प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १४ हरिवंशपुराणम्
अध्यायः १५
वेदव्यासः
अध्यायः १६ →
सूर्यवंशवर्णनम्

पञ्चदशोऽध्यायः

जनमेजय उवाच
सगरस्यात्मजा वीराः कथं जाता महात्मनः ।
विक्रान्ताः षष्टिसाहस्रा विधिना केन वा द्विज ।। १ ।।
वैशम्पायायन उवाच
द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे ।
ज्येष्ठा विदर्भदुहिता केशिनी नाम विश्रुता ।। २ ।।
कनीयसी तु या तस्य पत्नी परमधर्मिणी ।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।। ३ ।।
और्वस्ताभ्यां वरं प्रादात् तं निबोध जनाधिप ।
षष्टिं पुत्रसहस्राणि गृह्णात्वेका तपस्विनी ।। ४ ।।
एकं वंशधरं त्वेका यथेष्ठं वरयत्विति ।
तत्रैका जगृहे पुत्राँल्लुब्धा शूरान् बहूंस्तथा ।। ५ ।।
एकं वंशधरं त्वेका तथेत्याह च तां मुनिः ।
केशिन्यसूत सगरादसमञ्जसमात्मजम् ।। ६ ।।
राजा पञ्चजनो नाम बभूव सुमहाबलः ।
इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः ।। ७ ।
तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः ।
सम्बभूवुर्यथाकालं ववृधुश्च यथाक्रमम् ।। ८ ।।
घृतपूर्णेषु कुम्भेषु तान्गर्भान् निदधे पिता ।
धात्रीश्चैकैकशः प्रादात् तावतीरेव पोषणे ।। ९ ।।
ततो दशसु मासेषु समुत्तस्थुर्यथासुखम्।
कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः ।। 1.15.१० ।।
षष्टिः पुत्रसहस्राणि तस्यैवमभवन् नृप ।
गर्भादलाबुमध्याद् वै जातानि पृथिवीपते ।। ११ ।।
तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ।
एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ।। १२ ।।
सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् ।
दिलीपस्तनयस्त्वस्य खट्वाङ्ग इति विश्रुतः ।। १३ ।।
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ।
त्रयोऽनुसंधिता लोका बुद्ध्या सत्येन चानघ ।। १४ ।।
दिलीपस्य तु दायादो महाराजो भगीरथः ।
यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः ।। १५ ।।
कीर्तिमान् स महाभागः शक्रतुल्यपराक्रमः ।
समुद्रमानयच्चैनां दुहितृत्वेन कल्पयत्।
तस्माद् भागीरथी गङ्गा कथ्यते वंशचिन्तकैः ।। १६ ।।
भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ।
नाभागस्तु श्रुतस्यासीत्पुत्रः परमधार्मिकः ।। १७ ।।
अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत,
अयुताजित्तु दायादःसिन्धुद्वीपस्य वीर्यवान् ।। १८ ।।
अयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः ।
दिव्याक्षहृदयज्ञो वै राजा नलसखो बली ।। १९ ।।
ऋतुपर्णसुतस्त्वासीदार्तुपर्णिर्महीपतिः ।
सुदासस्तस्य तनयो राजात्विन्द्रसखोऽभवत् ।। 1.15.२० ।।
सुदासस्य सुतस्त्वासीत्सौदासो नाम पार्थिवः ।
ख्यातः कल्माषपादो वै नाम्ना मित्रसहस्तथा ।। २१ ।।
कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ।
अनरण्यस्तु पुत्रोऽभूद् विश्रुतः सर्वकर्मणः ।। २२ ।।
अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः ।
अनमित्रो रघुश्चैव पार्थिवर्षभ सत्तमौ ।। २३ ।।
अनमित्रस्य धर्मात्मा विद्वान् दुलिदुहोऽभवत् ।
दिलीपस्तनयस्तस्य रामप्रप्रपितामहः ।। २४ ।।
दीर्घबाहुर्दिलीपस्य रघुर्नाम्नाभवत् सुतः ।
अयोध्यायां महाराजो रघुश्चासीन्महाबलः ।। २५ ।।
अजस्तु रघुतो जज्ञे अजाद् दशरथोऽभवत् ।
रामो दशरथाज्जज्ञे धर्मात्मा सुमहायशाः ।। २६ ।।
रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ।
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ।। २७ ।।
निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु ।
नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ।। २८ ।।
क्षेमधन्वसुतस्त्वासीद् देवानीकः प्रतापवान् ।
आसीदहीनगुर्नाम देवानीकसुतः प्रभुः ।। २९ ।।
अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः ।
सुधन्वनः सुतश्चैव ततो जज्ञेऽनलो नृपः ।। 1.15.३० ।।
उक्थो नाम स धर्मात्मानलपुत्रो बभूव ह ।
वज्रनाभः सुतस्तस्य उक्थस्य च महात्मनः ।। ३१ ।।
शङ्खस्तस्य सुतो विद्वान् व्युषिताश्व इति श्रुतः ।
पुष्पस्तस्य सुतो विद्वानर्थसिद्धिस्तु तत्सुतः ।। ३२ ।।
सुदर्शनः सुतस्तस्य अग्निवर्णः सुदर्शनात् ।
अग्निवर्णस्य शीघ्रस्तु शीघ्रस्य तु मरुः सुतः ।। ३३ ।।
मरुस्तु योगमास्थाय कलापद्वीपमास्थितः ।
तस्यासीद् विश्रुतवतः पुत्रो राजा बृहद्बलः ।। ३४ ।।
नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ ।
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ।। ३५ ।।
इक्ष्वाकुवंशप्रभवाः प्राधान्येनेह कीर्तिताः ।
एते विवस्वतो वंशे राजानो भूरितेजसः ।। ३६ ।।
पठन् सम्यगिमां सृष्टिमादित्यस्य विवस्वतः ।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ।। ३७ ।।
प्रजावानेति सायुज्यमादित्यस्य विवस्वतः ।
विपाप्मा विरजाश्चैव आयुष्मांश्च भवत्युत ।। ३८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आदित्यस्य वंशानुकीर्तनं नाम पञ्चदशोऽध्यायः ।। १५ ।।