प्रमुखा विकल्पसूचिः उद्घाट्यताम्

श्रीश्रीलजीवगोस्वामिप्रभुपादेन विरचितं सवृत्तिकं श्रीश्रीहरिनामामृतव्याकरणं
॥ प्रथमं प्रकरणम् ॥
 
 उद्बोधिका

अथ श्रीगौडीयसम्प्रदायाचार्यवर्यैः श्रीश्रीकृष्णचैतन्यचरणाब्जभृङ्गैर्भक्त्सिद्धान्तामृतसुरधुनीराजहंसैर्विश्ववैष्णवराजसभापात्रराजप्रवरैरखिलशास्त्रसिन्धुपारीणैर्निखिलकविकुलनीराजितपदपङ्कजैः षड्गोस्वामिनामन्यतमैः श्रीश्रीलश्रीजीवगोस्वाम्प्रभुपादैः शब्दब्रह्मामृताकूपारं समुन्मथ्य जीवनिकायहिताय श्रीहरिनामामृतं समुद्दिधीर्षुभिर्व्याकरणमिषेण सर्वेभ्य एव जीवेभ्यः सुमहती कृपा वितीर्णा ।

वेदपुरुषः श्रीनारायणोऽनादिबहिर्मुखतानिसर्गवशानां तत्तदासक्तिनिष्ठानां श्रेयसे परोक्षवादमवलम्ब्य कर्मज्ञानविग्रहच्छलेन ब्रह्मद्वारा ब्रह्माण्डेषु यथा तत्तत्काण्डान्याविर्भावितवान्, तदुन्मुखेषु स्वरूपप्रदर्शनेन तीव्रविरहार्तिप्रशमनाय तद्द्वारा च निखिलजीवनिकायनिःश्रेयसपद्धतिं बोधयितुं भक्तिकाण्डमपि तथा सम्प्रकाशयामास । तत्र श्रुतिप्रतिपादितविषयज्ञानाय शिक्षाकल्पव्याकरणच्छन्दोज्योतिषनिरुक्ताख्यानां षण्णां वेदाङ्गानां प्राथमिकाभ्यास एवावश्यकर्तव्यतया नियमितस्तत्त्वदर्शिभिर्महादेशिकवरैः । तेषु व्याकरणाख्यं शब्दशास्त्रं वेदपुरुषवदनारविन्दजमिति तत्पूर्णज्ञानमन्तरेण का कथा श्रौतविद्यायां, गीर्वाणवाण्यामपि प्रवेशाधिकारः सर्वतो निरुद्ध एव ।

किं च, निर्गुणविशुद्धसत्त्वे परव्योमजचिन्मयशब्दब्रह्मावतारं ऋते निखिलापराविद्यापराकाष्ठाभिज्ञानामपि सर्ववेदान्तसारं निगमकल्पतरुगलितफलमन्धतमस्तितीर्षूणामध्यात्मदीपं वेदपुराणकाव्येति त्रिवृदेकाधारं प्रभुमित्रप्रियवद्धितकारकं श्रीमद्भागवतं प्रवचनमेधाभूरिश्रुताद्यक्षप्रयासैरप्यनधिगम्यं तिष्ठेत्, यदृते परमश्रेयःश्रीभगवत्प्रीत्युदयः कथम्चित्कदापि नैव सम्भवेत। अतः स्वयंभगवता श्रीविश्वम्भरलीलया प्रत्यक्षरं प्रतिधातु प्रतिशब्दं च विद्वद्रूढिवृत्त्या केवलं श्रीकृष्णाभिधेयत्वं प्रतिपादितम् । तच्छक्त्याविष्टैः श्रीश्रीलसनातनगोस्वामिप्रभुपादैरपि श्रीश्रीसङ्क्षेपहरिनामामृते सङ्केतितप्रणाल्या तदनुगवरैः श्रीश्रीमज्जीवगोस्वामिचरणैस्तन्महाकारुण्यार्चाविग्रह इवैतत्श्रीश्रीहरिनामामृताख्यं शब्दानुशासनं स्वीयचिदास्वादनपारिपाटितो जीवोपकृतये सज्जनलीलाविलासस्मृतये च प्रकटितम् । सूत्रेषु वृत्तिषूधारणेषु च श्रीहरिनामरूपगुणलीलापरिकराणां स्वस्वसाधनोचितभगवत्कृपास्फूर्तिवैशिष्ट्यानुभूतिरेवास्य मुख्यप्रयोजनमिति ग्रन्थारम्भपद्यचतुष्टये तथोपसंहृतिस्रग्धरायुगले च सुव्यक्तम् ।

प्रचरत्स्वपीन्द्रचन्द्रकाशकृत्स्नापिशलिशाकटायनपाणिन्यमरजैनेन्द्रप्रमुखानामादिशाब्दिकानां शर्ववर्महेमचन्द्रानुभूतिस्वरूपाचार्यवोपदेवक्रमदीश्वरपद्मनाभदत्तप्रभृईनां च नव्यानां प्रणीतेषु निबन्धेषु एतच्छब्दशास्त्रप्राकट्यस्यैतदेव वैशिष्ट्यं—सूत्रादिषु साङ्केत्यादिभिरपि गृहीतं श्रीनाम तदभ्यासपरेभ्यः सर्वापराधादुन्मुच्य स्वान्तर्बहिश्च निखिललोकलावण्यनिर्मुक्तिं स्वमूर्तिं प्रकाश्य क्रमवशात्स्वरूपोद्बोधनपूर्विकां भगवद्रूपगुणलीलादिषु तेषां प्रवेशयोग्यतां समुत्पाद्येदिति । नृमात्रस्यात्राधिकारित्वेऽपि दिव्यज्ञानेन प्रयोजनवतां वैकुण्ठानुभूतिसमुत्सुकानां श्रीमद्भागवतरसास्वादलिप्सूनां परविद्यानुशीलनाभिकाङ्क्षाणां सतामवश्यमेव व्याकरणामृतमेतद्रसिककार्ष्णवदनविनिर्गतं कर्णपुटयुगलेन सादरं पानीयम्, पुनः पुनरावृत्त्या च स्नानादिना सत्कर्तव्यम् । समासेनैतद्वक्तव्यं यदखिलरसामृतमूर्तिः श्रीहरिरेव मनुजाभ्युपपत्तये श्रीहरिनामामृतमूर्त्या क्षितितले स्वावतारं प्रकटितवान। शब्दशास्त्रान्तरपाठकवाचकानामिवास्याध्ययनाध्यापनादौ नास्ति सुदुर्लभमानवजीवनकालात्ययः, परं तु सुरभारतीव्युत्पत्तिवासनामात्रपरायणानामप्यज्ञातभावेनैव सुकृतिपुञ्जसञ्चयात्सद्भक्तिसोपानपरम्परायां क्रमोन्नयनं प्रतिपदं च तथा सदा तद्भावभावितत्वं सम्पद्येत, यथा भौमदेहाप्ययावसरे तत्स्मृत्यनपगमात्श्रीहरिसाहित्यानन्दाप्तिः सुघटैव स्यात। अतो व्याकरणमरुणीवृति जीवनलुब्धाः सदाघसंविग्नाः के वा स्वैरमवतीर्णस्येतस्यानायासलभ्यस्य श्रीहरिनामामृतस्य पानावगाहनादितो विरमेयुः ?

द्विनवत्यधिकैकत्रिंशत्शत (३१९२)सूत्रयुते सप्तप्रकरणात्मकेऽस्मिन्व्याकरणे प्रतिप्रकरणमङ्गलाचरणश्लोके श्लेषप्रयोगेण भक्तिपरव्याख्यामुररीकृत्य व्याकरणोद्दिष्टतात्पर्यमपि संसूचितम् । तत्र तावत्प्रथमप्रकरणे संज्ञा सन्धिश्च, द्वितीये विष्णुपदप्रकरणे शब्दरूपविशेषणलिङ्गसर्वनामाव्ययशब्दाः, तृतीये आख्यातप्रकरणे धातुप्रक्रिया उपसर्गविधौ किञ्चित्विशिष्टं च, चतुर्थे कारकप्रकरणे कारकविवेक उपपदविभक्तिर्लकारार्थनिर्णय आत्मनेपदपरस्मैपदविधानं च, पञ्चमे कृदन्तप्रकरणे कृत्प्रत्यया उणादिप्रत्ययाश्च, षष्ठे समासप्रकरणे समासप्रकाराः समासाश्रयविधिः पूर्वपरनिपाता द्विरुक्तविधिश्च, सप्तमे तद्धितप्रकरणे समासान्तस्त्रीप्रत्ययाः सोपपत्ति सोदाहरणं च निरूपिताः ।

व्याकरणेऽस्मिन्खलु पाणिन्यादिवैयाकरणसम्मतप्रत्याहारादिकमनादृत्य अवरोहमार्गेण सिद्धवर्णसमाम्नायमेवोररीकृत्य श्रीहरिनाममयाः संज्ञाः संज्ञा निबद्धाः । विदितमस्त्वेतत्—मात्रालाघवमात्रेण पुत्रोत्सवं मन्यमानानां वैयाकरणान्तराणां तिरस्कारेण श्रीहरिनामाक्षरलाभादत्र सूत्रेषु मात्राबाहुल्यमेव पुरस्कृतम् । वैदिकप्रकरणाभाववत्त्वे उणादिप्रत्ययसङ्क्षिप्तत्वेऽपि च (कृदन्तप्रकरणं, ३६६३७५तमसूत्राणि) प्रक्रियाकौमुदीसारस्वतव्याकरणप्रभृतीनां भ्रमप्रमादादिकं प्रदर्शयद्भिः, तथा स्थलविशेषेषु नैकसाहित्यव्याकरणादिग्रन्थेभ्यो बहुश उदाहरणादिकं समुद्धृत्य मतान्तराणि समुल्लिख्य समालोच्य च श्रीश्रीमज्जीवगोस्वामिचरणैर्व्याकरणविचिकित्सायां विशुद्धं मतं समुपन्यस्तम् । किं च, प्राचीनवैयाकरणवत्स्त्रीप्रत्ययप्रकरणं पृथक्तया अपठित्वा नाममयप्रत्ययसादृश्यात्तद्धितप्रकरण एव पठितमित्यपि विदुषामवधेयम् ।

ग्रन्थोपसंहारे श्रीश्रीलश्रीजीवगोस्वामिपादैर्ग्रन्थनिर्मितावेतत्कारणमुट्टङ्कितं, यत्श्रीगोपालदासस्य कृते व्याकरणस्यास्य प्रकाशनमिति । श्रीश्रीगोविन्ददेवसेवाधिकारिणां श्रीहरिदासपण्डितपादानां शिष्यप्रवरेण श्रीराधाकृष्णगोस्वामिना विरचितायां श्रीसाधनदीपिकायां नवमकक्षायां श्रीगोपालदाससम्बन्धे वृत्तान्तमेतत्प्रकटितम्—

तत्र शिष्यपरम्पराश्रवणमाह—गोपालदासनामा कोऽपि वैश्यः श्रीजीवगोस्वामिपादानां प्रियशिष्यः । हरिनामामृते तन्नाम स्पष्टमेवोट्टङ्कितम् । तद्यथा—हरिनामामृतसंज्ञं यदर्थमेतत्प्रकाशयामासे । उभयत्र मम मित्रं स भवतु गोपालदासाख्यः ॥ इति ।

मुर्शिदाबादबहरमपुरतः श्रीरामनारायणविद्यारत्नप्रकाशिते श्रीश्रीहरिनामामृतव्याकरणे टीकाद्वयं दृश्यते । तत्र राढदेशीयस्वर्णमुखीग्रामनिवासिश्रीहरेकृष्णाचार्यो बालतोषणीनाम्नीं टीकां समासप्रकरणस्य ऊनषष्ट्यधिकद्विशततमसूत्रावधि विरच्य टीकायामसमाप्तायामेव संसारविषयं हित्वा व्रजं गतः । तदनन्तरं वीरभूमस्थकेन्दुबिल्वग्रामे निवसता तुर्याश्रमिश्रीमद्गोपीचरणदासवेदान्तभूषणेन १२५३तमबङ्गाब्दे (१७६८तमशकाब्दे) समासप्रकरणावशिष्टटीकां बालतोषणीति नाम्नैव समाप्य तद्धितोद्दीपनीनाम्नी अन्त्यस्य तद्धितप्रकरणस्य टीका चक्रे । जयपूरीयश्रीगोविन्ददेवमन्दिरग्रन्थागारे श्रीराधाकृष्णदासकृतटीकासहितस्य श्रीश्रीहरिनामामृतव्याकरणस्य बङ्गाक्षरमयीइ करलिपिरेका वर्तते ।

श्रीश्रीलजीवपादैः श्रीधामवृन्दावनात्श्रीश्रीलश्रीनिवासाचार्यप्रभूणां सविधे सम्प्रेषिते पत्रद्वये श्रीश्रीहेतुविशेषस्य शोधनप्रेषणादिकं समुल्लिखितमिति श्रीलनरहरिचक्रवर्तिठक्कुरकृतश्रीभक्तिरत्नाकरे चतुर्दशतरङ्गप्रारम्भे द्रष्टव्यम् ।

वैष्णवव्याकरणकृतानि व्याकरणान्यधः संसूच्यन्ते—

(१) श्रीश्रीलसनातनगोस्वामिपादकृतं सङ्क्षेप(लघु)हरिनामामृतव्याकरणं श्रीहरेकृष्णाचार्यकृतबालतोषणीटीकाप्रारम्भे संसूचितं, संस्करणेऽस्मिन्परिशिष्टतया प्रथममेव प्राकाश्यं नीतम् । एतद्व्याकरणं श्रीश्रीलरूपगोस्वामिपादै रचितमित्यपि कैश्चिदभिमन्यते । ढाकाविश्वविद्यालयग्रन्थागारे प्राकृतपादसहितस्य श्रीलघुहरिनामामृतव्याकरणस्य १७४७ शकाब्दीया षट्त्रिंशत्पत्रात्मिका काचित्करलिपिः [४५१७], श्रीश्रीलरूपगोस्वामिप्रभुपादनाम्न्यारोपितस्य श्रीसङ्क्षेपहरिनामामृतव्याकरणस्य चैका षोडशपत्रात्मिका करलिपिः [द्.र्. १६२] वर्तेते ।

(२) श्रीश्रीलरूपगोस्वामिप्रभुपादकृता प्रयुक्ताख्यातचन्द्रिका श्रीभक्तिरत्नाकरे (१.८१६, ८२५) समुल्लिखिता । अद्यापि नोपलब्धा पुस्तिकैषा । सा तु भट्टमल्लकृताख्यातचन्द्रिकावत्क्रियाकोश इति कैश्चिदनुमन्यते ।

(३४) श्रीश्रीलजीवगोस्वामिप्रभुकृतौ श्रीश्रीहरिनामृतव्यकरणधातुसङ्ग्रहौ संस्करणेऽस्मिन्मुद्रितौ ।

(५) तत्कृतैव सूत्रमालिका नाद्याप्युपलब्धा ।

(६७) श्रीश्रीमद्बलदेवविद्याभूषणपादकृतौ व्याकरणकौमुदीपदकौस्तुभौ श्रीवृन्दावनीयश्रीराधारमणदेवसेवकवरश्रीमद्वनमालिलालगोस्वामिनां तदनुजवाराणसीवास्तव्यमहामहोपध्यायश्रीदामोदरलालगोस्वामिनां च ग्रन्थागारे आस्तामिति वार्ता । व्याकरणकौमुदी च श्रीधामवृन्दावनस्थश्रीराधाचरणविद्यावागीशमहोदयस्य ग्रन्थालये वर्तत इत्यपि श्रुतम् । पदकौस्तुभस्तु पाणिनीयसूत्रानुसारेण सङ्क्षेपतो बालबोधाय वृत्तमत्तया रचित इति ज्ञायते ।

एतद्व्यतिरिक्तानि वैष्णवै रचितानि कानिचित्व्याकरणानि ग्रन्थान्तरेभ्यः ज्ञायन्ते, अत्र विव्रियन्ते च—

(८) श्रीश्रीमदद्वैतजनकेन श्रीमत्कुवेरतर्कपञ्चाननेन वर्धमानकृतसूत्रसारप्रक्रियामवलम्ब्य कातन्त्रसारांशं च क्रोडीकृत्य प्रणीतं सूत्रसारव्याकरणम् ।

(९) श्रीधामनवद्वीपवास्तव्यश्रीकाशीनाथविद्यानिवासेन श्रीवासुदेवसार्वभौमभ्रातुष्पुत्रेण रचितं शिशुबोधाख्यं व्याकरणम् ।

(१०) श्रीनवद्वीपनिवासिश्रीकाशीश्वरभट्टाचार्येण मुग्धबोधप्रक्रियां कातन्त्रपरिभाषादिकं चानुसृत्य कृतं शब्दरत्नाकराख्यं व्याकरणं ।
 
(११) श्रीयदुनन्दनदासकृतजुमरकौमुदीग्रन्थस्यैका करलिपिः मद्रदेशस्थ आडियार्ग्रन्थशालायां सुरक्षितास्ते ।

(१२) श्रीश्रीलपरमानन्दसेनकविकर्णपूरगोस्वामिपादेषु श्रीचैतन्यामृताख्यव्याकरणस्य प्रणेतृत्वं कैश्चिदारोप्यते ।

(१३) श्रीकृष्णलीलाशुकमुनिविरचिता श्रीभोजदेवकृतस्य सरस्वतीकण्ठाभरणाख्यव्याकरणस्य टीका देवकृतस्य दैवव्याकरणस्य पुरुषकारनाम्नी टीका च४ । तेनैव विरचितेऽष्टसर्गात्मके श्रीगोविन्दाभिषेककाव्ये हेमचन्द्राचार्यकृतकुमारपालचरितकाव्यवत्प्राकृतभाषाव्याकरणस्य प्रयोगाः प्रदर्शिताः ।

(१४) श्रीविट्ठलनाथदीक्षितपुत्रेण श्रीवल्लभाचार्यसम्प्रदायिना श्रीगोविन्दनाथेन प्रणीतं श्रीगोविन्दव्याकरणम् ।

(१५) श्रीभरतमल्लिकविरचितः कारकोल्लासः खलु श्रीहरिनामामृतीयकारकप्रकरणमनुसृत्य लिखित इति तत्रोक्तोदाहरणादिकात्सुष्ठु ज्ञायते । कलिकातास्थसंस्कृतसाहित्यपरिषद्ग्रन्थमालायां मुद्रित एषः ।

स्थूलबङ्गाक्षरमुद्रितसूत्रादिकं नानाग्रन्थशालारक्षितप्राचीनकरलिपिसंवादितपाठान्तरैः संस्कृतं परिशिष्टद्वये श्रीश्रीसङ्क्षेपहरिनामृतव्यकरणेन श्रीश्रीलजीवगोस्वामिपादरचितधातुसङ्ग्रहेण च सहितं विषयश्लोकसूत्रसंज्ञापरिभाषान्यायधृतग्रन्थतत्प्रणेतृकारिकापद्यपद्यांशनामकृष्णनामसविवरणधातुविशेषशब्दगणस्त्रीप्रत्ययणत्वषत्वविधानादेशागमधात्ववयवधात्वनुबन्धकृत्प्रत्ययोणादिशब्दसमासान्ततद्धितप्रत्ययेतरव्याकरणादिस्थसंज्ञाप्रत्ययादिलक्ष्यसूचीभिः, श्रीहरिनामामृतस्थसंज्ञाशब्दानां पाणिनीयादिव्याकरणोक्तसंज्ञाशब्दानां च तारतम्यप्रदर्शकसूचीपत्रेण, तथा गणपाठाव्ययशब्दसङ्ग्रहस्वादितिबादिविष्णुभक्तिरूपलिङ्गानुशासनसङ्ग्रहश्लोकबङ्गीयसंस्कृतसमितिपरिगृहीतपरीक्षाप्रश्नावल्युत्तरमालादिभिः समलङ्कृतमेतदपूर्वसंस्करणं पाठार्थिनां गवेषकाणां च सुखबोधार्थं प्रथममेव सम्प्रकाशितम् । परितुष्यतुतमामनेन स्वैरक्रीडनेन भगवान्शिखिपिञ्छमौलिः ।

एतद्ग्रन्थस्य प्रकाशे विविधसेवनविधौ पण्डितवरश्रीमन्नन्दलालविद्यासागरकाव्यतीर्थः, पण्डितश्रीराधागोविन्ददासकाव्यपुराणरागतीर्थः, पण्डितश्रीमन्मथमन्मथदासकाव्यतीर्थः, श्रीबलदेवदासकाव्यव्याकरणतीर्थः, श्रीनिखिलप्रभुदासः, श्रीहरिजनदासब्रह्मचारी, श्रीकानाइलालदासश्च धन्यवादभाजनं भवन्ति । श्रीधामनवद्वीपस्थश्रीहरिबोलकुटीरसेवाधिकारिणः श्रीमद्हरिदासदासमहोदयाः श्रीश्रीसङ्क्षेपहरिनामृतव्यकरणस्य संशोधनविषये कृतसाहायका अस्माकं सबहुमानसाधुवादमर्हन्ति । मुद्रणसौष्ठवपरिपाटिषु श्रीगोविन्ददासब्रह्मचारिसेवाव्रतस्य प्राणबुद्धिवाक्यैः सेवाप्रयासः श्रीभगवच्चरणानुचरविश्ववैष्णवराजसभासभाजनभाजनानां सर्वतो निःश्रेयसाशंसनमर्हति । एतत्संस्करणस्य परिशुद्धिविविधसौष्ठवविधानादिषु सर्वविधसूचिकानिर्माणे च परमस्नेहालयाध्यापकस्य एम्.ए. इत्युपाह्वानस्य श्रीअच्युतानन्ददासकाव्यतीर्थस्य कायमनोवचोभिः सर्वतोमुखिनी सेवा परमधन्यवादार्हा । मुद्रणाक्षरयोजनादिदोषादत्र ये केचिद्भ्रमा भवेयुस्ते सारग्राहिभिः सुधीभिः संशोध्य पठनीयाः ।

जीवजीवनः खलु श्रीजीवचरणो व्याकरणव्युत्पित्सूनां बालानां जीवानां च हिताभिलाषपरतया स्वहृदयकमलकोशादुद्घाट्य बहिः प्रदर्शयन्श्रीहरिनामामृतासवमेतत्प्रकाशयामास । एतदेव श्रीमन्महाप्रभोः फेलालवं स्वादं स्वादं श्रीभागवतसाहित्यमनुबोभूयमाना जीवा अमरत्वं गच्छन्तः सुखं श्रीभक्तिरसाम्बुधौ विहरस्त्वित्याशास्ते दीन आश्रवः ।

इति सम्पादकः ।
श्रीश्रीलसनातनगोस्वामिप्रभुपादविरहतिथिः
वामनः ३०, श्रीगौराब्दः ४६१

 
श्रीश्रीलजीवगोस्वामिप्रभुपादविरचितं

श्रीश्रीहरिनामामृतव्याकरणं

ग्रन्थारम्भः

पाठान्तराणां साङ्केतिकचिह्नानि—

(क) – ढाकाविश्वविद्यालयसंरक्षितलिपिशालायाः २४०१सङ्ख्यककरलिपिः ।
(ख) – श्रीपाटगोपीवल्लभपुरस्थग्रन्थागाररक्षिता करलिपिः ।
(ग) – मुर्शिदाबादबहरमपुरतः प्रकाशितः श्रीरामनारायणविद्यारत्नसम्पादितो ग्रन्थः ।
(घ) – ४४२श्रीचैतन्याब्दे श्रीगौडीयमठतः प्रकाशितो ग्रन्थः ॥


॥ श्रीश्रीराधाकृष्णाभ्यां नमः ॥

कृष्णमुपासितुमस्य स्रजमिव नामावलिं तनवै ।
त्वरितं वितरेदेषा तत्साहित्यादिजामोदम् ॥१॥
आहतजल्पितजटिलं दृष्ट्वा शब्दानुशासनस्तोमम् ।
हरिनामावलिवलितं व्याकरणं वैष्णवार्थमाचिन्मः ॥२॥
व्याकरणे मरुनीवृति जीवनलुब्धाः सदाघसंविग्नाः ।
हरिनामामृतमेतत्पिबन्तु शतधावगाहन्ताम् ॥३॥
श्रीहरिं मधुरं नत्वा हरिनामामृतं रसम् ।
व्याकरणं च तद्भक्त्या पिबन्तु व्रजवासिनः ॥४॥
साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥५॥ इति ।