हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ३९

← अध्यायः ३८ हरिवंशपुराणम्
अध्यायः ३९
वेदव्यासः
अध्यायः ४० →
स्यमन्तकमणिकारणेन प्रसेन, सत्राजित् एवं शतधन्वनोः मृत्युः, बलदेवस्य दुर्योधनाय गदाविद्यायाः शिक्षा, अकूरस्य श्रीकृष्णाय मणिप्रदानम्, श्रीकृष्णस्य पुनः अक्रूराय मणिप्रदानम्

एकोनचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
यत्तत् सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ।
अदात् तद्धारयामास बभ्रुर्वै शतधन्वना ।। १ ।।
सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
अक्रूरोऽन्तरमन्विच्छन् मणिं चैव स्यमन्तकम् ।। २ ।।
सत्राजितं ततो हत्वा शतधन्वा महाबलः ।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ।। ३ ।।
अक्रूरस्तु ततो रत्नमादाय भरतर्षभ ।
समयं कारयांचक्रे नावेद्योऽहं त्वयेत्युत ।। ४ ।।
वयमभ्युपयास्यामः कृष्णेन त्वामभिद्रुतम् ।
ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयम् ५ ।।
हते पितरि दुःखार्ता सत्यभामा यशस्विनी ।
प्रययौ रथमारुह्य नगरं वारणावतम् ।। ६ ।।
सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः ।
भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ।। ७ ।।
पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् ।
कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम्।। ८ ।।
ततस्त्वरितमागत्य द्वारकां मधुसूदनः ।
पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ।। ९ ।।
हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
स्यमन्तकः स मद्गामी तस्य प्रभुरहं विभो ।। 1.39.१० ।।
तदारोह रथं शीघ्रं भोजं हत्वा महाबलम् ।
स्यमन्तको महाबाहो ह्यस्माकं स भविष्यति ।। ११ ।।
ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः ।
शतधन्वा ततोऽक्रूरमवैक्षत् सर्वतो दिशम् ।। १२ ।।
संरब्धौ तावुभौ दृष्ट्वा तत्र भोजजनार्दनौ ।
शक्तोऽपि शाठ्याद्धार्दिक्यमक्रूरो नाभ्यपद्यत ।। १३ ।।
अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः ।
योजनानां शतं साग्रं हयया प्रत्यपद्यत ।। १४ ।।
विख्याता हृदया 'नाम शतयोजनगामिनी ।
भोजस्य वडवा राजन् यया कृष्णमयोधयत् ।। १५ ।।
क्षीणां जवन च हयामध्वनः शतयोजने ।
दृष्ट्वा रथस्य ता वृद्धिं शतधन्वा समत्यजत् ।। १६ ।।
ततस्तस्या हयायास्तु श्रमात् खेदाच्च भारत ।
खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ।। १७ ।।
तिष्ठस्वेह महाबाहो दृष्टदोषा हया मया ।
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम्।। १८ ।।
पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
मिथिलामभितो राजन् जघान परमास्त्रवित् ।। १९ ।।
स्यमन्तकं च नापश्यद्धत्वा भोजं महाबलम्।
निवृत्तं चाब्रवीत् कृष्णं रत्नं देहीति लाङ्गली ।। 1.39.२० ।।
नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
धिक्छब्दमसकृत्कृत्वा प्रत्युवाच जनार्दनम् ।। २१ ।।
भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम्।
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ।। २२ ।।
प्रविवेश ततो रामो मिथिलामरिमर्दनः ।
सर्वकामैरुपहृतैमैथिलेनाभिपूजितः ।। २३ ।।
एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः ।
नानारूपान् क्रतून् सर्वानाजहार निरर्गलान् ।। २४ ।।
दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह ।
स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ।। २५ ।।
अथ रत्नानि चाग्र्याणि द्रव्याणि विविधानि च ।
षष्टिं वर्षाणि धर्मात्मा यज्ञेषु विनियोजयत् ।। २६ ।।
अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः ।
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ।। २७ ।।
अथ दुर्योधनो राजा गत्वा तु मिथिलां प्रभुः ।
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ।। २८ ।।
प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः ।
आनीतो द्वारकामेव कृष्णेन च महात्मना ।। २९ ।।
अक्रूरस्त्वन्धकैः सार्धमपायाद् भरतर्षभ ।
हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलम् ।। 1.39.३० ।।
ज्ञातिभेदभयात् कृष्णस्तमुपेक्षितवानथ ।
अपयाते तथाक्रूरे नावर्षत् पाकशासनः ।। ३१ ।।
अनावृष्ट्या यदा राज्यमभवद् बहुधा कृशम् ।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ।। ३२ ।।
पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः ।
प्रववर्ष सहस्राक्षः कच्छे जलनिधेस्तदा ।। ३३ ।।
कन्यां च वासुदेवाय स्वसारं शीलसम्मताम् ।
अक्रूरः प्रददौ धीमान् प्रीत्यर्थं कुरुनन्दन ।। ३४ ।।
अथ विज्ञाय योगेन कृष्णो बभ्रूगतं मणिम् ।
सभामध्ये गतं प्राह तमक्रूरं जनार्दनः ।। ३५ ।।
यत् तद् रत्नं मणिवरं तव हस्तगतं विभो ।
तत् प्रयच्छस्व मानार्ह मयि मानार्यकं कृथाः ।। ३६ ।।
षष्टिवर्षे गते काले यद्रोषोऽभून्ममानघ ।
स संरूढोऽसकृत्प्राप्तस्ततः कालात्ययो महान्।। ३७ ।।
ततः कृष्णस्य वचनात् सर्वसात्त्वतसंसदि ।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ।। ३८ ।।
ततस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिंदमः ।
ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः ।। ३९ ।।
स कृष्णहस्तात्सम्प्राप्तं मणिरन्तं स्यमन्तकम् ।
आबद्ध्य गान्दिनीपुत्रो विरराजांशुमानिव ।। 1.39.४० ।।
यस्त्वेवं शृणुयान्नित्यं शुचिर्भूत्वा समाहितः ।
सुखानां सकलानां च फलभागीह जायते ।। ४१ ।।
आ ब्रह्मभुवनाश्चापि यशःख्यातिर्न संशयः ।
भविष्यति नृपश्रेष्ठ सत्यमेतद् ब्रवीमि ते ।। ४२।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वण्येकोनचत्वारिंशोऽध्यायः । । ३९ । ।