्वीत सततमुपवासव्रते रतम् ॥ १७ ॥
१३ । ब्राह्मण इति - त्रैवर्णिकानां यथायोगमाचार्यत्वं शूद्राणां
तदनर्हत्वञ्चाह । तत्र गुणान् ब्राह्मणस्तदादिवर्णचतुष्टयानां
ब्राह्मणालाभे क्षत्रियो वैश्य-शूद्रयोः क्षत्रियालाभे वैश्यः
शूद्रस्याचार्यत्वेऽधिकारी परं शूद्रस्य न क्वापि तत्राधिकार इति
वक्तुमुपक्रमते ब्राह्मण इत्यादिना अर्हतीत्यन्तेन । वक्ष्यमाणगुणसम्पन्नः
पञ्चरात्रविशारदो ब्राह्मणः सर्ववर्णानामाचार्य इत्यर्थः ।
१५ । अनन्येति । अनन्यदेवताभक्तः प्रतिष्ठाप्यदेवतोपासनानिरतः तन्त्रसारे
वैष्णवे वैष्णवो ग्राह्यः शैवे शैवश्च शक्तिके । इत्यादिना
तत्तद्देवोपासकानामेव तत्र तत्राचार्यत्वप्रशस्तेः । न तु देवान्तरद्वेषी तस्य
द्विजातिगुरुदेवानां निन्दकः इत्यादि - तृतीयपटलवचनेन गुरुत्वे निषेधात् ।
१७ । गृहस्थमित्यादि - ब्रह्मचर्यस्थं गृहस्थमित्यर्थः । गृहिणो ब्रह्मचर्यन्तु
तासामाद्याश्चतस्रस्तु निन्दितैकादशी तथेत्यादिमनुवचनप्रतिषिद्ध-
तत्तद्रात्रिवर्जनपुरःसरम् ऋतौ भार्यामुपेयात् ऋतुकालाभिगामी
स्यादित्यादिवचनपरिप्राप्तर्त्तुकालाभिगमनमित्यवधेयं निन्द्यास्वष्टासु
चान्यासु स्त्रियो रात्रिषु वर्जयन् । ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् । इति
मनुवचनसंवादात् । न च गृहस्थं ब्रह्मचर्यस्थञ्चेति
वैयधिकरण्याभिप्रायकमिदमिति वाच्यं सर्वशास्त्रार्थवेत्ता च
प्. १०)
ऋजुस्वभावं मधुरस्मितपूर्वाभिभाषिणम् [मधुर-ख्, ग्, मधुरं क् ;
भाषिणं क्, भाषितं ख्, ग्] ।
एवंविधेन गुरुणा स्थापिते पुरुषोत्तमे ॥ १८ ॥
तद्देशाधिपतिर्यष्टा शिल्पिनः स्थापकादयः ।
प्रतिनन्दन्ति मुचिरं [सुचिरं ख्, ग्, स्थविरं (?) क्] सर्वे ते नात्र संशयः ॥ १९
॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे
(पञ्चरात्रस्वरूपनिरूपणं नाम्)
द्वितीयः पटलः ॥ २ ॥
आदितः श्लोकसंख्या - ४८
गृहस्थो देशिको भवेत् । दैवे पित्रे च मिश्रे च गृहस्थो देशिको
भवेदित्यागमतत्त्वविलासधृतकुलार्णव-यामलवचनाभ्यां
गृहस्थानामेवाचार्यत्वेऽधिकारश्रवणात् शैवः सौरो
नैष्ठिकश्चेत्यादिवक्ष्यमाण-तृतीयपटलवचनेन स्वयमेव
नैष्ठिकानामत्रानधिकारप्रतिपादनाच्चेति ध्येयम् ।
१८ । भाषिणमिति ताच्छील्ये णिनिः स्मितपूर्वाभिभाषणस्वभावमित्यर्थः ।
भाषितमिति पाठे तु सोऽर्थो न घटते ।
प्. ११)
तृतीयः पटलः
(वर्जनीयाचार्यलक्षणम्)
श्रीभगवानुवाच -
स्थापकान् संप्रवक्ष्यामि विपरीतगुणैर्युतान् [विपरीत क्, विपरीतैः ख्, ग्] ।
तन्त्रेऽस्मिन् वर्जिता ये च प्रतिष्ठां तैर्न कारयेत् ॥ १ ॥
शैवः सौरो नैष्ठिकश्च नग्नः सङ्करजोऽशुचिः ।
वृद्धः कुत्सितमूर्तिर्यो महापातकचिह्नितः ॥ २ ॥
कुष्ठी च कुनखी श्वित्री श्यावदन्तः क्षयी तथा ।
कच्छदेशसमुत्पन्नः कावेरीकोङ्कनोङ्गतः ॥ ३ ॥
कामरूपकलिङ्गोत्थः काञ्ची-काश्मीर-कोशलः ।
कुवृत्तिश्च कुसङ्गश्च महाराष्ट्रसमुद्भवः ॥ ४ ॥
कुबुद्धिश्चाथ [कुबुद्धिः क्, कुवृत्तिः ख्, ग्] लम्बोष्ठी निष्ठीवी [निष्ठीवी-क्,
निष्ठीव-ख्, ग्] घर्घरस्वरः ।
अर्बुदी गारुडी व्यङ्गो [व्यङ्गो क्, व्यङ्गी ख्, ग्] गर्वितो बधिरस्तथा ॥ ५ ॥
१ । वर्जनीयाचार्यलक्षणमाह - स्थापकानिति । स्थापको गुरुराचार्यो देशिक
इत्यादयोऽभिन्नार्थाः । विपरीतगुणैरिति - प्रागुक्तसंशुद्धब्रह्मयोनित्व-
प्रलयोत्पत्तिसंस्थितिवेदित्वादिप्रशस्तुगुणविलक्षणैर्निन्दितगुणैरित्यर्थः ।
२ । वर्जनीयानाह शैव इत्यत आपटलान्तम् ।
५ । अत्र कुवृत्तिरिति ख् ग् पुस्तकधृतः पाठो न मूले निवेशितः कुवृत्तिरिति
पूर्वश्लोकोक्तेन पौनरुक्त्यापत्तेः । निष्ठीवधर्धरस्वर इति ख् ग् पुस्तकधृतः
पाठो नादृतः
प्. १२)
तन्त्रविद्वेषकश्चैव परद्रोहरतस्तथा ।
कुण्डः काकस्वरः क्लीवः कातरः क्रोधनस्तथा ॥ ६ ॥
पुनर्भूश्च स्वयम्भूश्च गोलको नास्तिकस्तथा ।
जडोऽतिगौरः खल्वाटो [खल्वाटः ख्, खल्वीटः क्, खन्दीचः ग्
(पादटिप्पण्यां) खल्लाटः] हीनाङ्गः स्थूल एव वा [वा ख्, ग्, च क्] ॥ ७ ॥
अतिकृष्णोऽघृणः पापी कृशो ह्रस्वोऽलसस्तथा ।
व्यापन्नोऽसंस्कृतश्चैव उद्विग्नो दीनएव वा [वा ख्, ग्, च क्] ॥ ८ ॥
व्रतोपवासहीनश्च वृषलीपतिरेव च । [व्रतेत्यत एव चेत्यन्तं पादद्वयं क्,
पुस्तके नास्ति ।]
पण्यरङ्गोपजीवी च पण्यस्त्रीपारदारिकः ॥ ९ ॥
निष्ठीवो मुखेन श्लेष्मनिरसनमेव तेन घर्घरस्वरायोगात् । परिगृहीतपाठे तु
निष्ठीवी मुखेनानवरतश्लेष्मनिरसनकारी घर्घरस्वरः
श्लेष्मप्रकोपादिनिबन्धन उष्ट्रादिवत्कठोरस्वर-इत्यर्थः शोभनः स्यात् ।
६ । तन्त्रविद्वेषकः शास्त्रविद्वेषो तस्य शास्त्रप्रतिपाद्ये भगवति प्रतिष्ठादौ च
प्रणयासम्भवात् । कुण्डः जीवत्पतिकायां परस्त्रियामुत्पन्नः ।
७ । गोलक इति - गोलकः मृतपतिकायां परस्त्रियामुत्पन्नः । खल्वाटः इन्द्रलुप्तिकः
स्वभावलुप्तलोमशिरस्क इत्यर्थः । यथा नीतिशतके भर्तृहरिः -
खल्वाटो दिवसेश्वरस्य किरणैः सन्तापिते मस्तके ।
गच्छन्देशमनातपं द्रुतगतिस्तालस्य मूलं गतः । इति
प्. १३)
आचार्यपुत्रकादीनां विद्वेष्टा परसेवकः ।
भोजकः सेवकश्चैव व्यसनी पिशुनो [पिशुनः ख्, ग् पिशुनी क्] गदी ॥ १० ॥
अतिरोगी भिषक् चैव साहसी समयच्युतः ।
द्विजातिगुरुदेवानां निन्दकः स्थापकस्तथा ॥ ११ ॥
पिङ्गाक्षो मधुवर्णाक्षो [मधुवर्णाक्षः क्, धूमवर्णाक्षः ख्, ग्]
विडालाक्षस्तथैव च ।
मत्सरी गण्डमाली च वकवृत्तिरतस्तथा ॥ १२ ॥
उपायदेशहीनश्च कक्खटः [३कक्खलः क्, कलढः ख्, कक्ख (ट) लः ग्]
कुत्सितव्रतः ।
निर्द्दयश्चैव निःसत्वो नैपुण्यपरिवर्जितः ॥ १३ ॥
प्रतिष्ठातन्त्ररीतिज्ञोऽवेदवेदाङ्गपारगः [रीतिज्ञः क्, किञ्चिज्ज्ञः ख्, ग् ;
अवेद क्, वेद ख्, ग्] ।
वर्जयेत्तु [वर्जयेत्तु ख्, ग् वर्जयीत क्] प्रयत्नेन सर्वज्ञमपि नास्तिकम् ॥ १४ ॥
१० । आचार्येति - आचार्य पुत्रकादीनां विद्वेष्टा अथ च परसेवकः । य
आचार्यपुत्रकादिषु विद्वेषं प्रकाशयति अथ च तदितरेषु येषु केषुचिद्
भृत्यवदानुकूल्यं विधत्ते इत्यर्थः । सेवकः अनुजीवी सेवकार्यनुजीविन इत्यमरः ।
अतो द्वितीयसेवकशब्दस्य न पौनरुक्त्यम् । पिशुन इति - पिशुनशब्दस्य विशेषणतया
तत इन्-प्रत्ययः कथं स्यादिति पिशुनीति पाठो न मूले निवेशितः ।
१३ । कक्खट इति - निष्ठुरप्रकृतिरित्यर्थः । कक्खटं कठिनं क्रूरं कठोरं
निष्ठुरं दृढमित्यमरः ।
१४ । प्रतिष्ठेति - प्रतिष्ठातन्त्ररीतिज्ञोऽपि अवेदवेदाङ्गपारगश्चेत् तर्हि स वर्जनीय
इत्यर्थः । यो वेदवेदाङ्गादिपारदर्शितामलभमानः प्रतिष्ठाप्रतिपादकं
शास्त्रीयं
प्. १४)
पदवाक्यप्रमाणज्ञो [पद ख्, ग् पर क्] ब्राह्मणो वेदपारगः ।
रञ्जितः पशुशास्त्रेण नाचार्यो न स [नाचार्यो न स ख्, ग् नाचार्येण स (?) क्]
देशिकः ॥ १५ ॥
एतैः संस्थापितो देवः फलदो [फलदोन क्, न शुद्ध्येत ख्, ग्] न कथञ्चन ॥
१६ ॥
यद्येतैर्वर्जितैर्विष्णोः स्थापनं क्रियते क्वचित् ।
असाधकं भुक्तिमुक्त्योर्निष्फलं तन्न संशयः ॥ १७ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे
(वर्जनीयाचार्यलक्षणं नाम)
तृतीयः पटलः ॥ ३ ॥
आदितः श्लोकसंख्या - ६५
क्रममात्रं वेत्ति तस्य तत्तदितिकर्त्तव्यताक-यागादिविषयक-
विशिष्टज्ञानासम्भवेन वर्जनीयत्वमवधेयम् । ख् ग् पुस्तकपाटानुसारेण तु
वेदवेदाङ्गपारगोऽपि प्रतिष्ठातन्त्रे किञ्चिज्ज्ञः
प्रतिष्टातन्त्रेष्वपरिपक्वज्ञानश्चेद् वर्जनीय इत्यर्थः ।
१५ । पदवाक्यप्रमाणज्ञोऽपि वेदपारगोऽपि पशुशास्त्रेण
वेदवाद्व्यज्ञानविरोधिशास्त्रेणानुरञ्जितबुद्धिश्चेत् तस्य नाचार्यत्वम् इत्यर्थः ।
प्. १५)
चतुर्थः पटलः
(आचार्यलक्षणम्)
श्रीभगवानुवाच -
विशेषेण पुनर्वक्ष्ये आचार्यस्य च [च क्, तु ख्, ग्] लक्षणम् ॥ १ ॥
आकाशवायुतेजांसि पानीयं वसुधा तथा ।
एता वै रात्रयः ख्याता [ख्याता क्, प्रोक्ता ख्, ग्] ह्यचैतन्यास्तमोत्कटाः
[ह्यचैतन्या ख्, ग् स्त (?) (स्त्व) चैतना क्] ॥ २ ॥
रात्रीणामप्यथैतासां व्यतिरिक्तं निरञ्जनम् ।
स यदा बुध्यते तत्त्वं तदा मुक्तोऽनुकीर्त्यते ॥ ३ ॥
तदासौ भगवान् विष्णुः परमात्मा न संशयः ॥ ४ ॥
१ । द्वितीयपटले संशुद्धब्रह्मयोनिस्त्वित्यादिना सामान्यतो लक्षितमाचार्यमिह
विशिनष्टि विशेषेणेत्यादिना ।
२ । आकाशेति । आकाशादितः पृथिव्यन्ताः पञ्च पदार्थाः भूतानीत्यर्थः
रात्रयः ख्याताः । तत्र हेतुमाह-ह्यचैतन्येति । हि यस्मात् आकाशादयः अचैतन्याः
चैतन्यशून्या जडा इत्यर्थः । तमोत्कटाः उत्कटतमोगुणाञ्च अहङ्कारस्य
तमःप्रधानादंशात् तन्मात्रानुक्रमेण तेषामुत्पादात्
तस्माज्जडत्वावरकत्वादिसाधर्म्येण तेषां रात्रित्वमभ्युपगन्तव्यमित्यर्थः ।
३-४ । एतत्प्रतिपादनफलमाह - रात्रीणामिति । साधनसिद्धः
तपःप्रभावान्निर्मलस्वान्तो विवेकवारिविधौतमतिः समुच्छिन्नसंसारबन्धनो
यदा एतासां रात्रीणां पूर्वोक्तानां रात्रिशब्दप्रतिपादितानां व्यतिरिक्तं
पृथग्भूतं निरञ्जनं निरुपाधिकं तत्त्वं परमात्मानं बुध्यते
सच्चिदानन्दमयोऽयं परमात्मा भगवान् विष्णुः जडजगद्भ्यो भिन्न
प्. १६)
अपि पापसमाचार. सर्वलक्षणवर्जितः ।
देशिकः स तु विज्ञेयः संसारार्णवतारकः ॥ ५ ॥
सर्वत्र व्यतिरिक्तन्तु आत्मानं वेत्ति यो द्विजह् ।
सर्वलक्षणहीनोऽपि स गुरुर्नात्र संशयः ॥ ६ ॥
चतुष्पात्संहिताञ्चेमां यो वेत्ति द्विजसत्तमः ।
सर्वलक्षणहीनोऽपि स यज्ञं [स यज्ञं ख्, ग् सर्वज्ञं (?) क्] कर्त्तुमर्हति ॥
७ ॥
पञ्चरात्रप्रबुद्धस्तु [तू क् च ख्, ग्] सिद्धान्तस्यास्य तत्त्ववित् [तत्त्ववित् क्
भाववित् ख्, ग्] ।
सर्वलक्षणहीनोऽपि आचार्यः स विशिष्यते ॥ ८ ॥
इति वस्तुतत्वमवधारयति तदा स मुक्तो ऽनुकीर्त्त्यत इत्यर्थः । तदा
तादृशज्ञानक्षणे असाववधारितवस्तुतत्त्वः जीवन्म्क्त इत्यर्थः परमात्मा
भगवान् विष्णुरिव भवतीत्यर्थः । ब्रह्मविद् ब्रह्मैव भवतीति श्रुतेः ।
५ । एवम्भूतस्य परमात्मज्ञानिन आचार्यत्वमाह - अपीत्यादिना ।
पापसमाचारोऽपि सन्ध्यावन्दनादिनित्यनैमित्तिककर्मनिरपेक्षतया
श्रुतिस्मृतिविहिताचारनिरपेक्षतया च लोकदृष्टा पापितया परिगणितोऽपि
सर्वलक्षणहीनोऽपि प्रागुक्तसंशुद्धब्रह्मयोनित्वाद्याचार्यलक्षणरहितोऽपि स
एव देशिकः संसारार्णवतारको विज्ञेयः । एतादृशेनाचार्येण प्रतिष्ठायां
विहितायां मुक्तिरवश्यम्भाविनीत्यर्थः ।
६ । अमुमेवार्थं लोकप्रतीत्यर्थं संक्षिप्य दर्शयति - सर्वत्रेति ।
७ । आचार्यप्रकारान्तरमाह - चतुष्पादिति । यो द्विजसत्तमः इमां
चतुष्पात्संहितां आदिसङ्कर्षादिपादचतुष्टयात्मिकां
हयशीर्षपञ्चरात्ररूपां प्रतिष्ठा-तदङ्गप्रासाद-प्रतिमा-तदुपकरण-
प्रकारादिप्रतिपादिकां वेत्ति सर्वलक्षणनैरपेक्ष्येण तस्य आचार्यत्वमुपयुज्यत
इत्यर्थः ।
८ । आचार्यप्रकारान्तरमाह - पञ्चरात्रेति । पञ्चरात्रशास्त्रे यत्र क्वचन न तु
प्. १७)
तारको जायते नैव [तारको जायते नैव ख्, ग् यज्ञः कार्यस्तु तेनैव क्]
ज्ञानहीनो यदाऽनघ ।
सम्यक्प्रबुद्धतत्त्वार्थो [प्र ख्, ग् सं क्] गुरुस्तारक इष्यते ॥ ९ ॥
यस्य विष्णौ परा भक्तिर्यथा [यथा ख्, ग् यस्य क्] विष्णौ तथा गुरौ ।
स एव स्थापको ज्ञेयः सत्यमेतद् वदामि ते ॥ १० ॥
नाभिषेकं तु यः कुर्यात् प्रतिष्त्ःआलोभमोहितः [प्रतिष्ठा क्, प्रतिष्ठां ख्,
ग्] ।
स याति नरकं घोरं सह शिष्यैर्न संशयः ॥ ११ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (चतुर्थः)
आचार्यलक्षणपटलः ॥ ४ ॥
आदितः श्लोकसंख्या - ७६
हयशीर्षीय एव प्रागुक्तेन पौनरुक्त्यापत्तेः । प्रबुद्धः प्रकृष्टज्ञानसम्पन्नः
तथा सिद्धान्तार्थस्य पञ्चरात्रप्रतिपादित-भगवदुपासनरूपस्य तत्ववित्
तद्विषयकतत्त्वज्ञानवान् य आचार्यः स सर्वलक्षणहीनोपि विशिष्यते इत्यर्थः ।
पञ्चरात्रशास्त्रस्य भगवदुपासनपरतया तज्ज्ञानप्रकर्षे सति
लक्षणान्तरनैरपेक्ष्येण अपाञ्चरात्रिकेभ्यस्तत्तल्लक्षणलक्षितेभ्यो
वैशिष्ट्यमाचार्यगतमवधेयम् ।
१० । यस्येति - गुरुदेवतयोरभेदज्ञानस्यैव भक्तिस्वरूपत्वादित्यर्थः ।
प्. १८)
प्ञ्चमः पटलः
(एतच्छास्त्रानधिकारिनिरूपणं प्रतिष्ठायां दिङ्नियमः भूमिपरीक्षा
च)
श्रीभगवानुवाच -
इदं न हेतुवादिभ्यो वक्तव्यं नास्तिकाग्रतः [अग्रतः यतः ख्, ग्] ॥
जैमिनिः सुगतश्चैव नास्तिको नग्न एव च ।
कपिलश्चाक्षपादश्च षडेते हेतुवादिनः ॥ २ ॥
एतन्मतानुसारेण वर्त्तन्ते ये नराधमाः ।
ते हेतुवादिनः प्रोक्तास्तेभ्यस्तन्त्रं [तेभ्यस्तन्त्रं क्, तन्त्रं तेभ्यः ख्, ग्] न
दापयेत् ॥ ३ ॥
अथ दिङ्नियमोपेतं देवतास्थापनं शुभम् ।
पुरे देशि यथा देवाः स्थाप्याः शृणु तथा मम ॥ ४ ॥
१ । अथेदानीमेतच्छास्त्रानधिकारिणो निरूपयति इदमित्यादिना । शास्त्रमिदं
हेतुवादिभ्यो वक्ष्यमाणेभ्यो नास्तिकाग्रतश्च न वक्तव्यमित्यर्थः । आस्तिक्यमस्ति
वेदैकगम्यं वस्त्विति निश्चयः । (अहिर्बुध्न्यसंहिता ३ । २८ ।)
इत्यास्तिक्यलक्षणवहिर्भूतानां विशेषतो युक्तिमनुरुन्धानानाममीषां
प्रतिकूलतर्कावष्टम्भेन भगवदुपासनपराणां शास्त्राणामप्रामाण्यं
प्रतिपिपादयिषूणां हेतुवादिनां नास्तिककोटावन्तर्भावात् । योऽवमन्येत ते
मूले हेतुशास्त्राश्रयाद् द्विजः । स साधुभिर्वहिष्कार्यो नास्तिको वेदनिन्दकः ॥ (मनु
२ । २२) इत्यादिभिर्निन्दितत्वाच्च । अत्र हेतुवादित्वादेव नास्तिकानां संग्रहे
पुनर्नास्तिकाग्रत इत्युपादानं तेषां विशिष्य वर्जनार्थम् । नास्तिका यत इति पाठे
इदं हेतुवादिभ्यो न वक्तव्यं यतस्ते हेतुवादिनो नास्तिका इत्यर्थः ।
२ । पूर्वोक्तान् हेतुवादिनो निरूपयति जैमिनिरित्यादिना ।
३ । तन्मतानुसरणे दोषमाह एतदित्यादिना ।
४ । प्रतिष्ठायां देवताभेदेन दिग्भेदनियममाह अथेत्यादिना भिद्यत इत्यन्तेन ।
प्. १९)
नगरग्राममध्ये तु ब्रह्मणः स्थानमुत्तमम् ।
आखण्डलस्य सूर्यस्य पूर्वेणायतनं शुभम् ॥ ५ ॥
स्वदिग्गतं कृशानोस्तु मातॄणाञ्चैव दक्षिणे ।
भूतानामालयो यस्मिन् धर्मराजालयः शुभः ॥ ६ ॥
चण्डिकायाः पितॄणाञ्च दैत्यानां नैरृते भवेत् ।
प्रचेतसः समुद्रस्य सिन्धूनां पश्चिमे भवेत् ॥ ७ ॥
फणिनाञ्चैव [फणिनां क्, सालिनां (?) ख्, ग्] वायव्यां वायोः स्थानञ्च
[च ख्, ग् तु क्] तच्छुभम् ।
यक्षाधिपस्य स्कन्दस्य उदीच्यां स्थानमुच्यते ॥ ८ ॥
चण्डीशस्य महेशस्य ऐशान्यां स्थानमिष्यते ।
विष्णोः स्थानन्तु सर्वत्र [स्थानन्तु सर्वत्र क्, स्थानं समासाद्य ख्, ग्]
कालभेदेन भिद्यते [भिद्यते क्, विद्यते ख्, ग्] ॥ ९ ॥
नगराभिमुखाः सर्वे स्थापिताः शुभदा नृणाम् ॥ १० ॥
अज्ञानाद्वा प्रमादाद्वा कृता यदि पराङ्मुखाः ।
तदा शास्त्रादिभिर्विद्वानुपायमिममाचरेत् ॥ ११ ॥
तद्वर्णभूषणोपेतं तदेवायुधवाहनम् [वाहनम् ख्, ग् भूषणं क्] ।
पुरस्याभिमुखं भित्तौ तं देवं तत्र संलिखेत् ॥ १२ ॥
१० । एवं प्रतिष्ठायां देवताभेदेन दिग्भेदनियमे सत्यपि नगराभिमुख्यं
सर्वत्र विधेयमित्याह नगराभिमुखा इति ।
११ । दैवात् तद्वैमुख्ये जातेए प्रतिकारमाह अज्ञानादित्यादिद्वाभ्याम् ।
प्. २०)
पूर्वं देवकुलं पीड्य प्रासादं स्वल्पकं त्वथ [त्वथ क्, तथा ख्, ग्] ।
समं वाप्यधिकं वापि न कर्तव्यं विजानता ॥ १३ ॥
उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रयसम्मिताम् ।
प्रासादं कारयेदन्यं नोभयं पीडयेद् बुधः ॥ १४ ॥
दिग्विशेषेण मे स्थानं शृणु त्वं [त्वं ख्, ग् मे क्] सुरसत्तम [सुरसत्तम क्,
सुसमाहितः ख्, ग्] ।
ग्राममध्येऽथवारण्ये [ग्राममध्यऽथवारण्ये क्, कान्तारे
पर्वतेऽरण्य ख्, ग्] नदीनां सङ्गमे तथा ॥ १५ ॥
नगरस्य समन्ताच्चा सर्वत्राहं प्रतिष्ठितः ।
भुक्तिमुक्तिप्रदः पुंसां विशेषं शृणु चापरम् ॥ १६ ॥
ऐन्द्र्यां विभूतये शस्तमाग्नेय्यां [विभूतये शस्तं ख्, ग् प्रशस्तं
विज्ञेयं क्] परिवर्जयेत् [परिवर्जयेत् ख्, ग्, परिवर्जितम् क्] ।
याम्यां प्रशान्तये शस्तं नैरृत्यां भयदं भवेत् ॥ १७ ॥
१३ । पूर्वमिति - अनभिमतं पूर्वकृतं देवालयं भङ्क्त्वा तत्र
तन्न्यूनपरिमाणं वा तत्समपरिमाणं वा तदधिकपरिमाणं वा
स्वाभिमतं प्रासादान्तरं न विधेयमित्यर्थः ।
१४ । तर्हि तत्रैव बलवति नवप्रासादनिर्माणाभिलाषे जाते किं विधेयमित्यत्राह
उभयोरिति । पूर्वस्थितप्रासादोभयपार्श्वयोः उच्छ्रयसम्मितां सीमां
द्विगुणितां तत्प्रासादोच्छ्रयपरिमाणद्विगुणपरिमाणमित्यर्थः त्यक्त्वा
प्रासादान्तरं कुर्यात् न तु तन्मध्ये इत्याह नोभयमिति ।
१५ । तत्र कामनाभेदेन दिग्विशेषमाह दिगित्यादिना तृणामित्यन्तेन ।
प्. २१)
द्रव्यादीनां [द्रव्यादीनां क्, क्रव्यादीनां ख्, ग्] प्रसिद्ध्यर्थं
वारुण्यां राज्यसिद्धये ।
वायव्यां वर्जयेद् यत्नात् कौवर्या पुष्टिवर्द्धनम् ॥ १८ ॥
ऐशान्यां यजनं श्रेष्ठं सर्वसम्पत्करं नृणाम् ।
एवं ज्ञात्वा [ज्ञात्वा क्, ग्, कृत्वा ख्] विशेषेण ततो भूमिं परीक्षयेत् ॥ १९ ॥
लक्षणैर्द्देशिकश्रेष्ठो यथा तदधुनोच्यते ।
सरभीणां रतिर्यत्र सवत्सानां वृषैः [सवत्सानां वृषैः क्, वत्सानां
वृषभैः ख्, ग्] सह ॥ २० ॥
सुन्दरीणां रतिर्यत्र पुरुषैः सह सत्तम ।
राज्ञां पूर्वं गृहं यस्यामग्नीनां यज्वनान्तथा [यज्वनां ख्,
यज्ञिनां क्] ॥ २१ ॥
काश्मीरचन्दनामोदा [मोदा क्, मोद ख्, ग्] कर्पूरागुरुगन्धिनी ।
कमलोत्पलगन्धा च जातीचम्पकगन्धिनी ॥ २२ ॥
पाटलामल्लिकागन्धा नागकेशरगन्धिनी ।
दधिक्षीराज्यगन्धा च मदिरासवन्धिनी ॥ २३ ॥
सुगन्धिव्रीहिगन्धा च शुभद्रव्यस्वना च या ।
सर्वेषां वर्णिनां भूमिः सर्वसाधारणा मता ॥ २४ ॥
२० । इदानीं प्रतिष्ठोपयोगिभूमिपरीक्षा निरूप्यते । तत्र प्रथमं
प्रशस्तभूमिलक्षणमाह सुरभीणामित्यादिना ।
प्. २२)
दुर्गन्धा दुःखना या च नानावर्णा च दुःपुरा ।
वृत्तार्द्धचन्द्रसदृशा विस्ताराद्द्विगुणायता [आयता क्, यदा ख्, ग्] ॥ २५ ॥
विकर्णा कर्णहीना च वक्रा सूचीमुखी तथा ।
द्विकर्णा सूर्पसदृशी गोमुखी च त्रिकोणिका ॥ २६ ॥
षडस्रा शूलसदृशी दन्तिपृष्ठोपमा च या ।
सरीसृपसमा या च दिङ्मूढा शकटाकृतिः [दिङ्मूढा शकढाकृतिः क्,
दिङ्मुखा शकढोपमा ख्, ग्] ॥ २७ ॥
एवंप्रकारा या भूमिर्वर्ज्या यत्नेन देशिकैः ॥ २८ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे
(पञ्चमः)
भूतलक्षणटलः ॥ ५ ॥
आदितः श्लोकसंख्या - २०४
२५ । तत्र निन्दितभूमिलक्षणमाह दुर्गन्धेत्यत आपटलान्तम् । इह दुःपुरेत्यत्र
दुर्भगेति शब्दकल्पद्रुमे मन्दिरशब्दे हयशीर्षीयभूमिलक्षणे पाठो दृश्यते
प्. २३)
षष्ठः पटलः
(भूमेः परीक्षा शोधनञ्च)
श्रीभगवानुवाच -
प्रासादस्य विशेषेण प्रोक्ता भूमिश्चतुर्विधा [प्रोक्ता भूमिः क्, भूमिः
प्रोक्ता ख्, ग्] ।
सुपद्मा भद्रिका पूर्णा धूम्रावेगिन्यथापरा ॥ १ ॥
चन्दनागुरुकर्पूरगन्धा शुभस्वनार्जुनैः [चन्दनागुरुकर्पूरगन्धा
शुभस्वनार्जुनैः क्, पुन्नागै दिवि पार्श्वैश्च चननैः सरलार्जुनैः (?) ख्, ग्]
।
तिलकैर्नारिकेलैश्च वर्हिः [वर्हिः क्, वर्हि ख्, ग्] काशैश्च शोभिता ॥ २ ॥
पद्मेन्दीवरसंयुक्ता सा सुपद्मेति विश्रुता ।
नदीसमुद्रायतनतीर्थपर्यन्तशोभिता [पर्यन्त क्, पर्वत ख्, ग्] ॥ ३ ॥
पुष्पवृक्षसमाकीर्णा क्षीरिवृक्षोपशोभिता [क्षीरि क्, क्षीर ख्, ग्] ।
वनोद्यानलतागुल्मफुल्लस्तम्बसमावृता [वन क्, वर ख्, ग्] ॥ ४ ॥
१ । पूर्वपटले सामान्येन विहिताविहितभूमिलक्षणमभिधाय इह
सलक्षणांस्तद्भेदानाह सुपद्मेत्यादिना । आवेगिनीति धूम्राविशेषणम् । अपरा
प्रागुद्दिष्टप्रशस्तभूमित्रयविलक्षणा आवेगिनी
शर्कराकण्टकगृध्रादिकृतसम्भ्रमा भूमिर्धूम्रेत्यर्थः । अत्र धूम्रा चेति
सुरोत्तम इति वैदिकसर्वस्वधृतः पाठः ।
२ । तत्र प्रथमां सुपद्मां भूमिं लक्षयति चन्दनेत्यादिना ।
३ । द्वितीयां भद्रां भूमिं लक्षयति नदीत्यादिना ।
प्. २४)
यज्ञीयवृक्षमुक्षेत्रयुक्ता [यज्ञीय ख्, ग्, यज्ञिय क्] भद्रेति कीर्तिता ।
वकुलाशोकबहुला तथा प्लक्षाम्रलोहितैः [लोहितैः क्, रोहितैः ख्, ग्] ॥ ५ ॥
माधवीवेष्टिता या च मुद्गनिष्पावकोद्रवैः ।
शूकधान्यैश्च पुन्नागैर्गिरिपार्श्वगता च या ॥ ६ ॥
तोयञ्च स्वल्पकं [तोयञ्च स्वल्पकं क्, स्वल्पञ्च तोयकं ख्, ग्] यस्यां
पूर्णा सा परिकीर्तिता ।
विल्वार्कस्नुहिपीलूनां वनैर्या परितो वृता ॥ ७ ॥
सशर्करा च कठिना युक्ता कण्टकिभिर्द्रुमैः ।
गृध्रगोमायुकाकानां श्येनानां याकुला कुलैः ॥ ८ ॥
धूम्रेति कीर्त्तिता सा तु तां यत्नात् परिवर्जयेत् ।
ततो [ततः क्, ज्ञात्वा ख्, ग्] भूमिं परीक्षेत पूर्वोदक्प्लवनां
[पूर्वोदक्प्लवनां क्, पूर्वोत्तरप्लवां ख्, ग्] शुभाम् ॥ ९ ॥
५ । तृतीयां पूर्णां भूमिं लक्षयति वकुलेत्यादिना । लोहितैः रक्तचन्दनैः
रक्तशोभाञ्जनैर्वा । इह परत्र चोपलक्षणे तृतीया । निष्पावः श्वेतशिम्बिधान्यम् ।
कोद्रवो धान्यभेदः । कोरदूषस्तु कोद्रवः इत्यमरः । पुन्नागः स्वनामख्यातः
पुष्पप्रधानो वृक्षः ।
७ । चतुर्थो धूम्रां भूमिं लक्षयति विल्वार्केति । पीलुः गुर्जरदेशख्यातो
गुडफलाख्यो वृक्षः ।
९ । अथ भूमिपरीक्षा निरूप्यते तत इत्यादिना । प्रागुक्तरीत्या निन्दितां
भूमिमुपेक्ष्य प्रशस्ताञ्च आदेयतया निरूप्य तस्यां वक्ष्यमाणक्रमेण
परीक्षितायां चेदुत्तीर्येत तर्हि गृह्णीयादन्यथा परिहरेदित्यर्थः ।
प्. २५)
असङ्कटां तथा च्छन्दाकल्पतोयां [च्छन्दां क्, च्छन्नां ख्, ग्]
परिप्लुताम् [तोयां परि क्, तोयपरि ख्, ग्] ।
संपूर्यमाणे खाते तु तथाधिकमृदं शुभाम् ॥ १० ॥
कुसुम्भसदृशं वर्णं यस्यां न म्लानिमृच्छति ।
न निर्वाति तथा दीपं तोयं शीघ्रं न जीर्यति ॥ ११ ॥
१० । असङ्कटां अनल्पावकाशां । छन्दां अभिमताम् इष्टसाधनतया
प्रतीयमानामित्यर्थः । संपूर्यमाण इति । विशदीकृतमेतद् विश्वकर्मप्रकाशे
प्रथमाध्यायेनिखनेद्धस्तुमात्रन्तु पुनस्तेनैव पूरयेत् ।
पांशुनाधिकमध्योना श्रेष्ठा मध्याधमा क्रमात् इत्यनेन । मयमते च
चतुर्थाध्याये - पूरिते तन्मृदा खाते समता मध्यमा मता । उत्तमा
भूर्मृदाधिक्या हीना हीना मृदा मही । इत्यनेन ।
११ । कुसुम्भेति । अस्याः परीक्षायाः प्रकारः सौरकाण्डे - श्वभ्रे वा
वर्णसदृशान् कुसुमान् सन्निवेशयेत् । प्रदोषे पूर्ववत् सूर-उद्यमे तान् निरीक्षयेत् ।
अम्लानं यस्य वर्णस्य तस्यासौ शुभदा भवेदिति । अत्र
श्वेतारुणेत्याद्येतत्पटलद्वादशश्लोकेन यो ब्राह्मणादिगतः श्वेतादिवर्णभेदो
निरूपितस्तदनुसारेण श्वेतरक्तपीतकृष्णकुसुमेषु श्वभ्रे सन्निवेशितेषु
यद्वर्णकुसुमस्य वर्णम्लानिर्न जायेत तद्वर्णस्य सा भूमिः प्रशस्तेति बोध्यम् ।
कुसुम्भसदृशमित्युपादानन्तु प्रासादनिर्माणस्य प्रायशः
क्षत्रियकर्तृकत्वदर्शनादिति ध्येयम् न निर्वातीति । अस्याः परीक्षायाः क्रमः
सौरकाण्डे - श्वभ्रान्तःकुम्भवक्त्रेषु आमपात्रं निवेशयेत् । गव्येन
हविषापूर्य पूर्ववद् वर्तिकल्पना । पूर्वादिक्रमयोगेन ज्वलनं वीक्षयेत्ततः ।
यद्देशे भिद्यते पात्रं या च वर्तिर्विनश्यति । तस्य सा शस्यते नैव शस्यते यस्य
दीप्यते । सर्वा ज्वलति वै यत्र सर्वकामप्रदा तु सा । इत्यनेन प्रदर्शयिष्यते । अत्र
सर्वकामप्रदेति सर्वेषां कामप्रदेत्यर्थः । अतएव प्राच्यां दीपशिखया
उज्ज्वलत्वे तद् वास्तु ब्राह्मणस्य प्रशस्तं दक्षिणादिदिशि शिखायास्तथात्वे
क्षत्रियादेः सर्वशिखासमत्वे सर्ववर्णानां स वास्तुदेशः प्रशस्त इति
स्मार्तभट्टाचार्याः । तोयमिति । अयमपि परीक्षाप्रकारो विशदीकरिष्यत सौरकाण्डे
- प्रदोषे वारिणा गर्तं पूर्य सूर्योदये गुरुः । वीक्षेद् यत्नेन
मतिमानुत्तमाधममध्यमाम् ।
प्. २६)
श्वेतारुणा पीतकृष्णा [अरुणा पीत क्, अरुणपीत ख्, ग्] विप्रादीनां प्रशस्यते
।
आज्यासृग्गन्धमद्यानां तुल्यगन्धा च या भवेत् ॥ १२ ॥
मधुरा च कषाया च अम्ला च कटुका च या ।
कुशैः काशैः शरैस्तद्वद्दूर्वाभिर्याति संवृता [याति क्, या च ख्, ग्] ॥ १३ ॥
तस्यां पुण्येऽथ नक्षत्रे कुर्याद् भूमिपरिग्रहम् ।
प्राकारसीमापर्यन्तं ततो भूतबलिं हरेत् ॥ १४ ॥
तोये तिष्ठति श्रेष्ठा स्यात् सपङ्का मध्यमा भवेत् । शुष्का विस्फुटिता हीना वर्ज्या
यत्नेन वै मही । इत्यनेन ।
१२ । वर्णभेदेन भूमिभेदमाह श्वेतेति । श्वेता ब्राह्मणानां रक्ता
क्षत्रियाणां पीता वैश्यानां कृष्णा शूद्राणामित्यर्थः । आज्यामृगिति - अत्रापि
विप्रादीनामिति सम्बध्यते धृतगन्धा भवेद् राज्ञी रक्तानुगन्धिनी । क्षारगन्धा
भवेद् वैश्या शूद्रा मद्यानुगन्धिनी (अपरा २ ।) इति विशेषदर्शनात् ।
१३ । मधुरेति - अत्रापि विप्रादीनामिति सङ्गमनीयः मधुरा ब्राह्मणी भूमिः
कषाया क्षत्रिया मता । अम्ला वैश्या भवेद् भूमिः कटुका शूद्रिणी मता । (विश्व
२) इति रसभेददर्शनात् । कुशैरिति - अत्रापि विप्रादीनामिति बोध्यम् सौरकाण्डे कुशैः
श्रैस्तथा काशैर्दूर्वाभिर्या समन्विता । सा विप्रादिक्रमेणेह शस्यते
वसुधानध । इति दर्शनात् । भूमिलक्षणपरीक्षादिविस्तरस्तु सौरकाण्डे
द्वितीयपटले द्रष्टव्यः ।
१४ । एवं परीक्षया प्रशस्ततया ज्ञायमानाया भूमेः परिग्रहमाह तस्यामिति ।
अत्र नक्षत्र इत्येतत्कल्पविहितशुभदिनोपलक्षकं तथा पुण्यतिथोपेते नक्षत्रविषये
शुभे ॥ करणे च सुलग्ने च मुहूर्ते च बुधेप्सिते । (मय ४।८)
इत्यादिभिस्तिथ्यादिविचारविधानात् ।
प्. २७)
माषं [माषं ख्, ग्, मांसं क्] हरिद्राचूर्णञ्च सलाजा [सलाजा क्,
सलाज ख्, ग्] दधिशक्तवः ।
एभिर्भूतबलिं [एभिः क्, एतैः ख्, ग्] दत्त्वा सूत्रमष्टाक्षरेण [सूत्र क्,
मन्त्र (?) ख्, ग्] तु ॥ १५ ॥
पातयित्वा ततः शङ्कूनष्टदिक्षु निवेशयेत् ।
राक्षसाश्चापि भूताश्च येऽस्मिंस्तिष्ठन्ति भूतले ॥ १६ ॥
१५-१६ । पूर्वं भूतबलिं हरेदित्युक्तं तदुपचारानाह माषमिति । सूत्रमिति ।
तारं नमःपदं ब्रूयान्न-रौ दीर्घसमन्वितौ । पवनो नायमन्त्रोऽयं प्रोक्तो
वस्वक्षरः परः । इति तन्त्रसारप्रमाणप्राप्तेन ओं नमो
नारायणायेत्यष्टाक्षरमन्त्रेण वक्ष्यमाण-शङ्कुनिवेशनसीमनिरूपणार्थं
सूत्रं पातयित्वा अष्टौ शङ्कन् निवेशयेदित्यर्थः । सौरकाण्डे तृतीयपटले
शङ्कून् प्रकृत्य - ईशानादिषु कोणेषु संस्थाप्य विधिना बुधैः रित्यनेन
शङ्कुचतुष्टयारोपणमभिधास्यते । व्यवहारोऽपि तथैव । अत्र अष्टौ शङ्कून्
निवेशयेदिति तु सूत्रच्छेदादिशङ्कयेति बोध्यम् । मात्स्ये सूत्रच्छेदे
भवेन्मृत्युर्व्याधिः कीले त्वधोमुखे इत्यभिधानात् । विस्तृतप्रदेशे
शङ्कुचतुष्टयमात्रे रोपिते तद्गतदीर्घतरसूत्रच्छेदस्य सूत्राकर्षणेन
शङ्कुस्खलनस्य च सर्वथा सम्भवात् । अतएव भोजदेवः कीलानष्टौ परीक्षेत
स्थापयेच्च यथाविधि इत्यभिधाय वध्यमानं यदा सूत्रं शङ्कुः किमपि
मुञ्चति । तदा पुत्रबधं विद्याच्छिन्नं स्वस्वामिमृत्यवे । तस्माद् यत्नः
प्रकर्तव्यो यावत् सूत्रं प्रसार्यते । (समराङ्गन २३ । २५ + ७ - ७२) इत्यादिना
शङ्कुष्टकारोपणं प्रबलानिष्टानुबन्धिसूत्रच्छेदादिपरिहाराय
प्रयत्नञ्चोपदिदेश । तथा च यत्र भूमेर्न तथा विस्तारस्तत्र
शङ्कुचतुष्टयारोपणं न दोषाय । यत्र तु विस्तारस्तत्र
सूत्रच्छेदादिशङ्कानिरसनाय शङ्क्वष्टकनिवेशनमेव सम्यगिति परिहृतः
परस्परविरोधः । अष्टौ शङ्कूनिति सौरकाण्डोक्तं सूर्यविषयं वा । अत्र
सौरकाण्डे शङ्कुं संस्थापयेद् यत्रात् सूत्रञ्चापि प्रसारयेदिति प्रकृत्य
यज्ञीयसारवद्वृक्षसम्भवाः शङ्कवः स्मृताः । द्वादशाङ्गुलविस्ताराः
इत्यभिधानात् उडुम्बरादियज्ञकाष्ठैर्द्वादशाङ्गुलपरिमाणाः शङ्कवः
कर्तव्याः । अत्र विस्तरः सौरकाण्डतृतीयपटले द्रष्टव्यः । तत्र
प्रार्थनामन्त्रमाह राक्षसाश्चेति ।
प्. २८)
ते सर्वे व्यपगच्छन्तु स्थानं कुर्यामहं हरेः ।
इत्यनुज्ञाप्य भूतादींस्तां भूमिं [तां भूमिं ख्, ग् भूमिञ्च क्]
परिशोधयेत् ॥ १७ ॥
आदित्यादिग्रहाणाञ्च लोकपालसमन्वितान् (?) ।
आज्यनिष्ठाविधानेन [आज्यनिष्ठा क्, आज्यं चरु ख्, ग्] ततस्तु होममाचरेत् ॥ १८
॥
चरुहोमं ततः कुर्यान्मूलमन्त्रेण देशिकः ।
दद्यात् पूर्णाहुतिं पश्चाद् वौषडन्तेन मन्त्रवित् [मन्द्रवित् ख्, ग् देशिकः क्]
॥ १९ ॥
वृषभौ कपिलौ गृह्य सवर्णौ वा [सवर्णौ वा क् समवर्णौ ख्, ग्] विचक्षणः
।
योजनार्थं हलस्यैव गृह्णीयादसनोद्भवम् ॥ २० ॥
प्राङ्मुखं योज्य मन्त्रज्ञो वस्त्रालङ्कारभूषितः ।
आसनीं यष्टिमादाय द्वादशाक्षरविद्यया ॥ २१ ॥
१८ । भूमिशोधनक्रममाह आदित्येति । लोकपालसमन्वितानिति द्वितीयान्तं पदं
निरन्वयमपि अस्मदुपजीव्यपुस्तकत्रितयसंवादान्मूले निवेशितम् । शब्दकल्पद्रुमे
मन्दिरशन्दे लोकपालैः समं कृतीत्युपलभ्यमानो हयशीर्षीयः पाठस्तु
साधीयानिति प्रतिभाति ।
२० । भूमिकर्षणमाह वृषभाविति । कपिलाविति प्रथमः कल्पः तदलाभे
सवर्णाविति । असनोद्भवं सर्जवृक्षसम्भवम् ।
२१ । आसनीं सर्जवृक्षसम्भवां यष्टिमादाय वृषनोदनार्थमित्यर्थः ।
द्वादशाक्षरविद्ययेति ओं नमो भगवते वासुदेवायेति मन्त्रेण प्रणवो हृद्
भगवते वासुदेवाय कीर्तितः । प्रधाने वैष्णवे तन्त्रे मन्त्रोऽयं सुरपादपः ।
इतितन्त्रसारप्रमाणानुसारिणेत्यर्थः ।
प्. २९)
समर्द्धेन [समर्द्धेन क्, समत्वेन ख्, ग्] (?) समीकृत्य शुभवीजानि योजयेत् ।
संप्राप्ते शोभने काले [शोभने काले क्, फलकाले तु ख्, ग्] गोभिस्तत् [तत् क् तं
(?) ख्, ग्] खादयेद् बुधः ॥ २२ ॥
पुनस्तां कर्षयित्वा तु समीकृत्य गृहं गुरुः ॥ २३ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (षष्ठो)
भूतशुद्धिपटलः ॥ ६ ॥
आदितः श्लोकसंख्या - १२७
२२ । समर्द्धेनेति । अत्र सम्मर्द्दनैरिति वैदिकसर्वस्वधृतः पाठः साधीयानिति
प्रतिभाति । समर्द्धेनेति तु सर्मर्द्दनैरित्यस्यैव लेखकप्रमादकृतं वैरूप्यमिति
सम्भाव्यते । शुभवीजानीति । हलकृष्टे तथोद्देशे सर्ववीजानि वापयेदित्यभिधाय
व्रीहयःशालयो मुद्गा गोधूमाः सर्षपास्तिलाः । यवाश्चीषधयः सप्त
सर्वबीजानि चैव हि (विश्व २ । ६५) इत्युक्तानि । योजयेत् वापयेदित्यर्थः । शोभने काले
फलकाले । संप्राप्ते फलकाले तु गोकुलं तत्र वासयेत् । अहोरात्रत्रयं सम्यक् ततः
शुध्यति सा महीति सौरकाण्डतृतीयपटलसंवादात् ।
२३ । पुनरिति । प्रथमं भूमेः कर्षणं ततः कर्षणप्रभावां लोष्ट्रादीनां
सर्मर्द्दनैः समीकरणं तत्र वीजवपनम् उप्त वीजप्रभवेषु फलेषु तत्र
चरद्भिर्गोभिः खादितेषु तस्या भूमेः पुनः कर्षणं पुनः समीकरणमिति
कर्मक्रमः । गृहमिति व्रजेदित्यर्थः ।
प्. ३०)
सप्तमः पटलः
(हस्तलक्षणं शङ्कुलक्षणञ्च)
मानोन्मानविभागार्थं मङ्गलं हस्तलक्षणम् । [क् पुस्तकधृतं
पादद्वयमिदं ख्, ग्, पुस्तकयोर्नास्ति ॥]
सर्वकर्मप्रधानत्वात् [प्रधानत्वात् क्, प्रधानञ्च ख्, ग्] प्रोच्यमानं
मया शृणु ॥ १ ॥
परमाण्वष्टकेनैव रथरेणुः प्रकीर्त्तितः ।
रथरेण्वष्टकेनैव त्रसरेणुः प्रकीर्त्त्यते [प्रकीर्त्त्यते क्, प्रकीर्त्तितः ख्, ग्] ॥ २
॥
१ । पूर्वपटले शङ्कनष्टदिक्षु निवेशयेदित्युक्तम् अष्टमपटले च मध्ये
सुनिश्चलं शङ्कुमित्यादिना शङ्कुनिवेशनमभिधास्यते । ते च शङ्कवस्तथा परे
च वक्ष्यमाणाः प्रासाद-प्रतिमा-ध्वज-पताका-तोरण-कुण्ड-मण्डलादयः
सर्व एव प्रधानकर्माङ्गभूताः परिमिताः परिमाणज्ञानसापेक्षा इति
परिमाणस्वरूपमभिधेयम् । तत्र च एकहस्तद्विहस्त-
त्रिहस्तादिलक्षणहस्तपरिमाणेनैव प्रकृतसर्वकर्मनिर्वाहदर्शनात् सर्वत्र
हस्तपरिमाणस्यैव प्राधान्यात् तदेव वक्तुमुपक्रमते मानोन्मानेत्यादिना ।
मानं साधारणपरिमाणम् उन्मानञ्च ऊर्द्ध्व परिमाणम् । अत्र
मानानन्तरमुन्मानानिधानात् मानशन्देनापेक्षिकन्यूनपरिमाणं लक्ष्यम् ।
तथा च परमाण्वपेक्षया रथरेणुरूर्ध्व परिमाणं तदपेक्ष्या
त्रसरेणुरूर्ध्वपरिमाणम् । एवं हस्तमानापेक्षया
द्विहस्तत्रिहस्तादिपरिमाणस्योन्मानत्वम् इत्येव बोधयितुमाह मानोन्मानेति ।
भोजदेवोऽपि हेतुः समस्तवास्तूनामाधारः सर्वकर्मणाम् ।
मानोन्मानविभागादिनिर्णयैकनिबन्धनम् । परिध्युदयविस्तारैर्दैर्घ्याणां
स्युरमी यतः । ज्येष्ठमध्याधमा भेदा यं ज्ञात्वा न विमुह्यति । (समराङ्गन
९ । ११ । १२) इत्यादिभिरेतदेवाह ।
२ । परमाण्विति । परमाण्वाइपरिमाणाभिधानन्तु हस्तपरिमाणबोधनार्थमेव ।
त्रसरेणुरिति - एतन्मते चतुःषष्ट्या परमाणुभिरेकस्त्रसरेणुर्भवति । केचित्तु
प्. ३१)
तैरष्टभिस्तु बालाग्रं लिक्षा तैरष्टभिः स्मृता ।
ताभिर्यूकाष्टभिः ख्यातास्ताश्चाष्टौ यवमध्यकम् ॥ ३ ॥
यवाष्टकैरङ्गुलं [लं क् लः ख्, ग्] स्याच्चतुर्विंशाङ्गुलः करः ।
चतुर्विंशाङ्गुलश्चान्यः स्वाङ्गुष्ठेनापि [अपि ख्, ग् तु क्] सम्मितः ॥ ४ ॥
चतुरङ्गुलसंयुक्तः स्वहस्तः [ख क्, स (?) ख्, ग्] पद्महस्तकः ।
जालान्तरगते भानावित्यादिना परमाणुषट्कात्मकं (द्व्यनुकत्रयात्मकं)
त्रसरेणुपदार्थमाहुः । भोजदेवस्तु परमाणुं रथरेणुं
त्रसरेणुञ्चानङ्गीकृत्य रेण्वष्टकेन बालाग्रम् (समराङ्गन ९ । ४) इत्याह ।
मयमते तु परमाण्वष्टकेन रथरेणुं तदष्टकेन बालाग्रमाह परं
हयशीर्षसम्मतं त्रसरेणुपरिमाणं नाभ्यधात् । एवं
परिमाणनिरूपणेऽन्येऽपि प्रकारभेदा दृश्यन्ते ।
४ । अङ्गुलमिति । अङ्गुलशब्दो हस्तपदशाखार्थः पुंसि
प्रकृतेऽष्टयवोदरपरिमाणे तु क्लीवे वर्त्तते यवाष्टगुणितोऽङ्गुलम् (मय ५ । ४) इति
दर्शनात् यवोदरैरङ्गुलमष्टसंख्यैरिति भास्कराचार्योक्तेश्च । अतोऽत्र ख्, ग्
पुस्तकधृतः पुंलिङ्गान्तपाठो न मूले निवेशितः । चतुर्विंशेति - अत्र भोजदेवेन
इदानीं तस्य हस्तस्य सम्यङ्निश्चयसंयुतम् । कथ्यते त्रिविधस्यापि लक्षणं
शास्त्रदर्शितम् (समरा ९ । ३) इत्यनेन हस्तपरिमाणस्य त्रैविध्यमुक्तम् । तत्
त्रैविध्यञ्च प्रदर्शितं तेनैव - यवाष्टकाङ्गुलैः कॢप्तः प्रकर्षेणायतः किल ।
ज्येष्ठो हस्तः स विद्वद्भिः प्रोक्तः प्राशयसंज्ञितः । १ । यः पुनः कल्पितः
सप्तयवकॢप्तैरिहाङ्गुलैः । तज्ज्ञैः स मध्यमो हस्तः साधारण इति स्मृतः । २ ।
मात्रेत्यल्पं यतः प्रोक्तं हस्तश्च शय उच्यते । तेन मात्राशयः स स्याद्धस्तो यः
षड्यवाङ्गुलः । ३ । (समरा ९ । २८ - ३२) इत्यादिना । अत्रापि तथैव
हस्तपरिमाणत्रैविध्यमभिदधानः
प्रागुक्तपरमाण्वादिक्रमसाधितचतुर्विंशत्यङ्गुलैरेकं हस्तपरिमाणमाह
चतुर्विंशाङ्गुलः कर इति । परमाण्वादिक्रमानङ्गीकारेण स्वाङ्गुष्टस्य
चतुर्विंशतिसंख्यया परिमितं द्वितीयं हस्तपरिमाणमाह चतुर्विंशति ।
प्. ३२)
एतैर्हस्तैस्तु [एतैः क् एभिः ख्, ग्] कुर्वीत पासादं यागमण्डपम् [याग क्,
यज्ञ ख्, ग्] ॥ ५ ॥
प्रतिमां पिण्डिकां वापि कुण्डं [कुण्डं क्, कुण्ड ख्, ग्] मण्डलमेव च ।
तोरणञ्च ध्वजञ्चैव गुणाढ्यं पात्रमेव च ॥ ६ ॥
मानहीनं न कर्तव्यं फलप्राप्त्यर्थिभिः सदा ।
प्रशस्तं दारुमादाय सारवत् खदिरादिकम् ॥ ७ ॥
चतुरस्रन्तु तद् दारु कारयित्वा तु शिल्पिना ।
वृत्तं [वृत्तं क्, वृत्त ख्, ग्] भूमिसमं कुर्यान्निर्व्रणं सुषमं बुधः
[तथा क्, बुधः ख्, ग्] ॥ ८ ॥
५ । चतुरङ्गुलाधिकस्वहस्तपरिमाणेन परिमितं तृतीयं हस्तपरिमाणमाह
चतुरङ्गुलेति । अतएव एतैर्हस्तैरिति वक्ष्यमाणं बहुवचनमुपपद्यते । अत्र
हस्तपरिमापणार्थं विहिताविहितदारुनिर्णयस्तेनैव कृतः - खदिराञ्जनवंशादि
श्लक्ष्णं हीरं मनोरमम् । सारवच्च भवेदिष्टं दारु हस्तप्रकल्पने ॥ ग्रन्थिलं
लघु निर्दग्धं जीर्णं विस्फुटितं तथा । अदृढं कोटराक्रान्तं दारु हस्ताय
नेष्यते । (समराङ्गन ९ । ११ + १२) इति द्वाभ्याम् ।
७ । इदानीं शङ्कुनिरूपणप्रकारं वक्तुमुपक्रमते प्रशस्तमित्यादिना ।
अत्रादिपदेन दन्तं वै चन्दनं चैव खदिरः कदरः शमी । शाकश्च
तिन्दुकश्चैव शङ्कुवृक्षा उदीरिताः । (मय ६ । ६ ।) इत्युक्तानि ग्राह्याणि ।
८ । दारु चतुरस्रं कारयित्वा पुनस्तदेव वृत्तं कुर्यादित्यर्थः । प्रथमं
चतुरस्रीकृत्य पश्चाद् वृत्तीकरणन्तु व्यासपरिमाणसौकर्यार्थमेव ।
निर्व्रणमक्षतम् । सुषमं मूलाद्रग्रं यावत् दन्तुरत्वादिदोषरहितमित्यर्थः ।
प्. ३३)
द्वादशाङ्गुलमायामं पर्व चाङ्गुलमुच्यते ।
मूले षडङ्गुलञ्चास्य परिणाहः स्वमानतः [परिणाहः स्वपानतः क्,
सरिणाहप्रमाणतः ख्, ग्] ॥ ९ ॥
ह्वस्वाद्ध्रस्वतरं कार्यमग्रे स्याद् यवमात्रकम् ।
भूमिच्छेदसमं कुर्यान्मूलमग्रं सुसम्मितम् ॥ १० ॥
एतद् यथाक्रमेणैव कथितं शङ्कुलक्षणम् ।
एवं निष्पाद्य वै शङ्कुं कुर्याद् दिक्साधनं गुरुः ॥ ११ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (सप्तमः)
शङ्कुलक्षणपटलः ॥ ७ ॥
आदितः श्लोकसंख्या - १३८
९ । १० । अस्य शङ्कोरायामपरिमाणमाह द्वादशेति । पूर्वं यद् यवाष्टकैरङ्गुल
स्यादित्युक्तं तन्नेह प्रवर्त्तेत । इह तु पृथगेवाङ्गुलपरिमाणम् । किं तदित्याह
पर्वेति - अङ्गुष्ठाग्रपर्वणैव अङ्गुलपरिमाणमिह ग्राह्यमित्यर्थः ।
एतैर्द्वादशाङ्गुष्ठपर्वभिरेकमरत्निपरिमाणं भवति ततश्च मयमते
अरत्निमात्रमायाममित्यादिना यत् शङ्कोररत्निप्रमाणस्य श्रेष्ठत्वमुक्तम् इहापि
तस्य द्वादशपर्वपरिमाणं वदता तदेव सूचितम् । मूल इति - शङ्कोः परिणाहो
मूले षडङ्गुलः अग्रे च यवमात्रप्रमाणः । स्वमानतः ह्रस्वाद् ह्रस्वतरमिति -
उक्तपरिमाणानुसारेण मूलादग्रं यावत् क्रमशस्तथा व्यासह्रासो यथा
मूलमग्रञ्च सुसन्मितं स्यात् प*(?)दन्तुरतादिदोषदूषितं न स्यादित्यर्थः ।
भूमीति - उत्तमपरिमाणोऽरत्निप्रमाणः (द्वादशाङ्गुष्ठपर्वपरिमाणः)
मध्यमपरिमाणोऽष्टादशाङ्गुलः अधमपरिमाणो द्वादशाङ्गुल इति त्रिविधं
शङ्कुपरिमाणं भवति । तत्र वास्तुभूमेर्विस्तारतारतम्यानुसारेण शङ्कोरपि
प्रोक्तपरिमाणतारतम्यं कर्तव्यमित्येवाह भूमिच्छेदसममित्यनेन ।
११ । दिक्साधनं कुर्यादिति वक्ष्यमाणक्रमेणेत्यर्थः ।
प्. ३४)
अष्टमः पटलः
(दिक्साधनं मर्मज्ञानं शल्यज्ञानं वास्तुमण्डलञ्च)
श्रीभगवानुवाच -
बाह्यवास्तसमं कृत्वा [कत्वा क्, कुर्यात् ख्, ग्] चतुरस्रं समन्ततः ।
भूमिं तोयसमां कृत्वा दर्पणोदरसन्निभाम् [सन्निभाम् क्, सम्मिताम्, ख्,
ग्] ॥ १ ॥
१ । पूर्वपटले शङ्कुनिर्माणक्रममुक्त्वा यदि कुर्याद् यथादृष्टं विपन्नो
नरकं व्रजेत् । भानोर्गत्या दिशो ज्ञात्वा कुर्यात् कर्माणि देशिकः । (प्राण ३) इति
राघवभट्टधृतवचनेन दिग्ज्ञानानन्तरमेव प्रासादादौ कर्तव्ये
वास्तुवैषम्यतो यत्र सम्यङ् न ज्ञायते किल । तत्र शर्ङ्कु प्रतिष्ठाप्य
जानीयात्छुद्धदिक्स्थितिम् । इत्यनेन तत्रैवोक्तेन प्रमाणेन इहापि शङ्कुना
साधयेद्दिशमिति वक्ष्यमाणानुसारेण तच्छङ्कुकरणक-
दिङ्निरूपणप्रकारमभिधत्ते वाह्येत्यादिना । वास्तु द्व्यंशकं भवति
बाह्यमाभ्यन्तरीणञ्च । तत्र प्रासादचतुःशालादेर्बहिः स्थितस्तदनुषक्तो
योंऽशस्तद् बाह्यम् । यश्च तदन्तःपाती तदाभ्यन्तरीणमिति । इह
चोभयोरेत्रांशयोस्तुल्यतया वक्ष्यमाणप्रक्रियां प्रदर्शयितुमाह बाह्येति -
समन्ततः वास्तुत्वेनाभिमताया भूमेश्चतुर्दिक्षु बाह्यवास्तुसमं चतुरस्रं
कृत्वेत्यर्थः । भूमिमिति - ताञ्च चतुरस्रां भूमिं तोयसमां तोयेन समां
कृत्वेत्यर्थः । गृहीतवास्तुमध्ये तु समं कृत्वा भुवः स्थलम् । जलेन
दण्डमात्रेण समन्तु चतुरस्रकम् । (मय ६ । २-३) इत्यादिना
जलकरणकभूसमीकरणाभिधानात् । अत्र मयवचने दण्डमात्रेणेत्यभिधानात्
इहापि समीकरणरीतिरेवमवगन्तव्या यद्भमिं समस्थलीकृत्य समन्ततो
मृदादिमयं सेतुं निर्माय जलमयीकृते तदभ्यन्तरे कञ्चन परिमितं दण्डं
परितोऽन्तरान्तरा निधाय निधाय तद्दण्डपरिमाणानुसारिणा तज्जलपरिमाणेन
तद्भूमेः समत्वमसमत्वं दिक्प्लवत्वं वा परीक्षेत । असमत्वे पुनरनयैव
रीत्या तस्याः समत्वं विदधीतेति । दर्पणेति - दर्पणोदरवददन्तुरामित्यर्थः ।
तोयसमामिति दिक्प्लवादिशङ्कानिरसनाय । दर्पणोदरसन्निभामिति सर्वत्र
दन्तुरतादिदोषव्यावृत्तये ।
प्. ३५)
द्वादशाङ्गुलमानेन चाष्टौ [चाष्टौ क्, अष्टौ ख्, ग्] वृत्तांस्तु भ्रामयेत् ।
मध्ये सुनिश्चलं [सु क्, च ख्, ग्] शङ्कुं स्थाप्य च्छायां निरीक्षयेत् ॥ २ ॥
२ । एवं समीकृतायां भूमौ कर्तव्यमाह द्वादशेति । अत्र सुषमे भूतले कृत्वा
वृत्तं भ्रमणरूपतः । तन्मद्यबिन्दौ शङ्कुन्तु स्थापयेद् द्वादशाङ्गुलम् ।
अग्रच्छायान्वयवशाद् वृत्ते पूर्वापरद्वये । पूर्वापराह्णयोः कृत्वा चिह्ने
तमभितस्थथा । सुसमानपरिभ्रान्त्या कार्यं वृत्तद्वयं पुनः । तयोः
संश्लेषसञ्जातमध्यदक्षोत्तरे स्थिते । सन्धिद्वये तु प्राक्प्रत्यक्सूत्रं मध्ये च
विन्यसेत् । सूत्रदक्षोत्तरं तेषामग्रैः प्रागादि कल्पयेत् । इति
प्राणतोषण्युक्तराघवभट्टधृतवचनेन भूमौ प्रथमतो वृत्तं ततस्तन्मध्ये
शङ्कुस्थापनम् पूर्वाह्णे प्रतीच्यामपराह्णे च प्राच्यां
दिग्विलम्बि-शङ्कुच्छायाग्रनिरूपितायां तत्तच्चिह्नरक्षणाय वृत्तद्वयकरणम्
तदुभयतः सुसमानपरिभ्रमणेन
प्रथमवृत्ताभ्यन्तरीणबिन्दोर्दक्षोत्तरयोस्तत्तच्चिह्णसंरक्षणाय
पुनर्वृत्तद्वयमिति क्रमेण च्छायया दिङ्निरूपणान्तरमेव तत्तच्चिह्नस्थापनाय
वृत्तचतुष्टयनिर्माणमभिहितम् । इह तु अष्टौ वृत्तांस्तु भ्रामयेदित्यनेन
प्रथममेव वृत्ताष्टकनिर्माणे कृते तदानीमपि दिङ्निर्णयाभावाद् वृत्तानां
यादृच्छिकत्वेन शङ्कुच्छायापातस्यापि यादृच्छिकत्वसम्भवाद्
वृत्तैरमीभिर्दिक्साधनं न सम्भवेत् परन्तु तेषां वैफल्यमेव स्यादिति
महदसमञ्जसं घटेत । तत् पूर्वदर्शितराघवभट्टप्रमाणरीत्या
ग्रन्थोऽयमस्माभिरेवं व्याख्यायते - प्रातः सूर्योदये किञ्चन वृत्तं कृत्वा
तन्मध्ये सुनिश्चलं शङ्कुं संस्थाप्य च्छायां निरीक्षयेत् निरीक्ष्य च
तच्छयासमसूत्रेण प्रतीच्यां द्वादशाङ्गुलं वृत्तमेकं विदधीत । एवं
प्राच्यामपि सूरे प्रतीचीविलम्बिनि पूर्वतः प्रवर्त्तिन्यां सङ्कुच्छायायां
समसूत्रेण द्वादशाङ्गुलं वृत्तमेकं विदधीतेति ।
प्. ३६)
प्रवेशे निष्क्रमे तस्यां शङ्कुच्छायां निरूपयेत् ।
शङ्कुच्छायाग्रचिह्नाभ्यां [चिह्नाभ्यां क्, दह्नाभ्यां (?) ख्, ग्]
प्रक्प्रतीच्यौ प्रसाधयेत् ॥ ३ ॥
प्राक्प्रतीचीगते सूर्ये उदग्याम्ये प्रसाधयेत् [प्रसाधयेत् क्, निरीक्षयेत् ख्, ग्] ।
विषुवे विमले व्योम्नि शङ्कुना साधयेद्दिशम् ॥ ४ ॥
३ । तत्र छायानिरूपणक्रमे विशेषमाह प्रवेश इति - तस्यां भूमौ
प्रवेशनिक्रमयोच्छायानिरूपणं विधेयमित्यर्थः । अत्र
पूर्वापराह्णयोश्छाया यदि तन्मण्डलान्तगा । (मय ६ । ८) इत्यादिना
प्राह्णापराह्नयोः सौरच्छायाया मण्डलाभ्यन्तरगमनेन
दिक्परिच्छेदोऽभिहितः । इहापि प्रवेशनिष्क्रमपदाभ्यां प्रायस्तामेव
शैलीमभिधत्ते । तत्र प्रवेश इति-प्रातः सूर्योदये प्रतीचीना शङ्घोश्छाया
द्राधीयसी भवति ततश्चोर्द्ध्वमारोहति सूरे सा च्छाया क्रमशो
ह्रस्वतामापद्यमाना यदा मध्यवृत्तादन्यून द्वादशाङ्गुलान्तरितं स्वं
देशमनुप्रविशेत् तदा तद्वृत्त-मध्यबिन्दुसमसूत्रेण तच्छीर्षं
प्रतीचीमवगच्छेदित्यर्थः । निष्क्रम-इति - एवमनया रीत्या निष्क्रमे पूर्वदिङ्
निरूपणीया । तथाहि - मध्यमह्नः समारूढे सवितरि पश्चिमदिग्विलम्बिनि
पूर्वगामिनी शङ्कुच्छाया क्रमेण दीर्घतामापद्यते । तत्र
प्रागुक्तप्रतीचीक्रमेण पूर्वदिक्चिह्नभूतं द्वादशाङ्गुलं वृत्तमेकं विधाय
तच्छीर्षीयं पूर्वबिन्दुं प्रतीचीं निरूपयेत् इत्येव दिङ्निरूपणशैलीं बोधयितुं
शङ्कुच्छायाग्रचिह्नाभ्यामित्याचष्ट । शङ्कुच्छ्राययोः पूर्वापरगामिन्यो
अग्रचिह्नाभ्यां प्रवेशनिष्क्रमयोः प्रागुक्तक्रमेण प्राक्प्रतीच्यौ प्रसाधयेत्
निरूपयेदित्यर्थः । वृत्तानि तु तत्र तत्र कर्तव्यानि यथा द्वादशाङ्गुलान्यप्यष्टौ
संश्लेषेण स्थानं लभेरन् ।
४ । अयन्तु पूर्वापरदिङ्निरूपणप्रकार उक्तः । अथ दक्षिणोत्तदिङ्निरूपणोपायः क
इत्यत आह प्रागिति । राघवभट्टः सूत्रपातेन दक्षोत्तरदिङ्निरूपणं तत्र तत्र
तत्तच्चिह्नस्थापनाय वृत्तपातञ्चोपदिदेश । अत्र तु प्रक्रारान्तरेण तदभिधत्ते ।
तथाहि सूर्ये प्राक्प्रतीचीगते विषुवसम्प्राप्त्या पूर्वापरबिन्दुसमसूत्रेण स्थिते
उदग्याम्ये स्थिते उदग्याम्ये दिशौ प्रसाधयेत् निरूपयेदित्यर्थः ।
प्. ३७)
शरद्वसन्तयोरेवमादित्यात् साधयेद्दिशम् ॥ ५ ॥
प्राचीं तु पुष्यवेधेन चित्रास्वात्यन्तरेण वा ।
उदीचीं ध्रुववेधेन मध्ययोगेन चोन्नयेत् ॥ ६ ॥
चतुरस्रां शिलां गृह्य इष्टकां वा सुशोभनाम् ।
एवमत्रावधेयम् - अष्टौ वृत्तांस्तु भ्रामयेदित्युक्त्या
पूर्वकृतद्वादशाङ्गुलपूर्वापरवृत्तद्वयात् वामतो-भ्रमणेन
द्वादशाङ्गुलं संश्लिष्टं वृत्तत्रयं दक्षिणतोऽपि तथा वृत्तत्रयं कुर्यात् ।
एवञ्चाष्टौ वृत्तानि भवन्ति चत्वारि दिग्गतानि चत्वारि च कोणगतानि । तत्र
पूर्ववृत्तोत्तरार्द्धम् ईशानवृत्तं उत्तरवृत्तपूर्वार्द्धं तथा
पश्चिमवृत्तोत्तरार्द्धं वायववृत्तं उत्तरवृत्तपश्चिमार्द्धञ्च निरूप्य
उभयतश्चतुर्विंशाङ्गुलसन्धिमुदीचीं जानीयात् एवं दक्षिणदिङ्निरूपणेऽपि
पूर्ववृत्तदक्षिणार्द्धम् आग्नेयवृत्तं दक्षिणवृत्तपूर्वार्द्धं तथा
पश्चिमवृत्तदक्षार्द्धं नैरृतवृत्तं याम्यवृत्तपश्चिमार्द्धञ्च निरूप्य
पूर्ववदुभयतश्चतुर्विंशाङ्गुलसन्धिं
मध्यवृत्तमध्यदेशमवाचीमवगच्छेदिति फलितम् । ततश्च प्राक्प्रतीचीगते सूर्ये
इत्यनेन सुनिरूपितप्राक्प्रतीच्यपेक्षयैव दक्षोत्तर-दिङ्निरूपणं
हयशीर्षसम्मतम् वृत्ताष्टकपातेन दिङ्निरूपणो पदेशस्तु दिशां विदिशाञ्च
निरूपणाय । अयन्तु पूर्वोक्तः सर्वोऽपि दिङ्निर्णयप्रकारो विषुवविषय एव इत्याह
विषुव इति । विषुव-एव पूर्वापरबिन्दौ समसूत्रेण सौरप्रचारात्तत्रैवानया रीत्या
शङ्ककरणकदिङ्निरूपणसम्भवात् ।
५ । ननु क्वायं विषुवो नाम यत्रैवं दिक्साधनमित्याह शरदिति । एतच्च
शरदवसन्तविषयमेव । तत्रैवाश्विनचैत्रयोः सूर्यस्य
विषुवरेखासम्प्राप्तेरित्यर्थः ।
६ । एवं दिवा दिक्साधनक्रममभिधाय रात्रऊ तमाह प्राचीन्त्विति । कृत्तिका
श्रवणा पुष्या चित्रास्वात्योर्यदन्तरम् । एतत् प्राच्या दिशो रूपं युगमात्रोदिते
पुरः । (प्राण ३ प०) इत्यनेन श्रवणस्योदये प्राची कृत्तिकायास्तथोदये ।
चित्रास्वात्यन्तरे चन्द्रसूर्योरिति तत्रैव धृतेन त्रिकाण्डमण्डलवचनेन च यद्रात्रौ
नाक्षत्रिकसंस्थानदर्शनेन दिक्साधनक्रमो दर्शितः इह प्राचीमित्यादिनापि
तमेवक्रममभिधत्ते । रात्रौ कर्कटोदिते पुष्ये तद्वेधेन कन्यायां
चित्रोदयानन्तरं स्वायुदये तन्मध्यप्रदेशेन वा प्राचीं दिशमुन्नयेत् तद्वधेन
प्रतीचीं साधयेदित्यपि बोध्यम् ।
प्. ३८)
चतुर्दिक्षु निवेश्याथ सूत्रचिह्नन्तु कारयेत् ॥ ७ ॥
एवं कृत्वा सूत्रचिह्नं [सृतचिह्नं क्, ततोभूमौ ख्, ग्] ब्राह्मणांस्तत्र
भोजयेत् ।
वैष्णवान् पायसेनाग्य्रान् द्वादशैव समाहितः [समाहितः क्, समन्विताः
(?) ख्, ग्] ॥ ८ ॥
मासाधिपानां तुष्ट्यर्थं सूत्रणं स्यादतः परम् ।
महामर्मोपमर्मादि-ज्ञानार्थं यत्नवान् भवेत् ॥ ९ ॥
दर्शनैः कीर्त्तनैः शब्दैर्यजमानस्य चेष्तितैः ।
रात्रावुदीचीसाधनमाह ध्रुववेधेनेति उदीच्यां ध्रुवोदयादित्यर्थः । तथा
मध्ययोगेन साधितप्राचीप्रतीचीमध्यद्वारेण चोन्नयेदुदीचीमवाचोञ्चेत्यर्थः ।
७ । एवं दिशो निरूप्य तत्परिमाणसंस्थापनक्रममाह चतुरस्रामिति । गृह्येति क्ताचो
यवादेश आर्षः । इष्टकां वेति - यत्र शिलामयः प्रासादः करणीयस्तत्र शिलां
यत्र चेष्टकामयस्तत्रेष्टकामिति वाशब्देन सूच्यते एकादशे शिलाधिवासनपटले -
कर्तव्यस्त्विष्टकान्यासः प्रासादे चेष्टकामये । शैले शिलानां विन्यासः कार्करे
कर्करामयमिति वक्ष्यमाणत्वात् वाधकमन्तरेणात्र तत्क्रमाइक्रमे
प्रमाणाभावाच्च । चतुर्दिक्ष्विति वास्तुभूमेरित्यर्थः ।
९ । इदानीं दिक्साधनानन्तरं कर्तव्ये वास्तुपुरुषस्य स्वरूपनिर्णये तस्य
मर्मणामज्ञानमनिष्टफलकमिति तज्ज्ञानमभिधत्ते । तत्र
पूर्वोत्तरदिङ्मूर्द्धा पुरुषोऽयमवाङ्मुखोऽस्य शिरसि शिखी । (बृहत् ५२ । ५१)
इत्यादिना निरूपितस्य वास्तुपुरुषस्य तेषु तेष्वङ्गेषु वक्ष्यमाणक्रमेण
चतुःषष्टिपदन्यासः कर्तव्यः यथा तत्तदङ्गदेवतानां तत तत्र पदेषु
समावेशः सम्पद्येत । तानि च पदानि सूत्रपातसाध्यानि । सूत्राणाञ्चामीषां
कोणात् कोणगतानां सम्पातास्तथा पदानां समानि मध्यानि च मर्माणि ।
यथा - सम्पाता वंशानां मध्यानि समानि यानि च पदानाम् । मर्माणितानि
विन्द्यन्न तानि परिपीडयेत् प्राज्ञः । तान्यशुचिभाण्डकीलस्तम्भाद्यैः पीडितानि
शल्यैश्च । गृहभर्त्तुस्तत्तुल्ये पीडामङ्गे प्रयच्छन्ति । (बृहत् ५२ । ५७-५८) इत्यादिना
मर्मणां स्वरूपं पीडनजनितानिष्टसम्भावनञ्चाभिहितम् । भोजदेवेनापि
प्. ३९)
यथावल्लक्षयेच्छल्यं वास्तुदेहे विचक्षणः ॥ १० ॥
लङ्घनादथ सूत्रस्य दर्शनान्नामभाषणात् ।
अन्तस्त्रयोदशसुरा द्वात्रिंशद् बाह्यतश्च ये । तेषां स्थानानि मर्माणि सिरा
वंशाश्च तेषु तु । (समराङ्गन १३ । ६) इत्यनेन तथैव मर्माण्यभिधाय तेषां
महामर्मोपमर्मभेदेन द्वैविध्यमङ्गीकृतम् । तत्र महामर्माणि मुखे हृदि च
नाभौ च मूर्ध्नि च स्तनयोस्तथा । मर्माणि वास्तुपुंसोऽस्य षण्महान्ति प्रचक्षते
इति । उपमर्माणि तु चतुष्वपि विभागेषु सिरा याः स्युश्चतुर्दिशम् । मर्माणि तानि
चोक्तानि द्वारमध्यगतानि च । (समराङ्गन १३ । ७ । १०) इत्येवंरूपमभिधाय
द्वारैर्वा भित्तिभिर्वापि मर्मणां परिपीडनात् । दौर्गत्यं गृहिणः प्राहुः
कुलहानिमथापि वा । (समराङ्गन १३ । १२) इत्यादिना तत्तदङ्गपरिपीडनात्
तत्तदनिष्टफलानुबन्धोऽभिहितः । ग्रन्थविस्तरभयादत्र तानि नोदाह्रियन्ते ।
परमार्थतस्तु वास्तोस्तत्तत्पदान्याक्रम्य सतो मुखादितत्तदङ्गानां
महामर्मत्वम् वंशादीनाञ्चोपमर्मत्वं यथा तेषां पीडा न स्यात् तथा
द्वारादीनां सन्निवेशः कर्तव्य इति ध्येयम् ।
१० । अथेदानीं प्राणतोषण्यां वर्जनीयभूमिं प्रकृत्य - स्फुटिता मरणं
कुर्यादूषरा धननाशिनी । सशल्या क्लेशदा नित्यं विषमा शत्रुतो भयम् । तथा
प्रासादारम्भकाले तु गृहादौ च विशेषतः । शल्योद्धारस्तु कर्तव्यो
यदीच्छेच्छुभमात्मनः । स्वामिनो मरणं वा स्याद् विदेशगमनं तथा ।
यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः । (३ प०)
इत्यादिभीराघवभट्टधृत-महाकपिलपञ्चरात्रवचनैः शल्यदूषिताया
भूभेर्बलवदनिष्टानुबन्धित्वाभिधानादुद्धरणीये शल्ये
शल्यज्ञानप्रकारमाह - दर्शनैरिति । दर्शनैः
अलीकस्त्रीपुंसपश्वादिसमसंस्थानरूपादीनां वास्तुदेहे यत्रतत्रावलोकनैः ।
कीर्त्तनैः यत्रतत् स्वामिनो नामकीर्त्तनैराह्वानैरित्यर्थः । शब्दैः
अतात्त्विकैर्विडालशृगालखरोष्ट्रादिध्वनिसदृशध्वनिसमाकर्णनैः । तथा
यजमानस्य चेष्टितैः वक्ष्यमानाङ्गविकारैरित्यर्थः । पश्वादिसदृशाचरणैरिति
वा । विचक्षणः शल्यानुशासनानुशीलननिर्मलबुद्धिर्गुरुः वास्तुदेहे
यथावच्छल्यं लक्षयेदित्यर्थः ।
प्. ४०)
श्रवणादथ शब्दस्य जानीयाच्छल्यमादरात् ॥ ११ ॥
दर्शनं लङ्घनं यस्य गदितं [गदितं क्, रुदितं ख्, ग्] नामकीर्त्तितम् ।
तस्य सत्त्वस्य तच्छल्यं जानीयाल्लङ्घनादिभिः ॥ १२ ॥
आदिशेद् वास्तुतः शल्यं गृहिणोऽङ्गविकारतः ॥ १३ ॥
११ । अन्यच्चाह - अथ अथवा सूत्रस्य लङ्घनात् वास्तुमभितः परिमाणविवेकार्थं
सन्निवेशितानां सङ्कूनामध्यग्रं बध्यमानसूत्रस्य
लम्फाप्रदानपूर्वकमतिक्रमणात् तथा दर्शनात्
मनुष्यपश्वादिशरीरावलोकाअत् तथा नामभाषणात् यस्य कस्यचिन्नामोच्चारणात्
शब्दस्य पश्वादिशब्दसमजातीयस्य श्रवणात् आदरात् प्रयत्नविशेषात् शल्यं
जानीयात् कस्य सत्त्वस्य शल्यमिति वक्ष्यमाणरीत्यावगच्छेदित्यर्थः ।
१२ । इदानीं तदेव विशेषयति दर्शनमिति - यस्येति कर्मणि षष्ठी सर्वत्र सम्बध्येत ।
यस्य दर्शनमिति यदि यत्र तत्राकस्माद् वास्तुदेहे स्त्रीरूपं वा पुरूपं वा
तद्विशेषो वा गवाश्वादयः पशवो वाऽन्तराऽन्तरावलोक्येरन् तर्हि
तत्तदङ्गसम्भवान्य - स्थ्यादीनि तद्भूमेरधस्तादस्तीति प्रतीयेत । लङ्घनमिति ।
प्रागुक्तरीत्या पश्वादिकृतेन शल्यं लक्षयेत् - तथाहि येन पशुना तत् सूत्रं
लङ्घ्येत तस्य शल्यं तत्रास्तीत्यवगच्छेत् यथा विडालेन लङ्घिते विडालस्य
शृगालेन शृगालस्य स्त्रीपुंसाभ्यञ्च तयोरिति । गदितमिति । यस्य गदितं शब्दः
श्रूयेत तच्छल्यं तत्रास्तीति । पेचकादिशब्दश्रवणेन तत्तच्छल्यमिति जानीयात् ।
नामकीर्तितमिति देवदत्तयज्ञदत्तादिनाम्ना पुनः पुनः समाह्वानेन
तत्तन्नाम्नः पुरुषादेः शल्यं तत्र वर्त्तत इत्युन्नेयमित्येवाह तस्य सत्त्वस्य
तच्छल्यमित्यनेन ।
१३ । आदिशेदिति । गृहिणः अङ्गविकारतः कण्डूयनादिरूपादङ्गवैकृत्याद् वास्तुतः
शल्यमादिशेत् । अङ्गविकारत इति गृहिणो यदङ्गे शिरसि वाहौ अन्यत्र वा
प्रासादारम्भकाले कण्डूयनादिरूपोऽङ्गविकारो भवेत् वास्तुपुंसस्तत्र
तत्राङ्गे शल्यसत्तां जानीयादित्यर्थः । अतएव प्राणतोषणीधृत
महाकपिलपञ्चरात्रवचनैरङ्गभेदेन कण्डूयनानुमेयसत्ताकं शल्यं
तदुद्धरणञ्चोपदिष्टं यथा -
प्. ४१)
प्रासादारम्भकाले तु यदङ्गं स्पृशते पुमान् ।
वास्तुदेहे दृढं शल्यं तत्र दद्याद्विचक्षणः ॥
कण्डूयति शिरः पुंसि शिरःशल्यं समुद्धरेत् ।
शल्यं तत्रास्ति विज्ञेयं खन्यमाने करद्वये ॥
अग्निदाहश्च रोगश्च धनहानिश्च जायते ।
यत्रेनोत्पाटयेच्छल्यं यदीच्छेच्छुभामात्मनः ॥
वाहौ कण्डूयमाने तु निर्दिशेल्लोहशृङ्खलम् ।
हस्तद्वयेन मानं तल्लक्षणं कथितं तव ॥
स्वामिनो मरणं वा स्याद् विदेशगमनं तथा ।
यत्रेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः ॥
उरौ कण्डूयमाने तु कांश्यशल्यं विनिर्दिशेत् ।
हस्तेनैकेन सन्तिष्ठेल्लक्षणं कथितं तव ॥
असती च भवेद् भार्या यशोहानिः प्रजायते ।
यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः ॥
हस्ते कण्डूयमाने तु कङ्कालञ्च विनिर्दिशेत् ।
त्रिहस्तेन तु सन्तिष्ठेत् खन्यमाने न चान्यथा ॥
अग्निदाहश्च रोगश्च पीडा च मरणं भवेत् ।
यत्नेनोत्पाटयेच्छलय्ं यदीच्छेच्छुभमात्मनः ॥
पृष्ठे कण्डूयमाने तु वाहुशल्यं विनिर्दिशेत् ।
हस्तेनैकेन सन्तिष्ठेन्नात्र कार्या विचारणा ॥
स्वामिनाशो भवेत्तत्र भार्या वा जायतेऽसती ।
पादे कण्डूयमाने तु हस्तशल्यं विनिर्दिशेत् ॥
सार्द्धहस्तेन सन्तिष्ठेल्लक्षणं गदितं तव ।
अङ्गनाशो राजदण्डः शस्यहानिश्च जायते ॥
यत्नेनोत्पाटयेच्छलयं यदीच्छेच्छुभमात्मनः ।
कुक्षौ कण्डूयमाने तु पाषाणं तत्र निर्दिशेत् ॥
हस्तद्वितयमानेन लक्षणं गदितं तव ।
प्. ४२)
शकुनो दृश्यते वापि यस्य वा श्रूयते ध्वनिः ।
कीर्त्त्यते यस्य वा नाम शल्यं तस्य विनिर्दिशेत् ॥ १४ ॥
वास्त्वङ्गं सूत्रयेत् प्राज्ञः श्वेताम्बरधरः शुचिः ।
श्वेतगन्धानुलिप्ताङ्गं [श्वेत क्, शुभ ख्, ग्] सर्वालङ्कारभूषितः ॥ १५ ॥
भुजङ्गदंशस्तत्र स्यात्तस्माच्छल्यं समुद्धरेत् ॥
जानौ कण्डूयमाने तु भस्म तत्र विनिर्द्दिशेत् ।
हस्तद्वयेन सन्तिष्ठेल्लक्षणं गदितं तव ॥
अग्निदाहो मनस्तापः क्लेशदुःखभयानि च ।
करोत्येवंविधं कर्म तस्मात्तं वै समुद्धरेत् ॥ इति ।
एवमन्यादृशैरप्यङ्गविकारैस्तत्र तत्र वास्त्वङ्गे शल्यमस्तीत्यवगन्तव्यम् । १४ ।
पूर्वं यद्दर्शनैरित्याद्यभिहितं तदेव स्फुटीकरोति - शकुन इति । वराहमिहिरैरपि
-
अर्द्धनिचितं कृतं वा प्रविशन् स्थपतिर्गृहे निमित्तानि ।
अवलोकयेद् गृहपतिः क्व संस्थितः स्पृशति चाङ्गम् ॥
रविदीप्तो यदि शकुनिस्तस्मिन् काले विरौति पुरुषरवम् ।
संस्पृष्टाङ्गसमानं तस्मिन् देशेऽस्थि निर्देश्यम् ॥
शकुनसमयेऽथवान्ये हस्त्यश्वश्वादयोऽनुवाशन्ते ।
तत्प्रभवमस्थि तस्मिंस्तदङ्गसम्भवमेवेति ॥
सूत्रे प्रसार्यमाणे गर्दभरावोऽस्थिशल्यमाचष्टे ।
श्वशृगाललङ्घिते वा सूत्रे शल्यं विनिर्द्देश्यम् ॥
(बृहत् ५२ । १०३ - १०६)
इत्यादिना प्रायो हयशीर्षसम्मतैव शल्यज्ञानशैली समवर्णि । एतावदन्तं
शल्यज्ञानमुक्तम् । शल्योद्धारस्तु दशमेऽर्घ्यदानपटले वक्ष्यते ।
१५ । एवं शल्यज्ञानक्रममभिधाय वास्तुपुरुषदेहावच्छिन्न-तत्तत्पदविभाजक-
प्. ४३)
चतुःषष्टिन्तु [षष्टिं क्, षष्टिः ख्, ग्] प्रासादे एकाशीतिं गृहे सदा ॥ १६ ॥
वास्तुमण्डलसन्निवेशनशैलीमभिधातुमुपक्रमते - वास्त्वङ्गमित्यादिना ।
सूत्रयेदिति वक्ष्यमाणक्रमेणेत्यर्थः ।
१६ । ननु मण्डलेऽस्मिन् कति पदानि विधेयानीत्यत आह - चतुःषष्टिन्त्विति ।
प्रासादनिर्माणे कर्तव्ये चतुःषष्टिं गृहनिर्माणे चैकाशीतिं पदानि
कुर्यादित्यर्थः । ननु भोजदेवेन वास्तुत्रयविभागानन्तरं - एकाशीतिपदो यः
स्यात्तथा शतपदश्च यः । चतुःषष्टिपदो यश्च वास्तुरत्र त्रिधोदितः ॥ इति प्रकृत्य -
वर्णिनां भवनादीनि निवेशा राजवेश्मनाम् । एकाशीतिपदेनेन्द्रस्थानञ्च विभजेत्
सुधीः ॥ प्रासादा विविधास्तद्वद् विचित्राश्चात्र मण्डपाः । तान्
मापयेच्छतपदप्रविभागेन बुद्धिमान् ॥ यः पुनः स्याच्चतुःषष्टिपदस्तेन
विभाजयेत् । नरेन्द्रशिविरग्रामखेटादि नगरादि च ॥ (समराङ्गन १३ । १ । ३ । ५)
इत्युक्तरीत्या तेषामेकाशीति - पदादिवास्तुमण्डलत्रयाणां विषयभेदेन
प्रविभागः कृतः । तन्मते वर्णिनां राज्ञाञ्च गृहा एकाशीतिपदविषयाः
प्रासादा मण्डपाश्च शतपदविषयाः चतुःषष्टिपदस्य तु
राजशिविरादिविषयकत्वमेव । न तु हयशीर्षानुसारि-देवभवनविषयत्वमिति
परस्परविरोधो दुष्परिहर इति चेदुच्यते - प्रासादा
विविधास्तद्वदित्यादिभोजदेववचने प्रासादपदं मण्डपपदञ्च
राजगृहपरमेव एकाशीतिपदं प्रकृत्य - तत्र मैत्रपदस्थाने निवेशायावनीपतेः ।
प्रासादः प्राङ्मुखः कार्यो यथावत् पृथिविञ्जयः ॥ श्रीवृक्षं सर्वतोभद्रं
मुक्तकोणमथापरम् । यमिच्छेन्नृपतिः कुर्यात् प्रासादं शुभलक्षणम् ॥
(समराङ्गन १५ । १६ । १७ ) इत्यादिना राजगृहविशेषवाचकस्यैव प्रासादपदस्य
भोजदेवेनाभिहितत्वात् । एकाशीतिपदाज्जातो वास्तुः शतपदाभिधः । (समराङ्गन
१४ । १२) इत्यनेन शतपदस्यैकाशीतिपदप्रकृतिकतया तयोस्तुल्यविषयत्वाभिधानाच्च ।
तथा च - राजभवनत्वपुरष्कारेणाभेदेऽपि
तत्तदुविशेषलक्षणलक्षितराजगृहत्वव्याप्यप्रासादत्वमण्डपत्वरूपविभाजकोप
अधिभेदेन भिन्नानाममीषां
प्. ४४)
चतुरस्रीकृते क्षेत्रे ह्यष्टधोभयभाजिते [ष्टधो क्, स्तथो (?) ख्, ग्] ।
कोणरेखां [रेखां क्, रेफां (?) ख्, ग्] ततो दत्त्वा सुरभागांस्तु [सुर क्,
रुद्र (?) ख्, ग्] कल्पयेत् ॥ १७ ॥
शतपदविषयत्वं तदितरेषान्तु राजवेश्मनामेकाशीतिपदविषयत्वमित्यवधेयम् ।
भोजदेवस्तु राजभवननगरारामादिमात्रव्याख्यानप्रवृत्तः
किमनेनाप्रस्तुतदेवभवनव्याख्यानकौतूहलेनेति चतुःषष्टिपदे
देवगृहाणामन्तर्भावमकुर्वन्नापराध्यति । अथवा चतुःषष्टिपदे नगरादि
चेत्यादिपदेन देवगृहाणामपि ग्रहणे सर्वं निर्विरोधमिति संक्षेपः ।
न च प्रासादो देवभूभजामित्यमरोक्ते श्चतुःषष्टिन्तु प्रासादे इत्यत्र
प्रासादपदं देवगृहराजगृहसाधारणमिति वाच्यं चतुःषष्टिपदं वास्तु
सर्वदेवगृहं प्रति । एकाशीतिपदं वास्तु मानुषं प्रति सिद्धिदम् । इति
वास्तुयागतत्त्वधृतलिङ्गपुराणवचनेन चतुःषष्टिपदस्य
देवगृहमात्रविषयत्वाभिधानात् एकाशीतिपदैर्भक्तं विधेयं नृपमन्दिरम् ।
(समराङ्गन २५ । ९) इति भोजदेववचनेन विशिष्य
राजभवनस्यैकाशीतिपदवास्तुविषयत्वाभिधानाच्च प्रासादपदस्यात्र
देवगृहपरत्वमेव न तु स्वप्नेऽपि राजगृहपरत्वं कल्पनीयमिति निष्कर्षः ।
१७ । अस्य शास्त्रस्य देवगृहमात्रपरतया
समुद्दिष्टमप्यप्राकरणिकमेकाशीतिपदं मण्डलमुपेक्ष्य प्राकरणिकं
चतुःषष्टिपदं व्याचष्टे - चतुरस्रीति । भूमिं प्रथमं चतुरस्रां विधाय
तामुभयतोऽष्टधा विभाजयेत् । तत्र च विभाजने नव पूर्वायता नव चोत्तरायता
रेखाः कर्तव्यः । एवं कृते चतुःषष्टिः पदानि भवन्ति । रेखानामासां
संज्ञाश्च विश्वकर्मणा प्रदर्शिताः । तत्र पूर्वापरायतानां
रेखानवकानामुत्तरादिक्रमेण संज्ञाः - श्रिया यशोमती कान्ता सुप्रियापि परा
शिवा । सुशोभा सधना ज्ञेया तथेभा नवमी स्मृता । पूर्वापरायता
येताश्चतुःषष्टिपदे स्थिताः । (विश्व ५ । २२ । २३) पश्चिमादिक्रमेण दक्षोत्तरगाणां
संज्ञास्तु धन्या धरा विशाला च स्थिरा रूपा गदा निशा । विभवा प्रभवा
चान्या सौम्यासौम्याश्रिताः शिराः । (विश्व
प्. ४५)
शिवः कोणार्द्धतो ज्ञेयः पर्जन्यः पदसंस्थितः ।
द्विपदस्थो जयो ज्ञेयः सुरेशश्चैकपादकः ॥ १८ ॥
भास्करस्तु पदे ज्ञेयो द्विपदः सत्य इष्यते ।
भृशः पदस्थो विज्ञेयो [विज्ञेयो क्, ज्ञातव्यो ख्, ग्] व्योम चैव पदार्द्धगः ॥
१९ ॥
हुताशनः पदार्द्धश्च [च क्, तु ख्, ग्] पूषा च पदसंस्थितः ।
वितथो द्विपदस्थश्च [पदस्थश्च क्, पदो ज्ञेयः ख्, ग्] पदैकस्थो गृहक्षतः ॥
२० ॥
वैवस्वतः पदैकस्थो गन्धर्वो द्विपदस्थितः ।
भृङ्गश्चैकपदेज्ञेयो [दे क्, दो ख्, ग्] मृगश्चार्द्धपदे स्थितः ॥ २१ ॥
५ । २३ । २४) एता ह्यष्टादशरेखाः शिराशब्देनोच्यन्ते तासां मर्मान्तर्गतत्वं
पूर्वमुक्तमित्यलमत्र प्रपञ्चेन । कोणरेखामिति - ततः प्रागुक्तक्रमेण
चतुःषष्टिं पदानि निर्माय चतुष्कोणपदेषु क्रमादेकैकां कोणरेखां
दत्त्वेत्यर्थः । तथा च मण्डस्येशानकोणपदे ऐशानीतो नैरृत्यन्तां आग्नेयपदे
आग्नेय्याद् वायव्यन्तां नैरृतपदे नैरृतादीशानान्तां वायव्यपदे च
वायव्यादाग्नेय्यन्तां रेखां विदधीतेत्यर्थः । एवं कृते मण्डलस्य
प्रतिकोणमेकैकशस्तिर्यग्रेखा भवति । इति मण्डलाङ्कनक्रमः । सुरभागानिति । तेषु
पदेषु वक्ष्यमाणरीत्या वक्ष्यमाणानां सुराणां भागान् कल्पयेदित्यर्थः ।
१८ । तत्कल्पनशैलीमाह - शिव इत्यत आपटलान्तम् । पूर्वपङ्क्तावीशानकोणार्द्धे
शिवोऽर्द्धपदः । तद्दक्षिणी पर्जन्य एकपदः । तद्दक्षिणे तदधःपदसहिते जयन्तो
द्विपदः । मूले द्विपदस्थो जय इत्यत्र जयो जयन्तः जयन्तायहु&प्रदातव्येति
नवमपटलस्वरसात् द्विपदस्थो जयन्तश्चेति वास्तुयागतत्त्वधृत-
देवीपुराणवचनैकवाक्यत्वाच्च । तद्दक्षिणे सुरेश (इन्द्र) एकपदः ।
१९ । ततो भास्कर एकपदः । तद्दक्षिणे तदधःपदसहिते सत्यो द्विपदः । तद्दक्षिणे
भृश एकपदः । ततोऽग्निकोणार्द्धे व्योमार्द्धपदम् । इत्यष्टौ पूर्वस्यां पूज्या
बहिर्देवताः ।
प्. ४६)
पितरश्चार्द्धतो ज्ञेयाः पदे दौवारिकस्तथा ।
सुग्रीवो द्विपदो [दे क्, दो ख्, ग्] ज्ञेयो ह्येकस्थः पुष्पदन्तकः ॥ २२ ॥
यादसाम्पतिरेकस्थो ह्यमुरस्तु द्विसंस्थितः ।
शोषश्चैकपदे [शोष क्, शोक ख्, ग्] ज्ञेयो ह्यर्द्धगः पाप इष्यते ॥ २३ ॥
रोगश्चार्द्धपदे ज्ञेयो नागश्चापि पदे स्थितः ।
मुख्यश्च [मुख्य क्, यक्ष ख्, ग्] द्विपदो ज्ञेयो भल्लाटः पदसंस्थितः ॥ २४ ॥
२० । अथ दक्षिणपङ्क्तावग्निकोणापरार्द्धे हुताशनोऽर्द्धपदः । तत्पश्चिमे
पूषैकपदः । तत्पश्चिमे सोत्तरैकपदे वितथो द्विपदः । तत्पश्चिमे गृहक्षत
एकपदः ।
२१ । तत्पश्चिमे वैवस्वत (यम) एकपदः । तत्पश्चिमे सोत्तरैकपदे गन्धर्वो द्विपदः ।
तत्पश्चिमे भृङ्गराज एकपदः । मूले भृङ्गश्चैकपदे ज्ञेय इत्यत्र भृङ्गो
भृङ्गराजः गन्धर्वो भृङ्गराजश्चेति (मत्स्य २२७ अ०) वचनस्वरसात् । ततो
नैरृतकोणार्द्धे मृगोऽर्द्धपदः । इत्यष्टौ दक्षिणदिग्देवताः ।
२२ । अथ पश्चिमपङ्क्तौ नैरृतकोणापरार्द्धे पितरोऽर्द्धपदाः । तदुत्तरेदौवारिक
एकपदः । तदुत्तरे पूर्वैकपदसहिते सुग्रीवो द्विपदः । तदुत्तरे पुष्पदन्त एकपदः ।
२३ । तदुत्तरे वरुण एकपदः । तदुत्तरे पूर्वैकपदसहितेऽसुरो द्विपदः । तदुत्तरे शोष
एकपदः । ततो वायुकोणार्द्धे पापोऽर्द्धपदः । पाप इत्यत्र पापयक्ष्मेति
बृहत्संहिता । इत्यष्टौ पश्चिमदिग्देवताः ।
२४ । अथोत्तरपङ्क्तौ वायुकोणापरार्द्धे रोगोऽर्द्धपदः । तत्पूर्वे नाग एकपदः ।
प्. ४७)
यक्षेश्वरः पदे ज्ञेयो नागराड् द्विपदे स्थितः ।
पदस्था श्रीर्महादेवी अदितिश्चार्द्धसंस्थिता ॥ २५ ॥
आपो ज्ञेयास्तु पदगा ह्यापवत्सः [वत्सः क्, वन्ती (?) ख्, ग्] पदस्थितः [स्थितः
ख्, ग्, संस्थितः क्] ।
चतुष्पदस्थो विज्ञेयस्त्वर्यमा पूर्वमध्यगः [पूर्व क्, पूर्य (?) ख्, ग्] ॥ २६ ॥
सविता तु पदे ज्ञेयः सावित्री च [च क्, तु ख्, ग्] पदे स्थिता ।
ततो विवस्वान् विज्ञेयश्चतुष्टयपदस्थितः [चतुष्टयपद क्, चतुष्पादव्यव ख्,
ग्] ॥ २७ ॥
तत्पूर्वे दक्षैकपदसहिते मुख्यो द्विपदः । बृहत्संहितायामपि तथैव ।
वास्तुयागतत्त्वधृतदेवीपुराणे तु द्विपदे विश्वकर्मा तु इति दृश्यते । तत्पूर्वे
भल्लाट एकपदः ।
२५ । तत्पूर्वे यक्ष्मेश्वर (सोम) एकपदः । यज्ञेश्वर इति देवीपुराणम् । सोम इति
बृहत्संहिता । तत्पूर्वे दक्षैकपदसहिते नागराड् द्विपदः । तत्पूर्वे श्रीरेकपदा ।
ततश्चेशानकोणार्द्धे अदितिरर्द्धपदा । इत्यष्टावुत्तरदिग्देवताः ।
इत्येवंक्रमेणाष्टशश्चतुर्दिक्षु द्वात्रिंशद् बाह्यदेवताः पूज्याः ।
ईदृशदेवताविभागे तु पदस्थान् पूजयेद्देवान् त्रिंशत् पञ्चदशैव तु ।
द्वात्रिंशद् बाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश ॥ (देवी) इत्यादिवचनमेव
नियामकम् ।
२६ । अथेदानीमन्तःपददेवता निरूप्यन्ते । द्वितीयपङ्क्तावीशानपदे आप एकपदाः
। तृतीयपङ्क्तावीशानपदे आपवत्स एकपदः । ततः पूर्वदिङ्मध्यगपदद्वयात्
शक्रभास्कराभ्यामधिष्ठितादधःपदचतुष्टये ब्रह्मस्थानादूर्ध्वे अर्यमा
चतुष्पदः ।
२७ । ततो द्वितीयपङ्क्तावाग्नेयपदे सवितैकपदः । ततस्तृतीयपङ्क्तावाग्नेयपदे
सावित्री एकपदा ।
प्. ४८)
इन्द्रश्चेन्द्रजयश्चैव एकैके संव्यवस्थितौ ।
मित्रश्चतुष्पदस्थश्च [च क्, तु ख्, ग्] पश्चिमे तु व्यवस्थितः ॥ २८ ॥
रुद्रः पदैकसंस्थो वै यक्ष्मा [यक्ष्मा क्, ब्रह्मा ख्, ग्] चैकपदे [क क्, व
ख्, ग्] स्थितः ।
धराधरश्च विज्ञेयो ह्युत्तरे च चतुष्पद. [च चतुष्पदः इत्यंशो क्, पुस्तके
पतितः ।] ॥ २९ ॥
चतुर्मुखश्चतुष्कस्थो मध्ये ज्ञेयः प्रजापतिः ।
देवतानुचरा बाह्ये सर्वे स्कन्दादयः स्थिताः ॥ ३० ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (अष्टमो)
देवताविभागपटलः ॥ ८ ॥
आदितः श्लोकसंख्या - १६८
ततो याम्यमध्यगपदाभ्यां गृहक्षतयमाधिष्ठिताभ्यामधःपदचतुष्टये
ब्रह्मस्थानादूर्ध्वे विवस्मांश्चतुष्पदः ।
२८ । ततो द्वितीयपङ्क्ता नैरृतपदे इन्द्र एकपदः । ततस्तृतीयपङ्क्तौ नैरृतपदे
इन्द्रजय एकपदः । ततः पश्चिमपदाभ्यां पुष्पदन्त-
वरुणाधिष्ठिताभ्यामधः पदचतुष्टये ब्रह्मस्थानादूर्ध्वे मित्रचश्तुष्पदः ।
२९ । ततो द्वितीयपङ्क्तौ वायव्यपदे रुद्र एकपदः । ततस्तृतीयपङ्क्तौ वायव्यपदे
राजयक्ष्मैकपदः । मूले यक्ष्मेत्यनेन राजयक्ष्मेति बोध्यम् राजयक्ष्मा
पदस्थित इति वास्तुयागतत्त्वधृतदेवीपुराणात् रुद्रश्च राजयक्ष्मा चेति
मत्स्यपुराणाच्च । अत्र पापयक्ष्मेति बृहत्संहिता । तत उत्तरपदाभ्यां
भल्लाटयक्षेश्वराधिष्ठिताभ्यामधःपदचतुष्टये ब्रह्मस्थानादूर्ध्वे
धराधर (पृथ्वीधर) श्चतुष्पदः ।
३० । मध्ये चतुर्मुखः प्रजापतिर्ब्रह्मा चतुष्पदः । इत्येवं क्रमेण पदविभागः
विभक्तेषु पदेषु देवानामीषां पूजनञ्च कर्तव्यम् ।
प्. ४९)
देवतेति । बाह्ये मण्डलबहिर्भागे स्कन्दादयः सर्वे देवाः स्थिताः तेषामपि
पूजनं वक्ष्यमाणक्रमेण विधेयमित्यर्थः । स्कन्दादयश्च - पूज्या
मण्डलबाह्ये तु पूर्वाग्नेय्यादिक्रक्रमात् । स्कन्दश्चैव विदारी च अर्यमा पूतना
तथा । जम्भकापापराक्षस्यौ पिलिपिञ्जश्चरक्यपि । इति वास्तुयागतत्त्वधृत-
देवीपुराणवचनानुसारेण पूतना पश्चिमायां जम्भका वायव्यां
पापराक्षसी उत्तरस्यां पिलिपिञ्जः ऐशान्यां चरकी च स्थिताः इत्यर्थः । तथा
गारुडे चतुःषष्टिपदे देवा इत्येवं परिकीर्त्तिता । इति प्रकृत्य
चरक्यादिचतुष्टयानां पूजनादनन्तरम् ईशानाद्यास्तथा बाह्ये देवाद्या
हेतुकादयः । हेतुकस्त्रिपुरान्तश्च अग्निवेतालको यमः । अग्निजिह्वः कालकस्तु करालो
ह्येकपादकः ॥ ऐशान्यां भीमरूपस्तु पाताले प्रेतनायकः । आकाशे गन्धमाली
स्यात् क्षेत्रपालांस्तथा यजेत् ॥ (गारुड ३६)
इत्यभिधानान्मूलस्थस्कन्द्दादिपदेनैतेषामपि ग्रहणम् । अत एव विश्वकर्मणा
बाह्यदेवानाममीषां सन्निवेशनक्रममभिधाय - या बाह्यदेवताः प्रोक्ताः
प्रासादेः ताः प्रपूजयेत् । (विश्व ५) इत्यनेन यत्र यत्र देवतानुचरा बाह्ये सर्वे
स्कन्दादयः स्थिता इति हयशीर्षीयरीत्या स्कन्दादीनां मण्डलपदबहिर्देवतानां
पूजनमभिहितं तत्र तत्रैव तस्य प्रासादमात्रपरत्वमवगन्तव्यमिति सूचितम् ।
तथा चैकाशीतिपदविषये गृहादौ प्रागुक्ताः शिख्यादिचतुःपञ्चाशद्देवता एव
पूज्याः । चतुःषष्टिपदविषये प्रासादादौ तु
शिवादिचतुःपञ्चाशद्देवतापूजनानन्तरं स्कन्दादीनामपि पूजनं
कर्तव्यमित्येव प्रतिभाति विश्वकर्म-हयशीर्षादिवचनसंवादेन । पूजा च
हेतुकादीनामीशानादिक्रमेणोत्तरान्ता । ईशानाद्यास्तथा बाह्ये देवाद्या
हेतुकादयः दति गारुडस्वरसात् । हेतुकः पूर्वदिग्भागे इत्यादि
विश्वकर्मोक्तन्त्वेकाशीतिपदविषयकमिति ध्येयम् । तथा ऐशान्यां पाताले
प्रेतनायकः आकाशे गन्धमाली पूज्यौ । तथा हेतुकादयः क्षेत्रपालाः पूज्याः
इति क्षेत्रपालांस्तथा यजेदिति तथाशब्देन सूचितम् ।
प्. ५०)
नवमः पटलः
(वास्तुपदानां रजसापूरणम् बलिभेदाः पददेवतापूजाप्रयोगनञ्च)
श्रीभगवानुवाच -
एवं प्रगृह्य [गृह्य क्, मृज्य ख्, ग्] कोष्ठानि रजसापूर्य देशिकः ।
एतेषामेव देवानां बलिं दद्यात्तु कामिकम् ॥ १ ॥
१ । पूर्वपटले तत्तद्देवताकपदनिर्माणमुक्ता पदानाममीषां रजसापूरणं
देवताभेदेन बलिभेदञ्च वक्तुं पटलोऽयमारभ्यते । रजसेति । पञ्चवर्णरजोभिः
। तथा च शारदायां - भक्तानामपि देवानां पदान्यापूर्य पञ्चभिः ।
रजोभिस्तैर्यथोक्तेभ्यः पायसाद्यैर्बलिं हरेत् ॥ इति । तथा - पीतं हरिद्राचूर्णं
स्यात् सितं तण्डुलसम्भवम् । कुसुम्भचूर्णमरुणं कृष्णं दग्धपुलाकजम् ।
विल्वादिपत्रजं श्याममित्युक्तं वर्णपञ्चकम् ॥ इत्यादिना रजसां
स्वरूपमभिहितम् । अत्र विशेषानभिधानात् शारदोक्तान्येव पदपूरकाणि रजांसि
ग्राह्याणि ।
रजसामेतेषां पदभेदेन विन्यासक्रमभेदो न मूले निवेशित इति
विश्वकर्मोक्तदिशा प्रदर्श्यते । यथाह विश्वकर्मा -
मध्ये नवपदो ब्रह्मा पीतश्वेतश्चतुर्भुजः । आब्रह्मन् ब्रह्मण इति मन्त्रोयं
समुदाहृतः । अर्य्यमा कृष्णवर्णश्च अर्यम्ना च बृहस्पतिः । सविता रक्तवर्णस्तु
उपयाम गृहीतकम् ॥ विवस्वान् शुक्लवर्णश्च विवस्वानादित्यमन्त्रतः । इन्द्रो
रक्तेन्द्रसूत्रामा मन्त्रोऽयं समुदाहृतः ॥ मित्रः श्वेतश्च तन्मित्रं
वरुणस्याभिचक्षत्विति । राजयक्ष्मा रक्तवर्णो ह्याभिगोत्राणि मन्त्रतः । पृथ्वीधरो
रक्तवर्णः पृथिवीच्छन्दमन्त्रतः ॥ आपवत्सः शुक्लवर्णो भवामेति च मन्त्रतः ॥
आपः शुक्लवर्णश्च तद्वाह्ये आपो अस्मान्मातरेति च ।
प्. ५१)
सावित्र्याग्नेयदिग्भागे शुक्लवर्णैकपात्तथा ॥ उपयामगृहीतोऽसि सवितासीति
मन्त्रतः । जयन्तः श्वेतो नैरृत्ये मर्माणि तेति मन्त्रतः ॥ रुद्रो रक्तश्च वायव्ये
सूत्रामा इति मन्त्रतः । ईशाने रक्तवर्णश्च तमीशानेति वै शिखी ॥ पर्यन्यः
पीतवर्णश्च तमीशानेति वै तथा । जयन्तः पीतवर्णश्च धन्ननागा इति स्मृतः ॥
कुलिशायुधः पीतवर्णो महा इन्द्रेति वै तथा । सूर्यो रक्तः सूर्यरश्मिर्हरिकेति च
मन्त्राः ॥ सत्यश्च शुक्ल् व्रतेन दीक्षामाप्नोति मन्त्रतः । भृशः कृष्णो मन्त्रमस्य
भद्रङ्करणेभिरेव च ॥ अन्तरिक्षः कृष्णवर्णो वयं सोमश्च इत्यपि ।
वायुर्धूम्रस्तथावर्ण आवयोरिति मन्त्रतः ॥ पूषा च रक्तवर्णश्च पूषन्तव
इतीरितः । शुक्लवर्णञ्च वितथं सविता प्रथमेति च ॥ गृहक्षतः पीतवर्णः सविता
त्वेति मन्त्रतः । यमः कृष्णवपुर्याम्ये यमाय त्वा मखाय च ॥ गन्धर्वो
रक्तवर्ण"च पृतद्वो वेति मन्त्रतः । भृङ्गराजः कृष्णवर्णो मृत्युः सुपर्णेति वा
तथा ॥ मृगः पीतश्च तद्विष्णोर्मन्त्रेण निरृतिस्थितः । पितृगणा रक्तवर्णाः
पितृभ्यश्चेति पूजयेत् ॥ दौवारिको रक्तवर्णो द्रविणोदाः पिपीषति । शुक्लवर्णश्च
सुग्रीवः सुषुम्नः सूर्यरश्मिना ॥ पुष्पदन्तो रक्तवर्णो नक्षत्रेभ्येति मन्त्रतः ।
वरुणः शुक्ल इतरो मित्रास्य वरुणास्यतः ॥ असुरः पीतरक्तश्च ये रूपाणीति
मन्त्रतः ॥ शोकः कृष्णवपुर्मन्त्रमासवे स्वाहेत्यावाहयेत् ॥ पापयक्ष्मा
पीतवर्णः सूर्यरश्मीति मन्त्रतः । रक्तवर्णस्तथा रोगः शिरो मे इति कोणके ॥
द्विपदोऽहिर्वायुकोणे नमोऽस्तु सर्पेभ्यश्च । मुख्यो रक्तवपुः कार्य इषे त्वा इति
पूजयेत् ॥ भल्लाटकः कृष्णवर्णो बन्महा&सीति मन्त्रतः ॥ सोमः श्वेतश्चोत्तरे च
वयसोमेति मन्त्रतः ॥ सर्पः कृष्णवपुः पूज्य उदुत्यं जातवेदसम् । अदितिः
पीतवर्णा तु उतनोहिर्बुध्न्यमन्त्रतः ॥ दितिः पीता अदितिर्द्यौर्मन्त्रेणेशानकोणके ।
ईशानादिक्रमेणैव स्थाप्याः पूज्याः स्वमन्त्रतः ॥ नाममन्त्रेण वा स्थाप्याः
पूज्याश्चैव यथाक्रमात् । भूर्भुवःस्वेति मन्त्रेण प्रणबाद्येन नामकैः ॥
ईशाने चरकी स्थाप्या धूम्रवर्णाथ बाह्यगाः । ईशावास्येति मन्त्रेण स्थाप्याः
पूज्याः प्रयत्नतः ॥ विदारिका रक्तवर्णा अग्निं दूतेति मन्त्रतः । पूतना पीतहरिता
नमः स्वस्त्याय मन्त्रतः ॥
प्. ५२)
पापराक्षसी कृष्णाभा वायव्यैरिति मन्त्रतः । बहिरेव च पूर्वादिक्रमेण च
ततोऽर्च्चयेत् । रक्तकृष्णः स्कन्धघटी एह्यत्र मयमन्त्रतः । अर्यमा दक्षिणे कृष्ण
अर्यम्ना च बृहस्पतिः ॥ पश्चिमे रक्तवर्णस्तु जम्भकः परिकीर्तितः । सरोभ्यो
भैरवं मन्त्रं समुच्चार्य प्रपूजयेत् ॥ पिलिपिञ्जः पीतवर्णः कायम्भमरेति
मन्त्रतः । भीमरूपस्तथेशाने यमाय त्वेति रक्तकः ॥ त्रिपुरारिः
कृष्णवर्णस्त्र्यम्ब्के त्वग्निकोणके । अग्निजिह्वस्तु नैरृत्य असुन्वं त्वेति पीतकः ॥ कराला
रक्तवर्णा तु वातो ह त्वा हनास्थितः । हेतुकः पूर्वदिक् कृष्णो हेमन्ते रृतुना तथा ॥
अग्निवेतालके (?) याम्ये कृष्णोऽग्निं दूतमित्यपि । कालाख्यः पश्चिमे कृष्णो
वरुणस्योत्तम्भनं तथा ॥ एकपादः पीतवर्णः कुविदाङ्गेति चोत्तरे । ईशान-
पूर्वयोर्मध्ये गन्धमाल्यश्च पीतकः ॥ गन्धद्वारेति मन्त्रेण
पूज्यमानोऽन्तरीक्षके । नैरृत्यां बुद्धिमध्यस्थो ज्वालाख्यः श्वेतरूपधृक् ॥
महि द्यौरिति मन्त्रेण पूजनीयो विधानतः । या बाह्यदेवताः प्रोक्ताः प्रासादे ताः
प्रपूजयेत् ॥ (विश्व ५ । ६२ - ९८)
विश्वकर्मणा गृहादिनिर्माणविहितैकाशीतिपदमण्डलमधिकृत्य रजसां न्यासो
व्याख्यात इति प्रकृतप्रकरणानुसारेण मध्ये नवपदो ब्रह्मेत्यभिहितं
परन्त्वेकाशीतिपद-चतुःषष्टिपदयोरुभयोरपि पूजनीयानां देवतानां
प्रायस्तुल्यतया तत्तद्देवतावर्णानामपि तथात्वेन राजसां न्यासोऽप्युभयत्न
तुल्य एव । तथा च हयशीर्षोक्तक्रमेण विभक्तदेवताकेषु पदेषु विश्वकर्मोक्तरीत्या
राजसां न्यासः करणीयो नतु पदविभागोऽपीति तत्त्वम् । परन्तु शिखीत्यत्र शिव इति
अदितिरित्यत्र शीरितिदितिरित्यत्र चादितिरित्येकाशीतिपदाच्चतुःषष्टिपदगतदेवतान्यासे
विशेष इति ध्येयम् ।
एषु विश्वकर्मवचनेषु ब्रह्मणः प्रभृति रजसां न्यासोऽभिहितः । अस्माभिस्तु
शिष्टानां सुखबोधाय हयशीर्षोयोद्देशानुसारेण स एव संक्षेपेण
प्रदर्श्यते - शिवो रक्तः । पर्जन्यः पीतः । जयन्तः पितः । शकः पीतः । भास्करो
रक्तः । सत्यः शुक्लः । भृशः कृष्णः । व्योम कृष्णम् । हुताशनो (केषाञ्चिन्मते
वायुः) धूम्रः । हुताशनो रक्त इति वैदिकसर्वस्वम् । पूषा रक्तः । वितथः शुक्लः ।
गृहक्षतः पीतः ।
प्. ५३)
ईशानाय प्रदातव्यं पायसं मधुना सह ।
यमः कृष्णः । गन्धर्वो रक्तः । भृङ्गराजः कृष्णः । मृगः पीतः । पितरो रक्ताः ।
दौवारिको रक्तः । सुग्रीवः शुक्लः । पुष्पदन्तो रक्तः । वरुणः शुक्लः । असुरः
पीतरक्तः । शोषः (शोक इति विश्वकर्मा) कृष्णः । पापयक्ष्मा पीतः । रोगो रक्तः ।
नागो रक्तः । मुख्यो रक्तः । (विश्वकर्मा पीत इति वैदिकसर्वस्वम्) भल्लाटः कृष्णः ।
थक्ष्मेश्वरः (सोम इति विश्वकर्मा) श्वेतः । सर्पः कृष्णः । श्रीः (अदितिरिति
विश्वकर्मा) पीता । अदितिः पीता । आपः शुक्लाः । आपवत्सः शुक्लः । अर्यमा कृष्णः ।
सविता रक्तः । सावित्री शुक्ला । विवस्वान् शुक्लः । इन्द्रो रक्तः । इन्द्रजयः श्वेतः ।
(जयन्त इति विश्वकर्मा) । मित्रः श्वेतः । रुद्रो रक्तः । राजयक्ष्मा रक्तः । पृथ्वीधरो
रक्तः । मध्ये चतुष्पदो ब्रह्मा पीतश्वेतः । अथेदानीं मण्डलबहिर्देवतावर्णा
निरूप्यन्ते - स्कन्दो रक्तः । विदारी रक्ता । अर्यमा कृष्णः । पूतना पीतहरिता ।
जम्भको रक्तः । पापराक्षसी कृष्णा । पिलिपिञ्जः पीतः । चरकी धूम्रा । हेतुकः
कृष्णः । त्रिपुरान्तकः कृष्णः । अग्निवेतालः कृष्णः । यमः कृष्णः । अग्निजिह्वः
पीतः । कालः कृष्णः । करालो रक्तः । एकपादः पीतः । (एतेऽष्टौ हेतुकाद्याः
क्षेत्रपालाः) । भीमरूपो रक्तः । गन्धभाली (ईशानपूर्वयोर्मध्ये नभसि) पीतः
। पुनस्तत्रैव हेतुकाद्याः क्षेत्रपालास्तत्तद्वर्णाः पूज्याः ।
अथ वक्ष्यमाणबलेः काम्यत्वं व्यवस्थापयितुमाह - कामिकमिति । एतेन बलेः
काम्यत्वात् एवं संपूजिता देवा इत्यादिवक्ष्यमाणैकविंशश्लोकेन पूजाया
नित्यत्वावगमाच्च पूजाङ्गहोमस्यापि तथात्वेन पूजाहोमानन्तरं बलिर्विधेयः ।
अत एव स्मार्त्तभट्टाचार्यैरपि - एवं संपूजिता देवाः शान्तिपुष्टिप्रदा नृणाम् ।
अपूजिता विनिघ्नन्ति कारकं स्थापकं तथा ॥ इति देवीपुराणवचनमुल्लिख्य अत्र
प्रपूजाया नित्यत्वात् वक्ष्यमाणमत्स्यपुराणवचने होमानन्तरं बलिविधानाच्च
बलेः काम्यत्वात् पूजाहोमानन्तरं बलिदानाचारः इति तथा - होमान्ते
भक्ष्यभोज्यैश्च वास्तुयागे बलिं हरेदिति मत्स्यपुराणे होमान्ते
बलिविधानादत्रापि होमं कृत्वा बल्यादिप्रागुदितसर्वकर्मकरणाचार इति
चाभ्यधायि ।
प्. ५४)
पर्जन्याय जलं देयं गन्धपुष्पादिवासितम् [गन्धपुष्प क्, पुष्पगन्ध ख्,
ग्] ॥ २ ॥
जयन्ताय प्रदातव्या पताका [पताका क्, पताकी (?) ख्, ग्] पीतवर्णिका ।
सुरेश्वराय रत्नानि भास्कराय घृतं तथा ॥ ३ ॥
धूम्रकं [धूम्रकं क्, धूम्राभं ख्, ग्] पीतवर्णं वा सत्ये
दद्याद्वितानकम् ।
दद्याद् भृशे [भृशे क्, वृषे (?) ख्, ग्] पक्षिमांसं व्योमाय (?)
श्रुवमग्नये [श्रुव ख्, श्रव (?) ख्, ग्] ॥ ४ ॥
पुष्णे धानाः सलाजास्तु सुवर्णं वितथे तथा ।
गृहक्षताय मध्वन्नं यमाय पिशितौदनम् ॥ ५ ॥
गन्धं गन्धर्वदेवाय भृङ्गे दद्यात्तु शाकुनम् ।
मृगे [भृगे ख्, ग् मुद्ग क्] तिलयवांश्चैव [तिल क्, तिस (?) ख्, ग्] पितृभ्यः
कृसरन्तथा ॥ ६ ॥
दौवारिके दन्तकाष्ठं सुग्रीवे यावकन्तथा ।
पुष्पदन्ते कुशा देया वरुणे पद्ममुत्पलम् ॥ ७ ॥
अमुरायैक्षवं [असुराय क्, गन्धर्वाय (?) ख्, ग्] देयं रसं शोषे [शोषे क्,
शोके ख्, ग्] घृतौदनम् ।
यवास्तु देयाः पापाय रोगाय घृतमण्डकम् ॥ ८ ॥
नागाय नागपुष्पाणि भक्ष्यान् मुख्याय दापयेत् ।
चित्रौदनञ्च भल्लाटे सोमाय मधुपायसम् ॥ ९ ॥
२ । अथेशानादिदेवेषु कस्सै कीदृशो बलिर्देय इत्याह - ईशानायेत्यत ऐशान्यां दिशि
दापयेदित्यन्तेन ।
प्. ५५)
नागाय चापि शालूकं श्रियै सरसपायसम् ।
अदित्यै पूरिका देया क्षीरमद्भ्यो ददेद्बलिम् ॥ १० ॥
दधि क्षीरञ्चापवत्से [वत्से ख्, ग्, वन्त्यै (?) क्] अर्यम्णे लड्डुकं बलिम् ।
कुशोदकं सवित्रे च सावित्र्यै गुडपूपकम् ॥ ११ ॥
विवस्वते रक्तपुष्पं रक्तचन्दनमेव च ।
हरिद्रान्नं तथेन्द्राय साज्यमिन्द्रञ्जयाय च ॥ १२ ॥
घृतपूरन्तु [पूर क्, पूर्ण ख्, ग्] मित्राय रुद्राय गुडपायसम् ।
आमपक्वानि मांसानि प्रदद्याद्राजयक्ष्मणे ॥ १३ ॥
पृथ्वीधरायाममांसं सकुल्माषं बलिं हरेत् ।
साक्षतं सतिलञ्चैव पञ्चगव्यं तथा चरुम् ॥ १४ ॥
कुशान् गन्धं तथा पुष्पं ब्रह्मस्थाने निवेदयेत् [द क्, श ख्, ग्] ।
आममांसं पूर्वभागे सर्वं स्कन्दे तु सोदनम् ॥ १५ ॥
सितपद्मं घृतं मांसं विदार्यै चाग्निकोणके ।
कृसरापूपकं मांसमर्यम्नायैव [मार्यम्ना क्, अर्यम्ना ख्, ग्] दक्षिणे
॥ १६ ॥
पिष्टं [पिष्टं ख्, ग् पिण्डं क्] चैव तथा रक्तं पूतन्यै निरृते तथा ।
सासृङ्मांसं प्रदातव्यं जम्भकायैव [एव क्, तु ख्, ग्] पश्चिमे ॥ १७ ॥
अस्थिकण्डैश्च सहितं रक्तपिण्डेन मिश्रितम् ।
प्रदेयं पापराक्षस्यै वायव्यां मांसमेव च ॥ १८ ॥
उत्तरे पिलिपिच्छायै (?) सान्त्रं रक्तं बलिं हरेत् ।
प्. ५६)
चरक्यै [चरक्यै ख्, ग्, वाराह्यै (?) क्] छागमांसानि ऐशान्यां दिशि
दापयेत् ॥ १९ ॥
ततो भूतगणानान्तु राक्षसानां सुरोत्तम ।
पिशाचानां गणानान्तु बलिर्देयस्तु कामिकः ॥ २० ॥
एतान् वा पूजयेत् सर्वान् कुशपुष्पाक्षतैर्बुधः ॥ २१ ॥
एवं संपूजिता देवाः शान्तिपुष्टिप्रदा नृणाम् ।
अपूजिता विहिंसन्ति कारकं स्थापकं तथा ॥ २२ ॥
तस्मादेतांस्तु संपूज्य गन्धैः पुष्पैर्मनोहरैः ।
प्रासादं कारयेद् विद्वान् गृहं वा सुरसत्तम ॥ २३ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (नवमो)
बलिदानपटलः ॥ ९ ॥
आदितः श्लोकसंख्या - १९१
२० । एवं चरक्यन्तानां बलिमुक्त्वा भूतादीनां बलिमाह - तत इति । भूतानां
राक्षसानां पिशाचानाञ्च बलिर्न निर्दिष्टः परन्त्वेतेषां यद् यदभीष्टं वस्तु
तेन तेनैवैतेषां बलिर्विधेय इत्येवाह - कामिक इत्यनेन ।
२१ । तत्तदुपचारालाभे कर्तव्यमाह - एतानिति । मत्स्यपुराणे तु हयशीर्षीयक्रमेण
बलिभेदमभिधाय पायसं वापि दातव्यं स्वनाम्ना सर्वतः क्रमात् ।
नमस्कारेण मन्त्रेण प्रणवाद्येन सर्वतः ॥ (२४२ अ०) इत्यनेन
बलेस्तत्तदुपकरणालाभे पायसेन तन्निर्वर्तनमभिदधे । सौरकाण्डेऽपि
चतुर्थपटले - प्रत्येकद्रव्यजातीनामलाभाद् वास्तुदेवताः । गन्धादिना
समभ्यर्च्य परमान्नबलिं हरेदित्यभिधास्यते ।
२२-२३ । वास्तुकर्मण्येतेषां पूजने फलमाह - एवमिति । अपूजने दोषमाह -
अपूजिता इति । उपसंहरति - तस्मादिति ।
प्. ५७)
दशमः पटलः ।
(अर्घ्यदानम्)
श्रीभगवानुवाच -
ब्रह्मस्थाने ततः कुर्याद् वासुदेवस्य पूजनम् ।
श्रियः संपूजनं कुर्यात् हृषीकेशगणस्य च ॥ १ ॥
पूजनञ्च ततः कुर्याद् वासुदेवगणस्य च ।
गन्धार्घ्यपुष्पनैवेद्य [नैवेद्य क्, नैवेद्यैः ख्, ग्] धूपदीपैर्मनोहरैः
[धूपैर्दीपैः क्, धूपदीपैः ख्, दीप ग्] ॥ २ ॥
ततः संपूजयेत्तस्मिन् सर्वलोकधरां महीम् ।
सुरूपां प्रमदारूपां दिव्याभरणभूषिताम् [दिव्या क्, सर्वा ख्, ग्] ॥ ३ ॥
ध्यात्वा समर्चयेद्देवीं परितुष्टां स्मिताननाम् ।
ततः प्रणम्य विज्ञाप्य तन्मयत्वेन [यत्वेन क्, ना च (?) (श्च) वि ख्, ग्] चिन्तयेत् ॥
४ ॥
१ । अथेदानीमर्घ्यदानप्रक्रियां प्रदर्शयितुं पटलोऽयमारभ्यते ब्रह्मस्थान
इति । तत इति शिवादीनां पददेवतानां पूजनादनन्तरं नतु
स्वाव्यवहितप्रागुक्तबलिविधेरनन्तरं तस्य होमानन्तरमेव कर्तव्यतायाः
पूर्वपटले व्यवस्थापनात् । ब्रह्मस्थाने मण्डलमध्ये चतुष्पदात्मके स्थाने
इत्यर्थः ।
३-४ । पृथिव्याः पूजनमाह - तत इति । वासुदेवादिपूजानन्तरं तस्मिन् ब्रह्मस्थाने
सर्वलोकधरां महीं पूजयेदित्यर्थः । तस्या ध्यानमाह - सुरूपामिति ।
प्. ५८)
ततः स्वनाममन्त्रेण सर्वामरमयं परम् ।
ध्यात्वा समर्चयेद् भक्त्या [भक्त्या क्, तत्र ख्, ग्] यत्तद्वास्तुमयं नरम् ॥ ५
॥
ब्रह्मस्थाने ततो विद्वान् कुर्यादाधारमक्षतैः ।
तस्मिन् संस्थापयेत् कुम्भं वर्द्धन्या सह पूजितम् ॥ ६ ॥
हैमं वा राजतं वापि मृण्मयं वा दृढं नवम् [दृढं नवं क्,
नवं दृढं क्, ग्] ।
सर्ववीजौषधीयुक्तं सुवर्णराजतान्वितम् [राजत क्, रजत ख्, ग्] ॥ ७ ॥
रत्नगर्भं सुसम्पूर्णं वस्त्रपूतेन वारिणा ।
प्रशस्तपल्लवोपेतं श्वेतचन्दनचर्चितम् ॥ ८ ॥
पुष्पैः सुमालितं कृत्वा शस्तधूपैर्विधूपितम् ।
आहतेन तु शुक्लेन वस्त्रयुग्मेन वेष्टितम् ॥ ९ ॥
५ । तत इति पृथिवीपूजानन्तरम् । स्वनाममन्त्रेणेति ओं वास्तुपुरुषाय नमः इति
मन्त्रेणेत्यर्थः ओंकारादिसमायुक्तं नमस्कारान्तकीर्तितम् । स्वनाम
सर्वसत्त्वानां मन्त्र इत्यभिधीयते । इति वास्तुयागतत्त्वधृतब्रह्मपुराणवचनात् ।
सर्वामरमयमिति - वास्तुपुरुषस्य स्वर्गावधिकपातनकाले
तदवयवाधिष्ठितानां ब्रह्मेन्द्रेशपर्जन्यादिदेवानां तेन सहैव पतनात्
तदवयवेष्वव्यभिचरिताधिष्ठानश्रुतेश्चास्य सर्वामरमयत्वम् । तच्च
भीतभीतैस्ततो देवैर्ब्रह्मणा वाथ शूलिना । दानवासुररक्षोभिरवष्टब्धं
समन्ततः ॥ येन यत्रैव चाक्रान्तं स तत्रैवाभवत् पुनः । निवासात् सर्वदेवानां
वास्तुरित्यभिधीयते ॥ (मत्स्य २२७) इति वचनादवगन्तव्यम् ।
६ । अथ ब्रह्मदेवताकं घटस्थापनं तत्स्थानञ्च निर्दिशति ब्रह्मस्थान इति ।
मध्यपदचतुष्टयात्मके स्थाने अक्षतान्याधारभूतानि निक्षिप्य तदुपरीत्यर्थः
।
७-९ । स्थापनीयकलसस्य प्रकारभेदान् स्थापनक्रमञ्च निर्दिशति हैममित्यादिना
वेष्टितमित्यन्तेन ।
प्. ५९)
ब्रह्मस्थाने ततो मन्त्री कलसं स्थाप्य पूजयेत् ।
तस्मिंश्चतुर्मुखं देवं प्रजेशं मन्त्रविग्रहम् ॥ १० ॥
गन्धैः [गन्धैः ख्, ग्, गन्ध क्] पुष्पैश्च धूपैश्च नैवेद्यैः [सु क्, च ख्, ग्]
सुमनोहरैः ।
ततो मण्डलबाह्ये तु प्राच्यां वै प्राङ्मुखः स्थितः ॥ ११ ॥
आचार्यो गृह्य सम्भारान् ग्रहादीं [ग्रहादीन् क्, ब्रह्मा तु ख्, ग्] स्तर्पयेत्
सुरान् ।
घृतैस्तिलैर्यवैर्मन्त्री ब्रह्मादींस्तर्पयेत्ततः ॥ १२ ॥
प्रजेशं तर्पयेद् विद्वानाहुतीनां शतेन च [च क्, तु ख्, ग्] ।
इतरान् दशभिर्देवानाहुतीभिः प्रतर्पयेत् ॥ १३ ॥
दद्यात् पूर्णाहुतिं पश्चाद् वौषडन्तेन मन्त्रवित् ।
ततः प्रणम्य विज्ञाप्य कृत्वा वै स्वस्तिवाचनम् ॥ १४ ॥
प्रगृह्य कर्करीं सम्यङ् मण्डलन्तु प्रदक्षिणम् ।
सूत्रमार्गेण देवेश तोयधारान्तु भ्रामयेत् ॥ १५ ॥
१० । पूर्वं यत् सप्तमश्लोके तस्मिन् संस्थापयेत् कुम्भमित्यनेन
घटस्थापनमुद्दिष्टं तदेव विधिना कर्त्तुमुपदिशति ब्रह्मस्थान इति ।
१२ । सम्भारान् वक्ष्यमाणहोमाद्युपकरणानि गृहीत्वेत्यर्थः । गृह्येति क्त्वाचो
यवादेश आर्षः । ग्रहादीनित्यत्र ब्रह्मादीनिति वैदिकसर्वस्वधृतः पाठः ।
ग्रहादीनित्यनेन नवग्रहहोम उक्तः । तदन्तरं ब्रह्मादिदेवताकहोममाह -
घृतैरिति । वैदिकसर्वस्वे तु घृताक्तमधुमिश्रिततिलयवैः समिद्भिर्होम उक्तः ।
ब्रह्मादीनित्यादिपदेन शिवादीनां मण्डलबाह्यान्तर्देवतानां ग्रहणम् ।
१३ । अथ ब्रह्मादिदेवेषु कस्य कियत्संख्यकहोम इत्याह - प्रजेशमित्यादि ।
१५ । प्रगृह्येति । कर्करीं वर्द्धनीं ब्रह्मकुम्भस्य शीर्षे स्थापितपूर्वां
प्. ६०)
पूर्ववत्तेन मार्गेण सप्तवीजानि भ्रामयेत् [भ्रामयेत् क्, संलिखेत् ख्, ग्] ।
सुशोभनं शुभस्थानं तथा खातस्य कारयेत् ॥ १६ ॥ [पादद्वयमिदं क
पुस्तके नास्ति ।]
ततो गर्त्तं खनेन्मध्ये [मध्ये क्, भूमौ ख्, ग्] हस्तमात्रं प्रमाणतः ।
चतुरङ्गुलमात्रन्तदधः [तदधः क्, तु ह्यधः ख्, ग्] खन्यात् सुसम्मितम् ॥
१७ ॥
गोमयेनोपलिप्याथ [उप क्, वि ख्, ग्] चन्दनेन विभूषयेत् ।
मध्ये दत्त्वा तु पुष्पाणि शुक्लान्यक्षतमेव च ॥ १८ ॥
आचार्यः प्राङ्मुखो भूत्वा ध्यायेद्देवं चतुर्भुजम् ।
तूर्यमङ्गलघोषेण ब्रह्मघोषवरेण च ॥ १९ ॥
गृहीत्वैव प्रदक्षिणं कार्यं न तु कर्कर्य्यन्तरमादाय सौरकाण्डे
चतुर्थेऽर्घ्यदानपटले - अवधार्य जगच्छान्तिं ततोऽर्घ्यं दापयेत् गुरुः । इति
प्रकृत्य कुम्भन्तु सम्यगुद्धृत्य ब्रह्मघोषादिना गुरुः । सेचयेद् ब्रह्मभागे तु
वर्द्धनीं भ्रामयेत्ततः । इत्यादिना ब्रह्मकुम्भोद्धारपुरःसरं
वर्द्धनीभ्रमणोपदेशात् । कर्मणि विनियुक्तां वर्द्धनीमुपेक्ष्य
वर्द्धन्यन्तरादाने प्रमाणाभावाच्च । वर्द्धनी तु गलन्तिका इति हैमः
इत्यमरटीकायां भानुजिदीक्षितः । कर्कर्यालुर्गलन्तिका इति चामरः । तस्माद्
वर्द्धनीकर्करीशब्दावभिन्नार्थकौ ।
१७ । अथार्घ्यदानाय खातकरणमाह - तत इति । मध्य इति
वास्तुभूमेर्मध्यप्रदेशे ब्रह्मस्थाने इत्यर्थः । अत्र
स्मार्त्तभट्टाचार्यैराग्नेय्यामाकाशपदे खातनिर्माणमुक्तं
व्यवहारोऽप्यधुना तथैव । तया स्मार्तोक्त्या ख्, ग् पुस्तकधृतो मध्य इत्यत्र
भूमाविति पाठो न विसंवदति । परं वास्तुयागतत्त्वधृतदेवीपुराणेऽपि मध्य
इति पाठदर्शनात् स एव मूले निवेशितः ।
प्. ६१)
अर्घ्यं दद्यात् सुरश्रेष्ठ कुम्भतोयेन मन्त्रवित् ।
प्रगृह्य कर्करीं तावत्तद् गर्त्तं [गर्त्तं ख्, ग्, सूत्रं (?) क्] पूरयेज्जलैः ॥
२० ॥
सर्वरत्नसमाकीर्णैर्विमलैः सुसुगन्धिभिः ।
तस्मिन् शुक्लानि पुष्पानि प्रक्षिपेदोमिति स्मरन् ॥ २१ ॥
तदावर्त्तं परीक्षेत वेदाद्येनाक्षतं क्षिपेत् ।
शुभं स्याद्दक्षिणावर्त्तेऽशुभं वामे भवेत्ततः ॥ २२ ॥
वीजैः शालियवादीनां तं गर्त्तं पूरयेद् बुधः [बुधः क्, ततः ख्, ग्] ।
क्षेत्रजाभिः पवित्राभिर्मृद्भिर्गर्त्तं प्रपूरयेत् ॥ २३ ॥
एवं निष्पाद्य विधिना चार्घ्यदानं सुरोत्तम ।
सुवर्णं गां वस्त्रयुग्ममाचार्य्याय निवेदयेत् ॥ २४ ॥
कालज्ञ-स्थपती पूज्यौ वैष्णवान् शक्तितोऽर्चयेत् ।
ब्राह्मणान् भोजयित्वा च [च क्, तु ख्, ग्] गेयनृत्यादि [गेयनृत्यादि क्, नृत्यगीतादि
ख्, ग्] कारयेत् ॥ २६ ॥
ततस्तं खातयेद् [तं खातयेत् क्, संक्षालयेत् ख्, ग्] यत्नाज्जलान्तं यावदेव
तु ।
पुरुषाधः स्थितं शल्यं न गृहे दोषदं भवेत् ॥ २६ ॥
प्रासादे दोषदं शल्यं भवेद् यावजलान्तिकम् ।
तस्मात् प्रासादिकी भूमिः शोध्या यावज्जलान्तिकम् ॥ २७ ॥
२३ । वीजैरिति । ब्रीह्यादिसप्तवीजैः टीकायां प्रागुक्तैः ।
२६-२७ । एवमर्घ्यदानब्राह्मणभोजनाद्यनन्तरं प्रागुक्तैर्लिङ्गैः शल्यानां
ज्ञानेऽज्ञाने वा सम्भाव्यमानशल्यापनयनाय प्रक्रियाविशेषमुपदिशति तत
इति ।
प्. ६२)
शिलान्तं कर्करान्तं वा यावद्वा भूः [वा भूः क्, भूर्वा ख्, ग्]
कुमारिका ।
आकोट्य तां समीकृत्य ततो यागं [यागं क्, यज्ञं ख्, ग्] समारभेत् [रभेत्
क्, चरेत् ख्, ग्] ॥ २८ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (दशमो)
ऽर्घ्यदानपटलः ॥ १० ॥
आदितः श्लोकसंख्या - १९६
प्रागुक्तवास्तुदोषोपशमनपरिकर्मभिः परिशोधितं वास्तुत्वेनाभिमतं
प्रदेशं यत्नात् खातयेत् । कियदन्तमित्याह - जलान्तमिति । खाते क्रियमाणे
यावदधःप्रदेशाज्जलं नोद्गच्छति तावदित्यर्थः । जलोद्गमे प्रवृत्ते न पुनः
खननमावश्यकम् । एतच्च प्रासादविषय एव नतु गृहादावित्याह - पुरुषाध इति ।
गृहे पुरुषपरिमितितभूमेरधःस्थं शल्यं न दोषमावहति । प्रासादे तु
जलान्तखननशोधितैव भूमिरात्मानमपशल्यां प्रमाणयति
तदधःस्थशल्यस्य फलजननासामर्थ्यादित्यर्थः । अत्र प्रासादस्यैव
प्रस्तुतत्वादुपसंहरति तस्मादिति ।
२८ । तत्रैव क्रमान्तरमाह - शिलान्तमिति । भूमौ खन्यमानायामप्राप्ते
जलोद्गमे भूमेरधः शिलासु कर्करासु कृष्णमृत्तिकभूमिषु वोपलभ्यमानासु
तदन्तमेव खातयेत् । कठिनशिलादीनामधोऽस्थ्यङ्गारादिशल्यस्य
प्रवेशासम्भवात् कृष्णमृदां पुरातनत्वेन तदभ्यन्तरे
शल्यसत्तासम्भवाच्चेति तात्पर्यम् । आकोट्येति । तामनया रीत्या संशोधितां
भूमिकाकोट्य मुद्गरादिभिराहत्य वक्ष्यमाणयागं समारभेतेत्यर्थः ।
प्. ६३)
एकादशः पटलः ।
(शिलाधिवासनं तत्र दिनविचारः इष्टकालक्षणादिकञ्च)
श्रीभगवानुवाच -
अतः परं प्रवक्ष्यामि प्रतिष्ठां पादसंज्ञिताम् [संज्ञितां ख्, ग्,
संश्रितां क्] ।
अग्रतो मण्डपः कार्यश्चतुरस्रः सवेदिकः ॥ १ ॥
दशद्वादशहस्तो [स्तो ख्, ग्, स्ता क्] वा चतुर्भागायतः शुभः ।
पताकाभिर्ध्वजैश्चित्रैः कदलीभिर्विभूषयेत् ॥ २ ॥
१ । अथेदानीमर्घ्यदानानन्तरं पातालयागे कर्तव्ये तदङ्गशिलाध्वासन-
स्वरूपनिरूपणार्थं शिलाधिवासनपटलोऽयमारभ्यते अतःपरमित्यादिना ।
एवमत्रावधेयं - पातालयागो नाम वक्ष्यमाणपटलेऽभिधेयो होम-
गर्भाधानादिकर्मकलापनिष्पादनपुरःसरो विधिबोधितः
प्रागुक्तप्रक्रियापरिशोधितभूमेरधःखाते करिष्यमाणप्रासाद-
वेदिकारम्भकेष्टकाप्रतिष्ठारूपो व्यापारविशेषः । इष्टकाप्रतिष्ठा च सा
प्रासादवेदिकासम्पादिनी वेदिकायाश्च प्रासादशरीरधारकत्वेन पादभूतत्वात्
तत्प्रतिष्ठा प्रासादपादप्रतिष्ठैवेत्याह - प्रतिष्ठां पादसंज्ञितामित्यनेन ।
अग्रत इति - करिष्यमाणप्रासादाधिकरणत्वेनाभिमताया भूमेरग्रत इत्यर्थः ।
अत्राग्रत इत्यनवधारिताग्रदेशविशेषेऽपि दशहस्तान् परित्यज्य मण्डपस्य
विभागकम् । इति वैदिकसर्वस्वधृत-महाकपिलपञ्चरात्रवचनेन
देवताप्रतिष्ठायामिव प्रकृतप्रासादप्रतिष्ठायामपि मण्डपार्थं
प्रासादभूमेर्दशहस्तान्तरिताग्रप्रदेशस्य परिग्रहः समीचीनः
विशेषानादेशाद् वाधकाभावाच्च ।
२ । अस्य मण्डपस्य परिमाणमाह - दशद्वादशहस्तो वेति । अथ पूर्वश्लोके सवेदिक
इत्युक्तं तत्र वेदिकायाः किं परिमाणमित्यत आह - चतुर्भागायत इति ।
प्. ६४)
कुण्डानि कुर्याच्चत्वारि तोरणानि यथाक्रमम् ।
कुम्भन्यासेष्टकान्यासौ [सौ क्, से ख्, ग्] द्वारस्तम्भौ व्रतन्तथा
[द्वारस्तम्भौ व्रतं तथा क्, तोरणाश्रयमेव हि ख्, ग्] ॥ ३ ॥
सर्वमेतत्तु कुर्वीत दिवसे तु सुशोभने ।
सर्वेष्वेव तु कर्तव्यं देवब्राह्मणपूजनम् ॥ ४ ॥
कालज्ञपूजनञ्चैव स्थपतीनाञ्च पूजनम् ।
वास्तुकर्म न चारभ्यं वर्षाकाले विजानता ॥ ५ ॥
कृष्णपक्षे त्रिभागान्ते शुक्लस्यदौ द्वितीयके ।
चतुर्थीं नवमीं वर्ज्य तिथिञ्चापि चतुर्दशीम् ॥ ६ ॥
भौमस्य तु दिनं वर्ज्यं करणं विष्टिसंज्ञिfतम् ।
क्षित्यन्तरीक्षदिव्योत्थैरुत्पातैर्भयपीडितम् ॥ ७ ॥
उपसृष्टं ग्रहैर्भञ्च व्यतीपातहतं तथा ।
चन्द्रतारानुकूले च [च क्, तु ख्, ग्] कार्यं कर्म विजानता ॥ ८ ॥
ध्रुवाणि चात्र शस्तानि नैरृतं शक्रदैवतम् ।
पुष्यं पौष्णञ्च सावित्रं वायव्यं वैष्णवं तथा ॥ ९ ॥
मण्डपचतुर्भागैकभागायता वेदिका कार्या । ततश्च
चतुर्भागैकभागायतवेदिको मण्डपः कार्य इत्यर्थः । उपसर्जनीभूतस्यापि
वेदिकाशब्दस्य बुद्धिस्थस्यात्र परामर्शः ।
३-५ । कुण्डानां तोरणानाञ्च लक्षणानि चतुस्त्रिंशपटले वक्ष्यन्ते । कुम्भेति -
वक्ष्यमाणकुम्भन्यासादौ प्रशस्ताप्रशस्तकालादिरूपास्ते ते विशेषाः
प्रदर्श्यन्ते कुम्भन्यासेत्यादिना ।
प्. ६५)
स्थिरांशे च स्थिरे लग्ने कर्तुश्चोपचयात्मके ।
केन्द्रे सौम्यो ग्रहो यस्य त्रिकोणे च [च क्, तु ख्, ग्] सुरोत्तम ॥ १० ॥
पापाश्चोपचयस्थाने तदा कार्यं समाचरेत् ।
यत्नेन वर्जयेत् पापं कन्द्रस्थं सर्वकर्मसु ॥ ११ ॥
सौम्ययुक्ते तु यत् केन्द्रं तादृक् पत्रन्तु शूण्यकम् [सौम्ययुक्तन्तु पक्षेन्द्रं
तज्ज्ञेयं न तु स्वल्पकम् ख्, ग्] ।
पूरयेत् [पूरयेत् ख्, ग् पूरके क्] खातकं यत्नात् पादं पादं यथाक्रमम् ॥
१२ ॥
अष्टाङ्गुलं मृत्तिकाया हस्तकं [हस्तकं ख्, ग्, हास्तिकं क्] चेष्टकादिभिः ।
सिक्त्वा सिक्त्वा तु तोयेन कलसैः काञ्चनादिभिः ॥ १३ ॥
आकोटनं ततः कुर्यान्मुद्गरैर्ब्रह्मवृक्षजैः ।
पादोनं पूरयेत् खातं सुषमञ्चैव कारयेत् ॥ १४ ॥
१२ । पूर्वपटले ततस्तं खातयेदित्यादिना भूमेः शोधनार्थं खातं निर्माय
मुद्गराघातेन तस्य समीकरणमभिहितम् । इदानीं तत्र खाते कृत्यमाह -
पूरयेदित्यादिना । तत् खातकं यथाक्रमं वक्ष्यमाणक्रमानुसारेण पादं
पादं पूरयेत् न तु कालहरणपरिजिहीर्षया एकदैव सर्वं पूरणकृत्यं
समापयेत् तथा करणे क्रमोल्लङ्घने च भूमेदौर्बल्यसम्भवादित्यर्थः ।
१३-१४ । पूरणक्रममाह - अष्टाङ्गुलमित्यादिना । अत्रैवमवधेयं -
प्रथममष्टाङ्गुलं मृत्तिकयापूर्य तत्र जलं सिक्त्वा
ब्रह्मवृक्षसम्भवैर्मुद्गरैराहत्य
तदूर्ध्वन्त्विष्टकादिभिर्हस्तपरिमितमापूरयेत् । एवमनया रीत्या
मृदेष्टकादिभिश्च पूरणमन्तरान्तरा जलसेचनं मुद्गरैराहननञ्च तावदेव
कर्तव्यं यावत् खातमिदमेकपादमात्रावशिष्टं स्यादिति ।
इष्टकादिभिरित्यादिपदं शैलकार्करादिप्रासादे तत्तत्परिग्रहाभिप्रायेणेति बोध्यं
सर्वत्रैव तथा भेदव्यवस्थादर्शनात् ।
प्. ६६)
देशिकः पञ्चगव्येन तां भूमिं प्रोक्षयेद् बुधः ॥ १५ ॥
सुवर्णव्रीहिगर्भेण चूतपल्लवशोभिना ।
तीर्थतोयप्रपूर्णेन स्वर्णताम्रमयेन वा ॥ १६ ॥
सेचयेदभिजप्तेन वारिणा कलसेन तु ।
ततः शुद्धा भवेद् भूमिर्दोषयुक्तापि या भवेत् ॥ १७ ॥
एवं भूमिं विशोध्याथ ततो वास्तुं यजेद् बुधः ।
ब्रह्मस्थानं स्थिरीकृत्य इष्टकाग्रहणं ततः ॥ १८ ॥
इष्टकानां प्रमाणञ्च लक्षणं साम्प्रतं शृणु ।
सुतला लक्षणोपेता द्वादशाङ्गुलसम्मिता ॥ १९ ॥
सुविस्तारविभागेन नैपुण्येन च सम्मिता ।
सुपक्वाः सुप्रमाणास्ता एकवर्णा मनोहराः ॥ २० ॥
विमला इष्टकाः कार्याश्चतुरस्राः सुसम्मिताः ।
छिन्नकर्णाश्चा [च क्, हि ख्, ग्] प्रशस्ताः पाणिपादविवर्जिताः ॥ २१ ॥
सशर्कराः कृष्णवर्णा अस्थ्यङ्गारचिताश्च याः ।
१५ । ततः किं कुर्यादित्याह - देशिक इति ।
१७ । तेन किं स्यादित्याह - तत इति ।
१८ । ततः किं कुर्यादित्याह - एवमिति । ब्रह्मस्थानमिति । तत्र पादोनपूरिते खाते
पूर्वकृत-चतुःषष्टिपदमण्डलपरिप्राप्तं पदचतुष्टयात्मकं
वास्तुमध्यभूतं स्थानमित्यर्थः ।
१९ । इदानीमिष्टकाधिवासने कर्तव्येऽपेक्षमाणमिष्टकानां प्रमाणं
लक्षणञ्च निरूपयति - इष्टकानामित्यतो विवर्जितत्यन्तेन ।
प्. ६७)
विवर्णा मन्दगन्धाश्च याः पीनाः पिण्डिकाश्चया. [पिण्डिका क्, पिण्डका
ख्, ग्] ॥ २२ ॥
हीनाश्च विषमा भग्ना जर्जराश्च विवर्जिताः ।
कर्तव्यस्त्विष्टकान्यासः प्रासादे चेष्टकामये ॥ २३ ॥
शैले शिलानां विन्यासः कार्करे [कार्करे क्, कर्करे ख्, ग्] कर्करा [कर्करा क्,
कर्करां ख्, ग्] न्यसेत् ।
नवैव [व क, वं ख्, ग्] परिगृह्णीयात्ताम्रकुम्भान् सुशोभनान् ॥ २४ ॥
आहृत्य सर्वसम्भारानिष्टकामधिवासयेत् ।
ऐशान्यां मण्डपं [मण्डपं क्, मण्डलं (?) ख्, ग्] कृत्वा तद्वत्
प्राच्याञ्च [तद्वत् प्राच्याञ्च क्, स्नापनार्थाय ख्, ग्] मण्डपम् ॥ २५ ॥
कुम्भानामिष्टकानाञ्च ततः स्नानं समाचरेत् ।
अथ पञ्चकषायेण सर्वौषधिजलेन च ॥ २६ ॥
२२ । मन्दगन्धाश्चेत्यतो मन्दपक्वाश्च नेष्टा सा खण्डिता तु या इति
वैदिकसर्वस्वधृतः पाठः ।
२३-२४ । प्रासादभेदेन तदुपकरणीभूतेष्टकादिभेदमाह - कर्तव्य इति ।
इदानीमिष्टकाधिवासने पातालयागे च वक्तव्ये तदङ्गद्रव्यासादनमाह -
नवैवेत्यादिना ।
२५-२६ । तदधिवासनाङ्गस्नानमाह - ऐशान्यामिति । अत्र ऐशान्यां मण्डपं
कृत्वा तत्र प्रागुक्तनवकुम्भानां प्राच्यां मण्डपं कृत्वा तत्र
नवानामिष्टकानां स्नानं समाचरेदिति यथासंख्येनान्वयः
स्नापयेदिष्टकान्तथा इत्यनेनेष्टकास्नानादेशोत्तरं कुम्भांस्तान् स्नाअपयेद्
बुधः इत्यनेन कलसस्नानस्यापि वक्ष्यमाणत्वात् । ख्, ग्, पुस्तकपाठानुसारेण तु न
मण्डपद्वयं परमेकस्मिन्नेवेशानमण्डपे कलसानामिष्टकानाञ्च स्नपनं
विधेयमिति प्रतिभाति । वैदिकसर्वस्वकारैस्तु
प्. ६८)
गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः [सु क्, प्र ख्, ग्] ।
हिरण्यव्रीहिसंयुक्तैर्गन्धचन्दनचर्चितैः ॥ २७ ॥
आधो हि ष्ठेति तिसृभिः शन्नो देवीति चाप्यथ ।
तरत्समन्दीति तथा पावमानीभिरेव च [तरदित्यादि पादद्वयं क्, पुस्तके
नास्ति ।] ॥ २८ ॥
उदुत्तमं वरुणेति इमम्मेति तथैव च ।
वरुणस्येति मन्त्रेण हंसः शुचिसदित्यपि ॥ २९ ॥
श्रीसूक्तेन तथा कुम्भैः स्नापयेदिष्टकान्तथा ।
श्रायन्तीयं पठन् सूक्तं कुम्भांस्तान् स्नापयेद् [स्नापयेत् क्, स्थापयेद्
ख्, ग्] बुधः ॥ ३० ॥
ततोऽनुलेपनं कार्यं चन्दनेन सुगन्धिना ।
आच्छादनं ततः कुर्याद् वासोभिः कुसुमैस्ततः [ततः क्, तथा ख्, ग्] ॥ ३१ ॥
शय्यायान्तु प्रकृष्टायां मण्डपे स्थाप्य पूजयेत् ।
नानाभक्ष्यौदनैश्चैव गन्धैः पुष्पैर्मनोहरैः ॥ ३२ ॥
धूपं दीपञ्च नैवेद्यं तेषां यत्नान्निवेदयेत् ।
एवं कृत्वा ततः सम्यगिष्टकाहोममाचरेत् ॥ ३३ ॥
तस्मिंस्तु मण्डपे लिख्य वैष्णवं मण्डलं शुभम् ।
कुम्भानामित्यत्र कृष्टानामिति पाठम् उत्कृष्टानामिति तदर्थञ्च परिकल्प्य
सर्वमपि संशये पातितम् । इष्टकास्नानमाह - अथेत्यादिना
स्नापयेदिष्टकामित्यन्तेन ।
३० । नवकलसस्नानमाह - श्रायन्तीयमित्यनेन ।
३१ । स्नानानन्तरकरणीयमाह - तत इत्यादिना ।
३३ । अथेष्टकानां पूजनादनन्तरं होममाह - एवमित्यादिना ।
प्. ६९)
विष्णुं समर्चयेत्तत्र [सम् क्, अभि ख्, ग्] कुण्डेऽग्निं जुहुयात्ततः ॥ ३४ ॥
वैष्णवाग्निं जनित्वादौ [जनित्वादौ क्, जनेदादौ ख्, ग्] (?) यथाविधि
समाहितः ।
कुर्याच्च समिधाधानं द्वादशाक्षरविद्यया ॥ ३५ ॥
आघारावाज्यभागौ तु प्रणवेनैव कारयेत् ।
अष्टाक्षरैस्ततो व्यस्तैः कुर्यादष्टाहुतीः क्रमात् ॥ ३६ ॥
आज्यं व्याहृतिभिर्हुत्वा [व्याहृ ख्, ग् स्वाकृ क्] लोकेशानां क्रमेण तु ।
अग्नये चैव सोमाय ग्रहेभ्य इति चैव हि ॥ ३७ ॥
पुरुषोत्तमायेति हुत्वा व्याहृतीर्जुहुयात्ततः [व्याहृताः क्, व्याहृतिभिः ख्, ग्] ।
प्रायश्चित्तं ततो हुत्वा दद्यात् पूर्णाहुतिं ततः ॥ ३८ ॥
द्वादशाक्षरमन्त्रेण वेदाद्यैरथवानघ ।
कुण्डेषु मूर्त्तिपाः सम्यग् जुहुयुः सघृतांस्तिलान् ॥ ३९ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (एकादशः)
शिलाधिवासनपटलः ॥ ११ ॥
आदितः श्लोकसंख्या - २५८
३४ । वैष्णवमिति सर्वतोभद्रमण्डलम् वैष्णवमित्यत्र भद्राख्यमिति
वैदिकसर्वश्वधृतः पाठः । तत्र मण्डले विष्णुं संपूज्य कुण्डे होमं
कुर्यात् । कुण्डलक्षणानि वक्ष्यन्ते ।
३५ । वैष्णवाग्निः षट्त्रिंशपटले निरूपयिष्यते ।
३९ । पूर्णाहुतिं दद्यादित्युक्तं तत्र विशेषमाह द्वादशेति ।
द्वादशाक्षरमन्त्रेण वेदादिचतुष्टयमन्त्रेण वा पूर्णाहुतिं दद्यादित्यर्थः ।
प्. ७०)
द्वादशः पटलः
(पातालयागः देवताभेदेन पीठबन्धभेदः
प्रासादनिर्माणप्रशस्तिश्च)
श्रीभगवानुवाच -
कुम्भन्यासं ततः कुर्यादिष्टकान्यासमेव च ।
देशिकः प्राङ्मुखो भूत्वा सर्वालङ्कारभूषितः ॥ १ ॥
विलिप्य गोमयैर्भूमिं विन्यसेत् कलसान्नव ।
अष्टदिक्षु यथान्यायं मध्ये चैकं तथा न्यसेत् ॥ २ ॥
पञ्चरत्नसमायुक्तान् मङ्गलौषधिसंयुतान् [पादद्वयमिदं ख्, पुस्तके
नास्ति ।] ।
पारदेन समायुक्तान् कृत्वा वस्त्रेण भूषिताम् [भूषितान् क्, वेष्टितान् ख्, ग्] ॥
३ ॥
पद्मं [पद्मं ख्, ग्, शङ्खं ।] चैव महापद्मं मकरं कच्छपं
तथा ।
मुकुन्दञ्च तथानन्दं नीलं शङ्खञ्च पद्मिनीम् ॥ ४ ॥
एतास्तु देवताः कुम्भे न्यसनीया यथाक्रमम् ।
१ । अथेदानीं पातालयागस्वरूपं निरूप्यते कुम्भेत्यादिना । ततः
शिलाधिवासनानन्तरं वक्ष्यमाणक्रमेण कुम्भानामिष्टकानाञ्च
पूर्वपटलविधिसंस्कृतानां न्यासं कुर्यादित्यर्थः ।
२ । तं क्रममाह विलिप्येत्यादिना । ईशाणतो दक्षिणादिक्रमेणाष्टौ मध्ये चैकमिति
नव कलसानित्यर्थः ।
४-५ । तेषु कलसेषु देवतानां न्यासमाह - पद्ममिति । अत्र शङ्खमिति
प्. ७१)
एवं विन्यस्य कलसान् पुनर्नैतान् प्रचालयेत् [प्र क्, न ख्, ग्] ॥ ५ ॥
कुम्भस्योपरि विन्यस्य इष्टकाष्टौ यथाक्रमम् ।
ऐशाने च तथा कोणे इष्टकां प्रथमं [प्रथमां क्, प्रथमं ख्, ग्]
न्यसेत् ॥ ६ ॥
प्रदक्षिणं ततो देव इष्टकान्यास उच्यते ।
शक्तयो विमलाद्यास्तु इष्टकानान्तु देवताः ॥ ७ ॥
न्यसनीया यथान्यायं मध्ये न्यस्या स्त्व(?)त्वनुग्रहा ।
अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसः सुते ॥ ८ ॥
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहम् ।
मन्त्रेणानेन विन्यस्य इष्टकां देशिकोत्तमः ॥ ९ ॥
गर्भाधानं ततः कुर्यान्मध्यस्थाने समाहितः ।
क्, पुस्तकधृतः पाठो न मूले निवेशितः शङ्खञ्चेति चतुर्थपादोक्त्या
पुनरुक्त्यापत्तेः । यथाक्रममिति कलसवदीशानादिक्रमेणैवेष्टकानां न्यासः
कर्तव्य इत्यर्थः । वैदिकसर्वस्वकारास्तु प्रदक्षिणन्ततोदेव इष्टकान्यास इष्यते
इत्यनन्तरं कलसस्थापनमप्येवंक्रमेण प्रधानक्रमात् । पद्मादिस्थापनन्तु
पूर्वादिक्रमेण इत्याहुः परं प्रधानक्रममुल्लङ्घ्य क्रमान्तराङ्गोरे किमपि
प्रमाणं न दृश्यते ।
६-८ । कुम्भस्येति । तेनैव क्रमेणेष्टकान्यासोऽपि कर्तव्यः । अत्र
प्रदक्षिणमित्यभिधानात् कलसादीष्टकान्यासान्तं सर्वमेव कृत्यमीशानादितः
प्रादक्षिण्येन कर्तव्यमिति बोध्यं विशेषानभिधानात् । शक्तय इति । विमलाद्या
इत्यादिपदेन उत्कर्षिणी ज्ञाना ह्रिया संयोगा प्रह्वी सत्या ईशाना अनुग्रहा
इत्यष्टानां ग्रहणमिति वैदिकसर्वस्वकाराः । तथा च विमलाद्या ईशानान्ता
अष्टौ दिक्षु मध्येचानुग्रहेति नवेष्टकादेवताः ।
९ । इष्टकान्यासे प्रार्थनामाह - अव्यङ्ग इति ।
१० । गर्भाधानमाह - गर्भेति । गर्भाधानं नाम
द्वादशाङ्गुलविस्तारमित्यादिना
प्. ७२)
कुम्भोपरिष्टाद्देवेश पद्मिनी यस्य देवता ॥ १० ॥
गृह्णीयान्मत्तिकां देव दशस्थानेषु देशिकः ।
समुद्रे पर्वते नद्यां ह्रदे तीर्थे खले तथा ॥ ११ ॥
कुलीरवासे वल्मीके विषाणाग्रे वृषस्य च ।
कुञ्जरस्य विषाणाग्रे स्थानेष्वेषु पृथक् पृथक् ॥ १२ ॥
रक्तोत्पलस्य पद्मस्य तथा नीलोत्पलस्य च ।
कुमुदस्य सुरश्रेष्ठ गृह्णीयान्मूलमुत्तमम् ॥ १३ ॥
मनःशिलां सीसकञ्च हरितालं रसाञ्जनम् [रसा क्, तथा ख्, ग्] ।
सौराष्ट्रीं रोचनां गन्धं पारदं गैरिकं तथा ॥ १४ ॥
वज्रञ्च [वज्र ख्, ग्, रक्त क्] मौक्तिकञ्चैव वैदुर्यं शङ्खमेव च ।
स्फटिकं पुष्परागञ्च चन्द्रकान्तं तथैव च ॥ १५ ॥
महानीलं पद्मरागं गृह्णीयाद् यत्नतो बुधः ॥ १६ ॥
शालि-नीवार-निष्पाव-यव-मुद्ग-कुलत्थकान् ।
तिल-गोधूम-कुल्माषान् गृह्णीयाद्देशिकोत्तमः ॥ १७ ॥
सुवर्णं रजतं शुल्वमायसं [शुल्वं क्, शुल्कं ख्, ग्] त्रपुकं यथा ।
कूर्मं शेषं तथा पद्मं शङ्खं चक्रं तथा धनुः ॥ १८ ॥
गदाञ्चैव महाभाग सर्वं कुर्याद्धिरण्मयम् ।
सर्वमेतत् [एतत् ख्, ग्, एतं क्] समानीय न्यसेद् वै गर्भभाजने ॥ १९ ॥
वक्ष्यमाणस्य सामुद्रमृदादिपरिपूरितस्य पात्रविशेषस्य
करिष्यमाणप्रासादवेदिकाभूगर्भे विधिना स्थापनम् । तदेव विवृणोति मध्य
इत्यादिना ।
प्. ७३)
द्वादशाङ्गुलविस्तारं चतुरङ्गुलमुच्छ्रितम् ।
श्लक्ष्णमस्फुटितञ्चैव पद्माकारं सुशोभनम् ॥ २० ॥
चान्द्रं रौप्यं तथा शौल्वं [शौल्वं ख्, ग्, शुल्वं क्] प्रशस्तं
गर्भभाजनम् ।
ब्रह्मस्थाने तु यत् कुम्भं न्यस्तं श्रीदैवतं पुरा ॥ २१ ॥
तदूर्द्ध्वं नेत्रपट्टञ्च [च क्, तु ख्, ग्] दत्त्वा गोमूत्रप्रोक्षणम्
[प्रोक्षणम् क्, प्रोक्षित ख्, ग्] ।
तदूर्ध्वं ब्राह्मणानान्तु विन्यसेद् दर्भ [गर्भ क्, दर्भ ख्, कुम्भ ग्]-
भाजनम् ॥ २२ ॥
क्षत्रियाणां विशाञ्चैव शूद्राणाञ्च पटं विना ।
विमलं भाजनं कृत्वा पञ्चगव्येन शोधयेत् ॥ २३ ॥
हस्ताभ्यां परिगृह्याथ तस्मिन्नेव विचिन्तयेत् ।
अथ भूमण्डलं सर्वं ससमुद्रं [समुद्रं क्, ख्, सपवित्रं ग्]
सपर्वतम् ॥ २४ ॥
२०-२१ । गर्भभाजनमाह - द्वादशेति । चान्द्रं सुवर्णमयं ।
स्वर्णेऽपिभूरिचन्द्रौ द्वावित्यमरोक्तेः । शौल्वं ताम्रमयं शुल्वं ताम्रे
यज्ञकर्मण्याधारे जलसन्निधौ इति मेदिनी ।
२१-२२ । अथ कुत्र तद् गर्भभाजनं कया रीत्या स्थापनीयमित्याह - ब्रह्मस्थान इति ।
न्यस्तमिति अष्टदिक्षु यथान्यायं मध्ये चैकं तथा न्यसेत् (१२ । २) इत्यनेन मध्ये
ब्रह्मस्थाने यः कलस्य पद्मञ्चैव महापद्मं मकरं कच्छपं तथा ।
मुकुन्दञ्च तथा नन्दं नीलं शङ्खञ्च पद्मिनीम् ॥ (१२ । ४) इत्यत्र पद्मिनीपदेन
श्रीदेवताकतया प्रतिपन्नस्य न्यासोऽभिहितस्तस्य न्यस्तस्य कलसस्योर्द्धं
गर्भभाजनं विन्यसेदित्यर्थः । एतच्च ब्राह्मणानाम् । क्षत्रविट्शूद्राणां
विशेषमाह - क्षत्रियाणामिति ।
२३ । एवं विन्यस्ते गर्भभाजने कृत्यान्याह - विमलमित्यादिना ।
प्. ७४)
दिग्-द्वीपेन्द्रसमायुक्तमनन्तस्योपरि स्थितम् ।
एवं ध्यात्वा तु पृथिवीं भाजनो [भाजनो क्, भाजन ख्, ग्] परिकल्पयेत् ॥ २५ ॥
मृदं समुद्रजां गृह्य वृतिं [ख्, ग्, वृत्तं क्] कुर्यात् प्रदक्षिणम् ।
पार्वती पूर्वतः कार्या नदीजा दक्षिणे तथा ॥ २६ ॥
ह्रदजा पश्चिमे भागे तीर्थजा चोत्तरे तथा ।
आग्नेय्यां खलजा कार्या निरृत्यान्तु कुलीरजा ॥ २७ ॥
वल्मीकजा च वायव्यामैशान्यां वृषशृङ्गजा ।
नागदन्तोद्भवा मध्ये न्यसनीया यथाक्रमम् ॥ २८ ॥
रक्तोत्पलस्य पूर्वे तु दक्षिणे पद्ममूलकम् ।
प्रत्यङ्नीलोत्पलस्योक्तमुत्तरे कुमुदस्य च ॥ २९ ॥
मनःशिलादिधातूनि पूर्वादिक्रमतो न्यसेत् ।
वज्रादिरत्नजातानि तेनैव क्रमयोगतः ॥ ३० ॥
शाल्यादीनि च बीजानि तत्रैव विनियोजयेत् [विनि ख्, ग्, सम क्] ।
सुवर्णं पूर्वतः कार्यं रजतं दक्षिणे तथा ॥ ३१ ॥
आयसं पश्चिमे भागे त्रपुकं चोत्तरे तथा ।
आग्नेय्यां कूर्मरूपन्तु अनन्तं नैरृते तथा ॥ ३२ ॥
वायव्यामथ पद्मन्तु शङ्खमीशान एव च ।
धनुश्चक्रं गदाञ्चैव ब्रह्मस्थाने निवेशयेत् ॥ ३३ ॥
प्. ७५)
एवं कृत्वा समायोगं [योगं क्, युक्तं ख्, ग्] प्रोक्ष्य द्वादशविद्यया ।
अथ [अथ क्, अथो ख्, ग्] दक्षिणतः स्थाप्य होमकर्म समारभेत् ॥ ३४ ॥
द्वादशाज्याहुतिं [आहुतिं क्, आहुतीः ख्, ग्] हुत्वा द्वादशाक्षरविद्यया ।
तथाष्टलोकपालेभ्यस्तथा नारायणाय च ॥ ३५ ॥
वीजेभ्यः [शीजेभ्यः क्, सर्वेभ्यः ख्, ग्] सर्वधातुभ्यः सर्वलोकेभ्य एव च ।
नदीसमुद्रतीर्थेभ्यः पर्वतेभ्यस्तथैव च ॥ ३६ ॥
ह्रदेभ्यश्च गणेभ्यश्च पातालेभ्यस्तथैव च [इत्यन्तं पादद्वयं ख्,
पुस्तके नास्ति ।] ।
वृषेभ्यो दिग्गजेभ्यश्च नागेभ्यः सुरसत्तम [भ्यःसुर क्, भ्यश्च सुरो ख्, ग्]
॥ ३७ ॥
व्याहृत्या [आहुत्या क्, व्याहृत्या ख्, ग्] चापि जुहुयात् स्वाहाकारान्तयुक्तया ।
प्रतिपत्त्याहुतिं [प्रतिपत्या क्, प्रतिपाद्या ख्, ग्] कुर्यात् संपातविधिनैव च ॥
३८ ॥
गर्भभाजनमध्ये तु संपाताज्यं समापयेत् ।
पिधाय भाजनं तप्तं [तप्तं क्, तन्तु ख्, ग्] गृहीत्वाग्रकरेण च ॥ ३९ ॥
जपेदष्टाक्षरं मन्त्रं द्वादशाक्षरमेव च ।
जप्त्वा च प्राङ्मुखो भूत्वा ध्यायेच्च [ध्यायेत् क्, ध्यात्वा ख्, ग्] मनसा
भुवम् ॥ ४० ॥
३४-३९ । अथ होमविधिमाह । अथ दक्षिणत इति । दक्षिणतो दक्षिणभागे
गर्भभाजनं संस्थाप्येत्यर्थः । तेनाचार्य कुण्ड एव होमः । इति
वैदिकसर्वस्वकाराः ।
प्. ७६)
ध्यात्वा तु सकलां भूमिमिमं मन्त्रमुदीरयेत् ।
एकान्ते सर्वभूभागे पर्वतासनमण्डिते ॥ ४१ ॥
समुद्रपरिधाने त्वं देवि गर्भं समाचर [समाचर क्, समाश्रय ग्] ।
नन्दे नन्दय वाशिष्ठे वसुभिः प्रजया सह ॥ ४२ ॥
जये भार्गवदायादे प्रजानां विजयावहे ।
पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुष्व माम् ॥ ४३ ॥
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ।
सर्वबीजसमायुक्ते सर्वरत्नौषधीवृते ॥ ४४ ॥
जयस्व रुचिरे नन्दे वाशिष्ठे रम्यतामिह ।
प्रजापतिसुते देवि चतुरस्रे महीयसि ॥ ४५ ॥
सुभगे सुप्रदे भद्रे गृहे काश्यपि रम्यताम् ।
पूजिते परमाचार्यैर्गन्धमाल्यैरलङ्कृते ॥ ४६ ॥
भव भूतिकरी देवि गृहे भार्गवि रम्यताम् ।
अव्यक्ते चाक्षते पूर्णे मुनेरङ्गिरसः सुते ॥ ४७ ॥
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहम् [अव्यक्त इत्यादि
कारयाम्यहमित्यन्त-पादचतुष्टयात्मको मन्त्रः ख्, ग् पुस्तकयोर्नास्ति ।] ।
देशस्वामि-पुरस्वामि-गृहस्वामि-परिग्रहे ॥ ४८ ॥
मनुष्यधनहस्त्यश्व-पशुबृद्धिकरी भव ।
एवमुक्त्वा ततः श्वभ्रं गोमूत्रेण तु प्रोक्षितम् ॥ ४९ ॥
४१ । गर्भाधाने प्रार्थनामन्त्रानाह - ओं एकान्ते इत्यादि ।
प्. ७७)
कृत्वा नियमयेद् [नियमयेत् क्, निधापयेत् ख्, ग्] गर्भं [गर्त्तं क्, गर्भं ख्,
ग्] सर्वकल्याणसंयुतम् ।
गर्भाधानं भवेद्रात्रौ सुवर्णं दक्षिणा भवेत् ॥ ५० ॥
तथा पयस्विनीं गाञ्च वस्त्रयुग्मं तथैव च ।
मूर्तिपानाञ्च दातव्या तथा धेनुः पयस्विनी ॥ ५१ ॥
एवं गर्भन्तु विन्यस्य तदूर्ध्वं नवमिष्टकाम् ।
यस्य यन्त्रावृतो [यन्त्रावृतः क्, वस्त्रावृतः ख्, ग्] गर्भमिष्टकाभिस्तु
पूरयेत् ॥ ५२ ॥
पीठबन्धमतः कुर्यान्महाप्रासादमानतः [महा ख्, ग् महत् क्] ।
पीठोत्तमञ्चोच्छ्रयेण प्रासादस्यार्द्धमानतः ॥ ५३ ॥
पादहीनं मध्यमं स्यात् कन्यसं चोर्ध्वमानतः ।
उत्तमं वासुदेवस्य कुर्यात् पीठं विचक्षणः ॥ ५४ ॥
अन्येषां स्वेच्छया कुर्यात् पीठं शृणु विशेषतः ।
चतुर्मुखेशसूर्याणामुत्तमं पीठमुच्यते ॥ ५५ ॥
४९-५१ । एवमिति प्रार्थनानन्तरं पुनर्गर्भभाजनं गोमूत्रप्रोक्षिते तस्मिन् गर्त्ते
स्थापयेत् । गर्भाधानस्य कालं दक्षिणाञ्चाह । गर्भाधानमित्यादिना ।
५२ । ततस्तस्य गर्त्तस्य पूरणमाह - एवमित्यादिना ।
५३-५५ । एवं प्रागुक्तक्रमेण श्वभ्रमापूर्य तत्र पीठबन्धं कुर्यात् ।
पीठबन्धः प्रासादवेदिका यतो गृहभित्तयः प्रारभ्यन्ते । स पीठबन्धस्त्रिविधो
भवति उत्तमो मध्यमोऽधमश्चेति । तत्रैविध्यमेवाह - पीठोत्तममित्यादिना ।
देवताभेदेन पीठभेदमाह - उत्तममित्यादिना ।
पीठबन्धोपरिष्टात्तु वास्तुयज्ञं पुनर्यजेत् ।
य इमां सकलां कुर्यात् प्रतिष्ठां पादसंश्रिताम् [संश्रि क्, संज्ञि ख्,
ग्] ॥ ५६ ॥
सर्वपापविनिर्मुक्तो [पाप क्, पापैः ख्, ग्] विष्णुलोके महीयते ।
मरणं च [च ख्, ग् न क्] व्रजेम्मर्त्त्यो यः कृत्वा प्रथमेष्टकाम् ॥ ५७ ॥
स समाप्तस्य यज्ञस्य फलमाप्नोत्यसंशयः ।
देवागारं करोमीति मनसा यस्तु चिन्तयेत् ॥ ५८ ॥
तस्य कायगतं पापं तदह्ना [तदह्ना क्, तदग्रे ख्, ग्] विप्रणश्यति ।
कृते तु किंपुनस्तस्य प्रासादं विधिनैव तु ॥ ५९ ॥
अष्टेष्टकासमायुक्तं यः कुर्याद् वैष्णवं गहम् ।
न तस्य फलसम्पत्तिर्वक्त्रुं शक्येत केनचित् ॥ ६० ॥
अनेनैवानुमेयं हि फलं प्रासादविस्तरात् ।
ग्राममध्ये च पूर्वे च प्रतग्द्वारं प्रकल्पयेत् ॥ ६१ ॥
विदिशासु च सर्वासु तथा प्रत्यङ्मुखं भवेत् ।
दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखं भवेत् ॥ ६२ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे (द्वादशः)
पातालयागपटलः ॥ १२ ॥
आदितः श्लोकसंख्या - २७९
५६-६१ । प्रासादप्रतिष्ठायां फलमाह - य इमामित्यादिना ।
६२ । स्थानभेदेन प्रासादानां द्वारनिर्माणे विशेषमाह - ग्राममध्य इति ।
प्. ७९)
त्रयोदशः पटलः ।
प्रासादसामान्यलक्षणं क्रमभेदाः सप्तभौमिकान्तप्रासादः तत्र
विशेषाश्च
श्रीभगवानुवाच -
प्रासादं संप्रवक्ष्यामि सर्वसाधारणं शृणु ।
चतुरस्रीकृतं क्षेत्रं भजेत् [भजेत् ख्, ग्, भवेत् क्] षोडशधा पुनः ॥ १ ॥
मध्ये तस्य चतुर्भिस्तु कुर्यादायसमन्वितम् ।
द्वादशैव तु भागानि [भागानि क्, भागादि ख्, ग्] भित्त्यस्र [भित्त्यस्रं क्,
भित्त्यर्थं ख्, ग्] परिकल्पयेत् ॥ २ ॥
जङ्घोच्छ्रायन्तु कर्तव्यं चतुर्भागेन चायतम् ।
जङ्घयोर्द्विगुणोच्छ्रायं मञ्जर्याः कल्पयेद्बुधः ॥ ३ ॥
चतुर्भागेण मञ्जर्याः कार्या सम्यक् प्रदक्षिणा ।
तन्मानं [तन्मान क्, तन्माना ख्, ग्] निगमं कार्यमुभयोः पार्श्वयोः
समम् ॥ ४ ॥
शिखरेण समं कार्यमग्रे [मग्रे क्, मान (?) ख्, ग्] जगति विस्तरम् ।
द्विगुणेनापि कर्तव्यं यथाशोभानुरूपतः ॥ ५ ॥
१ । पूर्वपटले प्रासादवेदिकानिर्माणपर्यन्तमभिधाय पटलेऽस्मिन्
प्रासादसामान्यलक्षणमभिधातुमुपक्रमते प्रासादमित्यादिना ।
५ । प्रासादपुरोवर्त्तिभूमेर्दैर्घ्यमाह - शिखरेण सममिति । प्रासादशिखरस्य
प्. ८०)
विस्तारं मण्डपस्याग्रे गर्भं सूत्रद्वयेन तु ।
दैर्घ्यात् पादाधिकं कुर्यात् [कुर्यात् क्, कार्य ख्, ग्] मध्ये
स्तम्भैर्विभूषितम् ॥ ६ ॥
प्रासादगर्भमानं वा कुर्वीत मुखमण्डपम् ।
एकाशीतिपदैर्वास्तुं यष्ट्वा मण्डपमारभेत् ॥ ७ ॥
शुकाढ्यद्वारविन्यासे [शुकाढ्य क्, शुकाढ्या ख्, ग्] पादान्तस्थान् यजेत्
सुरान् ।
तथा प्राकारविन्यासे यजेद्द्वात्रिंशदन्तगान् ॥ ८ ॥
सर्वसाधारणञ्चैतत् प्रासादस्य तु लक्षणम् ।
मानेन प्रतिमाया वा प्रासादमपरं शृणु ॥ ९ ॥
प्रतिमायाः प्रमाणेन कर्तव्या पिण्डिका शुभा ।
गर्भस्तु पिण्डिकार्द्धेन गर्भमानास्तु भित्तयः ॥ १० ॥
यावदौन्नत्यं पुरोवर्त्तिनो भूमिभागस्य तावान् विस्तार इत्यर्थः । द्विगुणेनेति ।
यत्र भूमेर्विस्तारातिरेकः शोभाविशेषं पुष्णाति तत्र द्विगुणोऽपि विस्तारः
करणीय इत्यर्थः ।
६ । ७ । अथेदानीं प्रासादपुरोवर्त्तिनो मण्डपस्य स्वरूपमाह - विस्तारमित्यादिना ।
कल्पान्तरमाह - प्रासादेति । प्रासादगर्भमानं मध्ये तस्येत्यादिना
षोडशधाविभक्तस्य क्षेत्रस्य वहिर्द्वादशांशं परित्यज्य
मध्यवर्तिनोऽंशचतुष्टयस्य भित्तेरभ्यन्तरस्थस्य यन्मानं तन्मानं
मुखमण्डपं कुर्वीतेत्यर्थः । एकाशीतिपदवास्तुमण्डलप्रमाणन्तु
चतुःषष्टिपदवास्तुमण्डलप्रतिपादकस्य नवमपटलस्य व्याख्यायां कथञ्चित्
प्रदर्शितं । विशेषस्तु विश्वकर्मप्रकाशादावनुसन्धेयः ।
९ । प्रासादस्य प्रकारान्तरमाह - मानेनेति ।
प्. ८१)
भित्तेरायाममानेन उच्छ्रायन्तु प्रकल्पयेत् ।
भित्त्युच्छ्रायन्तु द्विगुणं शिखरं कल्पयेद् गुरुः [गुरुः क्, बुधः ख्, ग्] ॥ ११
॥
शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत् ।
शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम् ॥ १२ ॥
अष्टमांशेन गर्भस्य रथकानान्तु निर्गमः ।
परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत् ॥ १३ ॥
तत्तृतीयेन वा कुर्यात् रथकानान्तु निर्गमम् [निर्गमः क्, निर्गमम् ख्, ग्] ।
रामत्रयं स्थापनीयं रथकत्रितये सदा ॥ १४ ॥
शिखरार्थं हि सूत्राणि रत्नानि विनिपातयेत् ।
शुकनासोर्द्धतः सूत्रं तिर्यक्सूत्रं निपातयेत् [ख्, ग् पुस्तकधृतोऽयं
पाठः क पुस्तके नास्ति ।] ॥ १५ ॥
शिखरस्यार्द्धभागस्थं सिंहं तत्र च कारयेत् ।
शुकनासां स्थिरीकृत्य मध्यसन्धौ विधारयेत् [विधारयेत् क्, विदाचयेत् (?)
ख्, ग्] ॥ १६ ॥
अपरे च तथा पार्श्वे तद्वत् सूत्रं निधापयेत् ।
तदूर्द्धन्तु भवेदीश कण्ठोऽस्य मनसा वरान् [अत्र ख्, ग् पुस्तकयोः कश्चो
मनसावरानिति प्रामादिकः पाठः । कण्ठे श्यामलसारवानिति
शब्दकल्पद्रुमधृतः पाठः ।] ॥ १७ ॥
स्कन्धभग्नं [स्कन्धनग्नं ख्, ग्, भग्नस्कन्धन्तु क्] न कर्तव्यं
विकरालं तथैव च ।
ऊर्द्धन्तु वेदिकामानात् कलसं परिकल्पयेत् ॥ १८ ॥
प्. ८२)
विस्तारं द्विगुणद्वारं [द्विगुणद्वार क्, द्विगुणं द्वारं ख्, ग्] कर्तव्यन्तु
सुशोभनं ।
जातरूपं * * * * * * * * * * (?) ॥ १९ ॥ [पादद्वयमिदं क् पुस्तके नास्ति ॥]
औदुम्वरोऽर्द्धतः [औदुम्वरो क्, ऊडुम्वरा ख्, ग्] स्वर्णं दत्त्वा शाखां
न्यसेद्बुधः ।
तूर्यमङ्गलघोषेण ब्राह्मणान् स्वस्तिवाच्य च ॥ २० ॥
द्वारस्य तु चतुर्थांशे कार्यौ चण्डप्रचण्डकौ ।
दण्डहस्तौ तु कर्तव्यौ विश्वक्सेनोपमावुभौ ॥ २१ ॥
शाखार्द्धं न्यस्य रत्नानि न्यसेदूर्द्धसुदुम्बरम् [ऊदुम्वरम् क्,
ऊडुम्वरम् ख्, ग्] ।
तस्य मध्ये स्थिता देवी साक्षाल्लक्ष्मी सुरेश्वरी ॥ २२ ॥
कर्तव्या दिग्गजैः सा तु स्नाप्यमाना [स्नाप्यमाना क्, स्थाप्यमाना ख्, ग्]
घटेन तु ।
शाखोदुम्वरकौ कार्यौ पत्रवल्ल्यादिभूषितौ [पत्रवल्ल्यादिभूषितौ ख्, ग्]
[अत्र क् पुस्तके पित्त्र्यवन्त्यादिभूषितौ इति पाठो दृश्यते स तु न शौनः ।] ॥ २३ ॥
एकशाखं त्रिशाखं वा षट्शाखं द्वारमिष्यते ।
नवशाखञ्च कुर्वीत अत्र ऊर्ध्वं न कारयेत् ॥ २४ ॥
विष्ण्ववताररूपाद्यैः शाखां यत्नाद् विभूषयेत् ।
प्रासादस्य चतुर्भागैः प्राकारस्योच्छ्रयो भवेत् ॥ २५ ॥
प्. ८३)
प्राकारात् पादहीनस्तु गोपुरस्योच्छ्रयो भवेत् [एकभूमीत्यादि पादद्वयं क्,
पुस्तके नास्ति ।] ।
पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका ॥ २६ ॥
तस्मात्तु द्विगुणः प्रोक्तस्तथा गरुडमण्डपः ।
एकहस्तादि कुर्वीत त्रिंशद्धस्तान्तमेव च ॥ २७ ॥
एकभूम्यादिकं कुर्यात् सप्तभूम्यन्तमेव च ।
वायव्यां नागनाम्ना तु विष्णवे चैकभूमिकम् ॥ २८ ॥
द्विभौमिकं तथाग्नेयं माहेन्द्रन्तु त्रिभौमिकम् ।
चतुर्भागन्तु वारुण्यां सौरं स्यात् पञ्चभौमिकम् ॥ २९ ॥
सौम्यं षाड्भौमिकं [षाड्भौमिकं क्, षड्भौमिक ख्, ग्] ज्ञेयं
वैष्णवं सप्तभौमिकम् ।
गरुत्वन्तं तथा कुर्यादुपरिष्टाच्चतुर्द्दिशम् [चतुर्दिशम् ख्, ग् चतुर्गुणम् क्]
[गुरुरन्तं चतुर्गुणम् क्] ॥ ३० ॥
कुर्याद्धि प्रतिमायामान् दिक्षु चाष्टासु चोपरि ।
महावराहमैन्द्र्यान्तु नरसिंहन्तु दक्षिणे ॥ ३१ ॥
प्रतीच्यां श्रीधरं देवमुदीच्यां हयशीर्षकम् ।
आग्नेय्यां जामदग्न्यन्तु नैऋते राममेव च ॥ ३२ ॥
वामनञ्चैव वायव्यां वासुदेवमथापरे ।
पूर्वभूमौ तु शयनं द्वितीये चाशनं [अशनं क्, आसनं ख्, ग्] भवेत् ॥
३३ ॥
प्. ८४)
स्थानमेव तृतीये तु चतुर्थे यानमेव च ।
पञ्चमे योगनिद्रा [योग ख्, ग् याग (?) क्] तु षष्ठे योगासनं भवेत् ॥ ३४ ॥
स्थानयोगसमायुक्तं [स्थान क्, स्नान ख्, ग्] सप्तमे परिकल्पयेत् ।
नानागवाक्षकैर्यत्नात् पत्रवल्ल्यादिभूषितम् ॥ ३५ ॥
नानाप्रकारपुष्पाद्यैर्यथाशोभं प्रकल्पयेत् ।
कनिष्ठमध्यज्येष्ठानां प्रासादानां यथाक्रमम् ॥ ३६ ॥
वसुभार्गवविद्वद्भिः [अत्र क् पुस्तकधृतोऽन्यादृशोऽपि पाठः
अक्षराणामस्पष्टतया स्फुटं न बुध्यते ॥ ] प्रदेया रचना बुधैः ।
द्वारस्य चाष्टमे युक्ते नवमे दशमे तथा ॥ ३७ ॥
लालटवेधो नैव [नैवं क्, नैव ख्, ग्] स्यादायन्तु शृणु साम्प्रतम् ।
यावद्धस्तैरभिप्रेतः प्रासादः कर्तृणानघ ॥ ३८ ॥
तावद्भिरङ्गुलैरायो वसुभागेन वा भवेत् ।
एकस्तम्भो ध्वजो ज्ञेयो द्विस्तम्भा वेदिका मता ॥ ३९ ॥
दशभूम्यन्तरे [दश क्, कुश ख्, ग्] नित्यं चतुःस्तम्भं प्रकल्पयेत् ।
तोरणस्य विधानञ्च कथितं तु तवानघ ॥ ४० ॥
प्रासादाग्रे यदाकार्यावेदिका स्तम्भसंयुता ।
वैष्णवैस्तु तदाकार्या वेदिका स्तम्भसंयुता ॥ ४१ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे त्रयोदशः
प्रासादलक्षणपटलः ॥ १३ ॥
आदितः श्लोकसंख्या - ३१०
स्थापनीयं ख्, ग्] यथान्यायमपरं शृणुमेऽनघ ॥ ३ ॥
१ । पूर्वपटले प्रासादसामान्यलक्षणमभिधाय विशेषलक्षणार्थं
पटलोऽयमारभ्यते अतःपरमित्यादिना । अत्र मुख्यतः प्रासादलक्षणानुक्तावपि
प्रतिष्ठाप्यगौणमुख्यदेवतासन्निवेशनक्रमाभिधानेन वस्तुगत्या
प्रासादविशेषलक्षणमेवापतितमिति प्रवक्ष्यामि प्रासादानान्तु लक्षणमिति साधु
सङ्गच्छते । प्रासादानामिति भेदलक्षणमित्यर्थः ।
२ । ३ । प्रासादस्त्रिविधो भवति पञ्चायतनो नवायतनो द्वादशायतनश्चेति । तत्र
यस्य प्रधानायतनचतुष्कोणेषु चत्वार्यायतनानि स पञ्चायतनप्रासादः । तत्र
देवतास्थापनक्रममाह पञ्चायतनेति - पञ्चायतन-प्रासादस्य मध्ये
प्रधानायतने वासुदेवं आग्नेयायतने वामनं नैऋतायतने नरसिंहं
वायव्यायतने हयशीर्षं ईशानायतने नृशूकरं स्थापयेदिति
पञ्चायतनप्रतिष्ठायामेकः क्रमः । क्रमान्तरमाह - अपरं शृण्विति ।
प्. ८६)
मध्ये नारायणं [नारायणं क्, नारायणः ख्, ग्] स्थाप्य [स्थाप्य क्,
स्थाप्यं ख्, ग्] आग्नेय्यामम्बिकां न्यसेत् ।
नैऋत्यां भास्करं स्थाप्य वायाव्यां कमलोद्भवम् ॥ ४ ॥
ऐशान्यां स्थापयेल्लिङ्गमथवा रुद्ररूपकम् ।
नवायतनमध्ये तु वासुदेवं निवसयेत् ॥ ५ ॥
पूर्वादीशानपर्यन्तं रामादीन् विन्यसेत् पुनः ।
इन्द्रादीन् वा लोकापालानष्टदिक्षु यथाक्रमम् ॥ ६ ॥
४ । ५ । मध्य इति । अथवा मध्यायतने नारायणं आग्नेयायतने अम्बिकां
नैरृतायतने भास्करं वायव्यायतने ब्राह्मणं ऐशान्यां लिङ्गं रुद्रं वा
स्थापयेदित्यपरः पञ्चायतनक्रमः । एवञ्च यः स्वाभीष्टतया प्रधानो देवः
स मध्यगे प्रधानप्रासादे अन्ये त्वपरेषु चतुर्षु स्थापनीया इति प्रतिभाति ।
५ । ६ । अथेदानीं नवायतनप्रतिष्ठायां देवतासंस्थापनक्रममाह -
नवायतनेति । नवायतनप्रतिष्ठायामपि पञ्चायतनवत् मध्ये प्रधानायतनं
पूर्वादिषु च अष्टावायतनानि परिकल्प्य प्रधाने मध्यायतने वासुतेवमितरेषु
पूर्वाद्यष्टायतनेषु यथाक्रमं रामादीन् विन्यसेत् । रामादयस्तु - बलराम -
प्रद्युम्नानिरुद्धनारायण-ब्रह्मविष्णुनरसिंहवराहाः । रामादिपदेनैतेषां
ग्रहणन्तु चतुर्विंशे नवव्यूहप्रतिमालक्षणपटले द्रष्टव्यम् ।
तथा च - मध्ये प्रधानायतने वासुदेवं ऐन्द्रे बलरामम् आग्नेये प्रद्युम्नं
याम्येऽनिरुद्धं नैऋते नारायणं वारुणे ब्रह्माणं वायव्ये विष्णुं कौवेरे
नरसिंहं ऐशाने च वराहं स्थापयेदित्यर्थः । दिग्देवतान्यासे
प्रकारान्तरमाह - इन्द्रादीनिति । तथा च - प्रागुक्तक्रमेण मध्ये वासुदेवं
न्यस्य पूर्वादीशानपर्यन्तं यथाक्रममिन्द्रादीन् लोकपालान् स्थापयेदित्यर्थः ।
प्. ८७)
अथवान्यप्रकारेण नवायतनमुच्यते ।
पञ्चायतनसंस्थाने वडभ्यो यत्र मध्यमाः [मध्यमाः क्, ग् मध्योगा
ख्] ॥ ७ ॥
पुरुषोत्तममूर्त्तिस्तु मध्ये स्थाप्या विचक्षणैः ।
पूर्वगायां वडभ्याञ्च लक्ष्मी-वैश्रवणौ न्यसेत् ॥ ८ ॥
दक्षिणस्यां वडभ्यान्तु न्यसेन्मातृगण बुधः ।
ईशानञ्च तथा [ईशानञ्च ख्, ग् ईशानञ्चेन क्] स्कन्दं गणेशं चात्र
विन्यसेत् ॥ ९ ॥
पश्चिमायां वडभ्यान्तु सूर्यादीन् विन्यसेद् ग्रहान् ।
उत्तरस्यां वडभ्यान्तु मत्स्यादीन् विन्यसेद्दश ॥ १० ॥
आग्नेय्यां चण्डिका स्थाप्या नैऋत्यामम्बिकां न्यसेत् ।
सरस्वतीन्तु वायव्यां पद्मामीशानगोचरे ॥ ११ ॥
मध्ये च [च क्, तु ख्, ग्] स्थापयेद्देवीं वासुदेवं यथोदितम् ।
नारायणं श्रीधरं वा [वा क्, च ख्, ग्] वामनं मोहनाशनम् ॥ १२ ॥
द्वादशायतनं तत्तु [तत्तु क्, यत्र ख्, ग्] मध्यमन्तु त्रयोदश ।
अस्मिन् देवविभागानि [विभागानि क्, वितानानि ख्, ग्] शृणुष्व सुरसत्तम ॥ १३ ॥
विश्वरूपं न्यसेन्मध्ये केशवादीन् प्रदक्षिणम् ।
पूर्वाद्यनुक्रमेणैव यथावद्विनिवेशयेत् ॥ १४ ॥
यां मूर्तिं स्थापयेन्मध्ये तत्स्थाने मध्यमां न्यसेत् ।
कामनाभेदतश्चायं वेधः साधारणः स्मृतः ॥ १५ ॥
१३ । द्वादशायतनमाह - द्वादशेति ।
प्. ८८)
प्रासादलक्षणं प्रोक्तं संक्षेपेण मया तव ।
तथैवान्येऽपि कर्तव्या येऽस्मिन् संकीर्त्तिता मया ॥ १६ ॥
इति हयशीर्षे महापञ्चरात्रे द्वादशसाहस्रिके आदिकाण्डे चतुर्दशः
प्रासाददेवतासंस्थापनपटलः [प्रासाद क्, ख्, ग् पुस्तकयोरेतन्नास्ति ।] ॥ १४ ॥
आदितः श्लोकसंख्या - ३२५