हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ००९

← अध्यायः ००८ हरिवंशपुराणम्
अध्यायः ००९
वेदव्यासः
अध्यायः ०१० →
वृकाणां उत्पातकारणेन व्रजवासिनां तं स्थानं त्यज्य वृन्दावने गमनम्

नवमोऽध्यायः

वैशम्पायन उवाच
एवं वृकांश्च तान् दृष्ट्वा वर्धमानान्दुरासदान् ।
सस्त्रीपुमान्स घोषो वै समस्तोऽमन्त्रयत्तदा।। १ ।।
स्थानेनेह न नः कार्यं व्रजामोऽन्यन्महद्वनम् ।
यच्छिवं च सुखोष्यं च गवां चैव सुखावहम्।।२।।
अद्यैव किं चिरेण स्म व्रजामः सह गोधनैः ।
यावद् वृकैर्वधं घोरं न नः सर्वो व्रजो व्रजेत् ।। ३ ।।
एषां धूम्रारुणाङ्गानां दंष्ट्रिणां नखकर्षिणाम्।
वृकाणां कृष्णवक्त्राणां बिभीमो निशि गर्जताम्।। ४ ।।
मम पुत्रो मम भ्राता मम वत्सोऽथ गौर्मम ।
वृकैर्व्यापादिता ह्येवं क्रन्दन्ति स्म गृहे गृहे ।। ५ ।।
तासां रुदितशब्देन गवां हंभारवेण च ।
व्रजस्योत्थापनं चक्रुर्घोषवृद्धाः समागताः ।। ६ ।।
तेषां मतमथाज्ञाय गन्तुं वृन्दावनं प्रति ।
व्रजस्य विनिवेशाय गवां चैव हिताय च ।। ७ ।।
वृन्दावननिवासाय ताञ्ज्ञात्वा कृतनिश्चयान् ।
नन्दगोपो बृहद्वाक्यं बृहस्पतिरिवाददे ।। ८ ।।
अद्यैव निश्चयप्राप्तिर्यदि गन्तव्यमेव नः ।
शीघ्रमाज्ञाप्यतां घोषः सज्जीभवत मा चिरम् ।। ९ ।।
ततोऽवघुष्यत तदा घोषे तत् प्राकृतैर्जनैः ।
शीघ्रं गावः प्रकल्प्यन्तां भाण्डं समभिरोप्यताम।। 2.9.१० ।।
वत्सयूथानि काल्यन्तां युज्यन्तां शकटानि च ।
वृन्दावनमितः स्थानान्निवेशाय च गम्यताम् ।। ११।।
तच्छ्रुत्वा नन्दगोपस्य वचनं साधु भाषितम्।
उदतिष्ठद् व्रजः सर्वः शीघ्रं गमनलालसः ।। १२ ।।
प्रयाह्युत्तिष्ठ गच्छामः किं शेषे याहि योजय ।
उत्तिष्ठति व्रजे तस्मिन् गोपकोलाहलो ह्यभूत् ।। १३ ।।
उत्तिष्ठमानः शुशुभे शकटीशकटस्तु सः ।
व्याघ्रघोषमहाघोषो घोषः सागरघोषवान् ।। १४ ।।
गोपीनां गर्गरीभिश्च मूर्ध्नि चोत्तम्भितैर्घटैः ।
निष्पपात व्रजात्पंक्तिस्तारापंक्तिरिवाम्बरात्।। १५ ।।
नीलपीतारुणैस्तासां वस्त्रैरग्रस्तनोच्छ्रितैः ।
शक्रचापायते पंक्तिर्गोपीनां मार्गगामिनी ।। १६ ।।
दामनीदामभारैश्च केचित् कायावलम्बिभिः ।
गोपा मार्गगता भान्ति सावरोहा इव द्रुमाः ।। १७ ।।
स व्रजो व्रजता भाति शकटौघेन भास्वता ।
पोतैः पवनविक्षिप्तैर्निष्पतद्भिरिवार्णवः ।। १८ ।।
क्षणेन तद् व्रजस्थानमीरिणं समपद्यत ।
द्रव्यावयवनिर्धूतं कीर्णं वायसमण्डलैः ।। १९ ।।
ततः क्रमेण घोषः स प्राप्तो वृन्दावनं वनम् ।
निवेशं विपुलं चक्रे गवां चैव हिताय च ।। 2.9.२० ।।
शकटावर्तपर्यन्तं चन्द्रार्द्धाकारसंस्थितम्।
मध्ये योजनविस्तीर्णं तावद्द्विगुणमायतम्।। २१ ।।
कण्टकीभिः प्रवृद्धाभिस्तथा कण्टकितद्रुमैः ।
निखातोच्छ्रितशाखाग्रैरभिगुप्तं समन्ततः ।। २२ ।।
मन्थैरारोप्यमाणैश्च मन्थबन्धानुकर्षणैः ।
अद्भिः प्रक्षाल्यमानाभिर्गर्गरीभिरितस्ततः ।। २३ ।।
कीलैरारोप्यमाणैश्च दामनीपाशपाशितैः ।
स्तम्भनीभिर्धृताभिश्च शकटैः परिवर्तितैः ।। २४ ।।
नियोगपाशैरासक्तैर्गर्गरीस्तम्भमूर्धसु ।
छादनार्थं प्रकीर्णैश्च कटकैस्तृणसंकटैः ।। २५ ।।
शाखाविटङ्कैर्वृक्षाणां क्रियमाणैरितस्ततः ।
शोध्यमानैर्गवां स्थानैः स्थाप्यमानैरुलूखलैः ।। २६ ।।
प्राङमुखैः सिच्यमानैश्च संदीप्यद्भिश्च पावकैः ।
सवत्सचर्मास्तरणैः पर्यङ्कैश्चावरोपितैः ।। २७ ।।
तोयमुत्तारयन्तीभिः प्रेक्षन्तीभिश्च तद् वनम् ।
शाखाश्चाकर्षमाणाभिर्गोपीभिश्च समन्ततः ।। २८।।
युवभिः स्थविरैश्चैव गोपैर्व्यग्रकरैर्भृशम् ।
विशसद्भिः कुठारैश्च काष्ठान्यपि तरूनपि।। २९ ।।
तद् व्रजस्थानमधिकं शुशुभे काननावृतम् ।
रम्यं वननिवेशं वै स्वादुमूलफलोदकम् ।। 2.9.३० ।।
तास्तु कामदुघा गावः सर्वपक्षिरुतं वनम्।
वृन्दावनमनुप्राप्ता नन्दनोपमकाननम् ।। ३१।।
पूर्वमेव तु कृष्णेन गवां वै हितकारिणा ।
शिवेन मनसा दृष्टं तद् वनं वनचारिणा ।। ३२ ।।
पश्चिमे तु ततो रूक्षे घर्मे मासे निरामये ।
वर्षतीवामृतं देवे तृणं तत्र व्यवर्धत ।। ३३ ।।
न तत्र वत्साः सीदन्ति न गावो नेतरे जनाः ।
यत्र तिष्ठति लोकानां भवाय मधुसूदनः ।। ३४ ।।
ताश्च गावः स घोषस्तु स च संकर्षणो युवा ।
कृष्णेन विहितं वासं तमध्यासत निर्वृताः ।। ३५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वृन्दावनप्रवेशे नवमोऽध्यायः ।। ९