हरिनामामृतव्याकरणम् /संज्ञासन्धिप्रकरणम्

संज्ञासन्धिप्रकरणम्

१.१. अथ संज्ञाप्रकरणम्

सम्पाद्यताम्

१. नारायणादुद्भूतोऽयं वर्णक्रमः ।

अ आ इ ई उ ऊ ऋ è ÿ ÿÿ ए ऐ ओ औ अमः । क ख ग घ ङ । च छ ज झ ञ । ट ठ ड ढ ण ।
त थ द ध न । प फ ब भ म । य र ल व श ष स ह क्ष ॥

एते “वर्णाः” “अक्षराणि” “अलः” च । एषामुद्भवस्थानानि —

ऽकवर्गहविसर्गाणां कण्ठः ।
इईचवर्गयशानां तालु ।
उऊपवर्गाणामोष्ठः ।
ऋèटवर्गरषाणां मूर्धा ।
ÿÿÿतवर्गलसानां दन्ताः ।
एदैतोः कण्ठतालू ।
ओदौतोः कण्ठोष्ठम् ।
वकारस्य दन्तोष्ठम् ।
अनुस्वारस्य शिरो नासिका वा इत्यादीनि ॥१॥

२. तत्रादौ चतुर्दश सर्वेश्वराः ।

तस्मिन्वर्णक्रमे आदौ चतुर्दश वर्णाः सर्वेश्वरनामानो भवन्ति । अ आ इ ई उ ऊ ऋ è ÿ ÿÿ ए ऐ ओ औ । एते “स्वराः” “अचऊ” इति प्राचीनानाम् । एते स्वतन्त्रोच्चारणाः । कादीनामुच्चारणं चैषामधीनमिति सर्वेश्वराः । एवमन्यत्रापि ज्ञेयम् ।

मात्रालाघवमात्रं पुत्रोत्सव इति परेऽभिमन्यन्ते ।
हरिनामाक्षरलाभाद्वयं त्वमूदृक्तिरस्कुर्मः ॥२॥

३. दश दशावताराः ।

तत्रादौ दश वर्णा दशावतारनामानो भवन्ति—अ आ इ ई उ ऊ ऋ è ÿ ÿÿ ।

एते “समानाः”, “अकः” च प्राचीनानाम् ॥३॥

४. तेषां द्वौ द्वावेकात्मकौ ।

तेषां दशावताराणां मध्ये क्रमेण द्वौ द्वौ वर्णौ प्रत्येकं प्रपञ्चं चैकात्मकौ ज्ञेयौ, यथा—अ आ इति द्वौ एकात्मकौ, इ ई इति द्वौ एकात्मकौ, एवमु ऊ इत्यादि । अत्र “सवर्ण”संज्ञा च । प्रत्येकमेकात्मकत्वं स्पष्टमेवेति प्रपञ्चार्थमिदं सूत्रम् ॥४॥

५. पूर्वो वामनः ।

तेषामेकात्मकानां पूर्वपूर्वो वर्णो वामननामा । अ, इ, उ, ऋ, ÿ । एते ह्रस्वाः, निर्ह्रस्वाश्च ॥५॥

६. परस्त्रिविक्रमः ।

तेषामेकात्मकानां परपरो वर्णः त्रिविक्रमनामा । आ, ई, ऊ, è, ÿÿ । एते दीर्घाः ॥६॥

७. त्रिमात्रो महापुरुषः ।

त्रिमात्रत्वेन उच्चार्यमाणो वर्णो वामनस्त्रिविक्रमश्च महापुरुषसंज्ञः स्यात। एष दूराह्वाने गाने रोदनादौ च प्रसिद्धः । प्लुतसंज्ञश्च, यथोक्तम्—

एकमात्रो भवेद्ह्रस्व्ल्द्विमात्रो दीर्घ उच्यते ।
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् ॥
(सौरशास्त्रीयवचनम्)
आदित्रयस्य कुक्कुटरुतौ क्रमेण प्रसिद्धिः । अत्र महापुरुषे वामनमपि त्रिविक्रममुच्चारयन्ति लिखन्ति च तज्ज्ञाः । आगच्छ भो विष्णुमित्र३ आगच्छ । आगतोऽस्मि भो विश्वपा३, आगतोऽस्मि ॥७॥

८. ऽवर्जिताः सर्वेश्वरा ईश्वराः ।

ऽ इति वर्णद्वयवर्जिताः सर्वेश्वराः ईश्वरनामानः—इ ई उ ऊ ऋ è ÿ ÿÿ ए ऐ ओ औ । एते “नामिनः”, “इचश्” च ॥८॥

९. दशावतारा ईशाः ।

ऽवर्जिता दशावतारा ईशनामानः । इ ई उ ऊ ऋ è ÿ ÿÿ । एते इकः ॥९॥

१०. ऽइईउऊ अनन्ताः ।

“अणः” च ॥१०॥

११. इईउऊ चतुःसनाः ।
“इणः” च ॥११॥

१२. उऊऋè चतुर्भुजाः ।
“उकः” च ॥१२॥

१३. एऐओऔ चतुर्व्यूहाः ।

“सन्ध्यक्षराणि”, “एचः” च । एते सर्व एव त्रिविक्रमाः ॥१३॥

१४. अमिति विष्णुचक्रम् ।

अकार उच्चारणार्थः । बिन्दुस्वरूपो वर्णो विष्णुचक्रनामा, “अनुस्वारः”, “बिन्दुः”, “लवः” च ॥१४॥

१५. अঁ इति विष्णुचापः ।

अर्धचन्द्राकृतिवर्णो विष्णुचापनामा, “अनुनासिकः” च । नासिकाभवोऽयम् । सानुनासिकस्तु मुखनासिकाभवः ॥१५॥

१६. अः इति विष्णुसर्गः ।

बिन्दुद्वयाकारो वर्णो विष्णुसर्गनामा, “विसर्गः”, “विसर्जनियः”, “विसृष्टः”, “अभिनिष्टानः” च ॥१६॥

१७. कादयो विष्णुजनाः ।

ककारादयो हकारान्तास्ता वर्णा विष्णुजननामानो भवन्ति । विष्णोः सर्वव्यापकतया सर्वेश्वरस्य जना इव तसाधीना इत्यर्थः । क ख ग घ ङ । च छ ज झ ञ । ट ठ ड ढ ण । त थ द ध न । प फ ब भ म । य र ल व श ष स ह । कषसंयोगे तु क्षः । एते “व्यञ्जनानि”, “हलः” च ॥१७॥

१८. यववर्जितास्तु बलाः ।
“रलः” च ॥१८॥

१९. ते मान्ताः पञ्च पञ्च विष्णुवर्गाः ।

ते ककारादयो मकारान्ता वर्णाः पञ्च पञ्च विष्णुवर्गा भवन्ति । एते “वर्गाः” च । क ख ग घ ङ इति कवर्गः । एवं चवर्गः, टवर्गः, तवर्गः, पवर्गश्च । एते
कुचुटुतुपुनामानश्च । “स्पर्शाः” तु सर्व एव ॥१९॥

२०. ञवर्जितास्तु विष्णुगणाः ।

“मयः” च । तत्र समानवर्गः, “सवर्गः” उच्यते । “सवर्णः” ॥२०॥

२१. कचटतपा हरिकमलानि ।

“प्रथमाः”, “चपः” च ॥२१॥

२२. खछठथफा हरिखड्गाः ।

“द्वितीयाः”, “छफः” च ॥२२॥

२३. गजडदबा हरिगदाः ।

“तृतीयाः”, “जबः” च ॥२३॥

२४. घझढधभा हरिघोषाः ।

“चतुर्थाः”‚ “झभः” च ॥२४॥

२५. ङञणनमा हरिवेणवः ।

“पञ्चमाः”, “अनुनासिकाः”, “ञमः” च ॥२५॥

२६. त एतद्वर्जिता विष्णुदासाः ।

हरिवेणुवर्जिता विष्णुवर्गा विष्णुदासनामानः । क ख ग घ, च छ ज झ, ट ठ ड ढ, त थ द ध, प फ ब भ । एते “झपः” च ॥२६॥

२७. यरलवा हरिमित्राणि ।

“अन्तःस्थाः”, “षणः” च । एते सविष्णुचापा निर्विष्णुचापाश्च ॥२७॥

२८. शषसहा हरिगोत्राणि ।

“उष्मानः”, “षिटः”, “शलः” च ॥२८॥

२९. शषसाः शौरयः ।

“शरः” च ॥२९॥

३०. विष्णुदासहरिगोत्राणि वैष्णवाः ।

एतानि वैष्णवनामानि—क ख ग घ । च छ ज झ । ट ठ ड ढ । त थ द ध । प फ ब भ । श ष स ह । एते “धुटः” “झलः” च ॥३०॥

३१. हरिगदाहरिघोषहरिवेणुहरिमित्राणि हश्च गोपालाः ।

एते गोपालनामानः—ग घ ङ, ज झ ञ, ड ढ ण, द ध न, ब भ म, य र ल व ह । एते “घोषवन्तः” “हशः” च ॥३१॥

३२. यादवा अन्ये ।

गोपालेभ्योऽन्ये विष्णुजनाः यादवनामानः—क ख च छ ट ठ त थ प फ श ष स । एते “अघोषाः”, “खरः” च ॥३२॥

३३. शौरिवर्जितास्तु सात्वताः ।

शौरिवर्जितास्तु यादवाः सात्वतनामानः । “खपः” च ॥३३॥

३४. अस्पर्शी प्रयत्नः सर्वेश्वराणां,
स्पर्शी विष्णुवर्गाणां, ईषत्स्पर्शी हरिमित्राणाम् ।*

३५. रादनुस्वाराच्च परं यवाभ्यां तु पूर्वं
विना यरामस्य पुनरविष्णुपदादावीषत्स्पर्शितरम् ।*

३६. उपेन्द्रात्क्वचित्विष्णुपदादौ च ।

उपेन्द्रसंज्ञा (आ.प्र. ४२), विष्णुपदसंज्ञा (वि.प्र. ७) च वक्ष्येते । त्रिविक्रममहापुरुषहरिगोत्राणां विवृतश्चेति ज्ञेयम् । तत्र रातिति क्रमेण दर्श्यते—अर्यमा, यंयम्यते, अय्यते, वाय्वग्नी, नारायणाय, नियमः, प्रयुङ्क्ते । अत्र पञ्चमषष्ठे एवोदाहरणे, अन्यानि तु प्रत्युदाहरणानि ॥३४३६॥

३७. वर्णस्वरूपे रामः ।

वर्णस्य स्वरूपमात्रे वाच्ये रामशब्दो देयः, तस्यैकपरिग्रहताख्यातेः, यथा अरामः, इराम इत्यादि । “अत्”, “इत्” इत्यादि च पानिनेः । अकार इत्यादि च कलापस्य । यथा च कराम इत्यादि । ककार इत्यादि तु प्राचाम् । ररामस्तु “रेफ” इति ॥३४॥

३८. तदादिद्वये द्वयम् ।

यो वर्णो निर्दिश्यते, तदादिद्वये वाच्ये द्वयशब्दो देयः । यथा, अद्वयं, इद्वयमिआत्म । अस्य लक्ष्मीनारायणवाचित्वाद्भगवन्नामता । तन्मन्त्रो हि “द्वय”मन्त्राख्यः पद्मपुराणे । “अवर्ण” इत्यादि च प्राचाम्, “अकार” इत्यादि च पाणिनेः ॥३५॥

३९. आदेशो विरिञ्चिः ।

विरिञ्चिर्ब्रह्मा यथैकं वस्तूपादाय अन्यत्करोति, तथा यो विधिः प्रवर्तते, स आदेशो विरिञ्चिः चोच्यते ॥३९॥

४०. आगमो विष्णुः ।

विष्णुर्यथा मध्यतः स्वयमाविर्भूय पोषको भवति, तथा यो विधिः प्रवर्तते, स आगमः विष्णुश्चोच्यते ॥४०॥

४१. लोपो हरः ।

हरो यथा नाशहेतुर्भवति, तथा यो विधिः प्रवर्तते, स “लोपः” हरश्चोच्यते । तत्र हरो द्विधा भवेत्—तत्रादर्शनमात्रहेतुर्हरः । आत्यन्तिकलयहेतुर्“महाहरः” । “लुक्” इत्यन्ये ॥४१॥

४२. सूत्राणि षड्विधानि ।

संज्ञा च परिभाषा च विधिर्नियम एव च ।
अतिदेशोऽधिकारश् च षड्विधं सूत्रलक्षणम् ॥ इति ॥

प्रतिषेधोऽधिकारश्च इति केचित्पठन्ति च । अत्र नामकरणं संज्ञा, यथा—तत्रादौ चतुर्दश सर्वेश्वराः (स.प्र. २) इत्यादि । अन्यानि वक्ष्यन्ते ॥४२॥

४३. असिद्धरूपं न त्याज्यं, प्रतिज्ञेयं कृदन्तिका ।

अत्र व्याकरणे त्वन्यत्रैवासिद्धरूपं मध्ये मध्ये न त्यज्यते । तत्तच्च कृत्पर्यन्तं ज्ञेयम् । न समासतद्धितयोरित्यर्थः । दर्शनीयस्त्वग्रे ॥४३॥

॥ इति संज्ञादि ॥

सन्धिप्रकरणम्स्थूलाक्षरैः युक्तः भागः

सर्वेश्वरसन्धिः

सम्पाद्यताम्

यदिदं सन्धिनिर्माणं वर्णानामारभे मुदा ।
तेन मे कृष्णपादाब्जे मनःसन्धिर्विधीयताम् ॥

सन्धिरेकपदे नित्यं नित्यं धातूपसर्गयोः ।
अनित्यं सूत्रनिर्देशेऽन्यत्र चानित्यमिष्यते ॥

परिभाषेयम् । सा चानियमे नियमकारिणी ।

४४. सर्वप्रकरणव्यापी वर्णमात्रनिमित्तकः ।
वर्णो विकारः सन्धिः स्याद्विषयापेक्षकः क्वचित॥

किं च,

४५. अचो ये हलि संलग्नास्ते सर्वे परतो मताः ।
हल्च तत्स्यादरामान्तं यत्र नान्याच्न चाङ्घ्रिभित॥

ततश्च कृष्ण + अग्रे इति स्थिते, कार्यार्थमक्षरं विश्लेषयेन्मेलयेच्च इति न्यायेन अरामविश्लेषः, कृष्ण् + अ + अग्रे । ततश्च ॥४४॥

४६. दशावतार एकात्मके मिलित्वा त्रिविक्रमः ।

दशावतारनामा वर्ण एकात्मके वर्णे परे सति, तेन मिलित्वा त्रिविक्रमो भवति । ततश्च आरामस्य पुनर्मिलनं = कृष्णाग्रे । एवं राधा + आगता = राधागता । हरि + इति = हरीति । हरि + ईहा = हरीहा । विष्णु + उदयः = विष्णूदयः । विष्णु + ऊढा = विष्णूढा । नरभ्रातृ + ऋषिः = भ्रात्èषिः । गम्ÿ + ÿकारः = गम्ÿÿकारः ॥४६॥

४७. ऋद्वयÿद्वयोरेकात्मकत्वं वाच्यम् ।

ऋÿद्वयं ऋद्वयम् । ÿऋद्वयं ÿद्वयमित्यादि । ईदृशो विधिर्विरिञ्चिः—कर्तव्यत्वेनोपदेशो विधिः ॥४७॥

४८. अद्वयमिद्वये ए ।

ऽ इति द्वयम्, इई इति द्वये परे तेन मिलित्वा एरामो भवति । यादव + इन्द्रः = यादवेन्द्रः, गोकुल + ईशः = गोकुलेशः, मथुरा + ईशः = मथुरेशः ॥४१॥

४९. प्रादेषैष्ययोर्वा तथा ।

प्रातुत्तरस्मातेषएष्ययोः परयोस्तथा सन्धिर्वा भवति । प्र + एषः = प्रेषः, प्र + एष्यः = प्रेष्यः । पक्षे, एद्वये ऐ, प्रैषः, प्रैष्यः ॥४९॥

५०. उद्वये ओ ।

अ आ इति द्वयमु ऊ इति द्वये परे मिलित्वा ओरामो भवति । अद्वयमत्र पूर्वतोऽनुवर्तते । यदुक्तं—

कार्यिणा हन्यते कार्यी कार्यात्कार्येण हन्यते ।
निमित्तं च निमित्तेन यच्छेषमनुवर्तते ॥ इति ।

पुरुष + उत्तमः = पुरुषोत्तमः, सुपर्ण + ऊढः = सुपर्णोढः, द्वारका + उत्सवः = द्वारकोत्सवः ॥५०॥

५१. ओमि च तथा ।

कृष्ण + ओं = कृष्णोम् ॥५१॥

५२. ऋद्वये अर।

अ आ इति द्वयम्, ऋ è इति द्वये परे मिलित्वा अर्भवति । कृष्ण + ऋद्धिः = कृष्णर्द्धिः ॥५२॥

५३. ÿद्वये अल।

अ आ इति द्वयम्, ÿ ÿÿ इति द्वये परे मिलित्वा अल्भवति । यमुना + ÿकारायते = यमुनल्कारायते ॥५३॥

५४. पुनरद्वयसन्धौ आङादेशः परनिमित्तवद्वक्तव्यः ।

अतिदेशोऽयं—अन्यतुल्यत्वविधानमतिदेशः । अत्रारामस्य ङित्त्वं क्रियायोगे इति वक्ष्यते (स.प्र. ७०) । आ + इहि = एहि, कृष्ण + एहि = कृष्णेहि । आ + ऊढा = ओढा । कृष्ण + ऊढा = कृष्णोढा । आ + ऋद्धिः = अर्द्धिः । कृष्ण + अर्द्धिः = कृष्णर्द्धिः । आ + ÿकारायते = अल्कारायते । यमुना + अल्कारायते = यमुनल्कारायते ॥५४॥

५५. एद्वये ऐ ।

ऽ इति द्वयमे अईति द्वये परे मिलित्वा ऐरामो भवति । कृष्ण + एकनाथः = कृष्णैकनाथः । कृष्ण + ऐश्वर्यं = कृष्णैश्वर्यम् ।

५६. स्वादीरेरिणोश्च तथा ।

स्व + ईरं = स्वैरम् । स्व + ईरी = स्वैरी, स्वैरिणी च । नाम्नो ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायात॥५६॥

५७. ओद्वये औ ।

ऽ इति द्वयमो औ इति द्वये परे मिलित्वा औरामो भवति । कृष्ण + ओदनं = कृष्णौदनम्; कृष्ण + औन्नत्यं = कृष्णौन्नत्यम् ॥५७॥

५८. प्रादूढोढ्योश्च तथा ।

प्र + ऊढः = प्रौढः, प्र + ऊढिः = प्रौढिः, ऊहमिति केचित्पठन्ति—प्रौहः । नेह प्रौढवान्, अर्थवद्ग्रहणेऽनर्थकस्य न ग्रहणमिति न्यायात॥५८॥

५९. इद्वयमेव यः सर्वेश्वरे ।

इ ई इति द्वयमेव सर्वेश्वरे परे यरामो भवति, न तु मिलित्वा । य इत्यत्र अराम उच्चारणार्थः । एवमन्यत्रापि । हरि + अर्चनं = हर्यर्चनम् । हरि + आसनं = हर्यासनम् । दधि + उपेन्द्रस्य = दध्युपेन्द्रस्य । रुक्मिणी + एषा = रुक्मिण्येषा ।

द्वित्वप्रकरणे एतावतैव सिद्धिः । विकल्पेन तु महान्तराणि वक्ष्यन्ते । तस्मादसिद्धरूपं न त्याज्यं (स.प्र. ४३) इति प्रतिज्ञा नात्र व्यभिचरति ।

कथं हरिहरीति ? हरिहरीति एकात्मकतामवलम्ब्य त्रिविक्रमविधेर्विशेषत्वेन बलवत्त्वात। तथा हि—समस्तव्यापि सामान्यम्, एकदेशव्यापि विशेषः । सामान्यविधिः उत्सर्गः । विशेषविधिः अपवादः इति स्थिते पूर्वपरयोः परविधिर्बलवान्, नित्यानित्ययोर्नित्यः, अन्तरङ्गबहिरङ्गयोरन्तरङ्गः, उत्सर्गापवादयोरपवादः । तेषु चोत्तरोत्तर इति । दशावतारे सामान्यत्वं चेत्तत्राद्वयमित्येव क्रियेत, विष्णुद्वय इत्यादावपि परपरसूत्रप्राप्तेः । तदेवमेते चान्ये च न्याया युक्त्या प्रसिद्ध्या च स्वीकृतत्वात्पूर्वमुत्तरं च ग्रन्थं व्याप्तुरस्ति ॥५९॥

६०. उद्वयं वः ।

उ ऊ इति द्वयमेव सर्वेश्वरे परे वरामो भवति । मधु + अरिः = मध्वरिः, विष्णु + आश्रितः = विष्ण्वाश्रितः ॥६०॥
६१. ऋद्वयं रः ।

ऋ è इति द्वयमेव सर्वेश्वरे परे ररामो भवति । रामभ्रातृ + उदयः = रामभ्रात्रुदयः, रामभ्रातृ + ऐश्वर्यं = रामभ्रात्रैश्वर्यम् ॥६१॥

६२. ÿद्वयं लः ।

ÿ ÿÿ इति द्वयमेव सर्वेश्वरे परे लरामो भवति । शक्ÿ + अर्थः = शक्लर्थः । श्रीपतेरेव । व्याडिगालवयोर्मतेन मध्ये एव यवरला भवन्ति—हरियर्चनं, मधुवरिः, भुवादीत्यादि ॥५०॥

६३. ए अय।

एरामो अय्भवति, सर्वेश्वरे परे—कृष्णे + उत्कर्षः = कृष्णयुत्कर्षः ॥६३॥

६४. ऐ आय।

ऐरामो आय्भवति, सर्वेश्वरे परे—यमुनायै + अर्घः = यमुनायायर्घः । गोप्यै + आसनं = गोप्यायासनम् ॥६४॥

६५. ओ अव।

ओरामो अव्भवति, सर्वेश्वरे परे—विष्णो + इह = विष्णविह ॥६५॥

६६. औ आव।

औरामो आव्भवति, सर्वेश्वरे परे—कृष्णौ + अत्र = कृष्णावत्र ॥६६॥
 
६७. एओभ्यामस्य हरो विष्णुपदान्ते ।

एओरामाभ्यां विष्णुपदान्ते स्थिताभ्यां परस्य अरामस्य हरो भवति, हरे + अत्र = हरेऽत्र, विष्णो + अत्र = विष्णोऽत्र ॥६७॥

६८. अयादीनां यवयोर्वा ।

अयायवावित्येषां विरिञ्चीनां यवयोर्वा हरो भवति विष्णुपदान्ते विषये, कृष्णयुत्कर्षः = कृष्ण उत्कर्षः । यमुनायायर्घः = यमुनाया अर्घः, गोप्यायासनं = गोप्या आसनम्, विष्णविह = विष्ण इह, कृष्णावत्र = कृष्णा अत्र । यवाविमावीषत्स्पर्शिनावीषत्स्पर्शितरौ च मतौ ॥६८॥

६९. तेषां न सन्धिर्नित्यम् ।

तेषां यवलोपिनां नित्यं सन्धिर्न भवति । प्रतिषेधोऽयम् । कृष्ण उत्कर्षः, यमुनायर्घÿह्, गोप्यासनम्, विष्ण इह इत्यादि ॥६९॥

७०. ओरामान्तानामनन्तानां चाव्ययानां सर्वेश्वरे ।

ओरामान्तानामनन्तानां केवलानामव्ययानां सर्वेश्वरे परे सति पूर्वस्य च परस्य च सन्धिर्न भवति—नो उपेन्द्रः । नो अच्युतः । कथं तद्धिते विप्रत्ययान्तस्य गोशब्दस्याव्ययत्वे सति गोऽभवतिति ? गोऽभवतित्यत्र लाक्षणिकप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति न्यायेन स्यात।

अरामादयः सम्बोधनादौ । तत्र सम्बोधने—अ अनन्त ! स्मरणे आ एवमच्युतलीला ! भर्त्सने—इ अच्युतं न भजसि । वाक्पूरणे—ई ईदृशः संसारः । आमन्त्रणे—उ अच्युत ! प्रतिषेधे—उ उपसन्नं मां त्यजसि । आङस्तु सन्धिर्भवत्येव—आ अनन्तं = आनन्तम् । अनन्तमर्यादां कृत्वेत्यर्थः ।

ईषदर्थे क्रियायोगे व्याप्तिमर्यादयोश्च यः ।
एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित॥ इति ॥७०॥

७१. ईदूदेतां द्विवचनस्य मणीवादिवर्जम् ।

द्विवचनस्थानीयानामीऊएरामाणां सम्बन्धे सर्वेश्वरे परे सन्धिर्न भवति । हरी अत्र । विष्णू अत्र । अमू अत्र । गङ्गे अत्र । भजेते अजितम् । अमूके अत्र स्तः । चान्द्रास्त्वत्र सन्धिमिच्छन्ति—अमूकेऽत्र स्तः । मणीवादौ तु सन्धिर्भवत्येव, विकल्प इत्येके—मणी इव = मणीव । एवं दम्पती + इव = दम्पतीव । रोदसी + इव = रोदसीव । जम्पती + इव = जम्पतीव ॥७१॥

७२. अदसोऽमीत्यस्य ।

अदस्शब्दसम्बन्धिनः अमी इत्यस्य पदस्य सर्वेश्वरे परे सन्धिर्न भवति—अमी अच्युतप्रियाः । अमी इति किं ? अमूकेऽत्र स्युः । ओरामान्ताद्या असन्धयः पाणिनीयानां प्रगृह्यसंज्ञाः ॥७२॥

७३. महापुरुषस्य च ।

महापुरुषस्य च सम्बन्धे सर्वेश्वरे परे सन्धिर्न भवति ॥७३॥

७४. दूराह्वानादावन्त्यसर्वेश्वरस्य महापुरुषत्वं मतम् ।

आगच्छ हरे३ आगच्छ । तिष्ठ हरे३, अत्र तिष्ठ । सर्वेश्वरे परे निषेधादत्र तु सन्धिः । गच्छ आ३च्युतदत्त, गच्छा३च्युतदत्त ! आदि महापुरुषमिदं सम्बोधनम् । तथा हि तत्सूत्राणि दूराह्वानादौ यत्नविशेषे वाक्यस्यान्ते सम्बोधनपदस्य संसारो महापुरुषः । क्रिय्नयावच्छिन्नः पदसमूहो वाक्यम् ॥७४॥

७५. अन्त्यसर्वेश्वरादिवर्णाः संसारसंज्ञाः ।

“टि”संज्ञाश्च । आगच्छ हरे३, तिष्ठ हरे३ । आदिपदेन गाने रोदने विचारे च इति सारस्वतादयः । सम्बोधनमात्रे च इति काशिका । कृष्णं भजस्व वैष्णवा३ ! वाक्यस्यान्ते एव, न त्विह—हरे आगच्छ । कृष्णा३ एहीति प्रक्रियाकौमुद्यां [पा. ६.१.१२५] भ्रमः ।

सारस्वतप्रक्रियायां भ्रमा ये सन्ति भूरयः ।
लिखितुं ते न शक्यन्ते ज्ञेयास्त्वस्यानुसारतः ॥

सर्वेषाममतं यत्स्यात्स भ्रमः परिचीयते ।
बहूनाममतं यत्तत्केषांचिन्मतमिष्यते ॥७५॥

७६. हैहेप्रयोगे तु हैहयोरेवानन्त्ययोरपि ।

है३ कृष्ण ! हे३ कृष्ण ! कृष्ण है३ ! कृष्ण हे३ ॥७६॥

७७. प्रत्यभिवादवाक्ये संसारः, न तु स्त्रीशूद्रविषये ।

अभिवादये विष्णुमित्रोऽहमित्यनन्तरं गुरुराह—आयुष्मानेधि विष्णुमित्रा३ ॥७७॥

पूर्वोक्तविधीनां स्थानविशेषमाह—

७८. गुरोरनृतोऽनन्तस्याप्येकैकस्य प्राचाम् ।

ऋरामवर्जितस्य गुरोरनन्तस्यापि वर्णस्य यः संसारस्तस्यैककस्य सम्बोधने महापुरुषः स्यात। प्राचामाचार्याणां मते, न त्वन्येषाम् ॥७८॥

७९. वामनो लघुः ।

८०. त्रिविक्रमो गुरुः ।

८१. सत्सङ्गात्पूर्वो वामनोऽपि गुरुः ।

८२. मिथः संलग्नो विष्णुजनः सत्सङ्गसंज्ञः ।

“संयोगः” च । वी३ष्णुमित्र विष्णूतृतीयित्र । मतान्तरे विष्णुमित्रा३ इत्येव । अनृतः किं ? कृष्णमी३त्र । कृष्णमित्रा३ । आगच्छ इति सर्वस्यादौ योज्यम् । वाक्याधिकारात॥८२॥

८३. पृष्टप्रतिवचने हेर्वा ।

अकार्षीर्मालां विष्णुमित्र ? अकार्षं ही३, अकार्षं हि ॥८३॥

८४. आक्षेपगर्भे निगृहीतपरमतस्यानुवादे वाक्यस्य संसारो वा ।

अनित्या हरिभक्तिः इत्यात्था३ ? पक्षे तु न ॥८४॥

८५. आम्रेडितस्य संसारो भर्त्सने पर्यायेण ।

अवैष्णवा३, अवैष्णव, अवैष्णव, अवैष्णवा३ ॥८५॥

८६. अङ्गेत्यनेन युक्तस्याख्यातस्य संसारो भर्त्सने साकाङ्क्षता चेत।

हरिं विनाङ्ग प्रीणीही३, इदानीं दुःखमाप्स्यसि । इदानीमित्यादिराकाङ्क्षा । एतां विना तु न स्यात।

८७. विचारे पूर्ववाक्यस्य संसारः ।

तमालो नु३, कृष्णो नु ॥८७॥

८८. प्रतिश्रवणे च संसारः ।

प्रतिश्रवणमभ्युपगमः, प्रतिज्ञानं, श्रवणाभिमुख्यं च । हरिमन्त्रं देहि । हरिमन्त्रं ददामी३ । हरिभक्तिर्नित्या भवितुमर्हती३ । विष्णुमित्र भोः ! किमात्था३ ? एवमन्येऽपि ज्ञेयाः । विचारप्रश्नपूजासु चतुर्व्यूहस्य वक्ष्यते ॥८८॥

८९. पूर्वार्धस्य त्वरामः स्यादिदुतावुत्तरस्य हि ।
विभक्तावयवात्तस्माच्छरामो द्विर्भवत्युत ॥

हरा३ इच्छत्रमेतत्ते ? पटा३ उच्छत्रमित्यपि ॥८९॥

९०. ओरामस्य बुद्धनिमित्तस्येतौ सन्धिर्वा ।

बुद्धनिमित्तको य ओरामस्तस्य सन्धिर्वा स्यात। इतिशब्दे परे । बुद्धसंज्ञा वक्ष्यते (वि.प्र. २४) । विष्णो इति विष्णविति वा । बुद्धनिमित्तस्य इति किं ? गवित्ययमाह—अत्रानुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादसत्यर्थवत्त्वे विष्णुभक्तिर्नोपपद्यते । विष्णुभक्ति (वि.प्र १) संज्ञा च वक्ष्यते ॥९०॥

९१. ईशस्यानेकात्मके वामनश्च ।

ईशसंज्ञस्य एकात्मकान्यसर्वेश्वरे परे सन्धिर्वा स्यात्, त्रिविक्रमस्य वामनश्च वा, हरि आसनं, रुक्मिणि एषा, रुक्मिणी एषा इति च । अन्यत्र चानित्यमिष्यते इति मध्ये विलम्बोच्चारणे सन्धिर्न स्यादित्यर्थः । सूत्रेषु संहितासंज्ञेषु शीघ्रोच्चारणेऽपि विकल्प्यते ॥९१॥

९२. ऋद्वयाद्वययोरृति ।

अनयोरृति परे सन्धिर्वा स्यात्, त्रिविक्रमस्य वामनश्च वा—स्रष्टृऋषभः, यादवऋषभः । हिमऋतावपि ताः स्म भृशस्विदः इति माघः (६.६१) । मालाऋषभस्य, मालऋषभस्य इति च । पक्षे यथाप्राप्तं हर्यासनमित्यादि ॥९२॥

९३. न नित्यसमासे न चाविष्णुपदान्ते निषेधवामनौ ।

हर्यर्थं, कुमार्यौ ॥९३॥

९४. उञः सन्ध्यभावः, ऊं वश्चेतौ ।

९५. विष्णुगणाद्वो वा सर्वेश्वरे ।

उ इति ऊ इति विति । किमु उक्तं किमूक्तम् । किमु इति, किम्वितीत्यपि बोद्धव्यम् । विष्णुगणातिति किं ? नञूक्तम् । अद्येव हलीषा प्रार्च्छति ऋणार्णम्, सोऽग्रम्, गवेन्द्र इत्यादयस्ताख्यातसमासयोर्वक्ष्यन्ते, दुर्गमत्वात॥९४९५॥

॥ इति सर्वेश्वरसन्धिः ॥

अथ विष्णुजनसन्धिः

सम्पाद्यताम्

९६. विष्णुदासो विष्णुपदान्ते हरिघोषे च हरिगदा ।

विष्णुपदान्ते विषये, हरिघोषे च परे सति अविष्णुपदान्ते च, विष्णुदासनामा वर्णः सवर्गतृतीयः स्यात्, “स्थाने सदृशतमः“ इति न्यायेन—वाक्+ अच्युतस्य = वागच्युतस्य, वाक्+ गोविन्दस्य = गोविन्दस्य; षट्+ गोपिकाः = षड्गोपिकाः; भगवत्+ इच्छा = भगवदिच्छा; ककुभ्+ विष्णोः = ककुब्विष्णोः । विष्णुपदान्तादन्यत्र (चतुर्थ्यां) कंसजित्+ ए = कंसजिते ॥६१॥

९७. हरिवेणौ हरिवेणुर्वा ।

विष्णुपदान्ते वर्तमानो विष्णुदासो हरिवेणौ परे हरिवेणुर्वा स्यात। स च #निवर्गपञ्चमः—जगत्+ नाथः = जगन्नाथः; जगद्नाथः । कृष्णगुप्+ ञुङुरे = कृष्णगुम्ञुङुरे ॥९७॥

९८. यादवमात्रे हरिकमलम् ।

विष्णुदासो यादवे परे तद्वर्गप्रथमः स्यात्—वाक्+ कृष्णस्य = वाक्कृष्णस्य । अत्र विष्णुपदान्ते हरिगदाबाधनार्थमिदं सूत्रम् । मात्रग्रहणादविष्णुपदान्ते च । उदाहरणस्त्वग्रे ॥६३॥

९९. ततः शश्छो वा ।

विष्णुदासात्परः शरामश्छरामो वा स्यात् । सुवाक्शौरिः, सुवाक्छौरिर्वा । अप्शायी अप्छायी ॥६४॥

१००. न श्च्युतेरिति वाच्यम् ।

वाक्श्चोतति ॥१००॥

१०१. हो हरिघोषः ।

विष्णुदासात्परो हरामस्तद्वर्गचतुर्थवर्णो वा स्यात्—वाक्+ हरेः = वाग्घरेः । अच्+ हलौ = अज्झलौ, अझलौ । षट्+ हरेः = षड्ढरेः, षदरेः । तत्+ हलिनः = तद्धलिनः तद्हलिनः । ककुभ्+ हरस्य = ककुब्भरस्य, ककुभरस्य ॥१०१॥

१०२. दतौ प्रवर्णौ‚ लचटवर्गेषु नित्यम् ।

दरामस्तरामश्च ले परे । चवर्गे टवर्गे च परे । परो यो वर्णः, स एव नित्यं स्यात्—तद्+ लक्ष्मीपतेः = तल्लक्ष्मीपतेः । तत्+ चतुर्भुजस्य = तच्चतुर्भुजस्य । कंसजित्+ छादयति (यादवमात्रे, सं.प्र. ९८ इत्यादिना) = कंसजिच्छादयति । तत्जनार्दनस्य = तज्जनार्दनस्य । कंसजित्+ झङ्कारः = कंसजिझ्झङ्कारः, (विष्णुदासो, सं.प्र. ९६ इत्यादिना) कंसजिज्झङ्कारः । तद्ञरामः, तञ्ञरामः वा । तन्मते पूर्वत्रासिद्धं [पा. ८.२.१] इति न्यायेन तद्वर्गतृतीयस्यैव स्थितिरिति । एवं परामेऽपि । कंसजित्+ टीकते = कंसजिट्टीकत । कंसजित्+ ढौकते = कंसजिड्ढौकते ॥६६॥

१०३. तश्च शे ।

तरामः शरामे परे चरामः स्यात्—तत्+ शौरेः = तच्शौरेः । पक्षे छत्वम्—तच्छौरेः ॥६७॥

१०४. नोऽन्तश्चछयोः शरामः,
विष्णुचक्रपूर्वो विष्णुचापपूर्वो वा ।

नरामो विष्णुपदान्तश्चछयोः परयोः शरामः स्यात। स च विष्णुचक्रपूर्वो विष्णुचापपूर्वो वा—भगवान्+ चलति = भगवांश्चलति । भगवाঁश्चलति, भगवान्+ छादयति = भगवांश्छादयति, भगवाঁश्छादयति ॥१०४॥

१०५. टठयोः षरामः ।

नरामो विष्णुपदान्तष्टठयोः परयोः षरामः स्यात। स च विष्णुचक्रपूर्वो विष्णुचापपूर्वो वा—भगवान्+ टीकते = भगवांष्टीकते, भगवाঁष्टीकते । भगवान्+ ठक्कुरः = भगवांष्ठक्कुरः, भगवाঁष्ठक्कुरः ॥१०५॥

१०६. तथयोः सरामः ।

नरामो विष्णुपदान्तस्तथयोः परयोः षरामः स्यात। स च विष्णुचक्रपूर्वो विष्णुचापपूर्वो वा—भगवान्+ तरति = भगवांस्तरति, भगवाঁस्तरति । भगवान्+ थूत्करोति = भगवांस्थूत्करोति, भगवाঁस्थूत्करोति ॥१०६॥

१०७. न त्से ।

त्से परे नरामो विष्णुपदान्तो विष्णुचक्रपूर्वो विष्णुचापपूर्वो वा सरामो न स्यात्, भगवान्त्सरुः । कान्कानित्यत्र कांस्कानिति वाच्यं वा ॥१०७॥

१०८. प्रशानो नस्य चादौ हरिवेणुः ।

विष्णुपदान्तस्य प्रशानो नरामस्य चछटठतथेषु परेषु परवर्णानुरूपो हरिवेणुर्भवति—प्रशान्+ चतुर्भुजः = प्रशाञ्चतुर्भुजः । प्रशान्+ छादयति = प्रशाञ्छादयति । प्रशान्+ टीकते = प्रशाण्टीकते । प्रशान्+ ठक्कुरः = प्रशाण्ठक्कुरः । प्रशान्+ तरति = प्रशान्तरति ॥१०८॥

१०९. ले लराम एव ।

नरामो विष्णुपदान्तो ले परे लरामः स्यात्—भगवान्+ लीलायते = भगवाঁल्लीलायते । अत्र स्थाने सदृशतमः इति न्यायेन सानुनासिक एव लरामः स्यात। अत्र यवला हि द्विविधा मताः । सानुनासिकाः, निरनुनासिकाश्च ॥१०९॥

११०. डढणेषु णरामः ।

नरामो विष्णुपदान्तो डढणेषु परेषु णरामः स्यात्—गरुत्मन्+ डयसे = गरुत्मण्डयसे । चक्रिन्+ ढौकसे = चक्रिण्ढौकसे । शार्ङ्गिन्+ णंकुरु = शार्ङ्गिण्णंकुरु ॥११०॥

१११. जझञशरामेषु ञरामः ।

नरामो विष्णुपदान्तो जझञशरामेषु ञरामः स्यात। भगवान्+ जयति = भगवाञ्जयति । भगवान्+ झषरूपी = भगवाञ्झषरूपी । भगवान्+ ञुङुवे = भगवाञ्ञुङुवे । भगवान्+ शूरः = भगवाञ् शूरः । छत्वे भगवाञ्छूरः ॥१११॥

११२. शे चान्तो वा ।

नरामो विष्णुपदान्तः शरामे परे चरामान्तो ञरामः स्याद्वा—भगवान्+ शूरः = भगवाञ्च्शूरः, भगवाञ्शूरः, छत्वे भगवाञ्च्छूरः ॥११२॥

११३. मो विष्णुचक्रं विष्णुजने ।

मरामो विष्णुपदान्तो विष्णुजने परे विष्णुचक्रं स्यात्—कृष्णं स्मरति = विष्णुचक्रस्य पूर्वोर्धगामित्वं लोकात्, कृष्णं स्मरति । विष्णुजनादन्यत्र तु न—कृष्णं + इच्छ = कृष्णमिच्छ । कथं किम्बुक्तं कृष्णगुम्ञुङुवे ? असिद्धरूपं न त्याज्यमिति प्रतिज्ञासिद्ध्यर्थमिदं तत्रैव कर्तुं योग्यमपि यन्न कृतम् । तस्मात्तत्राकरणान्न विष्णुचक्रमिति ॥११३॥

११४. विष्णुचक्रस्य हरिवेणुर्विष्णुवर्गे विष्णुपदान्तस्य तु वा ।

विष्णुचक्रस्य परवर्णानुरूपो हरिवेणुः स्यात्, विष्णुवर्गे परे; विष्णुपदान्तस्य तु विकल्पः । अविष्णुपदान्तोदाहरणं वक्ष्यते (आ.प्र. गन्ता मन्ता इत्यादौ) । कृष्णं कीर्तयति, कृष्णङ्कीर्तयति वा । कृष्णं भजति, कृष्णम्भजति वा । संसारं तरति, संसारन्तरति वा । अत्र तथयोः सरामनिषेधो वक्तव्यः । विष्णुवर्गे इति किं ? संवत्सरः ॥११४॥

११५. यवलेषु सविष्णुचापपररूपं च मन्यन्ते ॥

सঁवत्सरः, षঁष्यम्यते, सঁल्लुनाति ॥११५॥

११६. द्विः सर्वेश्वरमात्राच्छः ।

अविष्णुपदान्तादपि सर्वेश्वरात्परश्छरामो द्विर्भवति—कृष्ण + छत्रं = कृष्णच्छत्रम् ॥११६॥

११७. विष्णुपदान्तात्त्रिविक्रमाद्वा ।

विष्णुपदान्तात्त्रिविक्रमात्परश्छरामो द्विर्वा भवति—यमुनाछाया, यमुनाच्छाया वा ॥११७॥
११८. आङ्माङ्भ्यां नित्यम् ।

आङ्माङ्भ्यां परश्छरामो नित्यं द्विर्भवति । ङरामस्याप्रयोगः—आच्छादयति, माच्छिदत॥११८॥

११९. वामनात्ङणना द्विः सर्वेश्वरे ।

वामनात्परा ङणना विष्णुपदान्ताः सर्वेश्वरे परे द्विः स्युः—पर्यङ्+ अनन्तः = पर्यङ्ङनन्तः, सुगण् + अनन्तः = सुगण्णनन्तः, कुर्वन्+ अस्ति = कुर्वन्नस्ति ॥११९॥

१२०. विष्णुजने विष्णुजनो वा, हरौ विना ।

वामनात्परो विष्णुजनो विष्णुजने परे द्विर्वा स्यात्, हरौ तु द्विर्न भवतः—
दध्युपेन्द्रस्य, दद्ध्युपेन्द्रस्य वा ॥१२०॥

१२१. हरिमित्राद्विष्णुगणो, विष्णुगणाद्धरिमित्रं, शौरितः सात्वतः, सात्वताच्छौरिर्द्विर्वा सर्वेश्वरे इति वाच्यम् ।

यमुनल्क्कारायते, दध्युपेन्द्रस्य, भगवांश्च्छादयति, सुवाक्श्शौरेः । अत्र छोऽपि न मन्यते । पक्षे पूर्ववत॥१२१॥

१२२. ररामात्सर्वेश्वरे तु हरिगोत्रं विना ।

ररामात्परो विष्णुजनो, विष्णुजने परे, द्विर्वा स्यात। सर्वेश्वरे परे तु हरिगोत्रं विना—हर्य्यासनं हर्यासनं वा । कार्ष्ष्णं कार्ष्णं वा ॥१२२॥

१२३. हाच्च सर्वेश्वरतः परादिति व्यक्तव्यम् ।

सर्वेश्वरतः परात्हादुत्तरो विष्णुजनो द्विर्वा स्यात्—ब्रह्मा ब्रह्म्मा वा । नेह—ह्नुते । सर्वेश्वरे तु इत्यादि किं ? परामर्शः, व्यर्थभानव्याः, अर्हति ॥१२३॥

१२४. हस्तु विष्णुजने च न ।

अर्ह्यते । विष्णुजने (सं.प्र. १२०) इत्यादौ द्वित्वप्रकरणे, सर्वत्र साकल्यस्य इति अद्वित्वपक्षानुल्लेखस्तस्यां प्रमादः ॥१२४॥

१२५. विष्णुजनाद्विष्णुदासस्यादर्शनं सवर्गे विष्णुदासे ।

विष्णुजनात्परस्य विष्णुदासस्यादर्शनं वा स्यात्, सवर्गे विष्णुदासे परे—भगवाञ्च्छूरः, भगवाञ्छूरो वा । अस्य पूर्वत्राकरणं, विकल्पेनावश्यकत्वाभावात॥१२५॥

१२६. अव्यक्तानुकरणशब्दानांअद्भागस्य हर इतौ, हरिगदानिषेधश्च ।

पटत्+ इति = पटिति । घटत्+ इति = घटिति ॥१२६॥

१२७. नैकसर्वेश्वरत्वे ।

स्रत्+ इति = स्रदिति ॥१२७॥

१२८. न द्विस्त्रिरुक्तावन्त्यस्य, तरामस्य तु वा ।

पटत्पटत्+ इति = पटत्पटदिति, पटत्पटेति वा । कथं बडभी वलभी, पर्यङ्कः पल्यङ्कः, रघुः लघुः, कपिरिका कपिलिका इत्यादि ? डलयो रलयोश्च प्राय एकत्वश्रवणात् ॥१२८॥

१२९. सरामे टनाभ्यं तुग्वेति वक्तव्यम् ।

षट्+ साधवः = षट्त्साधवः, भगवान्+ साधुः = भगवान्त्साधुः ॥१२९॥

१३०. शौरौ णङाभ्यां टकौ वेति वक्तव्यम् ।

सुगण् + शङ्करः = सुगण्ट्शङ्करः । प्राङ्+ स्वभूः = प्राङ्क्स्वभूः । प्राङ्+ षष्ठः = प्राङ्क्षष्ठः ॥१३०॥

॥ इति विष्णुजनसन्धिः ॥

अथ विष्णुसर्गसन्धिः

सम्पाद्यताम्

१३१. विष्णुसर्गो जिह्वामूलीयः कखयोर्वा ।

विष्णुसर्गः कखयोः परयोर्जिह्वामूलीयो वा स्यात। स च वज्राकृतिलेखो जिह्वामूलभवो वर्णविशेषः । अस्य विष्णुजनवत्परोर्ध्वगामित्वं, लोकात। एवमुपध्मानीयस्य च । कः कृष्णः । क  कृष्णः । कृष्णः खेलति, कृष्ण  खेलति ॥१३१॥

१३२. पफयोरुपध्मानीयः ।

विष्णुसर्गः पफयोर्परयोरुपध्मानीयो वा स्यात। स च गजकुम्भाकृतिलेख ओष्ठभवो वर्णविशेषः । कृष्णः परमः, कृष्ण ? परमः वा; कृष्णः फलं, कृष्ण ? फलं वा ॥१३२॥

१३३. न शौरिपरेषु तेषू ।

शौरिर्परेषु तेषु कखपफेषु परेषु विष्णुसर्गस्थाने जिह्वामूलीयादिर्न स्यात। कृष्णः क्षीरस्यति, कृष्णः प्साति । अत्र समासकार्ये षसौ च वक्ष्येते (समा.प्र. ३२५), यथा निष्कृष्णः, रक्षस्पाशः ॥१३३॥

१३४. चछयोः शरामः ।

विष्णुसर्गः चछयोः परयोः शरामः स्यात। कृष्णः + चरति = कृष्णश्चरति; कृष्णः + छादयति = कृष्णश्छादयति ॥१३४॥

१३५. टठयोः षरामः ।

विष्णुसर्गः टठयोः परयोः षरामः स्यात। कृष्णः + टीकते = कृष्णष्टीकते; कः + ठरामः = कष्ठरामः ॥१३५॥

१३६. तथयोः सरामः ।

विष्णुसर्गः तथयोः परयोः सरामः स्यात। कृष्णः + तरति = कृष्णस्तरति, कृष्णः + थूत्करोति = कृष्णस्थूत्करोति ॥१३६॥

१३७. न त्से ।

कः त्सरुः ॥१३७॥

१३८. शौरिषु शौरिर्वा ।

विष्णुसर्गः शौरिषु परेषु परो वा यो वर्णः स एव वा स्यात्— कृष्णः शरणम्, कृष्णश्शरणं वा । हरेः षण्डः, हरेष्षण्डो वा । हरेः सुरभिः, हरेस्सुरभिर्वा ॥१३६॥

१३९. सात्वतपरत्वे लोप्यश्च ।

सात्वतः परो येभ्यस्तेषु शौरिषु परेषु विष्णुसर्गः, पक्षे लोप्यश्च स्यात्—हरेः स्थलं = हरे स्थलं, हरेस्स्थलं वा ॥१३९॥

१४०. आदरामगोपालयोरुर्नित्यम् ।

अरामात्परो विष्णुसर्ग उरामः स्यात। अरामगोपालयोः परयोः—कृष्णः + अत्र = कृष्णोऽत्र, कृष्णः + गच्छति = कृष्णो गच्छति । अरामनिर्देशात्महापुरुषे तु न—आगच्छ तीर्थश्रवा३ अत्र । विष्णुसर्गलोपो वक्ष्यते ॥१४०॥

१४१. अद्वयभोभगोअघोभ्यो लोप्यः,
सर्वेश्वरे तु यश्च, न च लोप्ये सन्धिः ।

अ आ इति वर्णद्वयात्भोःभगोःअघोःशब्देभ्यश्च परो विष्णुसर्गो लोप्यः स्यात्,
सर्वेश्वरगोपालयोः परयोः । सर्वेश्वरे तु परे पक्षे यरामश्च स्यात। तस्मिन्लोप्ये सति पुनः सन्धिर्न स्यात्—कृष्णः + इह = कृष्ण इह, कृष्णयिह वा । कृष्णाः + अत्र = कृष्णा अत्र, कृष्णायत्र वा । भोः + अनन्त = भो अनन्त, भोयनन्त वा । भगोः + अनन्त = भगो अनन्त, भगोयनन्त वा । अघोः + अवैष्णव = अघो अवैष्णव, अघोयवैष्णव वा ।

अत्राद्वयात्पर ईषत्स्पर्शी, ईषत्स्पर्शितरश्चयरामो ज्ञेयः । ओरामात्परस्त्वीषत्स्पर्शितर एव । गोपाले न यरामः—कृष्णागच्छति, भो गोविन्द, भगो गोविन्द, अघो हरिविमुख । आदरामगोपालयोः इति विशेषविधानानाह—कृष्णोऽत्र कृष्णो गच्छति ।

सैष इति पादपूरणे । सः + एषः = स एषः ।
सैष दाशरथी रामः, सैष राजा युधिष्ठिरः ।
सैष कर्णो महात्यागी । सैष भीमो महाबलः ॥१४१॥

१४२. एषसपरो विष्णुजने ।

एतच्छब्दस्य एष इत्यस्मात्, तच्छब्दस्य स इत्यस्माच्च परो विष्णुसर्गो लोप्यः स्याद्विष्णुजने परे, एषः + कृष्णः = एष कृष्णः; सः + रामः = स रामः ॥१४२॥

१४३. न तु नञ्समासाकप्रत्यययोः ।

अनेषः कृष्णः, असो रामः, एषकः, कृष्णः, सको रामः । स इत्यस्य साहचर्यात् एषणमेष इत्यस्मान्न स्यात्—एषो भवति ॥१४३॥

१४४. र ईश्वरात्सर्वेश्वरगोपालयोः ।

ईश्वरात्परो विष्णुसर्गो ररामः स्यात। सर्वेश्वरगोपालयोः परयोः—हरेः + इदं = हरेरिदम्, हरिः + गच्छति = हरिर्गच्छति ॥१४४॥

१४५. अनीश्वरादपि ररामजः ।

स एव विष्णुसर्गो यदि ररामजातस्तदा ईश्वरादनीश्वरादपि च परो ररामः स्यात्, सर्वेश्वरगोपालयोः परयोः—प्रातः + अत्र = प्रातरत्र । गीः + मुकुन्दस्य = गीर्मुकुन्दस्य । भ्रातः + व्रजे = भ्रातर्व्रजे । भ्रातः + गोविन्दं पश्य = भ्रातर्गोविन्दं पश्य ॥१४५॥

१४६. अह्नो विष्णुसर्गस्य रो रात्रिरूपरथान्तरादन्येषु ।

रात्रिरूपरथान्तरादन्येषु परेषु अह्नो विष्णुसर्गस्य स्थाने रो भवति—अहः + अहः = अहरहः, अहः + गणः = अहर्गणः । सर्वेश्वरगोपालयोरेव । नेह—अहःपतिः । रात्रादौ तु न—अहोरात्रिः । एकदेशविकृतमनन्यवत्—अहोरात्रः । अहोरूपम् । अहोरथन्तरं साम ॥१४६॥

१४७. रो रे लोप्यः, पूर्वश्च त्रिविक्रमः ।

रो ररामे परे लोप्यः स्यात। ररामात्पूर्वो वामनश्च त्रिविक्रमः स्यात। भ्रातः + रामानुजं पश्य = भ्राता रामानुजं पश्य । हरिः + राधाप्रियः = हरी राधाप्रियः ॥१४७॥

॥ इति विष्णुसर्गसन्धिः ॥

इति श्रीश्रीसंक्षेपहरिनामामृताख्ये वैष्णवव्याकरणे संज्ञासन्धिप्रकरणं प्रथमं समाप्तम् ॥१॥