हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०३६

← अध्यायः ०३५ हरिवंशपुराणम्
अध्यायः ०३६
वेदव्यासः
अध्यायः ०३७ →
वृष्णिवंश्यानां जरासंधस्य सैनिकेभिः सह युद्धं, बलरामस्य जरासंधेन सह गदायुद्धं,

पराजितस्य जरासंधस्य पलायनम्

षट्त्रिंशोऽध्यायः

वैशम्पायन उवाच
ततो युद्धानि वृष्णीनां बभूवुः सुमहान्त्यथ ।
मागधस्य महामात्रैर्नृपैश्चैवानुयायिभिः ।। १ ।।
रुक्मिणा वासुदेवस्य भीष्मकेणाहुकस्य च।
क्रथेन वसुदेवस्य कैशिकस्य तु बभ्रुणा ।। २ ।।
गदेन चेदिराजस्य दन्तवक्त्रस्य शङ्कुना ।
तथान्यैर्वृष्णिवीराणां नृपाणां च महात्मनाम् ।। ३ ।।
युद्धमासीद्धि सैन्यानां सैनिकैर्भरतर्षभ ।
अहानि पञ्च चैकं च षट् सप्ताष्टौ च दारुणम् ।। ४ ।।
गजैर्गजा हयैरश्वाः पदाताश्च पदातिभिः ।
रथै रथा विमिश्राश्च योधा युयुधिरे नृप ।। ५ ।।
जरासंधस्य नृपते रामेणासीत् समागमः ।
महेन्द्रस्येव वृत्रेण दारुणो रोमहर्षणः ।। ६ ।।
अवेक्ष्य रुक्मिणीं कृष्णो रुक्मिणं न व्यपोथयत् ।
ज्वलनार्कांशुसंकाशानाशीविषविषोपमान् ।। ७ ।।
वारयामास कृष्णो वै शरांस्तस्य तु शिक्षया ।
इत्येषां सुमहानासीद् बलौघानां परिक्षयः ।। ८ ।।
उभयोः सेनयो राजन् मांसशोणितकर्दमः ।
कबन्धानि समुत्तस्थुः सुबहूनि समन्ततः ।। ९ ।।
तस्मिन् विमर्दे योधानां संख्यावृत्तिकराणि च ।
रथी रामो जरासंधं शरैराशीविषोपमैः ।। 2.36.१० ।।
आवृण्वन्नभ्ययाद् वीरस्तं च राजा स मागधः ।
अभ्यवर्तत वेगेन स्यन्दनेनाशुगामिना ।।११ ।।
अन्योन्यं विविधैरस्त्रैविद्ध्वा विद्ध्वा विनेदतुः ।
तौ क्षीणशस्त्रौ विरथौ हताश्वौ हतसारथी ।।१२।।
गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावताम् ।
कम्पयन्तौ भुवं वीरौ तावुद्यतगदावुभौ ।। १३ ।।
ददृशाते महात्मानौ गिरी सशिखराविव ।
व्युपारमन्त युद्धानि पश्यता तौ महाभुजौ ।
संरब्धावभिधावन्तौ गदायुद्धेषु विश्रुतौ ।। १४ ।।
उभौ तौ परमाचार्यौ लोके ख्यातौ महाबलौ ।
मत्ताविव गजौ युद्धे तावन्योन्यमयुध्यताम् ।। १५ ।।
ततो देवाः सगन्धर्वाः सिद्धाश्च समहर्षयः ।
समन्ततश्चाप्सरसः समाजग्मुः सहस्रशः ।। १६ ।।
तद् देवयक्षगन्धर्वमहर्षिभिरलंकृतम् ।
शुशुभेऽभ्यधिकं राजन् दिवं ज्योतिर्गणैरिव ।। १७ ।।
अभिदुद्राव रामं तु जरासंधो महाबलः ।
सव्यं मण्डलमाश्रित्य बलदेवस्तु दक्षिणम् ।। १८ ।।
प्रहरन्तौ ततोऽन्योन्यं गदायुद्धविशारदौ।
दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश ।। १९ ।।
गदानिपातो रामस्य शुश्रुवेऽशनिनिःस्वनः ।
जरासंधस्य च रणे पर्वतस्येव दीर्यतः ।। 2.36.२० ।।
न स्म कम्पयते रामं जरासंधकरच्युता ।
गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवानिलः ।। २१ ।।
रामस्य तु गदावेगं वीर्यात् स मगधेश्वरः ।
सेहे धैर्येण महता शिक्षया च व्यपोहयत् ।। २२ ।।
एवं तौ तत्र संग्रामे विचरन्तौ महाबलौ ।
मण्डलानि विचित्राणि विचेरतुररिंदमौ ।। २३ ।।
व्यायच्छन्तौ चिरं कालं परिश्रान्तौ च तस्थतुः ।
समाश्वस्य मुहूर्तं तु पुनरन्योन्यमाहताम् ।। २४ ।।
एवं तौ योधमुख्यौ तु समं युयुधतुश्चिरम्।
न च तौ युद्धवैमुख्यमुभावेव प्रजग्मतुः।।२५।।
अथापश्यद् गदायुद्धे विशेषं तस्य वीर्यवान् ।
रामः क्रुद्धो गदां त्यक्त्वा जग्राह मुसलोत्तमम्।।२६।।
तमुद्यन्तं तदा दृष्ट्वा मुसलं घोरदर्शनम् ।
अमोघं बलदेवेन क्रुद्धेन तु महारणे ।। २७ ।।
ततोऽन्तरिक्षे वागासीत् सुस्वरा लोकसाक्षिणी।
उवाच बलदेवं तं समुद्यतहलायुधम् ।। २८ ।।
न त्वया राम वध्योऽयमलं सेदेन मानद ।
विदितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम ।
अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः ।। २९ ।।
जरासंधस्तु तच्छ्रुत्वा विमनाः समपद्यत ।
न प्रजह्रे ततस्तस्मै पुनरेव हलायुधः ।। 2.36.३० ।।
तौ व्युपारमतां युद्धे वृष्णयस्ते च पार्थिवाः ।
असक्तमभवद् युद्धं तेषामेवं सुदारुणम् ।। ३१ ।।
दीर्घकालं महाराज निघ्नतामितरेतरम् ।
पराजिते त्वपक्रान्ते जरासंधे महीपतौ ।। ३२ ।।
अस्तं याते दिनकरे नानुसस्रुस्तदा निशि ।
समानीय स्वकं सैन्यं लब्धलक्ष्या महाबलाः ।। ३३ ।।
पुरीं प्रविविशुर्हृष्टाः केशवेनाभिपालिताः ।
खाच्च्युतान्यायुधान्येवं तान्येवान्तर्दधुस्तदा ।। ३४ ।।
जरासंधोऽपि नृपतिर्बिमनाः स्वपुरीं ययौ ।
राजानश्चानुगा येऽस्य स्वराष्ट्राण्येव ते ययुः ।। ३५ ।।
जरासंधं तु ते जित्वा मेनिरे नैव निर्जितम् ।
वृष्णयः कुरुशार्दूल राजा ह्यतिबलः स वै ।। ३६ ।।
दश चाष्टौ च संग्रामाञ्जरासन्धस्य यादवाः ।
ददुर्न चैनं समरे हन्तुं शेकुर्महाबलाः ।। ३७ ।।
अक्षौहिण्यश्च तस्यासन् विंशतिश्च महामते ।
जरासन्धस्य नृपतेस्तदर्थं याः समागताः ।। ३८ ।।
अल्पत्वादभिभूतास्तु वृष्णयो भरतर्षभ ।
बार्हद्रथेन राजेन्द्र राजभिः सहितेन वै ।। ३९ ।।
जित्वा तु मागधं संख्ये जरासन्धं महीपतिम् ।
विहरन्ति स्म सुखिनो वृष्णिसिंहा महारथाः ।। 2.36.४० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि जरासंधापयानं नाम षट्त्रिंशोऽध्यायः ।। ३६ ।।