हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ३२

← अध्यायः ३१ हरिवंशपुराणम्
अध्यायः ३२
वेदव्यासः
अध्यायः ३३ →
पूरोः वंशान्तर्गतं ऋचेयोः वंशपरम्परा – अजमीढवंशः, पाञ्चाल सोमकवंशं च, कौरववंशः, तुर्वसोः, द्रुह्योः एवं अनोः सन्ततिवर्णनम्

द्वात्रिंशोऽध्यायः

वैशम्पायन उवाच
अनाधृष्यस्तु राजर्षिर्ऋचेयुश्चैकराट् स्मृतः ।
ऋचेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा ।। १ ।।
तस्यां स देव्यां राजर्षिर्मतिनारो महीपतिः ।
मतिनारसुताश्चासंस्त्रयः परमधार्मिकाः ।। २ ।।
तंसुराद्यः प्रतिरथः सुबाहुश्चैव धार्मिकः ।
गौरी कन्या च विख्याता मान्धातृजननी शुभा।।३।।
सर्वे वेदविदस्तत्र ब्रह्मण्याः सत्यवादिनः ।
सर्वे कृतास्त्रा बलिनः सर्वे युद्धविशारदाः ।। ४ ।।
पुत्रः प्रतिरथस्यासीत् कण्वः समभवन्नृपः ।
मेधातिथिः सुतस्तस्य यस्मात्काण्वायना द्विजाः।। ५ ।।
ईलिनी भूप यस्यासीत् कन्या वै जनमेजय ।
ब्रह्मवादिन्यधि स्त्रीं च तंसुस्तामभ्यगच्छत ।। ६ ।।
तंसोः सुरोधो राजर्षिर्धर्मनेत्रो महायशाः ।
ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी ।। ७ ।।
उपदानवी सुताँल्लेभे चतुरस्त्वैलिकात्मजान् ।
दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा ।। ८ ।।
दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् ।
स सर्वदमनो नाम नागायुतबलो महान् ।। ९ ।।
चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः ।
शकुन्तलायां भरतो यस्य नाम्ना स्थ भारताः ।। 1.32.१०।।
दुष्यन्तं प्रति राजानं वागुवाचाशरीरिणी ।
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।। ११ ।।
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ।
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।। १२ ।।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ।
भरतस्य विनष्टेषु तनयेषु महीपतेः ।। १३ ।।
मातॄणां तात कोपेन मया ते कथितं पुरा ।
बृहस्पतेराङ्गिरसः पुत्रो राजन् महामुनिः ।
संक्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः ।।१४ ।।
अत्रैवोदाहरन्तीमं भरद्वाजस्य धीमतः ।
धर्मसंक्रमणं चापि मरुद्भिर्भरताय वै ।। १५ ।।
अयाजयद् भरद्वाजो मरुद्भिः क्रतुभिर्हि तम् ।
पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि ।। १६ ।।
ततोऽथ वितथो नाम भरद्वाजसुतोऽभवत् ।
ततोऽथ वितथे जाते भरतस्तु दिवं ययौ ।। १७ ।।
वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ।
स राजा वितथः पुत्राञ्जनयामास पञ्च वै ।। १८ ।।
सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ।
कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् ।। १९ ।।
काशिकश्च महासत्त्वस्तथा गृत्समतिर्नृपः ।
तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः ।। 1.32.२० ।।
काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा ।
आजमीढोऽपरो वंशः श्रूयतां पुरुषर्षभ ।। २१ ।।
सुहोत्रस्य बृहत् पुत्रो बृहतस्तनयास्त्रयः ।
अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् ।। २२ ।।
अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः ।
नीलिनी केशिनी चैव धूमिनी च वराङ्गना ।। २३ ।।
अजमीढस्य नीलिन्यां सुशान्तिरुदपद्यत ।
पुरुजातिः सुशान्तेस्तु वाह्याश्वः पुरुजातितः ।। २४ ।।
वाह्याश्वतनयाः पञ्च बभूवुरमरोपमाः ।। २५ ।।
मुद्गलः सृञ्जयश्चैव राजा बृहदिषुः स्मृतः ।
यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः ।। २६ ।।
पञ्चैते रक्षणायालं देशानामिति विश्रुताः ।
पञ्चानां विद्धि पञ्चालान्स्फीतैर्जनपदैर्वृतान् ।। २७ ।।
अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ।
मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः ।। २८ ।।
सर्व एते महात्मानः क्षत्रोपेता द्विजातयः ।
एते ह्यङ्गिरसः पक्षं संश्रिताः कण्वमौद्गलाः ।। २९ ।।
मौद्गलस्य सुतो ज्येष्ठो ब्रह्मर्षिः सुमहायशाः ।
इन्द्रसेनो यतो गर्भं वध्र्यश्वं प्रत्यपद्यत ।। 1.32.३० ।।
वध्र्यश्वान्मिथुनं जज्ञे मेनकायामिति श्रुतिः ।
दिवोदासश्च राजर्षिरहल्या च यशस्विनी ।। ३१ ।।
शरद्वतस्तु दायादमहल्या समसूयत ।
शतानन्दमृषिश्रेष्ठं तस्यापि सुमहायशाः ।।३२ ।।
पुत्रः सत्यधृतिर्नाम धनुर्वेदस्य पारगः ।
तस्य सत्यधृते रेतो दृष्ट्वाप्सरसमग्रतः ।। ३३ ।।
अवस्कन्नं शरस्तम्बे मिथुनं समपद्यत ।
कृपया तच्च जग्राह शन्तनुर्मृगयां गतः ।। ३४।।
कृपः स्मृतः स वै तस्माद् गौतमी च कृपी तथा ।
एते शारद्वताः प्रोक्ता एते ते गौतमाः स्मृताः ।। ३५ ।।
अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य संततिम् ।
दिवोदासस्य दायादो ब्रह्मर्षिर्मित्रयुर्नृप ।। ३६ ।।
मैत्रायणस्ततः सोमो मैत्रेयास्तु ततः स्मृताः ।
एते हि संश्रिताः पक्षं क्षत्रोपेतास्तु भार्गवाः ।। ३७ ।।
आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः ।
सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ।। ३८ ।।
सोमदत्तस्य दायादः सहदेवो महायशाः ।
सहदेवसुतश्चापि सोमको नाम पार्थिवः ।। ३९ ।।
अजमीढात् पुनर्जातः क्षीणवंशे तु सोमकः ।
सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ ।। 1.32.४० ।।
तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः ।
धृष्टद्युम्नस्तु द्रुपदाद् धृष्टकेतुश्च तत्सुतः ।। ४१ ।।
अजमीढाः स्मृता ह्येते महात्मानस्तु सोमकाः ।
पुत्राणामजमीढस्य सोमकत्वं महात्मनः ।। ४२ ।।
महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी ।
तृतीया तव पूर्वेषां जननी पृथिवीपते ।। ४३ ।।
सा तु पुत्रार्थिनी देवी व्रतचर्यासमन्विता ।
ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।। ४४ ।।
हुत्वाग्निं विधिवत् सा तु पवित्रमितभोजना ।
अग्निहोत्रकुशेष्वेव सुष्वाप जनमेजय ।। ४५ ।।
धूमिन्या स तया देव्या त्वजमीढः समेयिवान्।
ऋक्षं संजनयामास धूमवर्णं सुदर्शनम् ।। ४६ ।।
ऋक्षात् संवरणो जज्ञे कुरुः संवरणात् तथा ।
यः प्रयागादतिक्रम्य कुरुक्षेत्रं चकार ह ।। ४७ ।।
तद्वै तत्स महाभागो वर्षाणि सुबहून्यथ ।
तप्यमाने तदा शक्रो यत्रास्य वरदो बभौ ।। ४८ ।।
पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् ।
तस्यान्ववायःसुमहांस्तस्य नाम्ना स्थ कौरवाः ।।४९।।
कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा ।
परीक्षिच्च भहाबाहुः प्रवरश्चारिमेजयः ।। 1.32.५० ।।
सुधन्वनस्तु दायादः सुहोत्रो मतिमांस्ततः ।
च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः ।। ५१ ।।
च्यवनात् कृतयज्ञस्तु इष्ट्वा यत्रैः स धर्मवित्।
विश्रुतं जनयामास पुत्रमिन्द्रसमं नृपः ।। ५२ ।।
चैद्योपरिचरं वीरं वसुं नामान्तरिक्षगम् ।
चैद्योपरिचराज्जज्ञे गिरिका सप्त मानवान् ।। ५३ ।।
महारथो मगधराड् विश्रुतो यो बृहद्रथः ।
प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम् ।। ५४ ।।
मारुतश्च यदुश्चैव मत्स्यः काली च सत्तमः ।
बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः ।। ५५ ।।
कुशाग्रस्यात्मजो विद्वान् वृषभो नाम वीर्यवान् ।
वृषभस्य तु दायादः पुष्पवान्नाम धार्मिकः ।। ५६ ।।
दायादस्तस्य विक्रान्तो राजा सत्यहितः स्मृतः ।। ५७ ।।
तस्य पुत्रोऽथ धर्मात्मा नाम्ना ऊर्जस्तु जज्ञिवान् ।
ऊर्जस्य सम्भवः पुत्रो यस्य जज्ञे स वीर्यवान् ।। ५८ ।।
शकले द्वे स वै जातो जरया संधितः स तु ।
जरया संधितो यस्माज्जरासंधस्ततः स्मृतः।। ५९ ।।
सर्वक्षत्रस्य जेतासौ जरासंधो महाबलः ।
जरासंधस्य पुत्रो वै सहदेवः प्रतापवान् ।। 1.32.६० ।।
सहदेवात्मजः श्रीमानुदायुः स महायशाः ।
उदायुर्जनयामास पुत्रं परमधार्मिकम् ।। ६१ ।।
श्रुतधर्मेति नामानं मगधान् योऽवसद् विभुः ।
परीक्षितस्तु दायादो धार्मिको जनमेजयः ।। ६२ ।।
जनमेजयस्य दायादास्त्रय एव महा रथाः ।
श्रुतसेनोग्रसेनौ च भीमसेनश्च नामतः ।। ६३ ।।
एते सर्वे महाभागा विक्रान्ता बलशालिनः ।
जनमेजयस्य पुत्रौ तु सुरथो मतिमांस्तथा ।। ६४ ।।
सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः ।
विदूरथस्य दायाद ऋक्ष एव महारथः ।। ६५ ।।
द्वितीयः स बभौ राजा नाम्ना तेनैव संज्ञितः ।
द्वावृक्षौ तव वंशेऽस्मिन्द्वावेव तु परीक्षितौ ।। ६६ ।।
भीमसेनास्त्रयो राजन् द्वावेव जनमेजयौ ।
ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्सुतः ।। ६७ ।।
प्रतीपो भीमसेनस्य प्रतीपस्य तु शन्तनुः ।
देवापिर्बाह्लिकश्चैव त्रय एव महारथाः ।। ६८ ।।
शन्तनोः प्रसवस्त्वेष यत्र जातोऽसि पार्थिव ।
बाह्लिकस्य तु राज्यं वै सप्तवाह्यं नरेश्वर ।। ६९ ।।
बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः ।
जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः ।। 1.32.७० ।।
उपाध्यायस्तु देवानां देवापिरभवन्मुनिः ।
च्यवनस्य कृतः पुत्र इष्टश्चासीन्महात्मनः ।। ७१ ।।
शन्तनुस्त्वभवद् राजा कौरवाणां धुरन्धरः ।
शान्तनोः सम्प्रवक्ष्यामि यत्र जातोऽसि पार्थिव ।। ७२ ।।
गाङ्गं देवव्रतं नाम पुत्रं सोऽजनयत् प्रभुः ।
स तु भीष्म इति ख्यातः पाण्डवानां पितामहः।। ७३ ।।
काली विचित्रवीर्यं तु जनयामास भारत ।
शन्तनोर्दयितं पुत्रं धर्मात्मानमकल्मषम् ।। ७४ ।।
कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके ।
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ।। ७५ ।।
धृतराष्ट्रश्च गान्धार्यां पुत्रानुत्पादयच्छतम् ।
तेषां दुर्योधनः श्रेष्ठः सर्वेषामेव स प्रभुः ।। ७६ ।।
पाण्डोर्धनंजयः पुत्रः सौभद्रस्तस्य चात्मजः ।
अभिमन्योः परीक्षित् तु पिता तव जनेश्वर ।। ७७ ।।
एष ते पौरवो वंशो यत्र जातोऽसि पार्थिव ।
तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा ।। ७८ ।।
सुतस्तु तुर्वसोर्वह्निर्वह्नेर्गोभानुरात्मजः ।
गोभानोस्तु सुतो राजा त्रैसानुरपराजितः ।। ७९ ।।
करन्धमस्तु त्रैसानोर्मरुत्तस्तस्य चात्मजः ।
अन्यस्त्वावीक्षितो राजा मरुत्तः कथितस्तव ।। 1.32.८०।।
अनपत्योऽभवद् राजा यज्वा विपुलदक्षिणः ।
दुहिता सम्मता नाम तस्यासीत् पृथिवीपते ।। ८१ ।।
दक्षिणार्थं स्म वै दत्ता संवर्ताय महात्मने ।
दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम् ।। ८२ ।।
एवं ययातेः शापेन जरासंक्रमणे तदा ।
पौरवं तुर्वसोर्वंशं प्रविवेश नृपोत्तम ।। ८३ ।।
दुष्यन्तस्य तु दायादः करुत्थामः प्रजेश्वरः ।
करुत्थामात्तथाऽऽक्रीडश्चत्वारस्तस्य चात्मजाः।।८४।।
पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिवः ।
तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः ८५
द्रुह्योश्च तनयो राजन् बभ्रुः सेतुश्च पार्थिवः ।
अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते ।। ८६ ।।
यौवनाश्वेन समरे कृच्छ्रेण निहतो बली ।
युद्धं सुमहदस्यासीन्मासान्परि चतुर्दश ।। ८७ ।।
अङ्गारस्य तु दायादो गान्धारो नाम भारत ।
ख्यायते तस्य नाम्ना वै गान्धारविषयो महान् ।। ८८ ।।
गान्धारदेशजाश्चैव तुरगा वाजिनां वराः ।
अनोस्तु पुत्रो धर्मोऽभूद् धृतस्तस्यात्मजोऽभवत्।। ८९।।
धृतात् तु दुदुहो जज्ञे प्रचेतास्तस्य चात्मजः ।
प्रचेतसः सुचेतास्तु कीर्तितो ह्यानवो मया ।। 1.32.९० ।।
यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः ।
विस्तरेणानुपूर्व्यात्तु गदतो मे निशामय ।। ९१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पूरुवंशानुकीर्तने द्वात्रिंशोऽध्यायः ।। ३२ ।।