हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ००१

हरिवंशपुराणम्
अध्यायः ००१
वेदव्यासः
अध्यायः ००२ →
मङ्गलाचरणम्, नारदस्य मथुरायां आगत्वा कंसाय भावी भयस्य कथनम्, कंसस्य अनर्गल वार्तालापम्

श्रीपरमात्मने नमः

श्रीमहाभारतम्

तस्य खिलभागो हरिवंशः

( तत्र विष्णुपर्व)

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।
वैशम्पायन उवाच
ज्ञात्वा विष्णुं क्षितिगतं भागांश्च त्रिदिवौकसाम् ।
विनाशशंसी कंसस्य नारदो मथुरां ययौ ।। १ ।।
त्रिविष्टपादापतितो मथुरोपवने स्थितः ।
प्रेषयामास कंसस्य दूतं स मुनिपुङ्गवः ।। २ ।
स दूतः कथयामास मुनेरागमनं वने ।
स नारदस्यागमनं श्रुत्वा त्वरितविक्रमः ।। ३ ।।
निर्जगामासुरः कंसः स्वपुर्याः पद्मलोचनः ।
स ददर्शातिथिं श्लाघ्यं देवर्षिं वीतकल्मषम् ।। ४ ।।
तेजसा ज्वलनाकारं वपुषा सूर्यवर्चसम् ।
सोऽभिवाद्यर्षये तस्मै पूजां चक्रे यथाविधि ।। ५ ।।
आसनं चाग्निवर्णाभं विसृज्योपजहार सः ।
निषसादासने तस्मिन् स वै शक्रसखो मुनिः ।। ६ ।।
उवाच चोग्रसेनस्य सुतं परमकोपनम् ।
पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा ।। ७ ।।
यते त्वेवं मम वचः श्रूयतां गृह्यतां त्वया ।
अनुसृत्य दिवोलोकानहं ब्रह्मपुरोगमान् ।। ८ ।।
गतः सूर्यसखं तात विपुलं मेरुपर्वतम्।
सनन्दनवनं चैव दृष्ट्वा चैत्ररथं वनम् ।। ९ ।।
 आप्लुतं सर्वतीर्थेषु सरित्सु सह दैवतैः ।
दिव्या त्रिधारा दृष्टा मे पुण्या त्रिपथगा नदी ।। 2.1.१० ।।
स्मरणादेव सर्वेषामंहसा या विभेदिनी ।
उपस्पृष्टं च तीर्थेषु दिव्येषु च यथाक्रमम् ।। ११
दृष्टं मे ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्।
देवगन्धर्वनिर्घोषैरप्सरोभिश्च नादितम् ।। १२ ।।
सोऽहं कदाचिद् देवानां समाजे मेरुमूर्धनि ।
संगृह्य वीणां संसक्तामगच्छं ब्रह्मणः सभाम् ।। १३ ।।
सोऽहं तत्र सितोष्णीषान् नानारत्नविभूषितान् ।
दिव्यासनगतान् देवानपश्यं सपितामहान् ।। १४ ।।
तत्र मन्त्रयतामेवं देवतानां मया श्रुतः ।
भवतः सानुगस्यैव वधोपायः सुदारुणः ।। १५ ।।
तत्रैषा देवकी या ते मथुरायां लघुस्वसा ।
योऽस्यां गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति ।। १६ ।।
देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः ।
परं रहस्यं देवानां स ते मृत्युर्भविष्यति ।। १७ ।।
परश्चैवापरस्तेषां स्वयम्भूश्च दिवौकसाम्।
ततस्ते तन्महद्भूतं दिव्यं च कथयाभ्यहम् ।। १८ ।।
श्लाघ्यश्च स हि ते मृत्युर्भूतपूर्वश्च तं स्मर ।
यत्नश्च क्रियतां कंस देवक्या गर्भकृन्तने ।। १९ ।।
एषा मे त्वद्गता प्रीतिर्यदर्थं चाहमागतः ।
भुज्यन्तां सर्वकामार्थाः स्वस्ति तेऽस्तु व्रजाम्यहम्।2.1.२०।
इत्युक्त्वा नारदे याते तस्य वाक्यं विचिन्तयन् ।
जहासोच्चैस्ततः कंसः प्रकाशदशनश्चिरम् ।। २१ ।।
प्रोवाच सस्मितं चैव भृत्यानामग्रतः स्थितः ।
हास्यः खलु स सर्वेषु नारदो न विशारदः ।। २२ ।।
नाहं भीषयितुं शक्यो देवैरपि सवासवैः ।
आसनस्थः शयानो वा प्रमत्तो मत्त एव च ।। २३1
योऽहं दोर्भ्यामुदाराभ्यां क्षोभयेयं धरामिमाम् ।
कोऽस्ति मां मानुषे लोके यः क्षोभयितुमुत्सहेत् ।। २४ ।।
अद्यप्रभृति देवानामेवं देवानुवर्तिनाम् ।
नृपक्षिपशुसंघानां करोमि कदनं महत् ।। २५ ।।
आज्ञाप्यतां हयः केशी प्रलम्बो धेनुकस्तथा ।
अरिष्टो वृषभश्चैव पूतना कालियस्तथा ।। २६ ।।
अटध्वं पृथिवीं कृत्स्नां यथेष्टं कामरूपिणः ।
प्रहरध्वं च सर्वेषु येऽस्माकं पक्षदूषकाः ।। २७ ।।
गर्भस्थानामपि गतिर्विज्ञेया चैव देहिनाम् ।
नारदेन हि गर्भेभ्यो भयं नः समुदाहृतम् ।। २८ ।।
भवन्तो हि यथाकामं मोदन्तां विगतज्वराः ।
मां च वो नाथमाश्रित्य नास्ति देवकृतं भयम् ।। २९ ।।
स तु केलिकिलो विप्रो भेदशीलश्च नारदः ।
सुश्लिष्टानपि लोकेऽस्मिन् भेदयँल्लभते रतिम् ।। 2.1.३० ।।
कण्डूयमानः सततं लोकानटति चञ्चलः ।
घटमानो नरेन्द्राणां तन्त्रैवराणि चैव हि ।। ३१ ।।
एवं स विलपन्नेव वाङ्मात्रेणैव केवलम् ।
विवेश कंसो भवनं दह्यमानेन चेतसा ।। ३२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि नारदागमने कंसवाक्ये प्रथमोऽध्यायः ।। १ ।।