प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०२७ हरिवंशपुराणम्
अध्यायः ०२८
वेदव्यासः
अध्यायः ०२९ →
कंसस्य चिन्ता, तेन रंगशालायाः दर्शनं, तस्याः सज्जीकरणस्यादेशं, चाणूर मुष्टिकाभ्यां कुवलयापीडस्य महामात्रं च श्रीकृष्णबलरामयोः वधाय आज्ञादानं, महामात्राय द्रुमिलात् स्वोत्पत्तेः कथायाः कथनं, तस्य मातुः सुयामुने पर्वतोपरि द्रुमिलेन सह समागमं , तयोः परस्परं वरदानं शापं च

अष्टाविंशोऽध्यायः

वैशम्पायन उवाच
स चिन्तयित्वा धनुषो भङ्गं भोजविवर्धनः ।
बभूव विमना राजा चिन्तयन् भृशदुःखितः ।। १ ।।
कथं बालो विगतभीरवमत्य महाबलम् ।
प्रेक्ष्यमाणस्तु पुरुषैर्धनुर्भङ्क्त्वा विनिर्गतः ।। २ ।।
यस्यार्थे दारुणं कर्म कृतं लोकविगर्हितम् ।
पितृष्वस्रात्मजान् वीरान्षडेवाहं न्यपोथयम् ।। ३ ।।
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ।
नारदोक्तं च वचनं नूनं मह्यमुपस्थितम् ।। ४ ।।
एवं राजा विचिन्त्याथ निष्क्रम्य स्वगृहोत्तमात्।
प्रेक्षागारं जगामाशु मञ्चानामवलोककः ।। ५ ।।
स दृष्ट्वा सर्वनिर्युक्तं प्रेक्षागारं नृपोत्तमः ।
श्रेणीनां दृढनिर्युक्तैर्मञ्चवाटैर्निरन्तरम् ।। ६ ।।
सोत्तमागारयुक्ताभिर्वलभीभिर्विभूषितम् ।
छदीभिः सम्प्रवृद्धाभिरेकस्तम्भैर्विभूषितम् ।। ७ ।।
सर्वतः सारनिर्व्यूहं स्वायतं सुप्रतिष्ठितम् ।
उदग्राक्लिष्टसुक्लिष्टमञ्चारोहणमुत्तमम् ।। ८ ।।
नृपासनपरिक्षिप्तं संचारपथसंकुलम्।
छन्नं तद् वेदिकाभिश्च मानुषौघभरक्षमम् ।। ९ ।।
स टष्ट्वा भूषितं रङ्गमाज्ञापयत बुद्धिमान् ।
श्वः सचित्राः समाल्याश्च सपताकास्तथैव च ।। 2.28.१० ।।
सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः ।
क्रियन्तां मञ्चवाटाश्च वलभ्यो वीथयस्तथा ।। ११ ।।
रङ्गवाटे करीषस्य कल्प्यन्तां राशयोऽव्ययाः ।
पटास्तरणशोभाश्च वलयश्चानुरूपतः ।। १२
स्थाप्यन्तां सुनिखाताश्च पानकुम्भा यथाक्रमम् ।
उदभारसहाः सर्वे सकाञ्चनघटोत्तमाः ।। १३ ।।
वलयश्चोपकल्प्यन्तां कषायाश्चैव कुम्भशः ।
प्राश्निकाश्च निमन्त्र्यन्तां श्रेण्यश्च सपुरोगमाः ।। १४ ।।
आज्ञा च देया मल्लानां प्रेक्षकाणां तथैव च ।
समाजे मञ्चशोभाश्च कल्प्यन्तां सूपकल्पिताः ।। १५ ।।
एवमाज्ञाप्य राजा स समाजविधिमुत्तमम् ।
समाजवाटान्निष्क्रम्य विवेश स्वं निवेशनम् ।। १६ ।।
आह्वानं तत्र संचक्रे तस्य मल्लद्वयस्य वै ।
चाणूरस्याप्रमेयस्य मुष्टिकस्य तथैव च ।। १७ ।।
तौ तु मल्लौ महावीर्यौ बलिनौ बाहुशालिनौ ।
कंसस्याज्ञां पुरस्कृत्य हृष्टौ विविशतुस्तदा ।। १८।।
तौ समीपगतौ दृष्ट्वा मल्लौ जगति विश्रुतौ ।
उवाच कंसो नृपतिः सोपन्यासमिदं वचः ।। १९ ।।
भवन्तौ मम विख्यातौ मल्लौ वीरध्वजोच्छ्रितौ ।
पूजितौ च यथान्यायं सत्कारार्हौ विशेषतः ।। 2.28.२० ।।
तन्मत्तो यदि सत्कारः स्मर्यते सुकृतानि च ।
कर्तव्यं मे महत् कर्म भवद्भ्यां स्वेन तेजसा ।। २१ ।।।
यावेतौ मम संवृद्धौ व्रजे गोपालकावुभौ ।
संकर्षणश्च कृष्णश्च बालावपि जितश्रमौ ।। २२ ।।
एतौ रङ्गगतौ युद्धे युद्ध्यमानौ वनेचरौ ।
निपातानन्तरं शीघ्रं हन्तव्यौ नात्र संशयः ।। २३ ।।
बालाविमौ सुचपलावक्रियाविति सर्वथा ।
नावज्ञा तत्र कर्तव्या कर्तव्यो यत्न एव हि ।। २४ ।।
ताभ्यां युधि निरस्ताभ्यां गोपाभ्यां रङ्गसंनिधौ ।
आयत्यां च तदात्वे च श्रेयो मम भविष्यति ।।२५।
नृपतेः स्नेहसंयुक्तैर्वचोभिर्हृष्टमानसौ ।
ऊचतुर्युद्धसम्मत्तौ मल्लौ चाणूरमुष्टिकौ ।। २६ ।।
यद्यावयोस्तौ प्रमुखे स्थास्येते गोपकिल्बिषौ ।
हतावित्येव मन्तव्यौ प्रेतरूपौ तपस्विनौ ।। २७ ।।
यद्यावां प्रतियोत्स्येते तावरिष्टपरिप्लुतौ ।
आवाभ्यां रोषयुक्ताभ्यां प्रमुखे तौ वनेचरौ ।। २८ ।।
एवं वाग्विषमुत्सृज्य तावुभौ मल्लपुङ्गवौ ।
अनुज्ञातौ नरेन्द्रेण स्वे गृहे तौ प्रजग्मतुः ।। २९ ।।
महामात्रं ततः कंसो बभाषे हस्तिजीविनम् ।
हस्ती कुवलयापीडः समाजद्वारि तिष्ठतु ।। 2.28.३० ।।
बलवान् मदलोलाक्षश्चपलः क्रोधनो नृषु ।
दानोत्कटकटश्चण्डः प्रतिवारणरोषणः ।। ३१ ।।
स संनोदयितव्यस्ते तावुद्दिश्य वनौकसौ ।
वसुदेवसुतौ वीरौ यथा स्यातां गतायुषौ ३२ ।।
त्वया चैव गजेन्द्रेण यदि तौ गोष्ठजीविनौ ।
भवेतां पतितौ रङ्गे पश्येयमहमुत्कटौ ।। ३३ ।।
ततस्तौ पतितौ दृष्ट्वा वसुदेवः सबान्धवः ।
छिन्नमूलो निरालम्बः सभार्यो विनशिष्यति ।। ३४ ।।
ये चेमे यादवा मूर्खाः सर्वे कृष्णपरायणाः ।
विनशिष्यन्ति च्छिन्नाशा दृष्ट्वा कृष्णं निपातितम् ।।३५।।
एतौ हत्वा गजेन्द्रेण मल्लैर्वा स्वयमेव वा ।
पुरीं निर्यादवीं कृत्वा विचरिष्याम्यहं सुखी ।। ३६ ।।
करके मैं सुखपूर्वक विचरूँगा ।। ३६ ।।
पिता हि मे परित्यक्तो यादवानां कुलोद्वहः ।
शेषाश्च मे परित्यक्ता यादवाः कृष्णपक्षिणः ।। ३७ ।।
न चाहमुग्रसेनेन जातः किल सुतार्थिना ।
मानुषेणाल्पवीर्येण यथा मामाह नारदः ।। ३८ ।।
महामात्र उवाच
कथमुक्तं नारदेन राजन् देवर्षिणा पुरा ।
आश्चर्यमेतत् कथितं त्वत्तः श्रुतमरिंदम ।। ३९ ।।
कथमन्येन जातस्त्वमुग्रसेनात् पितुर्विना ।
तव मात्रा कथं राजन् कृतं कर्मेदमीदृशम् ।। 2.28.४० ।।
अन्यापि प्राकृता नारी न कुर्याच्च जुगुप्सितम् ।
विस्तरं श्रोतुमिच्छामि ह्येतत् कौतूहलं हि मे ।। ४१ ।।
कंस उवाच
यथा कथितवान् विप्रो महर्षिर्नारदः प्रभुः ।
तथाहं सम्प्रवक्ष्यामि यदि तै श्रवणे मतिः ।। ४२।।
आगतः शक्रसदनात् स वै शक्रसखो मुनिः ।
चन्द्रांशुशुक्लवसनो जटामण्डलमुद्वहन् ।। ४३ ।।
कृष्णाजिनोत्तरीयेण रुक्मयज्ञोपवीतवान् ।
दण्डी कमण्डलुधरः प्रजापतिरिवापरः ।। ४४ ।।
गाता चतुर्णां वेदानां विद्वान् गान्धर्ववेदवित् ।
स नारदोऽथ देवर्षिर्ब्रह्मलोकचरोऽव्ययः ।। ४५ ।।
तमागतमृषिं दृष्ट्वा पूजयित्वा यथाविधि ।
पाद्यार्घ्यमासनं दत्त्वा सम्प्रवेश्योपविश्य ह ।। ४६ ।।
सुखोपविष्टोऽथ मुनिः पृष्ट्वा च कुशलं मम ।
उवाच च प्रीतमना देवर्षिर्भावितात्मवान् ।। ४७ ।।
नारद उवाच
पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा ।
इदमेकं मम वचः श्रूयतां प्रतिगृह्यताम् ।। ४८ ।।
गतोऽहं देवसदनं सौवर्णं मेरुपर्वतम् ।
सोऽहं कदाचिद् देवानां समाजे मेरुमूर्धनि ।। ४९ ।।
तत्र मन्त्रयतामेवं देवतानां मया श्रुतः ।
भवतः सानुगम्यैव वधोपायः सुदारुणः ।। 2.28.५० ।।
तत्र यो देवकीगर्भो विष्णुर्लोकनमस्कृतः ।
योऽस्या गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति ।।५१।।
देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः ।
परं रहस्यं देवानां स ते मृत्युर्भविष्यति ।। ५२ ।।
यत्नश्च क्रियतां कंस गर्भाणां पातनं प्रति ।
नावज्ञा रिपवे कार्या दुर्बले स्वजनेऽपि वा ।। ५३ ।
न चायमुग्रसेनः स पिता तव महाबलः ।
द्रुमिलो नाम तेजस्वी सौभस्य पतिरूर्जितः ।। ५४ ।।
श्रुत्वाहं तद् वचस्तस्य किंचिद् रोषसमन्वितः ।
भूयोऽपृच्छं कथं ब्रह्मन् द्रुमिलो नाम दानवः ।। ५५ ।।
मम मात्रा कथं तस्य ब्रूहि विप्र समागमः ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।। ५६ ।।
नारद उवाच
हन्त ते कथयिष्यामि शृणु राजन् यथार्थतः ।
द्रमिलस्य च मात्रा ते संवादं च समागमम् ।। ५७ ।।
सुयामुनं नाम नगं तव माता रजस्वला ।
प्रेक्षितुं सहिता स्त्रीभिर्गता वै सा कुतूहलात् ।। ५८ ।।
सा तत्र रमणीयेषु रुचिरद्रुमसानुषु ।
चचार नगशृङ्गेषु कन्दरेषु नदीषु च ।। ५९ ।।
किन्नरोद्गीतमधुराः प्रतिश्रुत्यभिनादिताः ।
शृण्वन्ती काजननीर्वाचः श्रोत्रसुखावहाः ।। 2.28.६० ।।
बर्हिणां चैव विरुतं खगानां च विकूजितम् ।
अभीक्ष्णमभिशृण्वन्ती स्त्रीधर्ममभिरोचयत् ।। ६१ ।।
एतस्मिन्नन्तरे वायुर्वनराजिविनिःसृतः ।
हृद्यः कुसुमगन्धाढ्यो ववौ मन्मथबोधनः ।। ६२ ।।
द्विरेफाभरणाश्चैव कदम्बा वायुघट्टिताः ।
मुमुचुर्गन्धमधिकं संततासारमूर्छिताः ।। ६३ ।।
केसराः पुष्पवर्षैश्च ववृषुर्मदबोधनाः ।
नीपा दीपा इवाभान्ति पुष्पकण्टकधारिणः ।। ६४ ।।
मही नवतृणच्छन्ना शक्रगोपविभूषिता ।
यौवनस्थेव वनिता स्वं दधारार्तवं वपुः ।। ६५ ।।
अथ सौभपतिः श्रीमान् द्रुमिलो नाम दानवः ।
भविष्यद्दैवयोगेन विधात्रा तत्र नीयते ।। ६६ ।।
कामगेन रथेनाशु तरुणादित्यवर्चसा ।
यदृच्छया गतस्तत्र सुयामुनदिदृक्षया ।। ६७ ।।
विहायसा कामगमो मनसोऽप्याशुगामिना ।
स तं प्राप्य पर्वतेन्द्रमवतीर्य रथोत्तमात् ।। ६८ ।।
पर्वतोपवने न्यस्य रथं पररथारुजम् ।
अथासौ सूतसहितश्चचार नगमूर्धनि ।। ६९ ।।
ततो बहून्यपश्येतां काननानि वनानि च ।
सर्वर्तुगुणसम्पन्नं नन्दनस्येव काननम् ।। 2.28.७० ।।
चेरतुर्नगशृङ्गेषु कन्दरेषु नदीषु च ।
नानाधातुपिनद्धैश्च शृङ्गैर्बहुभिरुच्छ्रितैः ।। ७१ ।।
नानारत्नविचित्रैश्च काञ्चनाञ्जनराजतान् ।
नानाकुसुमगन्धाढ्यान् नानासत्त्वगणैर्युतान् ।। ७२ ।।
नानाद्विजगणैर्घुष्टान् नानापुष्पफलद्रुमान् ।
नानौषधिसमायुक्तानृषिसिद्धानुसेवितान् ।। ७३ ।।
विद्याधरान् किम्पुरुषानृक्षवानरराक्षसान् ।
सिंहान् व्याघ्रान् वराहांश्च महिषाञ्छरभाञ्छशान ।।७४
सृमरांश्चमरान्न्यङ्कून् मातङ्गान् यक्षराक्षसान् ।
एवं बहुविधान् पश्यंश्चरमाणो नगोत्तमम् ।। ७५ ।।
दूराद् ददर्श नृपतिर्देवीं देवसुतोपमाम् ।
क्रीडमानां सखीभिश्च पुष्पं चैव विचिन्वतीम् ।। ७६ ।।
ततश्चरन्तीं सुश्रोणीं सस्त्रीभिः सह संवृताम् ।
दृप्त सौभपतिर्दूराद् विस्मयन् सूतमब्रवीत् ।। ७७ ।।
कस्येयं मृगशावाक्षी वनान्तरविचारिणी ।
रूपौदार्यगुणोपेता मन्मथस्य रतिर्यथा ।। ७८ ।।
शचीव पुरुहूतस्य उताहो वा तिलोत्तमा ।
नारायणोरुं निर्भिद्य सम्भूता वरवर्णिनी ।
ऐलस्य दयिता देवी योषिद्रत्नं किमुर्वशी ।। ७९ ।।
क्षीरार्णवे मथ्यमाने सुरासुरगणैः सह ।
मन्थानं मन्दरं कृत्वामृतार्थमिति नः श्रुतम् ।। 2.28.८० ।।
ततोऽमृतात्समुत्तस्थौ देवी श्रीर्लोकभाविनी ।
नारायणाङ्कलुलिता किं श्रीरेषा वराङ्गना ।। ८१ ।।
नीलमेघान्तरगता द्योतयन्त्यचिरप्रभा ।
तथा योषिद्गणान् मध्ये रूपं प्रद्योतयद् वनम् ।।८२ ।।
अतीव सुकुमाराङ्गी सुप्रभेन्दुनिभानना ।
दृष्ट्वा रूपमनिन्द्याङ्ग्या विभ्रान्तो व्याकुलेन्द्रियः ।।८३।।
कामस्य वशमापन्नो मनो विह्वलतीव मे ।
भृशं कृन्तति मेऽङ्गानि सायकैः कुसुमायुधः ।
भित्त्वा हृदि शरान् पञ्च निर्दयं हन्ति मे मनः ।। ८४ ।।
हदयाग्निर्वर्धयति आज्यसिक्त इवानलः ।
कथमद्य भवेत् कार्यं शमार्थं मन्मथाग्निना ।। ८५ ।।
केनोपायेन किं कुर्मो भजेन्मां मत्तगामिनी ।
एवं बहु चिन्तयानो नोपलभ्य च दानवः ।। ८६ ।।
सूतमाह मुहूर्तं तु तिष्ठस्व त्वमिहानघ ।
अहं यास्यामि तां द्रष्टुं कस्येयमिति योषितम् ।। ८७ ।।
प्रतीक्षमाणस्तिष्ठस्व यावदागमनं मम ।
श्रुत्वा तु वचनं तस्य तथास्त्विति वचोऽब्रवीत् ।।८८।।
एवमुक्त्वा दानवेन्द्रो गमनाय मनो दधे ।
वार्युपस्पृश्य बलवान् ध्यानमेवान्वचिन्तयत् ।। ८९ ।।
मुहूर्तं ध्यानमात्रेण दृष्टं ज्ञानबलात् ततः ।
उग्रसेनस्य पत्नीति ज्ञात्वा हर्षमुपागतः ।। 2.28.९० ।।
उग्रसेनस्य रूपं वै कृत्वा स्वं परिवर्त्य सः ।
उपासर्पन्महाबाहुः प्रहसन् दानवेश्वरः ।। ९१ ।।
स्मयमानश्च शनकैर्जग्राहामितवीर्यवान् ।
उग्रसेनस्य रूपेण मातरं ते व्यधर्षयत् ।। ९२ ।।
सा पतिस्निग्धहृदया तं भावेनोपसर्पती ।
शङ्किता चाभवत्पश्चात्तस्य गौरवदर्शनात् ।। ९३ ।।
सा तमाहोत्थिता भीता न त्वं मम पतिर्धुवम् ।
कस्य त्वं विकृताचारो येनास्मि मलिनीकृता ।। ९४ ।।
एकभर्तृव्रतमिदं मम संदूषितं त्वया ।
पत्युर्मे रूपमास्थाय नीच नीचेन कर्मणा ।। ९५ ।।
किं मां वक्ष्यन्ति रुषिता बान्धवाः कुलपांसनीम् ।
जुगुप्सिता च वत्स्यामि पतिपक्षैर्निराकृता ।। ९६ ।।
धिक्त्वामीदृशमक्षान्तं दुष्कुलं व्युत्थितेन्द्रियम् ।
अविश्वास्यमनार्यं च परदाराभिमर्शनम् ।।९७।।
स तामाह प्रसज्जन्तीं क्षिप्तः क्रोधेन दानवः ।
अहं वै द्रुमिलो नाम सौभस्य पतिरूर्जितः ।। ९८ ।।
किं मां क्षिपसि रोषेण मूढे पण्डितमानिनि ।
मानुषं पतिमाश्रित्य नीचं मृत्युवशे स्थितम् ।। ९९ ।।
व्यभिचारान्न दुष्यन्ति स्त्रियः स्त्रीमानगर्विते ।
न ह्यासां नियता बुद्धिर्मानुषीणां विशेषतः ।। 2.28.१००।।
श्रूयन्ते हि स्त्रियो बह्व्यो व्यभिचारव्यतिक्रमैः ।
प्रसूता देवसंकाशान् पुत्रान् निश्चलविक्रमान् ।। १०१।।
अतीव हि त्वं स्त्रीलोके पतिधर्मवती सती ।
शुद्धा केशान्विधुन्वन्ती भाषसे यद्यदिच्छसि।। १०२।।
कस्य त्वमिति यच्चाहं त्वयोक्तो मत्तकाशिनि ।
कंसस्तस्माद् रिपुध्वंसी तव पुत्रो भविष्यति ।। १०३।।
सा सरोषा पुनर्भूत्वा निन्दन्ती तस्य तं वरम् ।
उवाच व्यथिता देवी दानवं धृष्टवादिनम् ।। १०४।।
धिक ते वृत्तं सुदुर्वृत्त यः सर्वा निन्दसि स्त्रियः।
सन्ति स्त्रियो नीचवृत्ताः सन्ति चैव पतिव्रताः ।। १०५।।
यास्त्वेकपत्न्यः श्रूयन्तेऽरुन्धतीप्रमुखाः स्त्रियः ।
धृता याभिः प्रजाः सर्वा लोकाश्चैव कुलाधम ।। १०६।।
यस्त्वया मम पुत्रो वै दत्तो वृत्तविनाशनः ।
न मे बहुमतस्त्वेष शृणु चापि यदुच्यते ।। १०७।।
उत्पत्स्यति पुमान् नीच पतिवंशे ममाद्य यः ।
भविष्यति स ते मृत्युर्यश्च दत्तस्त्वया सुतः ।। १०८।।
द्रुमिलस्त्वेवमुक्तस्तु जगामाकाशमेव तु ।
तेनैव रथमुख्येन दिव्येनाप्रतिगामिना ।। १०९।।
जगाम च पुरीं दीना माता तदहरेव ते ।
मामेवमुक्त्वा भगवान् नारदो मुनिसत्तमः ।। 2.28.११०।।
दीप्यमानस्तपोवीर्यात् साक्षादग्निरिव ज्वलन् ।
वल्लकीं वाद्यमानो हि सप्तस्वरविमूर्च्छिताम् ।। १११ ।।
गायनो लक्ष्यवीथीं स जगाम ब्रह्मणोऽन्तिकम् ।
शृणुष्वेदं महामात्र निबोध वचनं मम ।। ११२।
तथ्यं चोक्तं नारदेन त्रैलोक्यज्ञेन धीमता ।
अलं बलेन वीर्येण नयेन विनयेन च ।। ११३।।
प्रमाणैर्वापि वीर्येण तेजसा विक्रमेण च ।
सत्येन चैव दानेन नान्योऽस्ति सदृशः पुमान् ।। ११४।।
विदित्वा सर्वमात्मानं वचनं श्रद्दधाम्यहम् ।
क्ष्रेत्रजोऽहं सुतस्तस्य उग्रसेनस्य हस्तिप ।। ११५।।
मातापितृभ्यां संत्यक्तः स्थापितः स्वेन तेजसा ।
उभाभ्यामपि विद्विष्टो बान्धवैश्च विशेषतः ।। ११६।।
एतानपि हनिष्यामि यादवान् कृष्णपक्षिणः ।
तदिमौ घातयित्वा तु हस्तिना गोपकिल्बिषौ ।। १ १७।।
तद् गच्छ गजमारुह्य सांकुशप्रासतोमरः ।
स्थिरो भव महामात्र समाजद्वारि मा चिरम् ।। १ १८।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
कंसवाक्येऽष्टाविंशोऽध्यायः ।। २८ ।।