हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः १२

← अध्यायः ११ हरिवंशपुराणम्
अध्यायः १२
वेदव्यासः
अध्यायः १३ →
धुन्धुमारस्य वंशवर्णनम् एवं गालवस्य उत्पत्तिः

द्वादशोऽध्यायः

वैशम्पायन उवाच
तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ।
चन्द्राश्वकपिलाश्वौ तु कुमारौ द्वौ कनीयसौ ।। १ ।।
धौन्धुमारिर्दृढा श्वस्तु हर्यश्वस्तस्य चात्मजः ।
हर्यश्वस्य निकुम्भोऽभूत् क्षत्रधर्मरतः सदा ।। २ ।।
संहताश्वो निकुम्भस्य पुत्रो रणविशारदः ।
अकृशाश्वः कृशाश्वश्च संहताश्वसुतौ नृप ।। ३ ।।
तस्य हैमवती कन्या सतां माता दृषद्वती ।
विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित्।। ४ ।।
लेभे प्रसेनजिद् भार्यां गौरीं नाम पतिव्रताम्।
अभिशप्ता तु सा भर्त्रा नदी वै बाहुदाभवत्।। ५ ।।
तस्याः पुत्रो महानासीद्युवनाश्वो महीपतिः ।
मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ।। ६ ।।
तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत्।
साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि ।। ७ ।।
पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप
पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च धार्मिकम्
पुरुकुत्ससुतस्त्वासीत् त्रसदस्युर्महीपतिः।।९।।
नर्मदायामथोत्पन्नः सम्भूतस्तस्य चात्मजः ।
सम्भूतस्य तु दायादः सुधन्वा नाम पार्थिवः ।। 1.12.१० ।।
सुधन्वनः सुतश्चासीत्त्रिधन्वा रिपुमर्दनः ।
राज्ञस्त्रिधन्वनस्त्वासीद् विद्वांस्त्रय्यारुणः सुतः।। ११ ।।
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ।
पाणिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः ।। १२ ।।
येन भार्या हृता पूर्व कृतोद्वाहा परस्य वै ।
बाल्यात् कामाच्च मोहाच्च संहर्षाच्चापलेन च।। १३ ।।
जहार कन्यां कामात्स कस्यचित्पुरवासिनः।
अधर्मशङ्कुना तेन राज्ञा त्रय्यारुणोऽत्यजत्।। १४ ।।
अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः ।
पितरंसोऽब्रवीत्त्यक्तः क्व गच्छामीति वै मुहुः।। १५ ।।
पिता त्वेनमथोवाच श्वपाकैः सह वर्तय ।
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ।। १६ ।
इत्युक्तः स निराक्रामन्नगराद् वचनात्पितुः ।
न च तं वारयामास वसिष्ठो भगवानृषिः ।। १७ ।।
स तु सत्यव्रतस्तात श्वपाकावसथान्तिके ।
पित्रा त्यक्तोऽवसद्धीरः पिता तस्य वनं ययौ ।। १८ ।।
ततस्तस्मिंस्तु विषये नावर्षत् पाकशासनः ।
समा द्वादश राजेन्द्र तेनाधर्मेण वै तदा ।। १९ ।।
दारांस्तु तस्य विषये विश्वामित्रो महातपाः ।
संन्यस्य सागरानूपे चचार विपुलं तपः ।। 1.12.२० ।।
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ।
शेषस्य भरणार्थाय व्यक्रीणाद् गोशतेन वै ।। २१ ।।
तं तु बद्धं गले दृष्ट्वा विक्रीयन्तं नृपात्मजः ।
महर्षिपुत्रं धर्मात्मा मोक्षयामास भारत ।। २२ ।।
सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च ।। २३ ।।
सोऽभवद् गालवो नाम गलबन्धान्महातपाः ।
महर्षिः कौशिकस्तात तेन वीरेण मोक्षितः ।। २४।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि गालवोत्पत्तौ द्वादशोऽध्यायः ।। १२ ।।