प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथ विष्णुपदप्रकरणम्

य एकः सर्वरूपाणां सर्वनाम्नां तथाश्रयः ।
तस्य विष्णोः पदं सर्वं विष्णुभक्त्या निरूप्यते॥

अथ नामजानि विष्णुपदानि

नाम्ना जातानि यानि विष्णुपदानि, अथानन्तरं तानि निरूप्यन्ते.

१. अधातुविष्णुभक्तिकमर्थवन्नाम ।

भूसनन्ताद्या धातवः । स्वादितिबाद्या विष्णुभक्तयः, विभक्तय इति प्राञ्चः । तान्धातून्, ता विष्णुभक्तीश्च वर्जयित्वा यदर्थयुक्तं शब्दरूपम् । तन्नामसंज्ञं स्यात। लिङ्गमित्येके । प्रातिपदिकमित्यन्ये । ते चार्था द्रव्यगुणजातिक्रियाः । तद्युक्तं तदभिधायकं शब्दरूपमित्यर्थः ।

(१) द्रव्यं पश्यमारभ्य मृनयपर्यन्तं सर्वं वस्तु ।
(२) गुणस्तदाश्रयी ऐश्वर्यादिशब्दस्पर्शादिको धर्मः ।
(३) जातिः समानत्वं ब्राह्मणत्वं गोत्वादि ।
(४) क्रिया धात्वर्थः सत्त्वाहारज्ञानविहारप्रभृतिः ।

अर्थवद्ग्रहणात्कृष्ण इत्यादौ प्रत्यक्षरं नामत्वं न स्यात। गवित्ययमाह इत्यत्र च ॥१॥

२. प्रकृतिः पूर्वा ।

सा च नामधातुभेदाद्द्विविधा ॥२॥

३. प्रत्ययः परः ।

स च स्वाद्याख्यातकृत्तद्धितभेदाच्चतुर्विधः ॥३॥

४. तत्र नाम्नः—सुमौ जस्;
अमौ शस्; टा भ्यां भिस्; ङे भ्यां भ्यस्;
ङसि भ्यां भ्यस्; ङसोसाम्; ङि ओस्सुप॥

एते सुंइत्यादय एकविंशतिर्विष्णुभक्तयः । प्रत्येकं नाम्नः परे स्युः । तासु च—सुमौ जस्प्रथमा ; अमौ शस्द्वितीया ; टा भ्यां भिस्तृतीया ; ङे भ्यां भ्यस्चतुर्थी ; ङसि भ्यां भ्यस्पञ्चमी ; ङ ओसां षष्ठी ; ङि ओस्सुप्सप्तमी ॥

अत्र प्रथमाया एकवचनं, सुं, द्विवचनमौ, बहुवचनं जस्; द्वितीयैकवचनमम्, द्विवचनमौ, बहुवचनं शसित्यादि ज्ञेयम् । एताः “स्वादयः”, “स्यादयः” इत्यन्ये । “सुप्” इत्येके ॥४॥

५. तत्र जटशङपा इतः, उंश्च सों ङसेरिश्च ।

एति, गच्छति, न तिष्ठतीति “इत्”, “अनुबन्धः” च । स च उच्चारणार्थश्चिह्नार्थो विध्यादिनिमित्तश्च क्वचित। इतश्चैते—सिद्धोपदेशे विरिञ्चौ च सविष्णुचापसर्वेश्वर इत्, अन्त्यो विष्णुजनश्च “अतित्” इत्यादौ । आङ्– माङ्– उञ् – नञ्सु च । विरिञ्चौ तु क्वचित। धात्वादिञिटुडु । प्रत्ययाद्या जटणाः । शवर्गावतद्धिते । स विष्णुभक्तौ तनसमा इति । सिद्धोपदेशाः धातुप्रत्ययविष्णवः । अरामादिभेदाः सविष्णुचापास्तु वैदिका उच्यन्ते ॥५॥

६. नामसंज्ञश्चतुर्विधः ।

यथा पुंलिङ्गः पुरुषोत्तमसंज्ञः । स्त्रीलिङ्गो लक्ष्मीसंज्ञः । नपुंसकलिङ्गो ब्रह्मसंज्ञः । अलिङ्गः अव्ययसंज्ञः ॥६॥

—ओ)०(ओ—

तत्र सर्वेश्वरान्ताः पुरुषोत्तमलिङ्गाः

तत्र अरामान्तः कृष्णशब्दः । तत्र प्रथमैकवचने कृष्णसुमिति स्थिते, उराम उच्चारणार्थः ॥
७. विष्णुभक्तिसिद्धं विष्णुपदम् ।

विष्णुभक्तिसिद्धं नाम्नो धातोर्वा रूपं विष्णुपदसंज्ञं स्यात। “पदम्” इति प्राञ्चः ॥७॥

गङ्गास्रोतोवदेवास्य भवेद्विधिरतःपरम् ।
नारोहति परः पूर्वं यत्रोपाधिर्न विद्यते ॥७॥

८. सररामयोर्विष्णुसर्गो विष्णुपदान्ते ।

सररामयोः स्थाने विष्णुसर्गः स्यात। विष्णुपदान्ते विषये—कृष्णः ।

एवं सूत्रं ततो वृत्तिरिति वस्तरशङ्कया ।
सूत्रेणैवार्थसिद्धिस्तु यथा स्यात्क्रियते तथा ॥
साधनानुक्रमार्थं च नाधिकारेण सूत्र्यते ।
अन्यथा प्रक्रिया भिन्ना मृग्येताज्ञप्रबोधनी ॥
प्राङ्निमित्तं तथा कार्यी कार्यं परनिमित्तकम् ।
अत्र क्रमेण वक्तव्यं प्रायः सूत्रेषु सर्वतः ॥
क्रमाच्च पञ्चमी ६ई प्रथमा सप्तमी तथा ।
क्वचित्परनिमित्तस्य स्थाने विषयसप्तमी ॥
कार्यपूर्वे पञ्चमी स्यात्कार्यस्थाने तु षष्ठिका ।
कार्ये तु प्रथमा वाच्या, सप्तमी विषये परे ॥
विना योगे निषेधार्थं द्वितीया क्वचिदिष्यते ।
सर्वाङ्गासम्भवो यत्र स्वल्पान्यङ्गानि तत्र तु ॥
अतो बालकबोधायपदं विच्छिद्य मूर्धनि ।
अङ्का देया विष्णुभक्तिव्यक्त्यर्थं सर्वसूत्रतः ॥

यथा सररामयोः इति कार्यस्थानं, विष्णुसर्गः इति कार्यं, विषयुपदान्तः विषयः । परनिमित्तं पूर्वनिमित्तं चात्र नास्ति । तत्तच्च, यथा—इद्वयमेव यः सर्वेश्वरे (स.प्र. ५९) इत्यत्र परनिमित्तं सर्वेश्वरः । ततः शश्छो वा (स.प्र. ९९) इत्यत्र पूर्वनिमित्तं विष्णुदासः । विष्णुजने (स.प्र. १२०) इत्यादौ, हरौ विना इति तौ निषिद्धौ ।

तदेवं प्रथमाया एकवचने कृष्णः । द्विवचने कृष्ण + औ, ओद्वये औ (स.प्र. ५७), कृष्णौ । बहुवचने कृष्ण + जस्, जित्चिह्नार्थः, शसादिभेदज्ञापनाय । एवमुत्तरत्रापि । त्रिविक्रमविष्णुसर्गौ—कृष्णाः ॥८॥

द्वितीयवचने कृष्ण + अम् ।

९. दशावतारादं शसोररामहरः ।

कृष्णम् । हरोऽयं ज्ञापयति—सूत्रे प्रत्ययरूपान्निमित्तादन्यस्य हरोऽपि महाहरः इति । तेनैकात्मकमात्रनिमित्तत्वान्न त्रिविक्रमः । द्वितीयाद्वित्वे कृष्ण + औ = कृष्णौ । पूर्ववद्बहुत्वे कृष्ण + शस्, शित्, अरामहरः । एकदेशविकृतमनन्यवत। तथापि तन्नामैवेत्यर्थः ॥८॥

ततश्च—
१०. दशावतारस्य त्रिविक्रमः शसि, तस्मात्सो नः पुंसि ।

अराम उच्चारणार्थः, कृष्णान॥९॥

तृतीयैकत्वे टा—
११. अरामान्तः कृष्णसंज्ञः ।

१२. कृष्णात्टा इनः ।

टा इति सूत्रबलेन लुप्तषष्ठी, स्पष्टतार्थमसन्धिः । एवमन्यत्रापि । कृष्ण + इन, अद्वयमिद्वये ए (स.प्र. ४८) = कृष्णेन ॥१२॥

द्वित्वे कृष्ण + भ्याम्—
१३. कृष्णस्य त्रिविक्रमो गोपाले ।

एकवर्णो विधिरन्ते प्रवर्तते = कृष्णाभ्याम् ॥१३॥

बहुत्वे कृष्ण + भिस्—
१४. कृष्णायांद्भाइ।

एद्वये ऐ (स.प्र. ५५), विष्णुसर्गः = कृष्णैः ॥१४॥

चतुर्थ्येकत्वे—
१५. कृष्णात्ङेर्यः ।

कृष्णस्य त्रिविक्रमः (वि.प्र. १३) = कृष्णाय । द्वित्वे = कृष्णाभ्याम् ॥१५॥

बहुत्वे भ्यस्—
१६. कृष्णस्य ए वैष्णवे बहुत्वे ।

कृष्णेभ्यः ॥१६॥

पञ्चम्येकत्वे कृष्ण + भिस्—
१७. कृष्णात्ङसेरात।

कृष्णात। पञ्चमी द्वित्वबहुत्वयोश्चतुर्थीव—कृष्णाभ्याम्, कृष्णेभ्यः ॥१७॥

षष्ठ्येकत्वे कृष्ण + ङस्—
१८. कृष्णात्ङसः स्य ।

कृष्णस्य ॥१८॥

द्वित्वे ओस्—
१९. कृष्णस्य ए ओसि ।

ए अय्(स.प्र. ६३)—कृष्णयोः ॥१९॥

बहुत्वे आम्—
२०. वामनगोपीराधाभ्यो नुडामि ।

ईदृशौ विधिर्विष्णुः । उटावितौ । टिदागमः परसम्बन्धी । किदागमः पूर्वसम्बन्धी ॥२०॥

२१. तत्र टिन्मितौ सर्वत्रागमौ श्नमं विना, उगन्तकिच्च ।

यथा, “नुक्”, “पुक्”, “तुक्”, “घुक्”, इत्यादि । ततो “नामि” स्थिते ॥२१॥

२२. वामनस्य त्रिविक्रमो नामिः नृशब्दस्य तुवा, न

कृष्णानाम् । कृष्णस्य त्रिविक्रमो (वि.प्र. १३) इत्यनेनैव सिद्धत्वेऽपि सूत्रस्य प्रयोजनं, हरीणां (वि.प्र. ३६) इत्यादावेव । सप्तम्येकत्वे कृष्णङि, ङ्, इत्, कृष्णे, अद्वयमिद्वये ए (स.प्र. ४८)—कृष्णे । द्वित्वे ओस्—कृष्णयोः ॥२०॥

बहुत्वे सुप्, पराम इत्, कृष्णस्य ए (वि.प्र. १६)—

२३. ईश्वरहरिमित्रकङेभ्यो प्रत्ययविरिञ्चिसस्य षो, नुम्विष्णुसर्गव्यवधानेऽपि, न तु विष्णुपदाद्यन्तसातीनाम् ।

कृष्णेषु ॥२३॥

अथ सम्बोधनं, तत्र हेशब्दः सम्बोधनसूचकः—

२४. सम्बोधने सुर्बुद्धसंज्ञः ।

“सम्बुद्धिः” च ॥२४॥

२५. एओवामनेभ्यो बुद्धस्यादर्शनम् ।

हे कृष्ण ! द्वित्वबहुत्वयोः पूर्ववत। हे कृष्णौ ! हे कृष्णाः ! अत्र प्रथमैव । हेशब्दाद्यभावेऽपि—कृष्ण ! कृष्णौ ! कृष्णाः ! विष्णुभक्तिहरेऽपि तदर्थावृतत्वान्नामत्वातिक्रमः । ततः कृष्ण यासि, कृष्ण भासि, इत्यादौ, नामविशेषस्य विहितं त्रिविक्रमादिकं न स्यात। एवं रामः, रामौ, रामाः इत्यादि ॥२५॥

२६. रषऋद्वयेभ्यो नस्य णः, सर्वेश्वरहषवकवर्गपवर्गव्यवधानेऽपि, समानविष्णुपदे, न तु विष्णुपदान्तस्य ।

रामान्, रामेण इत्यादि । वामननारायणगोविन्दवैकुण्ठवासुदेवऽदयोऽपि अरामान्ताः कृष्णतुल्याः । कुर्वन्नस्तीत्यादौ द्वित्वे पूर्वनरामस्य न णत्वं, तत्राकरणात। अ इति शब्दोऽपि आद्यन्तवदेकस्मिनिति न्यायेन अरामान्तः । अः, औ, आः, इत्यादि । सम्बोधने, अन्यत्र चानित्यमिष्यते (स.प्र १) इति हे अ, अ हे वा । दूराह्वाने है हयोरेव महापुरुषत्वं मतम्—हे अ३, अ हे३ वा ॥२६॥

२७. शसादयो यदुसंज्ञाः ।

२८. अत्र पाददन्तमासयुष इत्येतेषां
पद्दत्मास्यूषनित्येते विरिञ्चयो यदुषु वा ।

यथासङ्ख्यामनुदेशः, समानां कार्यिणां कार्याणां च प्रकृतीनां प्रत्ययानां च तुल्यसङ्ख्यानां सतां यद्विधानं, तद्यथासङ्ख्यं स्यात। प्रथमस्य प्रथमं, द्वितीयस्य द्वितीयं, इत्यादिक्रमेणेत्यर्थः । प्रयोगाश्च पक्षे विष्णुजनान्तवज्ज्ञेयाः । यथा—पदः पादान्, पदा पादेन, पद्भ्यां पादाभ्यामित्यादि ।

अथ धातुस्वरूप आरामान्तो विश्वपाशब्दः । विश्वपाः, विश्वपौ विश्वपाः । विश्वपाम्, विश्वपौ ॥२८॥

विश्वपाशस्—

२९. आरामहरो यदुसर्वेश्वरे, न त्वापः ।

विश्वपः । विश्वपाटा, ट्, इत्= विश्वपा, विश्वपाभ्याम्, विश्वपाभिः ॥
विश्वपाङे, ङ्, इत्= विश्वपे, विश्वपाभ्याम्, विश्वपाभ्यः ॥
विश्वपाङसि, इङ्गाव्, इतौ = विश्वपः, विश्वपाभ्याम्, विश्वपाभ्यः ॥
विश्वपाङस्= विश्वपः, विश्वपोः, विश्वपाम् ॥
विश्वपाङि = विश्वपि, विश्वपोः, विश्वपासु ॥
हे विश्वपाः ! इत्यादि ।

एवं सोमपाप्रभृतयः । आरामहरविधिर्वा हाहाअब्जादीनामिति क्रमदीश्वरादयः । हाहः हाहान्, अब्जः अब्जान। हाहाः अब्जाः इति केचित। एवमग्रेगाः उदधिक्राः ॥२७॥

इरामान्तो हरिशब्दः—

३०. इउरामान्तो हरिसंज्ञः ।

अग्निः, घिः, च । हरिः ॥३०॥

३१. हरित औ पूर्वसवर्णः ।

हरित इति पञ्चम्यास्तस्तद्धितः, हरी ॥३१॥

३२. इद्वयस्य ए, उद्वयस्य ओ, ऋद्वयस्य अर्, ÿद्वयस्य अल्गोविन्द संज्ञः ।

गुणसंज्ञश्च ॥३२॥

३३. ङितो वृष्णिसंज्ञाः ।

३४. हरेर्गोविन्दो जसि वृष्णिषु बुद्धे च ।

हरयः । हरिम्, हरी, हरीन॥३४॥

३५. हरितष्टा ना, न तु लक्ष्म्याम् ।

हरिणा, हरिभ्याम्, हरिभिः ॥
हरये, हरिभ्याम्, हरिभ्यः ॥३५॥

३६. एओभ्यां ङसिङसोररामहरः ।

हरेः, हरिभ्याम्, हरिभ्यः॥
हरेः, हर्योः, हरीणाम् ॥३६॥

३७. हरितः ङेरौ च।

चराम इत॥३७॥

३८. अन्त्यसर्वेश्वरादिवर्णाः संसारसंज्ञाः ।

३९. संसारस्य हरश्चिति ।

डितिति प्राञ्चः । हरौ, हर्योः, हरिषु ॥ हे हरे । एवमग्निरविकविगिरिप्रभृतयः । त्रिशब्दो वाच्यलिङ्गो नित्यबहुवचनान्तः । तस्य पुंसि—त्रयः, त्रीन्, त्रिभिः, त्रिभ्यः, त्रिभ्यः ॥३९॥

४०. त्रेस्त्रयो नामि स्वार्थे ।

त्रयाणाम् । तदन्तत्वेऽपि—परमत्रयाणां, अस्वार्थे तु—प्रियत्रीणाम् । त्रिषु ॥४०॥

कतिशब्दोऽपि तद्वत्—

४१. षणान्तसङ्ख्यातः कतेश्च जस्शसोर्महाहरः स्वार्थे ।

अत्र आत्यन्तिकलयात्प्रत्ययकार्यं न गोविन्दः । कति, कति, कतिभिः इत्यादि । कतेरिति यतितत्योरुपलक्षणम् । यति ते नाग शीर्षाणि, तत ते नाग वेदनाः इति प्रयोगात। एवं परमकतीत्यादि । अस्वार्थे तु प्रियकतयः ॥४१॥

अथ सखिशब्दः—

४२. ऋरामसखिभ्यामुशनस्पुरुदंशसनेहसित्येतेभ्यश्च सोराच्, बुद्धं विना ।

संसारस्य हरः ॥४२॥

४३. अद्वयस्य आ, इद्वयस्य ऐ, उद्वयस्य औ, ऋद्वयस्य आर्, ÿद्वयस्य आल्, वृष्णीन्द्रसंज्ञः, एओस्थाने ऐ औ च ।

“वृद्धि”संज्ञश्च ॥४३॥

४४. स्वादयः पञ्च पाण्डवाः ।

“घुटः,” “सुटः” च ॥४४॥

४५. सख्युर्वृष्णीन्द्रः सुवर्जं पाण्डवेषु ।

ऐ आय्(स.प्र. ६४),
…सखायौ, सखायः,
सखायं, सखायौ, सखीन॥४५॥

४६. न सखिर्हरिसंज्ञष्टादौ, पतिस्त्वसमासे ।

सख्या, सखिभ्याम्, सखिभिः ।
सख्ये, सखिभ्याम्, सखिभ्यः ॥४६॥

४७. ख्यत्याभ्यां ङसिङसोरुस।

खिशब्दखीशब्दयोः । तिशब्दतीशब्दयोः कृतयरामादेशयोरिदं ग्रहणम् । सख्युः, सखिभ्याम्, सखिभ्यः । सख्युः, सख्योः, सखीनाम् ॥४७॥

४८. सखिपतिभ्यां ङेरौ ।

सख्यौ, सख्योः, सखिषु । हे सखे हे सखायौ हे सखायः । तदन्तत्वेऽपि—बहुसख्या, बहुसख्ये, बहुसख्युः, बहुसख्यौ इत्याहुः । पञ्चम्यां सुसखेरागच्छतीति भाष्यादौ । एतद्दृष्ट्वैव, सख्युः समासे घिसंज्ञोऽस्तीति प्रक्रियायां [पा. ७.३.११८], समास इत्युपलक्षणमिति कृष्णपण्डितः । तेन प्रकृतेः पूर्वत्र बहुप्रत्ययेऽपि बहुसखेः इत्यादि । पतिशब्दस्य प्रथमाद्वितीययोर्हरिबवत। तृतीयादौ सखिशब्दवत। समासान्तस्य तु हरिशब्दवदेव, बहुपतिना, बहुपतये इत्यादि ।

ईरामान्तो दैत्यप्रमीशब्दः । दैत्यान्प्रमीनाति हिनस्तीति क्विबन्तो विष्णुवाची । दैत्यप्रमीः, दैत्यप्रम्यौ, दैत्यप्रम्यः । धातुत्वादत्र सर्वत्र सर्वेश्वरे यराम एव वक्ष्यते (वि.प्र. ५०) । तस्यैवोदाहरणमिदं वातप्रमीभेदज्ञापनार्थमत्र लिखितम् । एवमन्यत्रापि ज्ञेयम्—
दैत्यप्रम्यम्, दैत्यप्रम्यौ, दैत्यप्रम्यः
दैत्यप्रम्या, दैत्यप्रमीभ्याम्, दैत्यप्रमीभिः
दैत्यप्रम्ये, दैत्यप्रमीभ्याम्, दैत्यप्रमीभ्यः
दैत्यप्रम्यः, दैत्यप्रमीभ्याम्, दैत्यप्रमीभ्यः
दैत्यप्रम्यः, दैत्यप्रम्योः, दैत्यप्रम्याम्
दैत्यप्रम्यि, दैत्यप्रम्योः, दैत्यप्रमीषु

सम्बोधने पूर्ववत। एवं वातप्रमीशब्द ईप्रत्ययान्तत्वातम्शस्ङिषु विशेष इति केचित। वातप्रमीम् । “यावत्सम्भवस्तावद्विधिः” इति न्यायेन दशावतारस्य (वि.प्र. १०) इति त्रिविक्रमे कृते, “तस्मात्सो नः” —वातप्रमीन। ङौ—वातप्रमी । वातप्रमी हूहूप्रबृतेर्धातुत्वं वा इत्यन्ये । वातप्रम्यम्, वातप्रमीम्, हूह्वम्, हूहूम् ।

उरामान्तो विष्णुशब्दः । हरिसूत्रैरेव साधनम्—
विष्णुः, विष्णू, विष्णवः
विष्णुम्, विष्णू, विष्णून्
विष्णुना, विष्णुभ्याम्, विष्णुभिः
विष्णवे, विष्णुभ्याम्, विष्णुभ्यः
विष्णोः, विष्णुभ्याम्, विष्णुभ्यः
विष्णोः, विष्ण्वोः, विष्णूनां
विष्णौ, विष्ण्वोः, विष्णुषु
हे विष्णो !

चालनी तित{उ}ः पुमानित्यमरः । प्रकृतौ सन्धिं विनैव सिद्धोऽयमूणादाविति प्रकृत्यङ्गयोर्न सन्धिः । तित{उ}ः, तितऊ, तित{अ}वः इत्यादि ॥४८॥

कृष्णश्रीः—

४९. धातोरीदूतोरियुवौ सर्वेश्वरे बहुलम् ।

ईरामस्य इय्, ऊरामस्य उव। प्रत्ययवर्णेन तदादिर्गृह्यते । ततः सर्वेश्वरादौ विष्णुभक्तावित्यर्थः । एवमन्यत्रापि । एतद्विधसूत्रस्य नामप्रकरणपाठात्लुप्तकृत्प्रत्ययस्य धातुत्वेऽपि नामत्वम् । ततः प्रत्ययाश्च—कृष्णश्रियौ, कृष्णश्रियः । परत्वादम्शसोरपि—कृष्णश्रियमित्यादि ।

भावे क्विपि—भूः, भुवौ, भुवः । बाहुल्यात्न सर्वत्र, यथोक्तम्—

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः
क्वचिद्विभाषा क्वचिदन्यदेव ।
विधेर्विधानं बहुधा समीक्ष्य
चतुर्विधं बाहुलकं वदन्ति ॥ (अभियुक्तोक्तिः) ॥४९॥

तेन—

५०. सहजानेकसर्वेश्वरस्य क्विबन्तस्य केवलधात्वक्षरसत्सङ्गास्पृष्टयोरीदूतोर्यवौ ।

तत्र कृत्समासे—विश्वनीः, विश्वन्यौ, विश्वन्यः इत्यादि । षष्ठीबहुत्वे—विश्वन्याम् ॥४७॥

५१. नीराधाभ्यां ङेराम् ।

विश्वन्याम्, विश्वन्योः, विश्वनीषु । एवं प्रकृष्टं ध्यायतीति क्विपि निपातात्—प्रधीः, प्रध्यौ । केवलक्विबन्ते मालीयतीति—मालीः, माल्यौ । ङौ—माल्यि ।

सहज इति किं ? पश्चाद्योगे तु न स्यात। विश्वस्य नीः—विश्वनीः, विश्वनियौ, विश्वनियः । आमि ङौ च विश्वनियाम् । अनेक इति किं ? नीः, नियौ, नियः । धात्वक्षरसत्सङ्गास्पृष्टयोः इति किं ? कृष्णप्रीः, कृष्णप्रियौ; कृष्णपटप्रूः, कृष्णपटप्रुवौ । केवल इति किं ? इह तु स्यादेव—उन्नीः, उन्न्यौ, उन्न्यः ॥५१॥

५२. सुधीभुवोरियुवावेव ।

सुष्ठु ध्यायतीति क्विपि निपातनात्—सुधीः, सुधियौ, सुधियः । कृष्णभूः, कृष्णभुवौ, कृष्णभुवः ॥५२॥

५३. वर्षापुनर्दृन्करकारकाराभ्यो भुवो व एव ।

कर एव कारः, सोऽपि गृह्यते इति विस्तरादुभयोरुपादानम् । वर्षाभूः, वर्षाभ्वौ, वर्षाभ्वः । दृभूः, दृन्भ्वौ । एवं खल्पूप्रभृतयः ।

कृष्णसुखीयति—कृष्णसुखीः, कृष्णासुख्यौ, कृष्णसुख्यः ।

अनन्तीयति—अनन्तीः, अनन्त्यौ, अनन्त्यः ।

ख्यत्याभ्यां (वि.प्र. ४७) इति त्रिविक्रमग्रहणात्ङसिङसोरुस्—कृष्णसुख्युः, अनन्त्युः । नरामादेशस्यतरामस्थानिवत्त्वात्—लून्युः । कृष्णसुख्युः इत्याद्येके ॥५३॥

अथ ऋरामान्ताः । तत्र पितृशब्दः । ऋरामसखिभ्यां (वि.प्र. ४२) इत्यादि—

५४. ऋरामस्य गोविन्दः पाण्डवेषु ङौ च ।

पिता, पितरौ, पितरः;
पितरम्, पितरौ, पित्èन्;
पित्रा, पितृभ्याम्, पितृभिः
पित्रे, पितृभ्याम्, पितृभ्यः ॥५४॥

५५. ऋरामतो ङसिङसोरस्य उच।

पितुः, पितृभ्याम्, पितृभ्यः
पितुः, पित्रोः, पित्èणाम्
पितरि, पित्रोः, पितृषु ॥५५॥

५६. बुद्धे गोविन्दः ।

५७. राधाविष्णुजनाभ्यामीपश्च त्रिविक्रमात्सोर्हरः ।

हे पितः ! एवं जामातृप्रभृतयः ।

नृशब्दः—
ना, नरौ, नरः
नरम्, नरौ, न्èन्
न्रा, नृभ्याम्, नृभिः
 
नृशब्दस्य तु वा (वि.प्र. २२)—नृणां, न्èणाम् ॥५६५७॥

कर्तृशब्दस्य भेदः—

५८. स्वसृतुल्तृन्प्रत्ययान्तानां वृष्णीन्द्रः सुवर्जं पाण्डवेषु ।

कर्ता, कर्तारः; कर्तारम्, कर्तारौ । यदुषु पितृवत। हे कर्तः !

लेष्टृ—लेष्टा, लेष्टारौ, लेष्टारः; लेष्टारम्, लेष्टारौ । हरिमित्रादिरेवायं—हरिवेण्वादिस्त्वपपाठः ।

लेष्टृत्वष्टृतृशब्दान्तास्तृल्तृनन्ता बुधैर्मताः ।
पितृमातृभ्रातृयाट्र्जामातृदुहित्èर्विना ॥५८॥

५९. क्रोष्टुशब्दस्य पाण्डवेषु तृल्प्रत्ययान्तस्यैव रूपं, बुद्धं विना, टादिसर्वेश्वरे तु विकल्पः ।

क्रोष्टा, क्रोष्टारौ, क्रोष्टारः
क्रोष्टारम्, क्रोष्टारौ, क्रोष्टून्
क्रोष्ट्रा, क्रोष्टुना, क्रोष्टुभ्याम्, क्रोष्टुभिः
क्रोष्ट्रे, क्रोष्टवे इत्यादि ।

कृतेऽप्यकृते यः स्यात्, स नित्यः । नित्यस्य बलवत्त्वात्पूर्वस्त्वामि नुडेव (वि.प्र. २०)—क्रोष्टूनां, क्रोष्ट्èणामित्येके । हे क्रोष्टो ! लक्ष्म्यास्तु—क्रोष्ट्री ॥५९॥

ऐरामान्तः कृष्णरैशब्दः—

६०. राय आ सभोः ।

कृष्णराः, कृष्णरायौ, कृष्णरायः; कृष्णरायमित्यादि । एवं रैशब्दश्च । नेह—तद्धिते रैत्वं, क्यनि—रैअयति । पाणिनीयेऽपि रायो हलि [पा. ७.२.८५] इत्यादि विष्णुभक्त्यनुवृत्तेः ॥६०॥

ओरामान्तो गोशब्दो बलीवर्दादिषु पुरुषोत्तमलिङ्गः—

६१. ओ औ पाण्डवेषु ।

गौः, गावौ, गावः ॥६१॥

६२. ओ आ अम्शसोर्न च सो नः ॥

अन्यथा वातप्रमीनितिवत्, गा इत्यत्र सो न स्यात।

गाम्, गावौ, गाः;
गवा, गोभ्यां, गोभिः;
गवे, गोभ्यां, गोभ्यः;

एओभ्यां ङसिङसो [वि.प्र. ३६] इत्यादिना अरामहरः ।

गोः, गोभ्यां, गोभ्यः;
गोः, गवोः, गवामित्यादि ।

सर्वविधिभ्यो हरो, हरात्सर्वेश्वरादेशो बलवान। अन्तरङ्ग इत्यादि च विधानसामर्थ्यात्न सोर्हरः—हे गौः !

औरामान्तो ग्लौशब्दः—ग्लौः, ग्लावौ, ग्लावः इत्यादि ॥६२॥

॥ इति सर्वेश्वरान्ताः पुरुषोत्तमलिङ्गाः ॥

—ओ)०(ओ—

अथ सर्वेश्वरान्ता लक्ष्मीलिङ्गाः

६३. आरामान्तलक्ष्मी राधासंज्ञा ।

श्रद्धासंज्ञा च । तत्र राधाशब्दः । राधाविष्णुजनाभ्यां (वि.प्र. ५७) इति—राधा ॥६३॥

६४. राधाब्रह्मभ्यामौ ई ।

अद्वयमिद्वये ए (स.प्र. ४८)—राधे, राधाः ॥६४॥

६५. राधाया ए टौसोबु‚द्धे च्ÿ

राधया, राधाभ्याम्, राधाभिः ॥६५॥

६६. राधातो याप्वृष्णिषु।

एद्वये ऐ (स.प्र. ५५)—

राधायै, राधाभ्याम्, राधाभ्यः
राधायाः, राधाभ्याम्, राधाभ्यः
राधायाः, राधयोः, राधानाम् ।

णेरां (वि.प्र. ५१), लाक्षणिकप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति न लुट्—

राधायाम्, राधयोः, राधासु ।

सम्बोधने—प्रकृत्याश्रितं प्रकृतावपि पूर्वपूर्वमन्तरङ्गं, प्रकृतेर्बहिराश्रितं बहिरङ्गम् । स्वल्पाश्रितमन्तरङ्गं, बह्वाश्रितं बहिरङ्गम् । अन्तरङ्गबहिरङ्गयोरन्तरङ्गो विधिर्बलवान् इति न्यायेन प्रथममेत्वे कृते, एओवामनेभ्यो बुद्धस्यादर्शनं (वि.प्र. २५) इति—हे राधे ।

एवं रमारामाश्रद्धामालादयः, अम्बादयश्च । लक्ष्मी (वि.प्र. ६३)ग्रहणान्नेह राधासंज्ञा । समासे वामनो वक्ष्यते (समा.प्र. ५६)—प्रियराधाय कृष्णाय ॥६६॥

६७. अम्बादीनां गोप्याश्च वामनो बुद्धेः ।

हे अम्ब ! हे अक्व ! हे अत्त ! हे अल्ल ! हे अप्प ! हे अब्ब ! एते एवाम्बादयः । नेह—हे अम्बाडे ! हे अम्बाले ! हे अम्बिके ! इत्यादि ॥६७॥

अथ जरा—
६८. जराया जरवा सर्वेश्वरे ।

जरा, जरसौजरे, जरसः जराः
जरसं जरामित्यायांद्ÿ एवं निर्जरशब्दोञपि विकल्प्यते॥६१;
इरामान्तो भक्तिशब्दो पाण्डवेषुहरिशब्दवत्शसि भक्तफलः
भक्त्यात्म इत्यायांद्ÿ


६९. अत्र निशानासिकयोर्निश्नसावादेशौ यदुषु वा वाच्यौ, प्रयोगाश्च पक्षे विष्णुजनान्तवज्ज्ञेयाः ।

यथा निशः निशाः, निज्भ्यामित्यादि ।

इरामान्तो भक्तिशब्दः । तस्य पाण्डवेषु हरिशब्दवत। शसि—भक्तीः, पुंसि (वि.प्र. १०) इति विशेषणान्निरामो न स्यात। न तु लक्ष्म्यां (वि.प्र. ३५) इति न नादेशः । भक्त्या, भक्तिभ्याम्, भक्तिभिः ॥६९॥

७०. हरित आप्वा वृष्णिषु लक्ष्मां, नित्यं गोप्याः ।

वृष्णिनिमित्तापो न षाप।

भक्त्यै, भक्तये, भक्तिभ्याम्, भक्तिभ्यः ।
भक्त्याः, भक्तेः, भक्तिभ्यम्, भक्तिभ्यः ।
भक्त्याः, भक्तेः, भक्त्याः, भक्तीनाम् ।

आवन्तरेऽपि नीराधाभ्यां ङेरां (वि.प्र. ५१)—भक्त्याम्, भक्तौ, भक्त्योः, भक्तिषु
हे भक्ते !

एवं बुद्धिमतिभूतिकृतिधृतिरुचिप्रभृतयः ।

अथ धेनुशब्दः—
धेनुः, धेनू, धेनवः ।
धेनुम्, धेनू, धेनूः, इत्यादि ।
वृष्णिषु—
धेन्वै धेनवे, धेन्वाः धेनोः, धेन्वां धेनौ ।

अशन्यादीनां लक्ष्मीत्वपक्षेऽपि एवमेव ज्ञेयम् । अत्र हरेः स्वभावलक्ष्मीत्वे सत्येवेति वाच्यम् । तेन नेह—प्रियहरये, पिर्यविष्णवे श्रियै । एवं प्रियहरीः । नादेशस्तु (वि.प्र. ३५), न प्रियहर्या । पटुप्रभृतीनां तु विकल्पः इति केचित्—पटवे, पट्वै ॥७०॥

त्रिशब्दस्य लक्ष्म्याम्—

७१. लक्ष्मीस्थयोस्त्रिचतुरोस्तिसृचतसृ विष्णुभक्तौ ।
७२. तिसृचतस्रो रः सर्वेश्वरे।

तिस्रः, तिस्रः, तिसृभिः, तिसृभ्यः, तिसृभ्यः, तिसृणां, तिसृषु ॥७१७२॥

ईरामान्तो गोपीशब्दः । ईरिति लक्ष्मीविहितप्रत्ययः—

७३. ईऊलक्ष्मीर्गोपीसंज्ञा ।

नदीसंज्ञा च ।
गोपी, गोप्यौ, गोप्यः ।
गोपींः गोप्यौ, गोपीः ।
गोप्या, गोपीभ्याम्, गोपीभिः ।
गोप्यै, गोपीभ्याम्, गोपीभ्यः ।
गोप्याः, गोपीभ्याम्, गोपीभ्यः ।
गोप्याः, गोप्योः, गोपीनां,
गोप्याम्, गोप्योः, गोपीषु,
हे गोपि !

अत्र वामनविधानसामर्थ्यान्न गोविन्दः । एवं नदीमहीप्रभृतयः । सखी च—सखी सख्यौ । अत्र नाम्नो ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति परिभाषा नेष्यते । ङौ—सख्याम् । एवं सुपथी इत्यत्र नात्वम् । त्रिविक्रमात्(वि.प्र. ५७) इति विशेषणान्नेह सोर्हरः—अतिगोपिः । पुंसि वृष्णिषु अतिगोपये इत्यादि । लक्ष्म्यां—अतिगोप्यै अतिगोपये इत्यादि ।

अवीतन्त्रीतरीलक्ष्मीईधीणीणामुणादिना ।
शब्दानां तु भवत्येषां सुलोपो न कदाचन ॥

लक्ष्मीः, लक्ष्म्यौ, लक्ष्यः इत्यादि गोपीवत। तन्त्री वीणायामिति तु तन्त्रयतेरणन्तत्वादीपि सिद्धा ॥७३॥

गौरादित्वात्स्त्रीशब्द ईरन्तः । ततः सोर्हरः—

७४. स्त्रीभ्रुवोरियुवौ सर्वेश्वरे, स्त्रिया अम्शसोर्वा ।

स्त्री, स्त्रियौ, स्त्रियः ।
स्त्रियं स्त्रीम्, स्त्रियौ, स्त्रियः स्त्रीः ।
स्त्रिया, स्त्रीभ्यां, स्त्रीभिः ।

नित्यं गोप्याः (वि.प्र. ७०)—

स्त्रियै, स्त्रीभ्यां, स्त्रीभ्यः ।
स्त्रियाः, स्त्रीभ्यां, स्त्रीभ्यः ।
स्त्रियाः, स्त्रियोः, विरिञ्चितो विष्णुर्बलवान्—स्त्रीणाम् ।
स्त्रियां, स्त्रियोः, स्त्रीषु ।
हे स्त्रि ।

गौणत्वे पुंसि तु—अतिस्त्रिः । नाम्ना तु क्वचितिति तदन्तविधिः स्यात। तत्र क्वचिद्(वि.प्र. ६७) ग्रहणात्गोविन्दं नानुडौ च वर्जं स्त्रिया इयादेश इति विस्तरः । मतान्तरं तु न भ्;स्यादिमतमिति च ।

अतिस्त्रियौ, अतिस्त्रियः ।
अतिस्त्रियमतिस्त्रिम्, अतिस्त्रियौ, अतिस्त्रियः अतिस्त्रीन।
अतिस्त्रिणा
अतिस्त्रये,
अतिस्त्रेः, अतिस्त्रियोः, अतिस्त्रीणां
अतिस्त्रौ

लक्ष्म्यां शस्टापरत्वे—अतिस्त्रियः अतिस्त्रीः, अतिस्त्रिया । वृष्णिषु पक्षे—अतिस्त्रियै, अतिस्त्रये, अतिस्त्रियाः, अतिस्त्रियाम् ॥७४॥

श्रीशब्दः—श्रीः, धातोरीदूतौ (वि.प्र. ४९) इति श्रियौ, श्रियः इत्यादि ।

७५. नेषुवस्थानं गोपी, स्त्रियं विना, वृष्णिष्वामि च वा ॥

श्रियै, श्रिये, श्रीभ्याम्, श्रीभ्यः; श्रियाः, श्रियः; श्रियाः, श्रियः, श्रियोः; श्रीणां, श्रियां; श्रियां, श्रियि, श्रियोः, श्रीषु; हे श्रीः रू एवं धीप्रभृतयः । भ्रूप्रभृतयश्च । भ्रूः, भ्रुवौ, भ्रुवः; एवं सुभ्रूः । बुद्धे वामनः इति केचितिति केचित्—

आः कष्टं बत ही चित्रं हूं मातर्दैवतानि धिक।
हा पितः क्वासि हे सुभ्रु रू बह्वेवं विललाप सः ॥ [भट्टि ६.११] इति ।

पश्चात्प्रशब्दयोगे प्रकृष्टा धीः—प्रधीः, प्रधियौ, प्रधियः; ङे—प्रधियै प्रधिये । अत्र यादेशतस्यां भ्रमः, तन्मते एव गतिकारकपूर्वत्वाभावात। प्रादीनां क्रियायोगे एव हि गतिसंज्ञा । केवलाव्ययपूर्वत्वेऽपीति त्वपाणिनीयम् । पुनर्भूशब्दस्य पुनर्व्यूढावाचकस्य नित्यस्त्रीत्वे—हे पुनर्भु रू क्वचिद्भिनपदत्वेऽपि णत्वं वाच्यम् । पुनर्भूणाम् । वधूप्रभृतीनां लक्ष्मीशब्दवत्—वधूः, वध्वौ, वध्वः; हे वधु !

किं च, अनिषुवां पश्चात्पुंस्त्वेऽपि गोपीसंज्ञामाहुः । ततो बहुप्रेयसीशब्दः शसं विना पुंस्यपि गोपीशब्दवत। एवमतिलक्ष्मीः, लक्ष्मीशब्दवत। अवयवस्त्रीविषयत्वात्सिद्धमिति भाष्यम् । ईप्रत्ययान्तवातप्रमीवतिति तु प्रक्रियाकारः । बहुप्रेयसीः इति गौणत्वान्सोर्हरः । वृष्णिषु गोपीसंज्ञत्वं च न इति विस्तरः । इदमपाणिनीयम् ।

तथा गोपीमिच्छतीति क्यन्नन्तात्क्विपि—गोपी कृष्णः । सौ गोपीवत। शस्प्रयन्तं धातुवत्पुनर्गोपीवत। वानमत्वे तु गोपीसंज्ञत्वं नेच्छन्ति । सखीमतिक्रान्तस्य अतिसखेः इति भाष्यम् । अनिषुवां [वि.प्र. ७५] इति किं ? अतिश्रिये गोपीसङ्घाय । कश्चित्त्वत्र आपिच्छति । ईऊरामयोरस्वाभाविकलक्ष्मीत्वे गोपीसंज्ञत्वं न विश्वन्ये श्रियै । मातृशब्दः पितृवत्—माता, मातारौ, मातरः; शसि तु मात्èः । स्वसृशब्दः कर्तृशब्दवत्—श्वसा, श्वसारौ, श्वसारः । शसि तु, स्वस्èः । रैशब्दः स्त्रियां पीत्येके इति क्षीरस्वामी । तेन पूर्ववत। गोशब्दः पूर्ववत। द्योशब्दः गोवत्, नौशब्दः ग्लौवत॥७५॥

॥ इति सर्वेश्वरान्ता लक्ष्मीलिङ्गाः ॥

—ओ)०(ओ—

अथ सर्वेश्वरान्ता ब्रह्मलिङ्गाः

तत्र अरामान्तो गोकुलशब्दः—

७६. ब्रह्मकृष्णात्सोरम् ।

दशावतारादं शसोररामहरः (वि.प्र. ९)—गोकुलम् । राधाब्रह्मभ्यामौ ई (वि.प्र. ६४)—गोकुले ॥७६॥

७७. ब्रह्मतो जस्शसोः शिः ।

शित। एकवर्णत्वादन्ते प्राप्ते “शित्सर्वस्य” शिदादेशः सर्वस्य भवति ॥७७॥

७८. सर्वेश्वरवैष्णवान्तयोर्नुं शौ ।

उमावितौ ॥७८॥

७९. अन्त्यसर्वेश्वरात्परं मितः स्थानम् ।

८०. अन्त्यात्पूर्ववर्ण उद्धवसंज्ञः ।

“उपधा” इति प्राञ्चः ॥८०॥

८१. अब्रह्मपाण्डवाः शिशश्च कृष्णस्थानसंज्ञः ।

“घुट्”संज्ञा इत्येके । सर्वनामसंज्ञा इत्यन्ये ॥८१॥

८२. नान्तधातुवर्जितसान्तसत्सङ्गमहदपामुद्धवस्य त्रिविक्रमः कृष्णस्थाने, बुद्धं विना ।

नान्तस्य धातुवर्जितसान्तसत्सङ्गस्य महतः अपश्चेति विच्छेदः—गोकुलानि । एवं द्वितीयायाम् । तृतीयादौ पुरुषोत्तमवत। बुद्धस्थानीयत्वादमपि बुद्धसंज्ञः—हे गोकुल ! एवं कुलफलमूलादयः ॥८२॥

८३. हृदयस्य हृद्यदुषु वा ।

“शीर्षस्य शीर्षन्वा” इत्येके । प्रयोगाश्च पक्षे विष्णुजनान्तवज्ज्ञेयाः । यथा—हृन्दि हृदयाणि, हृदा हृदयेन । उभयत्रापि शीर्षाणि । जराया जरवा सर्वेश्वरे (वि.प्र. ६८)—निर्जरम्, निर्जरसम्; निर्जरे निर्जरसी । नुमः पूर्वं जरसादेशं मन्यन्ते ॥८३॥

८४. अविष्णुपदान्तस्य नस्य मस्य च विष्णुचक्रं वैष्णवे ।

निर्जराणि निर्जरांसि; पुनस्तद्वत। बुद्धे—हे निर्जर ! हे निर्जरसं ! इत्यपि केचित॥८४॥

इरामान्तो दधिशब्दः—

८५. ब्रह्मतः स्वमोर्महाहरः ।

दधि । कथं गोकुलं ? तत्राकरणात॥८५॥

८६. ब्रह्मेशान्तान्नुक्सर्वेश्वरे, न त्वामि ।

उकावितौ । दधिनी, दधीनि । पुनस्तद्वत॥८६॥

८७. दधिअस्थिसक्थिअक्षिशब्दानामिरामस्य अन्टादि सर्वेश्वरे ।

८८. अकृष्णस्थानसर्वेश्वरो भगवत्संज्ञः, तद्धिते यश्च ।

अत्र पाणिनीयानां (यचि भम्, १.४.१८) प्रकृतेर्भसंज्ञा ॥८८॥

८९. बमसत्सङ्गहीनस्यानोऽरामहरो भगवति, न तु ये, ईङ्योस्तु वा ।

दध्ना, दधिभ्यां, दधिभिः
दध्ने, दधिभ्यां, दधिभ्यः इत्यादि ।

ङौ—दध्नि, दधनि ॥८९॥

९०. ब्रह्मणो गोविन्दो वा बुद्धे ।

हे दधे ! हे दधि ! एवमस्थिसक्थिअक्षि । अतिक्रान्तं दधि येन यया वा—अतिदध्ना गोपालेन गोपाल्या वा । स्वभावतो ब्रह्मैव दधिशब्दो गृह्यते । ततो दधातीति दधिः, तेन दधिना । इरामस्य इति किं ? पद्माक्षेण ।

वारि, वारिणी, वारीणि
वारि, वारिणी, वारीणि,
वारिणा, वारिभ्याम्, वारिभिः
वारिणे इत्यादि । वारीणाम् ।

मधु, मधुनी, मधूनि ॥९०॥


९१. ब्रह्मान्तत्रिविक्रमस्य वामनः ।

विश्वनि, वश्वनिनी, विश्वनीनि ।

गोकुलाभ्यामित्यादौ तु न वामनः, त्रिविक्रमविधेरुभयाश्रितत्वेन बहिरङ्गत्वात। “क्वचिदन्तरङ्गकार्ये क्रियमाणे तदनिमित्तं बहिरङ्गसिद्धं स्यात्” इति वक्ष्यमाणन्यायेन, तत्राकरणेन वा ॥९१॥

९२. समानार्थतया पुरुषोत्तमतार्हमीशान्तं ब्रह्मपुरुषोत्तमवद्वा टादिसर्वेश्वरे ।

विश्वन्या, विश्वनिना । आमि—विश्वन्याम्, विश्वनीनाम् । अत्र पुरुषोत्तमे ब्रह्मणि च विश्वप्रेरकत्वं समानम् । असमानार्थे तु पुंसि वृक्षे, यथा—पीलवे । ब्रह्मणि फले च तथा न, किन्तु केवलं पीलुने । पूर्वत्र तद्वृक्षत्वं, उत्तरत्र तज्जातत्वमित्यर्थभेदः ॥९२॥

कृष्णरैशब्दस्य वामन इराम एव, यतः—

९३. एऐस्थाने इरामः, ओऔस्थाने उरामो वामनः स्यात।

कृष्णरि, कृष्णरिणी, कृष्णरीणि
कृष्णराया कृष्णरिणा ।

एकदेशविकृतमनन्यवत्—कृष्णराभ्यां, कृष्णरायाम् ।

सभोः (वि.प्र. ६०) अन्यत्र नात्वं—कृष्णरीणाम् । टामोः—कृष्णराणा, कृष्णराणामित्येव जुमरमतम् । आमि तु कृष्णराणामित्येवोज्ज्वलदत्तमतम् । येषां विष्णुजनादिविष्णुभक्तिमात्रेऽप्यात्वम्, तेषामपि सन्निपातलक्षणत्वेन नात्वमिति प्रक्रियाकारेण तन्न गृहीतम् । सन्निपातलक्षणं वक्ष्यते (आ.प्र. १८७) ।

सुद्योशब्दस्य—सुद्यु, सुद्युनी, सुदूनि । टादौ—सुद्युवा सुद्युना । हे सुद्यो ! हे सुद्यु !

कर्तृ—पृथग्विधानेन ब्रह्मकार्यस्य बलवत्त्वान्न वृष्णीन्द्रः—कर्तृणि, कर्त्èणि । टादौ—कर्त्रा, कर्तृणा । हे कर्तः ! हे कर्तृ !

एवं प्रियक्रोष्टुणी, प्रियक्रोष्टूनि । अत्रापि तृभावः इति तस्यां भ्रमः । तृभावात्पूर्वं विप्रतिषेधेन नुम्नुटौ भवतः इति काशिका । परत्वान्नुमा क्रोष्टुभावो बाध्यते इति पदचन्द्रिका । आगमविधिर्बलवानिति कातन्त्रो विस्तरश्च ।

प्रियास्तिस्रो यस्मिन्गोकुले तत्प्रियत्रि । महाहरत्वेऽपि तिसृभावः काशिकादौ दृश्यते—प्रियतिसृ । यद्येवं, तर्हि विष्णुभक्तावित्यस्य प्रत्युदाहरणं तु त्रित्वमिति तद्धितादावेव ज्ञेयम् । प्रियतिसृणी, प्रियतिस्èणि, प्रियतिस्रा, प्रियतिसृणा । ङसिङसोः—प्रियतिस्रः, रविधानस्य नित्यत्वात। एवं प्रियचतसृ । विस्तरकरस्तु विकल्पयति । तेन प्रियत्रि, प्रियचतुः इत्यपि ।

सानुआदिशब्दानां स्वत एव द्विलिङ्गता—सानुने, सानवे । स्नुः प्रस्थः सानुरस्त्रियामित्यमरः । मधुशब्दानन्तरं, एवमम्बुसान्वादयः [पा. ७.१.७५?] इति प्रक्रिया तु चिन्त्या ॥९३॥

॥ इति सर्वेश्वरान्ता ब्रह्मलिङ्गाः ॥

—ओ)०(ओ—

अथ विष्णुजनान्ता पुरुषोत्तमलिङ्गाः

अथ चरामान्ताः केचन शब्दाः वाच्यलिङ्गाः । तत्र “प्रत्यच्”, प्रतिपूर्वादञ्च्धातोः क्विप्प्रत्ययः । क्विप्लोपः, नलोपश्च । षत्वम् । ततः प्रत्यच्शब्दात्स्वादयः ।

९४. अचश्चतुर्भुजानुबन्धानां च नुं कृष्णस्थाने ।

राधाविष्णुजनाभ्यां (वि.प्र. ५७) इति सोर्हरः ॥९४॥

९५. तवर्गस्य चवर्गश्चवर्गयोगे ।

९६. सत्सङ्गान्तस्य हरो विष्णुपदान्ते ।

९७. चवर्गस्य कवर्गो विष्णुपदान्ते, वैष्णवे त्वसवर्गे ।

प्रत्यङ॥९५९७॥

९८. विष्णुजनस्य द्वित्वं वा विरामे ।

विरामः परवर्णादर्शनम् । प्रत्यङ्ङ। सवर्गे तु—प्रत्यञ्चौ, प्रत्यञ्चः । प्रत्यञ्चं, प्रत्यञ्चौ । कथं तच्शौरेः, भगवाञ्च्शूरः ? तत्राकरणात॥९८॥

९९. अचोऽरामहरो भगवति, पूर्वस्य त्रिविक्रमश्च ।

निमित्तोपाये नैमित्तिकस्याप्यपायः इति न्यायेन यरामस्य इरामः । ततस्त्रिविक्रमः—प्रतीचः, प्रतीचा ॥९९॥

१००. पूर्वस्य विष्णुपदवत्त्वं स्वादितद्धितयोरयसर्वेश्वराद्योः ।

प्रत्यभ्यामित्यादि । चवर्गस्य (वि.प्र. ९७) इत्यादौ वैष्णवग्रहणं केवलधात्वर्थं, अन्येषामपि सूत्राणां तत्पर्यन्तव्याप्तेर्ज्ञापकम् । एवं प्राच। तथा पित्रचित्यस्य शसि—पित्èचः । अनन्तस्यैव त्रिविक्रमः इति तु तस्यां भ्रमः, तदधिकारनिवृत्तेः । तिर्यच्—तिर्यङ्, तिर्यञ्चौ, तिर्यञ्चः; तिर्यञ्चम्, तिर्यञ्चौ ।

१०१. तिर्यचस्तिरश्चिरुदच उदीचिर्भगवति ।

इराम इत।
तिरश्चः;
तिरश्चा, तिर्यग्भ्याम्, तिर्यग्भिः ।

एवमुदच्—उदङ।
उदञ्चम्, उदञ्चौ, उदीचः ।
उदीचा, उदग्भ्यामित्यादि ।

क्रुञ्—
क्रुङ्, क्रुञ्चौ, क्रुञ्चः ।
क्रुञ्चम्, क्रुञ्चौ, क्रुञ्चः ।
क्रुञ्चा, क्रुङ्भ्याम्,
क्रूङ्षु

एवमञ्चु पूजार्थे । प्रत्यञ्चः, प्राञ्चः ॥१०१॥

ओव्रसचू छेदने धातुर्दन्त्यमध्यः । ओउरामावितौ—

१०२. सस्य शश्चवर्गयोगे ।

ततो व्रश्चिति स्थिते—तस्य दैत्यशब्दपूर्वस्य क्विप्प्रत्ययलोपे ररामस्य ऋरामः । दैत्यवृश्च्, सोर्हरः ॥१०२॥

१०३. छशो राज्यज्भ्राज्परिव्राज्सृज्मृज्भ्रस्ज्व्रश्चां च
यो विष्णुपदान्ते वैष्णवे च ।

अथ नैमित्तिकापाये दन्त्यमध्य एव ॥१०३॥

१०४. स्कोः सत्सङ्गाद्योर्हरो विष्णुपदान्ते वैष्णवे च ।

१०५. षस्य डो विष्णुपदान्ते हरिघोषे च ।

१०६. विष्णुदासस्य हरिकमलं वा विरामे ।

दैत्यवृट्दैत्यवृड्, दैत्यवृश्चौ, दैत्यवृश्चः ।
दैत्यवृड्भ्याम् । दैत्यवृट्सु ।

जलमुच। सत्सङ्गान्तहरेणैव सुलोपसिद्धौ राधाविष्णुजनाभ्यां (वि.प्र. ५७) इत्यत्र विष्णुजनग्रहणबलात्नात्र स्कोः (वि.प्र. १०४) इति हरः—

जलमुक्, जलमुग्, जलमुचौ, जलमुचः, जलमुग्भ्याम् ॥१०६॥

१०७. पाणिनीयप्रत्याहारवाचिनामच्शब्दादीनामुञ्नञनुकरणस्य च न कवर्गादिकम् ।

अच्, अचौ, अचः । अज्भ्याम् । सस्य श (वि.प्र. १०२) अच्शु, छत्वे—अच्छु ।

उञ्, उञौ, उञः ।

यदुराज्—यदुराट्, यदुराड्, यदुराजौ, यदुराजः ।

भ्रस्ज्धातोः क्विपि भृज्ज्—सत्सङ्गान्तस्य हरो (वि.प्र. ९६) भृट्, भृड्, भृज्जौ, भृज्जः ॥१०७॥
 
१०८. स्रज्दिश्दृशृत्विजुष्णिष्दधृषनुदकपूर्वस्पृश्तादृशित्यादीनां को विष्णुपदान्ते ।

ऋतौ यजति—ऋत्विक्, ऋत्विजौ ॥१०८॥

यजुः पुंसि—

१०९. युजोऽसमस्तस्य नुं कृष्णस्थाने, न तु समाधौ ।

अत्र सुटीति तस्यां भ्रमः । युङ्, युञ्जौ, युञ्जः; युग्भ्याम् । समस्तस्य समाध्यर्थस्य च न नुम् । कृष्णयुक्, कृष्णयुग्, कृष्णयुजौ, कृष्णयुजः; कृष्णयुग्भ्याम् । युक्युग्, युजौ ॥१०९॥

ऊर्जः पुंसि—

११०. रात्सस्यैव सत्सङ्गानहरविधिः ।

नियमोऽयम्—बहुत्र प्राप्तौ सङ्कोचनं नियमः । ऊर्कूर्गूर्जौ ऊर्जः । विश्वसृज्—विश्वसृट्विश्वसृड्, विश्वसृजौ विश्वसृजः । “यत्वं न” इति केचित्—विश्वसृक्विश्वसृट्सु ।

कंसजित्, कंसजितौ कंसजितः । कंसजिद्भ्याम्, कंसजित्सु ।

उरामानुबन्धो महतु । तस्य पुंसि नान्तधातुवर्जित (वि.प्र. ८२) इति त्रिविक्रमः । अचश्चतुर्भुजः (वि.प्र. ९४) इति नुम् । सोर्हरः । सत्सङ्गान्तस्य हरः । अत्राकरणात्, क्वचिदन्तरङ्गे इत्यादि वक्ष्यमाणन्यायात्, ब्रह्मेशान्तान्नुक्(वि.प्र. ८६) इत्यत्र ज्ञापकेन सर्वेश्वरेण त्वागमनरामहराभावस्य नाम्नि निश्चयात्नस्य हरो न स्यात्—

महान्, महान्तौ, महान्तः
महान्तम्, महान्तौ, महतः
महता, महद्भ्याम्,
हे महन्! ॥११०॥

भगवतु—
१११. अत्वसन्तोद्धवस्य त्रिविक्रमो बुद्धवर्जितसौ, धातुं विना ।

भगवान्, भगवन्तौ, भगवन्तः
भगवन्तं, भगवन्तौ, भगवतः
भगवता, भगवद्भ्याम् ॥१११॥

११२. भगवतुअघवतुभवतुत्तं
भगोसघोस्भोसिति निपाता वा बुद्धे ।

पूर्वपरयोः सहैवादेशो निपातः । हे भगोः ! हे भगवन्! हे अघोः ! हे अघवन्! हे भोः ! हे भवन्! कथं भोः वैष्णवाः ! अव्ययत्वात। भगवत्शब्दात्भगवानिवाचरति क्यङन्तात्क्विपि भगवत। तस्मात्स्वादौ प्रकृतवदेव रूपं स्यात्, नामावस्थायां चतुर्भुजानुबन्धत्वात। भगवान।

ददतृजक्षतृ इत्यादिशब्दानां तु कृदन्तप्रकरणे (१६सङ्ख्यकसूत्रे) नुम्निषेधौ वक्ष्यते—ददत्, ददतौ, ददतः । ददद्भ्याम् । जक्षत्, जक्षतौ, जक्षतः । जक्षद्भ्याम् ।

ऋरामानुबन्धो—भवतृ, तत्पुंसि—भवन्, भवन्तौ, भवन्तः, भवद्भ्याम् । हे भवन्!

मुरं मथ्नातीति—मुरमत्मुरमद्, मुरमथौ ।

कृष्णं वेत्तीति कृष्णविद। तत्पुंसि—कृष्णवित्, कृष्णविद्, कृष्णविदौ ॥११२॥

सुपाच्छब्दस्य—सुपात्सुपाद।

११३. पाच्छब्दस्य वामनो भगवति ॥

सुपदः । एवं पाद्शब्दस्य पदादेशेऽपि पदः इत्यादि । आमि नुटं बाधित्वा विरिञ्चिरेव । विरिञ्चितो विष्णुर्बलवान्, विष्णुतः सर्वविरिञ्चिः इति न्यायेन—पदाम् ।

निशाहृदयमासयुषदोषां विष्णुजने तु विरीञ्चिर्नास्ति, भाष्यचान्द्रादिष्वधृतत्वातिति वर्धमानः । विरिञ्चिसद्भावे तु षस्य डः इतिवत्, शस्य जो मन्तव्यः । छशो राजित्यादिकं च धातुपरमेव, ततो निज्भ्याम्, निच्शु निच्छु ॥११३॥

कृष्णपूर्वस्य बुध्धातोः कृष्णं बुध्यतीति क्विपि कृष्णबुध्, तत्पुंसि—

११४. जवर्झरिगदादेरेकसर्वेश्वरस्य धातोर्हरिघोषान्तस्यादौ हरिघोषत्वं विष्णुपदान्ते, सध्वोश्च ।

कृष्णभुत्, कृष्णभुद्, कृष्णबुधौ, कृष्णबुधः । एवं तत्तद्भुदादयः । जवर्जिति किं ? जभ्–जप्, जभौ, जभः इत्यादि । एकसर्वेश्वरस्य इति किं ? क्यन्क्विबन्तस्य धातोर्दामरुधः—दामरुत।

धातुपदेन धात्ववयवोऽपि गृह्यते । तेन गोविन्देन भातीति कप्रत्ययान्तस्य गोविन्दभः, तस्य णिक्विबन्तस्य गोविन्दभ्, गोविन्धप्, गोविन्दभौ, गोविन्दभः । एवं पुण्ड्रभ्, पुण्ड्रप। अत्र प्रक्रियाकलापकाशिकाभाषावृत्तयो विचार्याः । किन्तु प्रक्रियायामधोक्गोविन्धप्च प्रश्नपदं भवेत। कालापे दामरुत्, जप्च । काशिकादौ न संशयः ॥११४॥

राजन्, नान्त (वि.प्र. ८२) इति त्रिविक्रमः, सोर्हरः ।

११५. नामान्तस्य नस्य हरो विष्णुपदान्ते, बुद्धं विना ।

प्रथमतो नलोपाभावः, पथिन्मथिन्(वि.प्र. ११८) इत्यादौ वक्ष्यमाणनलोपवैयर्थ्यात्—

राजा, राजानौ, राजानः
राजानम्, राजानौ,

वमसत्सङ्गहीनस्य (वि.प्र. ८९) इति अरामहरः । तवर्गस्य चवर्गः (वि.प्र. ९५) जञोः सत्सङ्गे ज्ञः—राज्ञः, राज्ञा ।

“क्वचिदन्तरङ्गे कार्ये क्रियमाणे तदनिमित्तं बहिरङ्गमसिद्धं स्यात्” इति न्यायेन नस्य हरासिद्धेः, कृष्णस्य त्रिविक्रमो गोपाले (वि.प्र. १३) इत्यादिकं न प्राप्नोतीत्यर्थः, किन्तु नवयोर्हरे कृष्णसंज्ञा न वाच्या—

राजभ्याम्, राजभिः,
राज्ञे राजभ्यां राजभ्यः,
राज्ञः, राजभ्यां राजभ्यः,
राज्ञं, राज्ञोः, राज्ञां
राज्ञि, राज्ञोः, राजसु
हे राजन्!

युष्शब्दस्य, यदुषु वा (वि.प्र. २८) इत्यादिना युषन्नादेशे—आदेशः स्थानिवत्क्वचित्नामधातुप्रत्ययविष्णुपदानामादेशस्य तज्जातिवद्भावः सर्वत्रैव, वर्णानां तद्व्यक्तिवद्भावश्च यत्र मंस्यते, तत्रैव इत्यर्थः । तेन नामत्वे सत्यनोऽरामहरः (वि.प्र. ८९)—युष्णः, युष्णा ।

एवं यजन्, आत्मन्, सुधर्मनित्यादयः । किन्तु वमसत्सङ्गहीनस्य (वि.प्र. ८९) इति विशेषणादरामहरो नास्ति—यजनः, यजना । एवं श्वन्, युवन्, मघवन। श्वा, श्वानौ, श्वानः ॥११५॥


क्वचिद्विशेषः—

११६. श्वन्युवन्मघवनित्येषां वस्य उर्भगवति ।

ईव्वर्जिततद्धिते तु न, युवतीत्यादिवर्जम् । वस्य इति सारामनिर्देशः । शुनः, शुना, श्वभ्याम्, श्वभिः । शसि—यूनः, यूना, युवभ्याम्, युवभिः । एवं मघोनः, मघोना । सौ च मघवन्मघवा वा इति तु कालापाः (शब्दप्रकरणम्, १६५) ।

वहति स्वेच्छया वायुरुद्गच्छति च भास्करः ।
हरिर्जक्षिति निःशङ्को मखेषु मघवानसौ ॥ इति भट्टिः (१८.१९)

मघवतुशब्दोऽप्यस्ति, मघवद्वज्रलज्जानिदानं स एवमुक्त्वा मघवन्तमिआत्म प्रयोगदर्शनात्—मघवान्, मघवन्तौ, मघवन्तः, मघवद्भ्याम् ।

अथ दिवसवाची प्रतिदिवन्शब्दः—प्रतिदिवा, प्रतिदिवानौ, प्रतिदिवानः, प्रतिदिवानम्, प्रतिदिवानौ ॥११६॥

११७. धातो रवप्रागिदुतोस्त्रिविक्रमो रवतो विष्णुजने,
न कुरछुरनामधातूनां, न च तद्धितये ।

नाम्नो जातो धातुः नामधातुः (विभुः, आ.प्र. ५०९५६३) इति वक्ष्यते । अत्र पाठाद्विष्णुजनो वर्णमात्रं गृह्यते, न केवलस्वादयः । कुरादिनिषेधान्नाम्नोऽन्यत्रापि ज्ञेयम् । ततः शसि—प्रतिदीव्नः, प्रतिदीव्ना ।

अरामहरस्य निमित्तत्वं मत्वैवात्र त्रिविक्रमविधानम्, ततो नासिद्धत्वम्—प्रतिदिवभ्याम् ।

तदेतत्प्रक्रियाकौमुद्यादौ (पा. ८.२.२) । अन्ये तु—प्रतिद्विनो नस्य विष्णुसर्गो विष्णुपदान्ते इति मन्यन्ते—प्रतिदिवाः, प्रतिदिवोभ्याम् ॥११७॥

११८. पथिन्मथिनृभुक्षिन्नित्येषां नस्य हरः सौ ।

११९. पथ्यादीनामिरामस्यारामः कृष्णस्थाने, थात्पूर्वं नुक्च ।

अविष्णुपदान्तस्य (वि.प्र. ८४) इति, विष्णुचक्रस्य हरिवेणुः (स.प्र. ११४) इति । अत्र नागरलिपावप्यविष्णुपदान्ते यद्विष्णुचक्रं, तन्नोचितम्—

पन्थाः, पन्थानौ, पन्थानः,
पन्थानं, पन्थानौ ॥११८११९॥

१२०. पथ्यादीनां संसारहरो भगवति ।

पथः पथा ।

एवकारेणैव सर्वत्र नियमात्, नामान्तस्य नस्य हरः (वि.प्र. ११५), तेन—
पथिभ्याम्, पथिभिः ।

एवं,
मन्थाः, मन्थानौ, मन्थानः ।
ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः ॥१२०॥

अथ शार्ङ्गिन्—

१२१. इन्हन्पूषनर्यमनित्येषामुद्धवस्य त्रिविक्रमः सुश्योरेव ।

शार्ङ्गी, शार्ङ्गिणौ, शार्ङ्गिणः
शार्ङ्गिणम्, शार्ङ्गिणौ, शार्ङ्गिणः
शार्ङ्गिभ्याम्; हे शार्ङ्गिन्!

एवं वनमालिन्, हलिन्, दण्डिन।

हनिति हन्धातुः । ततः कंसहन्—

कंसहा, कंसहनौ, कंसहनः
कंसहनम्, कंसहनौ ॥१२१॥

वमसत्सङ्गहीनस्य (वि.प्र. ८९) इति अरामहरः—

१२२. हनो हस्य घो णिन्नयोः ।

कंसघ्नः । कंसघ्ना, कंसहभ्याम् ।
ङौ—कंसहनि, कंसघ्नि ।
हे कंसहन्!

एवं,
पूषा, पुषणौ, पूषणः
पूषणम्, पूषणौ, पूष्णः
पूष्णि, पूषणि ।

पूषि च इत्येके ।

अर्यमा, अर्यमणौ ।

सङ्ख्याशब्दाः—पञ्चन्प्रभृतयो नित्यबहुवचनान्ताः त्रिषु सरूपाः । षनान्तसङ्ख्यातः कतेश्च (वि.प्र. ४१) इति पञ्च, पञ्च, पञ्चभिः, पञ्चभ्यः ॥१२२॥

१२३. रषनान्तसङ्ख्याभ्यो नुडामि स्वार्थे ।

१२४. नान्तोद्धवस्य त्रिविक्रमो नामि ।

पञ्चानां, पञ्चसु । एवं सप्तन्, अष्टन्, नवन्, दशन॥१२४॥

१२५. अष्टना विष्णुभक्तिषु वा ।
१२६. तस्मात्जस्शसोरौश्स्वार्थे ।

श इत। शित्सर्वस्य इति न्यायेन शिदादेशः सर्वादेशः ।

अष्टौ अष्ट, अष्टौ अष्ट
अष्टाभिः अष्टभिः, अष्टाभ्यः अष्टभ्यः
पक्षद्वयेऽपि—अष्टानां
अष्टासु, अष्टसु

एवं परमपञ्च, परमाष्टौ इत्यादि । अस्वार्थे तु—प्रियपञ्चा, प्रियपञ्चानौ, प्रियपञ्चानः । भगवति—प्रियपञ्च्ञः इत्यादि । आमि—प्रियपञ्च्ञाम् ।

अष्टनः परार्थत्वेऽप्यात्वं वा, न त्वौश।

प्रियाष्टा प्रियाष्टाष्टौ प्रियाष्टाः

भगवति—विश्वपावदेव ।

प्रियाष्टः । आमि—प्रियाष्टाष्टानाम् ।

पक्षे—प्रियाष्टा प्रियाष्टानौ, प्रियाष्टानः ।

भगवति—प्रियाष्टुः । आमि—प्रियाष्ट्नाम् ॥१२५१२६॥

अर्वन्—अर्वा ।


१२७. अनञ्पूर्वस्यार्वणोऽर्वतृ सुं विना ।

चतुर्भुजानुबन्धानां नुम् ॥१२७॥

१२८. नवर्जतवर्गस्थस्य नस्य न णत्वम् ।

अर्वन्तौ, अर्वन्तः
अर्वन्तम्, अर्वन्तौ, अर्वतः
अर्वता, अर्वद्भ्याम्,
हे अर्वन्!

नञ्पूर्वस्य तु—अनर्वा, अनर्वाणौ ।

कृष्णगुप्, तस्य पुंसि—कृष्णगुप्, कृष्णगुब्, कृष्णगुपौ ॥१२८॥

मान्तः प्रशाम्, तस्य पुंसि—

१२९. धातोर्मो नो विष्णुपदान्ते मवयोश्च ।

अत्र झलि च इति तस्यां [पा. ८.२.६४] भ्रमः । सङ्गंस्यते इत्यादौ विधानबलान्नरामस्यैव स्थितिः स्यात। प्रशान। प्रशानो नस्य चादौ (स.प्र. १०८) इति ज्ञापकान्नस्य हरो न स्यात। प्रशामौ, प्रशामः, प्रशान्भ्याम् ॥१२९॥

चतुर्नित्यं बहुवचनान्तः, तस्य पुंसि—

१३०. चतुरनडुहोरां कृष्णस्थाने, बुद्धे त्वम् ॥

मित। चत्वारः, चतुरः । विष्णुसर्गे कृते पुना ररामः—चतुर्भिः । चतुर्भ्यः । रषणान्तः (वि.प्र. १२३) इति नुट्—चतुर्णाम् ॥१३०॥

१३१. ररामस्य न विष्णुसर्गः सुपि ।

चतुर्षु । प्रियचतुर्—प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारम् । अस्वार्थत्वादामि न नुट्—प्रियचतुराम् । हे प्रियचत्वः !

हल्शब्दस्य सुपि हल्षु । अभ्रतीति क्विपि अभ्रशब्दस्य सौ सत्सङ्गान्तहरे—अपब। “षणः प्रतिषेधो वाच्यः” इति तु तस्यां विकल्पितम् ।

“दैत्यवृश्चमाचष्टे” इति ण्यन्तात्क्विप्प्रत्ययः—दैत्यब्, दैत्यबौ ॥१३१॥


१३२. यवयोर्विष्णुपदान्तयोर्हरो गोपाले ।

नवयोर्हरे (वि.प्र. ११५) इति—दैत्यभ्याम्, दैत्यभिः, दैत्यब्सु ॥१३२॥

१३३. सर्वेश्वरे तु विकल्पः, हरे सति पुनर्न सन्धिश्च ।

दैत्यबायाति = दैत्य आयाति, दैत्यबायाति ।

प्रच्छ्धातोः क्विबन्तः शरामान्तः कृष्णप्राश्—कृष्णप्राट्, कृष्णप्राशौ, कृष्णप्राच्छौ इत्येके । एवं वाञ्छेर्वान्श्, हरविधेर्नित्यत्व्—वान्, वांशौ, वांशः । वाञ्छौ इत्येके । कृष्णस्पृश्—कृष्णस्पृक्, कृष्णस्पृशौ । उदक्पूर्वत्वे तु उदकस्पृट।

षरामान्तो दधृध्—दधृक्, दधृषौ, दधृषः । कंसद्विष्—यस्य डः (वि.प्र. १०५) इति कंसद्विट्कंसद्विड्, कंसद्विषौ ।

षष्नित्यं बहुवचनान्तः । षनान्त (वि.प्र. ४१) इति षट्षड्, षड्भिः, षड्भ्यः ॥१३३॥

रषनान्त (वि.प्र. १२३) इति नुट। षस्य डः (वि.प्र. १०५)—

१३४. नित्यं हरिवेणुविधिः प्रत्ययहरिवेणौ ।

मयट्येव इति तस्यां भ्रमः ॥१३४॥

१३५. षात्परस्य टवर्गयुक्तस्य च तवर्गस्य टवर्गः, न तु विष्णुपदान्ताट्टवर्गादनामनवतिनगरीणाम् ।

तेन नामष्टवर्गत्वं—षण्णाम्, षट्सु । नवतिनगर्योष्टवर्गत्वम्—षण्णवतिः, षड्णवतिः, षण्णगर्यः, षड्णगर्यः । नेह—षन्नरः, षड्नरः । षन्नावः, षड्नावः ।

दतौ परवर्णौ (स.प्र. १०२) इत्यादीनि तु सन्धिमात्रसुबोधाय पृथगुक्तानि । न तु विष्णुपदान्तातित्यादौ विष्णुपदान्तग्रहणफलं घट्टिः (कृ.प्र. ४३७) इत्यादौ दर्शयिष्यते ।

अस्वार्थत्वात्—प्रियषषः, प्रियषषाम् ॥१३५॥

सजुष्—
१३६. सजुषाशिषित्यनयोरिसुसन्तधातोश्च रो विष्णुपदान्ते, तस्य विष्णुसर्गश्च सुपि ।

धातुग्रहणफलं समासकार्ये सष्विधाने (समा.प्र. ३२८), सर्पिष्काम्यतीत्यत्र वक्ष्यते ॥१३६॥

१३७. इरुरन्तधातोरुद्धवस्य त्रिविक्रमो विष्णुपदान्ते ।

सजुः, सजुषौ, सजूर्भ्याम्; सजुःषु; शौरित्वं सजूष्षु ।

सनन्तधातोः क्विप्—पिपठिष्; विष्णुपदान्तत्वान्निमित्तत्वनिवृत्तेः षत्वापायः । पिपठीः, पिपठिषौ, पिपठिषः; पिपठीर्भ्याम्, पिपठीषु । एवं विश्वचिकीर्ष। रात्सस्यैव (वि.प्र. ११०) इति, विश्वचिकीः, विश्वचिकीर्षौ, विश्वचिकीर्भ्याम्, विश्वचिकीर्षु ॥१३७॥

१३८. सहजस्य मूर्धन्यजातकरामसम्बन्धिनश्च क्षरामस्य सत्सङ्गादिहरे डः, अन्यस्य तु को वक्तव्यः, दिशिदृशिअनुदकपूर्वस्पृशिजातस्य च ।

तत्र सहजे गोरक्ष्—गोरट्गोरड्, गोरक्षौ, गोरक्षः, गोरड्भ्याम्, गोरट्सु ॥१३८॥

१३९. रक्षेर्वा कः इति केचित।

गोरक। मूर्धन्यजे, विशिविष्ÿधात्वोः सनि वेष्टुमिच्छति विविक्ष्—विविट्, विविड्, विविक्षौ, विव्क्षः । बहुधातोर्विवक्ष्—वोढुमिच्छति—विवट्विवड्, विवक्षौ, विवक्षः । अन्यस्य तु—वच्धातोर्विवक्ष्—विवक्विवग्, विवक्षौ । दह्धातोर्दिधक्ष्—दिधक्दिधग्, दिधक्षौ, दिधक्षः । दिश्यादीनां—दिदिक्, दिदृक्, पिस्पृक। मन्यते च तदिदं पाणिनीयाः । कालापास्तु घकारचवर्गस्थानिकादन्यस्य षढादिस्थानिकस्यापि कस्य लोपमाहुः । तेन विवीः इत्याहुः ।

पिस्धातोः सरामान्तः सुपिस। तुस्धातोः सुतुस्—सुपीः, सुपिसौ, सुपिसः । सुतूः, सुतुसौ, सुतुसः । षत्वं—सुपीःषु, सुतुःषु ।

ऊरुश्रवस्—अत्वसन्तोद्धवस्य (वि.प्र. १११) इति त्रिविक्रमः ऊरुश्रवाः, ऊरुश्रवसौ, ऊरुश्रवसः । ऊरुश्रवोभ्याम्, ऊरुश्रवःसु । हे ऊरुश्रवः ! एवं विष्टरश्रवस्वेधसित्यादि ।

अथ दोषूणादिप्रत्ययान्तः—दोः, दोषौ, दोषः । दोषम्, दोषौ ॥१३९॥


१४०. दोषो दोषन्यदुषु वा ।

वमसत्सङ्ग (वि.प्र. ८९) इति अरामहरः—दोष्णः, दोषः; दोष्णा, दोषा, दोर्भ्याम्, दोषभ्यामित्यादि ।

पीतं वस्ते परिदधाति—पीतवस। धातुं विना (वि.प्र. १११) इति त्रिविक्रमाभावः—पीतवः, पीतवसौ ।

कंसं हिनस्तीति—कंसहिंस। अन्तरालपाठाद्विष्णुचक्रविष्णुसर्गयोः सर्वेश्वरत्वं विष्णुजनत्वं चास्तीति सत्सङ्गानत्वात्सस्य हरः । निमित्तायायान्नराम एव । धातुवर्जित (वि.प्र. ८२) इति विशेषणान्नात्र त्रिविक्रमः—कंसहिन्, कंसहिंसौ, कंसहिन्भ्याम् । यत्नविधौ तु नुमो विष्णुचक्रमेव गृह्यते, ततो नेह षत्वम्—कंसहिन्सु ॥१४०॥

वैकुण्ठध्वस्—

१४१. ध्वंसुश्रंसुवस्वनडुहां दो विष्णुपदान्ते ।

अत्र झलि च इति तस्यां (पा. ८.२.७२) भ्रमः, ध्वस्त इत्यादौ दोषश्च । ध्वंसु श्रंसु धातु । चतुर्भुजानुबन्धत्वं नामावस्थायामेव गृहीतम् । अचुपादानात्, तेनात्र न नुम्—वैकुण्ठध्वद्वैकुण्ठध्वत्वैकुण्ठध्वसौ, वैकुण्ठध्वद्भ्याम् । एवं वैकुण्ठश्रत।

अत्र वसुप्रत्ययः—विद्वसु । उदितत्वात्चतुर्भुजानुबन्धानां च नुं (वि.प्र. ९४), नान्त (वि.प्र. ८२) इति त्रिविक्रमः, सत्सङ्गान्तहरः (वि.प्र. ९६)—विद्वान्, विद्वांसौ, विद्वांसः; विद्वांसम्, विद्वांसौ ॥१४१॥

१४२. वसोर्वस्य उर्भगवति ।

वस्य इति सारामनिर्देशः । षत्वं—विदुषः, विदुषा, विद्वद्भ्याम्, विद्वद्भिः, विदुषे, हे विद्वन्!

आदिवस्प्रभृतयः—कृदन्तप्रकरणे (५.२०) साधयिष्यन्ते । रूपाणि, यथा—

आदिवान्, आदिवांसौ, आदिवांसः
आदिवंसम्, आदिवंसौ, आदुषः
आदुषा, आदिवद्भ्याम्…

एवं जक्षिवस। अथ जग्मिवस्—

जग्मिवान्, जग्मिवांसौ, जग्मिवांसः ।
जग्मिवांसम्, जग्मिवांसौ ।

तथा जगन्वस्—

जगन्वान्, जगन्वांसौ, जगन्वांसः ।

उभयत्र भगवति—जग्मुषः इत्यादि ॥१४२॥

पुंसः—

१४३. पुंसः पुमसुः कृष्णस्थाने ।

अत्र च सुटीति तस्यां (पा. ७.१.८९) भ्रमः । गौणत्वे ब्रह्मणि दोषश्च । उराम इत।

पुमान्, पुमांसौ, पुमांसः
पुमांसम्, पुमांसौ, पुंसः
पुंसा, पुंभ्यां (पुम्भ्याम्)…

नुमा सर्वोऽप्यनुस्वारो लक्ष्यते इति भाषावृत्तिकारादयः । अत्र औणादिकस्यास्य पुंसः इत्यादौ षत्वनिषेधो वाच्यः । अत्र तु षत्वं—पुंषु । नेत्यन्ये—पुंसु ।

उशनस्—उशना, उशनसौ, उशनसः ॥१४३॥

१४४. उशनसो नान्तत्वं सलोपित्वं विष्णुसर्गान्तित्वं च बुद्धे ।

हे उशनन्! हे उशन ! हे उशनः ! एवमनेहा अनेहसौ । पुरुदंशा, पुरुदंशसौ, हे अनेहः ! हे पुरुदंशः ! श्वेतवाह्पुरोडाशुक्थशास्प्रभृतयस्तु छान्दसाः ।

कृष्णवाह्—

१४५. हस्य ढः, नहो धः, दादेस्तु धातोर्घः, द्रुहमुहनशस्नुहस्निहां वा विष्णुपदान्ते वैष्णवे च ।

एते सर्वेऽपि धातवः । कृष्णवाट्कृष्णवाड्, कृष्णवाहौ, कृष्णवाहः ॥१४५॥

१४६. वाहो वा ऊठ्भगवति ।

ठित॥१४५॥

१४७. अद्वयादूठो वृष्णीन्द्रः ।

कृष्णौहः । कृष्णौहा, कृष्णवाड्भ्याम् । कृष्णवाट्सु । अत्र कंसद्विट्सु इत्यत्र च षढोः कः से (आ.प्र. १७०) इति न प्राप्नोति, अत्राकरणेन केवलधातुविषयत्वात। ततश्च कृष्णवाट्साद्भवतीत्यादौ कृदन्तधातोस्तद्धितेऽपि न स्यात। सम्मतरूपत्वात्पाणिनीयैरपि समाधेयमेवेदम् । असुपीत्युक्त्वापि । क्रमदीश्वरपद्मनाभाभ्यां तद्धिते तु समाधेयमेव । कृष्णपण्डितस्तु अपदान्ते इत्युक्त्वा सर्वमेव समादधे ॥१४७॥

अथ अनडुह्, चतुरनडुहोरां (वि.प्र. १३०)—

१४८. अनडुहो नुं च सौ ।

सत्सङ्गान्तहरः (वि.प्र. ९६) । असिद्धत्वान्न नस्य हरः—

अनुड्वान्, अनुड्वाहौ, अनड्वाहः
अनड्वाहम्, अनुड्वाहौ, अनडुहः
अनडुहा, अनडुद्भ्याम्,

बुद्धे त्वं (वि.प्र. १३०) हे अनुड्वन्!

गोदुह्—जवर्जहरिगदादे (वि.प्र. ११४) इत्यादि—

गोधुक्(गोधुग्), गोदुहौ,
गोधुग्भ्याम्, गोधुक्षु ।

घत्वे धातो (वि.प्र १४५) इति औपदेशिकत्वमेव गृह्यते, तेन दामलिडिवाचरतीति क्यङन्तात्क्विप्दामलिट।

कंसद्रुह्—

कंसध्रुक्(कंसध्रुग्), कंसध्रुट्(कंसध्रुड्), कंसद्रुहौ
कंसध्रुग्भ्याम्, कंसध्रुड्भ्याम्,

एवं कृष्णमुह्, कृष्णस्निह्, इत्यादयः । कृष्णाङ्घ्रिलिह्—हस्य ढः (वि.प्र. १४५) इति कृष्णाङ्ह्रिलिड्, कृष्णाङ्घ्रिलिहौ ॥१४८॥

तुरासाह्—
१४९. साढः षाट।

तुराषाट्(तुराषाड्), तुरासाहौ, तुरासाहः, तुराषाड्भ्याम् ॥१४९॥

॥ इति विष्णुजनान्ता पुरुषोत्तमलिङ्गाः ॥

—ओ)०(ओ—

विष्णुजनान्ता लक्ष्मीलिङ्गाः

तत्र चरामान्त ऋच। चवर्गस्य (वि.प्र. ९७) इति ।

ऋक्(ऋग्), ऋचौ, ऋचः
ऋग्भ्याम्, ऋक्षु,

एवं त्वच्, वाच्, स्रज्, दिश्, दृश्, इत्यादि—

स्रक्(स्रग्), स्रजौ, स्रजः

समिध्—समित्, समिद।

सीमन्—

सीमा, सीमानौ, सीमानः
सीम्नः, सीम्ना

ईङ्योस्तु वा (वि.प्र. ८९)—सीम्नि, सीमनि ।

अप्नित्यं बहुवचनान्तः । नान्त (वि.प्र. ८२) इति त्रिविक्रमः—आपः, अपः ॥

१५०. अपो दो भे ।

अद्भिः । अप्सु, हे आपः ! तदन्तत्वात्स्वद्भिः इत्यादि ।

ककुभ्—

ककुप्, ककुब्, ककुभौ, ककुब्भ्याम्, ककुप्सु ।

गिर्—इरुरन्तधातोः (वि.प्र. १३७)—

गीः, गिरौ, गिरः
गीर्भ्याम्, गीषु

एवं पुर्—पूः, पुरौ, पुरः ।

चतुरस्त्रियां चतस्रादेशः (वि.प्र. ७१)—

चतस्रः, चतस्रः, चतसृभिः, चतसृभ्यः, चतसृणां, चतसृषु ।

लक्ष्मीस्थयोः (वि.प्र. ७१) इति विशेषणात्समस्तस्यान्यलिङ्गत्वेऽपि तत्तदादेशः ।

प्रियास्तिस्रो यस्य सः—

प्रियतिसा, प्रियतिस्रौ, प्रियतिस्रः
प्रियचतसा, प्रियचतस्रौ, प्रियचतस्रः

ङसिङसोः—
प्रियतिस्रः, प्रियचतस्रः,
प्रियतिसृणाम्

समस्तमात्रस्य लक्ष्मीत्वे तु—प्रियत्रिः, प्रियत्री, प्रियत्रयः ॥१५०॥

दिव्—

१५१. दिवौ सौ ।

द्यौः, दिवौ, दिवः ।
दिवम्, दिवौ, दिवः
दिवा ॥१५१॥

१५२. दिव उर्विष्णुपदान्ते ।

द्युभ्याम्, द्युषु ।

दिश्—
दिक्(दिग्), दिशौ, दिग्भ्याम्, दिक्षु ।

एवं दृश्, अघद्विष्, कंसद्विड्वत। एवं विप्रुष।

अथ आशिष्, सजुष्(वि.प्र. १३६) इत्यादिना रः—आशीः, आशिषौ, आशिषः; आशीर्भ्याम्, आशीःषु ।

उष्णिह्—उष्णिक्, उष्णिग्, उष्णिहौ ।

उपानह्—नहो धः (वि.प्र. १४५) इति उपानत्(उपानद्), उपानहौ ॥१५२॥

॥ इति विष्णुजनान्ता लक्ष्मीलिङ्गाः ॥

—ओ)०(ओ—

विष्णुजनान्ता ब्रह्मलिङ्गाः

तत्रापि प्रत्यच्—

प्रत्यक्, प्रतीची, प्रत्यञ्चि
प्रतीचा, प्रत्यग्भ्याम्

एवं प्राच्—
प्राङ्, प्राञ्ची, प्राञ्चि

प्रत्यञ्च्प्राञ्च्शब्दयोस्तु—प्रत्यङ्, प्रत्यञ्ची, प्रत्यञ्चि ।

शौ ञरामद्वयं लेख्यम् । किन्तु मितस्थाने नरामसद्भावे नुं न दृश्यते, यथा—कंसहिंसो ब्रह्मणि कंसहिंसीति केवलं विष्णुचक्रं स्यात।

तिर्यच्—तिर्यक्, तिरश्ची, तिर्यञ्चि ।

ऊर्ज्—ऊर्क्(ऊर्ग्), ऊर्जी, ऊनर्जि ।

१५३. बहूर्जो नुम्प्रतिषेधः ।

बहूर्जि । अन्त्यात्पूर्वं नुमिच्छन्त्येके—बहूर्जीति ।

जगत्—जगत्, जगती, जगन्ति ।

अथ शतृप्रत्ययान्तः भवतृ—भवत। नुमीप्रत्यये कृदन्तप्रकरणे (५.१७) वक्ष्यते—भवन्ती, भवन्ति ।

तुदतृभातृकविष्यतृप्रभृतीनां विकल्पः—तुदत्, तुदती, तुदन्ती, तुदन्ति । एवं भात्, भाती, भान्ति, करिष्यत्, करिष्यती, करिष्यन्ती, करिष्यन्ति ।

महत्शब्दः—महत्, महती, महान्ति । ब्रह्मन्—ब्रह्म । वमसत्सङ्गहीनस्य (वि.प्र. ८९) इति विशेषणादरामहराभावः—ब्रह्मणी, ब्रह्मणि, ब्रह्मणा, ब्रह्मभ्याम् ॥१५३॥

१५४. नस्य हरो वा ब्रह्मणि बुद्धे ।

हे ब्रह्म, हे ब्रह्मन्! एवं शर्मन्, वर्मन्, चर्मन॥१५४॥

अथ अहन्—

१५५. अह्नो विष्णुसर्गो विष्णुपदान्ते ।

न समास पुंसीति वाच्यम् । अहः । ईङ्योस्तु वा (वि.प्र. ८९) धातुत्वाभावात्घत्वाभावः—अह्नी, अहनी, अहानि, अह्ना ॥१५५॥

१५६. अस्य स्वाद्यभाव एव रविधिर्वाच्यः ।

अहोभ्याम् । बुद्धेऽपि—हे अहः ! समासे पुंसि तु त्रिविक्रमो, न तु विष्णुसर्गः—दीर्घाहा निदाघः, बुद्धे तु—हे दीर्घाहन्! अत्र णत्वं वाच्यम्—दीर्घहाणौ, दीर्घाहाणः, दीर्घाह्णः ।

सुपथिन्—सुपथि, सुपथी, सुपन्थानि । शसि च—सुपन्थानि । पथ्यादीनां सुटि नुमिति तस्यां भ्रमः ।

दृष्टशार्ङ्गिन्—दृष्टशार्ङ्गि, दृष्टशार्ङ्गिणी, दृष्टशार्ङ्गीणि । एवं दृष्टकंसह्—दृष्टकंसह, दृष्टकंसहनी, दृष्टकंसघ्नी, दृष्टकंसहानि । एवं दृष्टपूषन्, दृष्टार्यमन।

स्वप्, स्वपी, नान्तधातुवर्जित (वि.प्र. ८९) इति त्रिविक्रमः—स्वाम्पि, स्वद्भ्याम् ।

वार्—वाः, वारी, वारि । अनीश्वरादपि ररामजः (स.प्र. १४५)—वार्भ्याम् ।

अत्रापि चतर्—चत्वारि ।

पयस्—पयः, पयसी, पयांसि, पयोभ्याम् ।

हविस्—हविः । औणादिकसरामोऽयं प्रत्ययः, अतः षत्वं—हविषी, हवींषि, हविर्भ्याम् । विष्णुसर्गः षत्वं—हविःषु, शौरित्वं—हविष्षु । एवं धनुस। अतिपुंस्—अतिपुम्, अतिपुंसी, अतिपुमांसि ।

स्वनडुह्— स्वनडुत्, स्वनडुही, स्वनड्वांहि ॥१५६॥

॥ इति विष्णुजनान्ता ब्रह्मलिङ्गाः ॥

इति लिङ्गत्रयं दर्शितं

—ओ)०(ओ—

अथ विशेषणलिङ्गाः

१५७.* अत्र कृष्णादिशब्दाः संज्ञाविशेषादौ नियतपुरुषोत्तमादयः ।

१५८.* सङ्ख्यादिशब्दातु वाच्यलिङ्गाः ।

१५९.* समानाधिकरणविशेषणरूपा विशेष्यलिङ्गविष्णुभक्तिवचनानि भजन्ते ।

१६०.* जातिगुणक्रियाद्वारा यस्य विशेषः कथ्यते, तद्विशेष्यम् । येन तस्य विशेषः कथ्यते, तद्विशेषणम् ।

यथा, गोपः कृष्णः, गोपी राधा, क्षौमं वसनम्, श्यामः कृष्णः, गौरी राधा, पीतं वसनं, विहारी कृष्णः, विहारिणी राधा, विहारि गोकुलमित्यादि ॥

१६१. अव्ययविशेषणं ब्रह्म ।

यथा, महत्स्वः ॥

१६२. केचिच्छब्दा विशेषणत्वेऽपि स्वलिङ्गं न त्यजन्ति ।

यथा, प्रधानं कृष्णः, प्रधानं राधा, गतिः कृष्णः, आश्रयो राधा इत्यादि ॥

१६३. एकस्य विशेषणस्य विशेष्यमनेकं चेत्, प्रत्येकं वा समुदायस्य वा सङ्ख्यानुरूपं वचनम् ।

चास्य समुच्चयेतरेतरयोगभेदेन द्वैविध्यं, यथा रामः कृष्णश्च सुन्दरः, रामः कृष्णश्च प्रत्येकमित्यर्थः । सुन्दरौ वा, रामः कृष्ण इति द्वावित्यर्थः । तदिदं रामकृष्णसमासे विवरणीयं (समा.प्र. ११७) ॥

१६४. क्वचिद्बहूनां विशेषणत्वेऽप्येकत्वम् ।

यथा, धर्मे वेदाः प्रमाणमित्यादि ॥

१६५. विंशत्याद्याः सदैकत्वे अनावृत्तौ ।

विंशतिर्वैष्णवाः । तासामेवावृत्तौ तु, द्वे विंशती, तिस्रो विंशतयः । एवमेकविंशतिः इत्यादि । तदन्तत्वादूनविंशतिश्च । तत्र विशेषेण शब्देषु कृष्णनामाख्यशब्दा उच्यन्ते ॥

—ओ)०(ओ—
 
अथ कृष्णनामप्रकरणम्

१६६. सर्वादीनि कृष्णनामानि ।

सर्वनामानीत्यन्ये । सर्व, विश्व, उभ, उभय, अन्य, अन्यतर, ततर, ततम, यतर, यतम, कतर, कतम, एकतर, एकतम, इतर, त्वत्, त्व, नेम, सम, सिम, पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर, (त्यद्छान्दसः), तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, अस्मद्, भवतु, किम् ॥१६६॥

तत्र पुंसि—सर्वः, सर्वौ—

१६७. कृष्णनामकृष्णतो जसः शीः ।

शिति । सर्वे, सर्वं, सर्वौ, सर्वान्, सर्वेण, सर्वाभ्यां, सर्वैः ॥१६७॥

सर्वङे—
१६८. कृष्णनामकृष्णतो ङेः स्मै ।

सर्वस्मै, सर्वाभ्यां, सर्वेभ्यः ॥१६८॥

१६९. कृष्णनामकृष्णतो ङसेः स्मात।

सर्वस्मात्, पञ्चम्यास्तस्प्रत्ययस्तद्धितः—सर्वतः, सर्वाभ्यां, सर्वेभ्यः, सर्वस्य, सर्वयोः ॥१६९॥

सर्वऽम्—
१७०. कृष्णनामकृष्णराधाभ्यां सुडामि ।

उडावितौ । कृष्णस्य ए वैष्णवे (वि.प्र. १६) षत्वम्—सर्वेषाम् ॥१७०॥

१७१. कृष्णनामकृष्णतो ङेः स्मिन।

सर्वस्मिन्, सर्वयोः, सर्वेषु । सप्तम्यां त्रप्रत्ययस्तद्धितः—सर्वत्र । हे सर्व ! ॥१७१॥

आदि (वि.प्र. १६६)शब्दः प्रसिद्धगणविशेषग्राहकः । ततश्च—
 
१७२. सर्वादिः कृष्णनामाख्यो गौणसंज्ञे विना भवेत।

तेन नेह—सर्वमतिक्रान्ताय अतिसर्वाय, दृष्टः सर्वो येन, तस्मै—दृष्टसर्वाय । सर्वो नाम कश्चित्, तस्मै सर्वाय ॥१७२॥

१७३. पूर्वादि च व्यवस्थायां सप्तकं कृष्णनामकम् ।

दिग्देशकालविभागोऽत्र व्यवस्था, तस्यां गम्यमानायाम् । पूर्वस्मै दिगन्तराय, देशादये वा । तथा, पूर्व्४ कालाय, दिनाय, पदार्थविशेषाय वा । अन्यत्र तु पूर्वाय, श्रेष्ठाय इत्यर्थः । दक्षिणाय प्रवीणाय । गौणसंज्ञे विना (वि.प्र. १७२) इत्येव अत्युत्तराय । उत्तराः कुरवः ॥१७३॥

१७४. समोऽतुल्ये कृष्णनाम ।

समस्मै, सर्व्४, इत्यर्थः । नेह—समाय, तुल्याय इत्यर्थः ॥१७४॥

१७५. स्वमज्ञातिधनाह्वये ।

स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने [अ.को. ३.३.२११], स्वस्मै—आत्मना, आत्मीयाय वा इत्यर्थः । नेह स्वाय ज्ञातये, धनाय वा इत्यर्थः ॥१७५॥

१७६. अन्तरो बाह्यपरिधानीययोर्न त्वसौ पुरि ।

अन्तरस्मै—बाह्याय इत्यर्थः, वस्त्रान्तरावृतपरिधानीयाय इति वा । बाह्यत्वेऽपि पुरि वर्तमानस्तु न—अन्तराय पुराय बाह्याय इत्यर्थः ॥१७६॥

१७७. पूर्वादीनि नव कृष्णनामानि जसि वा ।

पूर्वे पूर्वाः, स्वे स्वाः, अन्तरे अन्तराः । सर्ववद्विश्व आदयोऽपि अरामान्ताः । तत्र उभशब्दो नित्यं द्विवचनान्तः—उभौ, उभौ, उभाभ्यां, उभाभ्यां, उभाभ्यां, उभयोः, उभयोः । उभस्य सर्वादिषु पाठो हेत्वर्थे कृष्णनाम्नो योगे सर्वविष्णुभक्त्यर्थस्तस्य वृत्तिमात्रे पुंवद्भावार्थश्च । त्वत्त्वौ अन्यपर्यायौ । नेमोऽर्धपर्यायः । समादय उक्तार्थाः । सिमश्च सर्वार्थः । शक्तावबद्धमर्यादानां वाची इति तु मतभेदाः । अन्ये तु प्रसिद्धाः ॥१७७॥

१७८. पूर्वादिभ्यो नवभ्यः स्मात्स्मिनौ वा ।

पूर्वस्मात्पूर्वात्, पूर्वस्मिन्, पूर्वे ॥१७८॥

१७९. स कृष्णनाम तृतीयासमासे तद्वाक्ये च ।
 
मासेन पूर्वाय इति वाक्ये—मासपूर्वाय । केवलवाक्ये तु—मासेन पूर्व्४ धनं देहि ॥१७९॥

१८०. स कृष्णनाम द्वन्द्वे, जसि तु वा ।

पूर्वापराणां वैष्णवेतरे, वैष्णवेतराः ।

१८१. प्रथमचरमतयायाल्पार्ध
कतिपयनेमाः कृष्णनामानि जसि वा ।

प्रथमे, प्रथमाः । तयायौ प्रत्ययौ—द्वितये, द्वितयाः । द्वये, द्वयाः । शेषं कृष्णवत। उभयस्य द्विवचनाभावः—उभये, उभयाः । इहापि जसः कार्यं प्रति विभाषा इति काशिका (१.१.३३), उभय इति नित्यं भाषायामिति कालापाः (चतुष्ठवृत्तिः ३१), नेमे नेमाः । शेषं सर्ववत॥१८१॥


१८२. तीयस्य कृष्णनामता वृष्णिषु वा ।

द्वितीय्४, द्वितीयाय, द्वितीयस्मात्, द्वितीयात्, द्वितीयस्मिन्, द्वितीये । शेष कृष्णवत। एवं तृतीयः । अर्थवद्ग्रहणात्तु गोपजातीयाय ॥१८२॥

अथ तदादयः—

१८३. तदादिसप्तानां संसारस्यारामः स्वादौ,
दस्य च मः, तदादेस्तु सः सौ ।

सः, तौ, ते
तम्, तौ, तान्
तेन, ताभ्यां, तैः
तस्मै, ताभ्यां, तेभ्यः
तस्मातित्यादि ।

बुद्धस्यादर्शनं—हे स ! तदोः सः सावनन्त्ययोः इति सूत्रे [पा. ७.२.१०६] काशिकादावप्येतद्दर्शितम् । हे स ! हे असौ ! इति भाष्योदाहरणात्प्रक्रिया तु चिन्त्या । गौणसंज्ञयोस्तु न तदादिकार्यं, सर्वादिगणत्यागात्—अतितद्, अतितदौ, अतितदः । तद्धिते पञ्चम्यां—ततः । सप्तम्यां—तत्र ।

यद्—यः, यौ, ये । तद्धिते पञ्चम्यां—यतः । सप्तम्यां—यत्र ।

एतद्—एषः, एतौ, एते, एतम् । तद्धिते पञ्चम्यां—अतः । सप्तम्यां—अत्र ॥१८३॥

१८४. इदमोऽयं सौ, इयं तु लक्ष्म्यां, साकस्य त्वयकमियमकौ ।

अयम्, इमौ, इमे ।
इमम्, इमौ, इमान॥१८४॥

१८५. इदमोऽकरामस्य अनष्टौसोः ।

१८६. वैष्णवे त्वश।

१८७. सकरामस्य च कथितानुकथने ।

अनेन । शित्सर्वस्य इति सर्वादेशः—आभ्याम् । इमकाभ्यामहः कृष्णोऽर्चितः । अथ आभ्यां रात्रिमपि ॥१८५१८७॥

१८८. इदमदोभ्यामकरामाभ्यां नैस।

एभिः ।
अस्मै, आभ्यां, एभ्यः ।
अस्मात्, आभ्यां, एभ्यः ।

तद्धिते पञ्चम्यां—इतः ।

अस्य, अनयोः, एषाम् ।
अस्मिन्, अनयोः, एषु ।

तद्धिते सप्तम्यां—इह । संसारात्पूर्वमक्प्रत्यये, इदकम्शब्दो भवति । अयकम्, इमकौ, इमके सर्ववत॥१८८॥

१८९. एतदिदमोरेनः कथितानुकथने द्वितीयाटौस्सु ।

एतमिमं वा दीक्षय । अथो एनं पाचय । एनम्, एनौ, एनान। एनेन, एनयोः, एनयोः ॥१८९॥

अदस्सु, संसारस्यारामः—

१९०. अदसो दस्य सः, सोरौच।

असौ ॥१९०॥

१९१. अदो मात्परस्य सर्वेश्वरस्य उ ऊ यथेष्टसिद्धिः ।

वामनस्य वामनः, त्रिविक्रमस्य, त्रिविक्रमः । अमू ॥१९१॥

जसि अमे स्थिते—
१९२. अदस एत ई बहुत्वे, न तु कात।

अमी । अमूम्, अमू, अमून। मत्वे चोत्वे च कृते । हरितष्टा ना (वि.प्र. ३५)—अमुना । भ्यामि—कृष्णस्य त्रिविक्रमः (वि.प्र. १३), पश्चातू—अमूभ्याम्, अमीभिः । स्मैप्रभृतौ कृते पश्चादुरामः । अमुष्मै, अमूभ्याम्, अमीभ्यः । अमुष्मात्, अमूभ्याम्, अमीभ्यः । तद्धिते पञ्चम्याम्—अमुतः । अमुष्य । एत्वे अयादेशे च कृते पश्चादुरामः । अमूयोः, अमीषाम् । अमुष्मिन्, अमुयोः, अमीषु । तद्धिते—अमुत्र । चित्करणेन । हे असौ ! इति बुद्धस्यादर्शनं न स्यात। अदस औ सुलोपश्च [पा. ७.२.१०७] काशिकादावप्यस्य सम्मतिः, प्रसादे च । अक्प्रत्यये—असकौ, अमुकश्च इति मन्यन्ते । औप्रभृतौ मराममध्याः—अमुकौ, अमुके । एकः सर्ववत॥१९२॥

१९३. न द्वेर्मः ।

द्वौ, द्वौ, द्वाभ्यां, द्वाभ्यां, द्वाभ्यां, द्वयोः, द्वयोः ॥१९३॥

युष्मदस्मदौ त्रिष्वपि समानौ—

१९४. युष्मदस्मदोत्वमहमादयः स्वादिना सह ॥

तत्र युष्मच्छब्दस्य—त्वं, युवां, यूयं; त्वां, युवां, युष्मान्; त्वया, युवाभ्यां, युष्माभिः; तुभ्यं, युवाभ्यां, युष्मभ्यः; त्वत्, युवाभ्यां, युष्मभ्यः; युष्मत्; तव, युवयोः, युष्माकं; त्वयि, युवयोः, युष्मासु ।

अस्मच्छब्दस्य—अहं, आवां, वयं; मां, आवां, अस्मान्; मया, आवाभ्यां, अस्माभिः; मह्यं, आवाभ्यां, असभ्यं; मत्, आवाभ्यां, असभ्यं; अस्मत्, आवाभ्यां, असभ्यं; मम, आवयोः, अस्माकं; मयि, आवयोः, अस्मासु ।

युष्मदस्मदौ त्रिष्वपि समानौ—

१९५. अनयोर्विष्णुपदत्वे सत्येव संसारात्पूर्वमक्प्रत्ययः ।

त्वकम्, युवकाम्, यूयकम् । किन्तु त्रिसर्वेश्वरत्वे मध्यसर्वेश्वरात्पूर्वमक्—युवकाभ्यां, युष्मकाभिः, युष्मकभ्यम् । युष्मकाकम् । युष्मकासु ।

एवमस्मदोऽपि—
अहकम्, आवकाम्, वयकं
मकाम्, अस्मकान्,
मयका, आवकाभ्यां, अस्मकाभिः
मह्यकम्, अस्मकभ्यम्
अस्मकत।
ममक, आवकयोः, अस्मकाकम्,
मयकि, अस्मकासु ।

गौणत्वे —त्वामतिक्रान्तः इत्यर्थे—अतित्वत। युवामतिक्रान्तः इत्यर्थे—अतियुवत। युष्मानतिक्रान्तः इत्यर्थे—अतियुष्मत। एवं ममातिक्रान्तः इत्यर्थे—अतिमत। आवामतिक्रान्तः इत्यर्थे—अत्यावत। अस्मानतिक्रान्तः इत्यर्थे—अत्यस्मत। एवं प्रत्वदादयोऽपि ॥१९५॥

१९६. तेषामतित्वदादीनां सर्वेषां
त्वमहमादय एव सुजस्ङेङस्सु ।

यथा—अतित्वम्, अतियूयम्, अतितुभ्यम्, अतितव, एवमत्यहमित्यादि ॥१९६॥


१९७. अन्यत्र वमपर्यन्तवर्जमक्षराणि प्रकृतपदवत्कार्याणि ।

यथा—अतित्वद्—औ इति स्थिते अद औभागस्य युवामित्यन्तस्थित आम्भाग आदिश्यते—अतित्वाम् । एवमम्—अतित्वाम् । पुनरौ—अतित्वाम् । शस्—अतित्वान। टा—

अतित्वया, अतित्वाभ्यां, अतित्वाभिः ।
अतित्वाभ्यां, अतित्वभ्याम्,
अतित्वत्, अततिवाभ्याम्,
अतित्व, अतित्वयोः, अतित्वाकम्,
अतित्वयि, अतित्वयोः, अतित्वासु ।

यथा च अतियुवच्छब्दात्—अतियुवाम्, अतियुवाम्, अतियुवाम्, अतियुवान्, अतियुवया ।

यथा च अतियुष्मच्छब्दात्—अतियुष्माम्, अतियुष्माम्, अतियुष्माम्, अतियुष्मान्, अतियुष्मया । आमि च—अतित्वाकमित्यादि । अतित्वयाकमित्यादि केषांचित। एवमस्मदोऽपि ॥१९७॥


१९८. विष्णुपादाद्वा, अन्वादेशे तु नित्यम् ।

अधिकारोऽयम् । उत्तरप्रकरणव्याप्यधिकारः । वां नौ पर्यन्ता ये विरिञ्चयो वक्ष्यन्ते, ते सर्वे विष्णुपदाद्वक्तव्याः । ते च अनन्वादेशे वा, अन्वादेशे तु नित्यमित्यर्थः । पुनः कथनम्—अन्वादेशः ॥१९८॥

१९९. युष्मान्युष्मभ्यं युष्माकमित्येषां वस्,
अस्मानस्मभ्यमस्माकमित्येषां नस।

हरिर्युष्मानवतु, हरिर्वोऽवतु । हरि युष्मभ्यं रोचताम्, हरिर्वो रोचताम् । हरिर्युष्माकं सर्वस्वम् । हरिर्वः सर्वस्वम् । हरिरस्मानवतु, हरिर्नः । हरिरस्मभ्यं रोचताम्, हरिर्नः । हरिरस्माकं सर्वस्वम्, हरिर्नः । अन्वादेशे तु नित्यं—हरिरस्मानवतु, अथो नस्तद्भक्ताः कृपयन्तु इत्यादि सर्वत्र योज्यम् ॥१९९॥

२००. तुभ्यम्तवयोस्ते, मह्यम्ममयोर्मे ।

हरिस्तुभ्यं रोचताम्, हरिस्ते । एवं हरिस्तव, हरिस्ते, हरिस्तुभ्यं रोचताम्, अथो हरिस्ते प्रेम ददातु । हरिर्मह्यम्, हरिर्मे । हरिर्मम, हरिर्मे ॥२००॥

२०१. त्वां मां त्वा मा ।

हरिस्त्वां पातु, हरिस्त्वा पातु । हरिस्मां पातु, हरिस्मा । अथो हरिस्त्वा पश्यतु, हरिर्मा रक्षतु ॥२०१॥
 
२०२. युष्मदस्मद्विष्णुपदयोर् वांनौ द्वितीयाचतुर्थीषष्ठीद्वित्वे, न तु समासे ।

हरिर्युवां रक्षतु, हरिर्वाम् । हरिर्युवां रक्षतु, हरिर्वां पश्यतु । हरिर्युवाभ्यां रोचताम्, हरिर्वाम् । हरिर्युवयोः स्वामी, हरिर्वाम् ।

हरिरावां पातु, हरिर्नौ । हरिरावाभ्यां रोचताम्, हरिर्नौ । हरिरावयोः स्वामी, हरिर्नौ । समस्तत्वे तु न—हरिरस्मत्स्वामी ॥२०२॥

२०३. सपूर्वपदात्प्रथमान्ताद्वान्वादेशेऽपि ते विरिञ्चयः ।

व्रजे कृष्णो मम स्वम्, मे वा । अथो वृन्दावने कृष्णो मम स्वम्, मे वा ॥२०३॥

२०४. न ते वाक्यादौ श्लोकपादादौ च ।

हे वैष्णव ! त्वं सुखी भव । त्वां हरिः पातु । मां हरिः पातु । कृष्णैकशरणस्यास्य, तव हन्त कुतो भयं ? इत्यादि ॥२०४॥

२०५. न च चादिभिर्योगे ।

कृष्णो मम च सौख्याय, रामस्तव च शर्मणे । च, वा, ह, अह, एव ॥२०५॥

२०६. परस्परयोगेऽपि न ।

हरिश्च मे स्वामी ॥२०६॥

२०७. न च दर्शनार्थैरचाक्षुषत्वे ।

चेतसा त्वामीक्षते वैष्णवाः ॥२०७॥

२०८.परस्परायोगेऽपि न ।

कृष्णश्चेतसा तव रूपमीक्षते । भक्तस्तव रूपं ध्यायतीति तु तस्यां विचार्यम् । दर्शनार्थधातुयोगाभावात। चाक्षुषत्वे तु—कृष्णस्त्वा पश्यतु ॥२०६॥

२०९. आमन्त्रितं पूर्वमसद्वत।

ततो नादेशाः [पा. ८.१.७२] इति काशिकादौ च मतम् । हे कृष्ण ! तवाहम् । हे रामकृष्णौ ! युवयोरहम् । कथमुचितं रचयामि देवि ते ? इति । आमन्त्रितस्य असद्वत्तेऽपि तत्पूर्वपदस्य सत्त्वात॥२०९॥


२१०. सामान्यवचनतुल्याधिकरणे आमन्त्रिते क्रमस्थे चेत्पूर्वं सत॥

२११. बहुवचने चेद्वा ॥

तत्र आदेशाः । हे वैष्णव सप्रेमंस्ते कृष्णः । वैष्णवोऽत्र सप्रेमा तद्रहितश्च भवतीति सामान्यवचनः । तौ द्वौ तु तद्विशेष्यौ । तत्रान्वादेशे नित्यमादेशाः । अनन्वादेशे तु वा । सामान्यवचन इति किं ? ब्रह्मरात कृष्णज्ञ रू तव कृष्णः । ब्रह्मरात इत्येकस्य नाम, ततो न सामान्यवचनः । तत उभयमप्यामन्त्रितमसद्वत्[२०९सङ्ख्यकसूत्रेण] । एवं हरे कृपालोऽस्मान्पाहि । बहुवचने—वैष्णवाः श्रीभागवतज्ञाः रू वः कृष्णः, युष्माकं वा । अनन्वादेशेऽप्यादेशा वा । एतत्पाणिनीयमतं प्रक्रियाधृतम् । महान्तरं तु न किञ्चित। तथा हि तत्सूत्रत्रयम्—आमन्त्रितं पूर्वमविद्यमानवत्[पा. ८.१.७२], नामन्त्रिते समानाधिकरणे सामान्यवचनं [पा. ८.१.७३], विभाषितं विशेषवचने बहुवचनं [पा. ८.१.७४] इति । आमन्त्रिते इत्यादिषु परसप्तम्येव । मध्यमे सूत्रे सामान्यवचनस्याविद्यमानताखण्डनात्तन्मूला एवादेशाः । अन्तिमे तु तद्विकल्पात्तद्विकल्पः ।

भवतुशब्दो युष्मद्वाचको, भगवतुशब्दवत॥२१०२११॥


अथ किम्शब्दः—

२१२. किमः को विष्णुभक्तौ साकस्यापि ।

कः, कौ, के । कम्, कौ, कान्—सर्ववत। तद्धिते पञ्चम्यां—कुतः ? ७यां—क्व ? कुत्र ? ॥२१२॥
 
अथ कृष्णनाम्नां लक्ष्मीलिङ्गोदाहरणम्—

२१३. कृष्णनामराधातः स्याप्वृष्णिषु, पूर्वस्य च वामनः ।

पित्—सर्वस्यै । ङसि—सर्वस्याः । ङस्—सर्वस्याः । आमि, कृष्णनाम (वि.प्र. १७०) इति सुट्—सर्वासाम् । ङि—नीराधाभ्यां ङेरां (वि.प्र. ५१) इति सर्वस्याम् । तद्धिते पूर्ववत। एवं विश्वऽदयः ॥२१३॥

२१४. दिग्बहुव्रीहौ कृष्णनामता वा ।

उत्तरपूर्व्४, उत्तरपूर्वायै । तदादिसप्तानां संसारस्यारामे कृते पश्चादाप। तदादेस्तः सः सौ (वि.प्र. १८३)—सा, ते, ताः । ताम्, ते ताः । एवं यद्—या, ये, याः । एतद्—एषा, एते, एताः । इदं—इयं तु लक्ष्म्यां (वि.प्र. १८४) । इयं, इमे, इमाः । इमाम्, इमे, इमाः । इदमोऽकरामस्य अनष्टौ सोः (वि.प्र. १८५)—अनया । वैष्णवे त्वश्(वि.प्र. १८६)—आभ्यां, आभिः । अस्यै, अस्याः । सुट्(वि.प्र. १७०), अश्(वि.प्र. १८६), पश्चादाप्—आसाम् ।

अदस्शब्दस्य सौ पुंवत्—असौ । दस्य च मः (वि.प्र. १८३)—अमू, अमूः । अमूम्, अमू, अमूः । अमुया, अमूभ्याम्, अमूभिः । स्याप्वृष्णिषु, पूर्वस्य च वामनः (वि.प्र. २१३)—अमुष्यै, अमूभ्याम्, अमूभ्यः । अमुष्याः, अमूभ्याम्, अमूभ्यः । अमूष्याः, अमूयोः, अमूषाम् । अमूष्याम्, अमूयोः, अमूषु ॥

एकः सर्ववत। द्विशब्दस्य—द्वे, द्वे, द्वाभ्यां, द्वाभ्यां, द्वाभ्यां, द्वयोः, द्वयोः ।

भवतुशब्दादीप्—भवती, भवत्यौ ।

किम्शब्दस्य—का, के, काः । सर्ववत॥२१४॥

अथ ब्रह्मणि—

सर्वं सर्वे, सर्वाणि । पुनस्तद्वत। तृतीयादौ पुरुषोत्तमवत। उभाउ उभे ।

२१५. अन्यादिभ्यस्तुक्स्वमोर्ब्रह्मणि ।

उकवितौ । अन्यतन्यद्, अन्ये अन्यानि । अन्यादय एकादशैकतरवर्जम् । तत्ते तानि । इदम्, इमे, इमानि ॥२१५॥

२१६. द्वितीयैकत्वे कथितानुकथने इदमेतदोरेनदादेशो ब्रह्मणि वाच्यः ।

एतद्गच्छति । अथो एनत्पश्य ।

अदः । अमे इति स्थिते पश्चातू (वि.प्र. १९१)—अमू, अमूनि । पुनस्तद्वत। द्वे, द्वे । भवत्, भवती, भवन्ति । पुनस्तद्वत। किम्, के, कानि । पुनस्तद्वत॥२१६॥

२१७. अव्ययात्स्वादेर्महाहरः ।

स्वरादि, चादि, वदादि—तद्धिताः, क्त्वा, मान्तश्च कृदव्ययम् । अव्ययाः खलु—वाचकाः, द्योतकाश्च । तत्र वाचकाः—स्वः, प्रातः इत्यादयः । एषां विशेषणस्य ब्रह्मत्वमेव । सुन्दरः स्वः, सुन्दरे स्वः, सुन्दराणि स्वः इत्यादयः । अत्रैकवचनमेव इति तस्यां भ्रमः । द्वित्वादीनामनिवार्यत्वात्, अव्ययादपि सुपिति सुलोपे विरोधाच्च । द्योतकाः—च, वा, ह, अह, वै, तु, अपि, इत्यादयः, प्रादयश्च ॥२१७॥

२१८. चादयो निपातसंज्ञाः ।

एतेभ्यो द्योततया अर्था विद्यन्ते एषामित्यर्थत्वात्स्वाद्युत्पत्तिः, किन्तु प्रथमैकवचनमेव । वदादितद्धितेः—हरिवत्कृष्णीभवतीत्यादयः । क्त्वा, मान्तकृत्—कृत्वा, कर्तुं, कारं, कारम्, इत्यादि च । महाहरत्वं—ओ औ पाण्डवेषु (वि.प्र. ६१) न, अहो इत्यादि ज्ञेयम् ॥२१८॥

॥ इति कृष्णनामप्रकरणम् ॥

इति श्रीश्रीहरिनामामृताख्ये वैष्णवव्याकरणे नाम विष्णुपदप्रकरणं द्वितीयं समाप्तं ॥२॥