प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १७ हरिवंशपुराणम्
अध्यायः १८
वेदव्यासः
अध्यायः १९ →
पितृकल्पः-मार्कण्डेयसनत्कुमारसंवादे पितृणां गणः, लोकः, शक्ति एवं कन्यकानां वर्णनम्, पितृणां प्रभावस्य दर्शनार्थं मार्कण्डेयेन दिव्यदृष्टिप्राप्तिः।

अष्टादशोऽध्यायः

मार्कण्डेय उवाच
इत्युक्तोऽहं भगवता देवदेवेन भास्वता ।
सनत्कुमारेण पुनः पृष्टवान् देवमव्ययम् ।। १ ।।
संदेहममरश्रेष्ठं भगवन्तमरिंदमम् ।
निबोध तन्मे गाङ्गेय निखिलं सर्वमादितः ।। २ ।।
कियन्तो वै पितृगणाः कस्मिंल्लोके प्रतिष्ठिताः ।
वर्तन्ते देवप्रवरा देवानां सोमवर्द्धनाः ।। ३ ।।
सनत्कुमार उवाच
सप्तैते यजतां श्रेष्ठ स्वर्गे पितृगणाः स्मृताः ।
चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्तयः ।। ४ ।।
तेषां लोकं विसर्गं च कीर्तयिष्यामि तच्छृणु ।
प्रभावं च महत्त्वं च विस्तरेण तपोधन ।। ५ ।।
धर्ममूर्तिधरास्तेषां त्रयो ये परमा गणाः ।
तेषां नामानि लोकांश्च कथयिष्यामि तच्छृणु ।। ६ ।।
लोकाः सनातना नाम यत्र तिष्ठन्ति भास्वराः ।
अमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ।। ७ ।।
विराजस्य द्विजश्रेष्ठ वैराजा इति विश्रुताः ।
यजन्ति तान् देवगणा विधिदृष्टेन कर्मणा ।। ८ ।।
एते वै योगविभ्रष्टा लोकान् प्राप्य सनातनान्।
पुनर्युगसहस्रान्ते जायन्ते ब्रह्मवादिनः ।। ९ ।।
ते तु प्राप्य स्मृतिं भूयः साङ्ख्यं योगमनुत्तमम् ।
यान्ति योगगतिं सिद्धाः पुनरावृत्तिदुर्लभाम् ।। 1.18.१० ।।
एते स्युः पितरस्तात योगिनां योगवर्द्धनाः ।
आप्याययन्ति ये पूर्वं सोमं योगबलेन च ।। ११ ।।
तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः ।
एष वै प्रथमः सर्गः सोमपानां महात्मनाम् ।। १२ ।।
एतेषां मानसी कन्या मेना नाम महागिरेः ।
पत्नी हिमवतः श्रेष्ठा यस्या मैनाक उच्यते ।। १३ ।।
मैनाकस्य सुतः श्रीमान् क्रौञ्चो नाम महागिरिः ।
पर्वतप्रवरः पुत्रो नानारत्नसमन्वितः ।। १४ ।।
तिस्रः कन्यास्तु मेनायां जनयामास शैलराट् ।
अपर्णामेकपर्णां च तृतीयामेकपाटलाम् ।। १५ ।।
तपश्चरन्त्यः सुमहद् दुश्चरं देवदानवैः ।
लोकान् संतापयामासुस्तास्तिस्रः स्थाणुजङ्गमान्।। १६।।
आहारमेकपर्णेन एकपर्णा समाचरत् ।
पाटलापुष्पमेकं च आदधावेकपाटला ।। १७ ।।
एका तत्र निराहारा तां माता प्रत्यषेधयत् ।
'उ 'मा' इति निषेधन्ती मातृस्नेहेन दुःखिता ।। १८ ।।
सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी ।
उमेत्येवाभवत् ख्याता त्रिषु लोकेषु सुन्दरी ।। १९ ।।
तथैव नाम्ना तेनेह विश्रुता योगधर्मिणी ।
एतत्तु त्रिकुमारीकं जगत्स्थास्यति भार्गव ।। 1.18.२० ।।
तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः ।
सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः ।। २१ ।।
उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी ।
महायोगबलोपेता महादेवमुपस्थिता ।। २२ ।।
असितस्यैकपर्णा तु देवलस्य महात्मनः ।
पत्नी दत्ता महाब्रह्मन् योगाचार्याय धीमते ।। २३ ।।
जैगीषव्याय तु तथा विद्धि तामेकपाटलाम् ।
एते चापि महाभागे योगाचार्यावुपस्थिते ।। २४ ।।
लोकाः सोमपदा नाम मरीचेर्यत्र वै सुताः ।
पितरो यत्र वर्तन्ते देवास्तान् भावयन्त्युत ।। २५ ।।
अग्निष्वात्ता इति ख्याताः सर्व एवामितौजसः ।
एतेषां मानसी कन्या अच्छोदा नाम निम्नगा ।। २६ ।।
अच्छोदं नाम विख्यातं सरो यस्याः समुत्थितम् ।
तया न दृष्टपूर्वास्ते पितरस्तु कदाचन ।। २७ ।।
अप्यमूर्तानथ पितॄन् सा ददर्श शुचिस्मिता ।
सम्भूता मनसा तेषां पितॄन् स्वान् नाभिजानती। २८ ।।
व्रीडिता तेन दुःखेन बभूव वरवर्णिनी ।
सा दृष्ट्वा पितरं वव्रे वसुं नामान्तरिक्षगम् ।। २९ ।।
अमावसुरिति ख्यातमायोः पुत्रं यशस्विनम् ।
अद्रिकाप्सरसायुक्तं विमानेऽधिष्ठितं दिवि ।। 1.18.३० ।।
सा तेन व्यभिचारेण मनसः कामरूपिणी ।
पितरं प्रार्थयित्वान्यं योगभ्रष्टा पपात ह ।। ३१ ।।
त्रीण्यपश्यद् विमानानि पतमाना दिवश्च्युता ।
त्रसरेणुप्रमाणानि सापश्यत्तेषु तान् पितॄन् ।। ३२ ।।
सुसूक्ष्मानपरिव्यक्तानग्नीनग्नीष्विवाहितान् ।
त्रायध्वमित्युवाचार्ता पतन्ती तानवाक्शिराः ।। ३३।।
तैरुक्ता सा तु मा भैषीरिति व्योम्नि व्यवस्थिता ।
ततः प्रसादयामास तान् पितॄन् दीनया गिरा ।। ३४ ।।
ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यो व्यतिक्रमात् ।
भ्रष्टश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते ।। ३५ ।।
यैः क्रियन्ते हि कर्माणि शरीरैर्दिवि दैवतैः ।
तैरेव तत्कर्मफलं प्राप्नुवन्तीह देवताः ।। ३६ ।।
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ।
तस्मात्त्वं तपसः पुत्रि प्रेत्येदं प्राप्स्यसे फलम् ।। ३७ ।।
इत्युक्ता पितृभिः सा तु पितॄन्प्रासादयत्स्वकान्।
ध्यात्वा प्रसादं ते चक्रुस्तस्याः सर्वेऽनुकम्पया ।। ३८ ।।
अवश्यं भाविनं ज्ञात्वा तेऽर्थमूचुस्ततस्तु ताम्।
अस्य राज्ञो वसोः कन्या त्वमपत्यं भविष्यसि ।। ३९ ।।
उत्पन्नस्य पृथिव्यां तु मानुषेषु महात्मनः ।
कन्या च भूत्वा लोकान्स्वान्पुनः प्राप्स्यसि दुर्लभान्।।1.18.४०।।
पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि ।
स वेदमेकं ब्रह्मर्षिश्चतुर्धा विभजिष्यति ।। ४१ ।।
महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्तिवर्द्धनौ ।
विचित्रवीर्यं धर्मज्ञं तथा चित्राङ्गदं शुभम् ।। ४२ ।।
एतानुत्पाद्य पुत्रांस्त्वं पुनर्लोकानवाप्स्यसि ।
व्यतिक्रमात्पितॄणां च जन्म प्राप्स्यसि कुत्सितम्।।४३।।
अस्यैव राज्ञः कन्या त्वमद्रिकाया भविष्यसि ।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ।। ४४ ।।
एवमुक्ता तु दाशेयी जाता सत्यवती तदा ।
मत्स्ययोनौ समुत्पन्ना राज्ञस्तस्य वसोः सुता ।। ४५ ।।
वैभ्राजा नाम ते लोका दिवि सन्ति सुदर्शनाः ।
यत्र बर्हिषदो नाम पितरो दिवि विश्रुताः ।। ४६ ।।
तान् वै देवगणाः सर्वे यक्षगन्धर्वराक्षसाः ।
नागाः सर्पाः सुपर्णाश्च भावयन्त्यमितौजसः ।। ४७ ।।
एते पुत्रा महात्मानः पुलस्त्यस्य प्रजापतेः ।
महात्मनो महाभागास्तेजोयुक्तास्तपस्विनः ।। ४८ ।।
एतेषां मानसी कन्या पीवरी नाम विश्रुता ।
योगा च योगिपत्नी च योगिमाता तथैव च ।। ४९ ।।
भवित्री द्वापरं प्राप्य युगं धर्मभृतां वरा ।
पराशरकुलोद्भूतः शुको नाम महातपाः ।। 1.18.५० ।।
भविष्यति युगे तस्मिन् महायोगी द्विजर्षभः ।
व्यासादरण्यां सम्भूतो विधूमोऽग्निरिव ज्वलन् ।। ५१ ।।
स तस्यां पितृकन्यायां पीवर्यां जनयिष्यति ।
कन्यां पुत्रांश्च चतुरो योगाचार्यान्महाबलान् ।। ५२ ।।
कृष्णं गौरं प्रभुं शम्भुं कृत्वीं कन्यां तथैव च ।
ब्रह्मदत्तस्य जननीं महिषीं त्वणुहस्य च ।। ५३ ।।
एतानुत्पाद्य धर्मात्त्मा योगाचार्यान्महाव्रतान् ।
श्रुत्वा स्वजनकाद् धर्मान्व्यासादमितबुद्धिमान्।। ५४।।
महायोगी ततो गन्ता पुनरावर्तिनीं गतिम्।
यत्तत्पदमनुद्विग्नमव्ययं ब्रह्म शाश्वतम् ।। ५५ ।।
अमूर्तिमन्तः पितरो धर्ममूर्तिधरा मुने ।
कथा यत्रेयमुत्पन्ना वृष्ण्यन्धककुलान्वया ।।५६।।
सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः ।
निरता दिवि लोकेषु ज्योतिर्भासिषु भासुराः ।
सर्वकामसमृद्धेषु द्विजास्तान् भावयन्त्युत ।। ५७ ।।
तेषां वै मानसी कन्या गौर्नाम्ना दिवि विश्रुता ।
तवैव वंशे या दत्ता शुकस्य महिषी प्रिया ।
एकशृङ्गेति विख्याता साध्यानां कीर्तिवर्द्धिनी ।। ५८ ।।
मरीचिगर्भांस्ताँल्लोकान् समाश्रित्य व्यवस्थिताः ।
ये त्वथाङ्गिरसः पुत्राः साध्यैः संवर्द्धिताः पुरा ।। ५९ ।।
तान् क्षत्रियगणास्तात भावयन्ति फलार्थिनः ।
तेषां तु मानसी कन्या यशोदा नाम विश्रुता ।। 1.18.६० ।।
पत्नी सा विश्वमहतः स्नुषा वै वृद्धशर्मणः ।
राजर्षेर्जननी चापि दिलीपस्य महात्मनः ।। ६१ ।।
तस्य यज्ञे पुरा गीता गाथाः प्रीतैर्महर्षिभिः ।
तदा देवयुगे तात वाजिमेधे महामखे ।। ६२ ।।
अग्नेर्जन्म तथा श्रुत्वा शाण्डिल्यस्य महात्मनः। ।
दिलीपं यजमानं ये पश्यन्ति सुसमाहिताः ।
सत्यवन्तं महात्मानं तेऽपि स्वर्गजितो नराः ।। ६३ ।।
सुस्वधा नाम पितरः कर्दमस्य प्रजापतेः ।
समुत्पन्नास्तु पुलहान्महात्मानो द्विजर्षभाः ।। ६४ ।।
लोकेषु दिवि वर्तन्ते कामगेषु विहङ्गमाः ।
तांश्च वैश्यगणास्तात भावयन्ति फलार्थिनः ।। ६५ ।।
तेषां वै मानसी कन्या विरजा नाम विश्रुता ।
ययातेर्जननी ब्रह्मन् महिषी नहुषस्य च ।। ६६ ।।
त्रय एते गणाः प्रोक्ताश्चतुर्थं तु निबोध मे ।
उत्पन्ना ये स्वधायां ते सोमपा वै कवेः सुताः ।
हिरण्यगर्भस्य सुताः शूद्रास्तान्भावयन्त्युत ।। ६७ ।।
मानसा नाम ते लोका यत्र तिष्ठन्ति ते दिवि ।
तेषां वै मानसी कन्या नर्मदा सरितां वरा ।। ६८ ।।
या भावयति भूतानि दक्षिणापथगामिनी ।
पुरुकुत्सस्य या पत्नी त्रसद्दस्योर्जनन्यपि ।। ६९ ।।
तेषामथाभ्युपगमान्मनुस्तात युगे युगे ।
प्रवर्तयति श्राद्धानि नष्टे धर्मे प्रजापतिः ।। 1.18.७० ।।
पितॄणामादिसर्गेण सर्वेषां द्विजसत्तम ।
तस्मादेनं स्वधर्मेण श्राद्धदेवं वदन्ति वै ।। ७१ ।।
सर्वेषां राजतं पात्रमथ वा रजसान्वितम् ।
दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितॄन् ।। ७२ ।।
सोमस्याप्यायनं कृत्वा अग्नेर्वैवस्वतस्य च ।
उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः ।। ७३ ।।
पितॄन् प्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम्।
यच्छन्ति पितरः पुष्टिं प्रजाश्च विपुलास्तथा ।। ७४ ।।
स्वर्गमारोग्यमेवाथ यदन्यदपि चेप्सितम् ।
देवकार्यादपि मुने पितृकार्यं विशिष्यते ।। ७५ ।।
देवतानां हि पितरः पूर्वमाप्यायनं स्मृतम् ।
शीघ्रप्रसादा ह्यक्रोधा लोकस्याप्यायनं परम् ।। ७६ ।।
स्थिरप्रसादाश्च सदा तान् नमस्यस्व भार्गव ।
पितृभक्तोऽसि विप्रर्षे मद्भक्तश्च विशेषतः ।। ७७ ।।
श्रेयस्तेऽद्य विधास्यामि प्रत्यक्षं कुरु तत्स्वयम्।
दिव्यं चक्षुः सविज्ञानं प्रदिशामि च तेऽनघ ।। ७८ ।।
गतिमेतामप्रमत्तो मार्कण्डेय निशामय ।
न हि योगगतिर्दिव्या पितॄणां च परा गतिः ।। ७९ ।।
त्वद्विधेनापि सिद्धेन दृश्यते मांसचक्षुषा ।
स एवमुक्त्वा देवेशो मामुपस्थितमग्रतः ।। 1.18.८० ।।
चक्षुर्दत्त्वा सविज्ञानं देवानामपि दुर्लभम् ।
जगाम गतिमिष्टां वै द्धितीयोऽग्निरिव ज्वलन् ।। ८१ ।।
तन्निबोध कुरुश्रेष्ठ यन्मयासीन्निशामितम्।
प्रसादात्तस्य देवस्य दुर्ज्ञेयं भुवि मानुषैः ।। ८२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पितृकल्पे अष्टादशोऽध्यायः ।। १८ ।।