प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०८ हरिवंशपुराणम्
अध्यायः ०९
वेदव्यासः
अध्यायः १० →
वैवस्वत मनोः, यमयम्योः, अश्विनोः एवं शनैश्चरस्य उत्पत्तिः

नवमोऽध्यायः

वैशम्पायन उवाच
विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यामरिंदम ।
तस्य भार्याभवत् संज्ञा त्वाष्ट्री देवी विवस्वतः।। १ ।।
सुरेणुरिति विख्याता त्रिषु लोकेषु भाविनी ।
सा वै भार्या भगवती मार्तण्डस्य महात्मनः ।। २ ।।
भर्तृरूपेण नातुष्यद् रूपयौवनशालिनी ।
संज्ञा नाम सुतपसा दीप्तेनेह समन्विता ।। ३ ।।
आदित्यस्य हि तद्रूपं मण्डलस्य सुतेजसा ।
गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत् ।। ४ ।।
न खल्वयं मृतोऽण्डस्य इति स्नेहादभाषत ।
अज्ञानात् कश्यपस्तस्मान्मार्तण्ड इति चोच्यते।। ५ ।।
तेजस्त्वभ्यधिकं तात नित्यमेव विवस्वतः ।
येनातितापयामास त्रीँल्लोकान्कश्यपात्मजः।। ६ ।।
त्रीण्यपत्यानि कौरव्य संज्ञायां तपतां वरः ।
आदित्यो जनयामास कन्यां द्वौ च प्रजापती ।। ७ ।।
मनुर्वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः ।
यमश्च यमुना चैव यमजौ सम्बभूवतुः ।। ८ ।।
सा विवर्णं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ।
असहन्ती च स्वां छायां सवर्णा निर्ममे ततः ।। ९ ।।
मायामयी तु सा संज्ञा तस्याश्छाया समुत्थिता ।
प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां नरेश्वर ।। 1.9.१० ।।
उवाच किं मया कार्यं कथयस्व शुचिस्मिते ।
स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि।। ११ ।।
संज्ञोवाच
अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ।
त्वयेह भवने मह्यं वस्तव्यं निर्विकारया ।। १२ ।।
इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा ।
सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित्।। १३ ।।
छायोवाच
आ कचग्रहणाद् देवि आ शापान्नैव कर्हिचित्।
आख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम्।। १४ ।।
वैशम्पायन उवाच
समादिश्य सवर्णां तां तथेत्युक्ता च सा तया ।
त्वष्टुः समीपमगमद् व्रीडितेव तपस्विनी ।। १५ ।।
पितुः समीपगा सा तु पित्रा निर्भर्त्सिता तदा।
भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ।। १६ ।।
अगच्छद्वडवा भूत्वा ऽऽच्छाद्य रूपमनिन्दिता।
कुरूनथोत्तरान् गत्वा तृणान्येव चचार ह ।। १७ ।।
द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन् ।
आदित्यो जनयामास पुत्रमात्मसमं तदा ।। १८ ।।
पूर्वजस्य मनोस्तात सदृशोऽयमिति प्रभुः ।
सवर्णत्वान्मनोर्भूयः सावर्ण इति चोक्तवान् ।। १९ ।।
मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते ।
द्वितीयो यः सुतस्तस्याः स विज्ञेयः शनैश्चरः ।। 1.9.२० ।।
संज्ञा तु पार्थिवी तात स्वस्य पुत्रस्य वै तदा ।
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै ।। २१ ।।
मनुस्तस्याक्षमत्तत्तु यमस्तस्या न चक्षमे ।
तां स रोषाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ।
पदा संतर्जयामास संज्ञां वैवस्वतो यमः ।। २२ ।।
तं शशाप ततः क्रोधात् सावर्णजननी नृप ।
चरणः पततामेष तवेति भृशदुःखिता ।। २३ ।।
यमस्तु तत् पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् ।
भृशं शापभयोद्विग्नः संज्ञावाक्यप्रतोदितः ।। २४ ।।
शापोऽयं विनिवर्तेत प्रोवाच पितरं तदा ।
मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ।। २५ ।।
सेयमस्मानपाहाय यवीयांसं बुभूषति ।
तस्यां मयोद्यतः पादो न तु देहे निपातितः ।। २६ ।।
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति।
यस्मात्ते पूजनीयाहं लङ्घितास्मि त्वया सुत ।। २७ ।।
तस्मात् तवैष चरणः पतिष्यति न संशयः ।
अपत्यं दुरपत्यं स्यान्नाम्बा कुजननी भवेत् ।। २८ ।।
शप्तोऽहमस्मि लोकेश जनन्या तपतां वर ।
तव प्रसादाच्चरणो न पतेन्मम गोपते ।। २९ ।।
विवस्वानुवाच
असंशयं पुत्र महद् भविष्यत्यत्र कारणम् ।
येन त्वामाविशत् क्रोधो धर्मज्ञं सत्यवादिनम् ।। 1.9.३०
कृमयो मांसमादाय यास्यन्ति धरणीतलम् ।। ३१ ।।
तव पादान्महाप्राज्ञ ततस्त्वं प्राप्स्यसे सुखम् ।
कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति ।। ३२ ।।
शापस्य परिहारेण त्वं च त्रातो भविष्यसि ।
आदित्योऽथाब्रवीत् संज्ञां किमर्थं तनयेषु वै ।। ३३ ।।
तुल्येष्वभ्यधिकः स्नेहः क्रियतेऽति पुनः पुनः ।
सा तत्परिहसन्ती तु नाचचक्षे विवस्वते ।। ३४ ।।
आत्मानं सुसमाधाय योगात् तथ्यमपश्यत ।
तां शप्तुकामो भगवान् नाशाय कुरुनन्दन ।। ३५ ।।
मूर्धजेषु च जग्राह समयेऽतिगतेऽपि च ।
सा तत् सर्वं यथावृत्तमाचचक्षे विवस्वते ।। ३६ ।।
विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात् ।
त्वष्टा तु तं यथा न्यायमर्चयित्वा विभावसुम् ।
निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा ।। ३७ ।।
त्वष्टोवाच
तवातितेजसाविष्टमिदं रूपं न शोभते ।
असहन्ती च तत् संज्ञा वने चरति शाद्वले ।। ३८ ।।
द्रष्टा हि तां भवानद्य स्वां भार्यां शुभचारिणीम्।
नित्यं तपस्यभिरतां वडवारूपधारिणीम् ।। ३९ ।।
पर्णाहारां कृशां दीनां जटिलां ब्रह्मचारिणीम् ।
हस्तिहस्तपरिक्लिष्टां व्याकुलां पद्मिनीमिव ।
श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते ।। 1.9.४० ।।
अनुकूलं तु देवेश यदि स्यान्मम तन्मतम्।
रूपं निर्वर्तयाम्यद्य तव कान्तमरिंदम ।। ४१ ।।
रूपं विवस्वतश्चासीत् तिर्यगूर्ध्वसमं तु वै ।
तेनासौ सम्भृतो देवरूपेण तु विभावसुः ।। ४२ ।।
तस्मात् त्वष्टुः स वै वाक्यं वहु मेने प्रजापतिः ।
समनुज्ञातवांश्चैव त्वष्टारं रूपसिद्धये ।। ४३ ।।
ततोऽभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः ।
भ्रमिमारोप्य तत् तेजः शातयामास भारत ।। ४४ ।।
ततो निर्भासितं रूपं तेजसा संहृतेन वै ।
कान्तात् कान्ततरं द्रष्टुमधिकं शुशुभे तदा ।। ४५
मुखे निर्वर्तितं रूपं तस्य देवस्य गोपतेः ।
ततः प्रभृति देवस्य मुखमासीत् तु लोहितम् ।
मुखरागं तु यत्पूर्वं मार्तण्डस्य मुखच्युतम् ।। ४६ ।।
आदित्या द्वादशैवेह सम्भूता मुखसम्भवाः ।
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।। ४७ ।।
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमस्तथा ।
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ।। ४८ ।।
हर्षं लेभे ततो देवो दृष्ट्वाऽऽदित्यान् स्वदेहजान् ।
गन्धैः पुष्पैरलंकारैर्भास्वता मुकुटेन च ।। ४९ ।।
एवं सम्पूजयामास त्वष्टा वाक्यमुवाच ह ।
गच्छ देव निजां भार्यां कुरूंश्चरति सोत्तरान् ।। 1.9.५० ।।
वडवारूपमास्थाय वने चरति शाद्वले ।
स तथा रूपमास्थाय स्वभार्यारूपलीलया ।। ५१ ।।
ददर्श योगमास्थाय स्वां भार्यां वडवां ततः ।
अधृष्यां सर्वभूतानां तेजसा नियमेन च ।। ५२ ।।
वडवावपुषा राजंश्चरन्तीमकुतोभयाम् ।
सोऽश्वरूपेण भगवांस्तां मुखे समभावयत् ।। ५३ ।।
मैथुनाय विचेष्टन्ती परपुंसोपशङ्कया ।
सा तन्निरवमच्छुक्रं नासिकायां विवस्वतः ।। ५४ ।।
देवौ तस्यामजायेतामश्विनौ भिषजां वरौ ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ।। ५५ ।।
मार्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ।
संज्ञायां जनयामास वडवायां स भारत ।
तां तु रूपेण कान्तेन दर्शयामास भास्करः ।। ५६ ।।
सा च दृष्ट्वैव भर्तारं तुतोष जनमेजय ।
यमस्तु कर्मणा तेन भृशं पीडितमानसः ।। ५७ ।।
धर्मेण रञ्जयामास धर्मराज इव प्रजाः ।
स लेभे कर्मणा तेन परमेण महाद्युतिः ।। ५८ ।।
पितॄणामाधिपत्यं च लोकपालत्वमेव च ।
मनुः प्रजापतिस्त्वासीत् सावर्णः स तपोधनः ।। ५९ ।।
भाव्यः सोऽनागते काले मनुः सावर्णिकेऽन्तरे ।
मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः ।। 1.9.६० ।।
भ्राता शनैश्चरश्चास्य ग्रहत्वमुपलब्धवान् ।
नासत्यौ यौ समाख्यातौ स्वर्वैद्यौ तौ बभूवतुः ।। ६१ ।।
सेवतोऽपि तथा राजन्नश्वानां शान्तिदोऽभवत्।
त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत् ।। ६२ ।।
तदप्रतिहतं युद्धे दानवान्तचिकीर्षया ।
यवीयसी तयोर्या तु यमी कन्या यशस्विनी ।। ६३ ।।
अभवत् सा सरिच्छ्रेष्ठा यमुना लोकभाविनी ।
मनुरित्युच्यते लोके सावर्ण इति चोच्यते ।।६४ ।।
द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः ।
ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितम् ।। ६५ ।।
य इदं जन्म देवानां शृणुयाद् वापि धारयेत् ।
आपद्भ्यः स विमुच्येत प्राप्नुयाच्च महद्यशः ।। ६६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि वैवस्वतोत्पत्तौ नवमोऽध्यायः ।। ९ ।।