प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०३८ हरिवंशपुराणम्
अध्यायः ०३९
वेदव्यासः
अध्यायः ०४० →
पुर्याः पुरवासिनां च रक्षणाय बलरामकृष्णयोः मथुरातः दक्षिणभारतं प्रति प्रस्थानम्, परशुरामस्य दर्शनम्, तेन गोमन्तपर्वतोपरि गमनाय ताभ्यां मन्त्रणम्

एकोनचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
विकद्रोस्तु वचः श्रुत्वा वसुदवो महायशाः ।
परितुष्टेन मनसा वचनं चेदमब्रवीत् ।। १ ।।
राजा षाड्गुण्यवक्ता वै राजा मन्त्रार्थतत्त्ववित्।
सतत्त्वं च हितं चैव कृष्णोक्तं किल धीमता ।। २ ।।
भाषिता राजधर्माश्च सत्याश्च जगतो हिताः ।
विक्रद्रुणा यदुश्रेष्ठ यद्धितं तद् विधीयताम् ।। ३ ।।
एतच्छ्रुत्वा पितुर्वाक्यं विक्रद्रोश्च महात्मनः ।
वाक्यमुत्तममेकाग्रो बभाषे पुरुषोत्तमः ।। ४ ।।
ब्रुवतां वः श्रुतं वाक्यं हेतुतः क्रमतस्तथा ।
न्यायतः शास्त्रतश्चैव दैवं चैवानुपश्यताम् ।। ५ ।।
श्रूयतामुत्तरं वाक्यं श्रुत्वा च परिगृह्यताम् ।
नयेन व्यवहर्तव्यं पार्थिवेन यथाक्रमम् ।। ६ ।।
संधिं च विग्रहं चैव यानमासनमेव च ।
द्वैधीभावं संश्रयं च षाड्गुण्यं चिन्तयेत् सदा ।। ७ ।।
बलिनः संनिकृष्टे तु न स्थेयं पण्डितेन वै ।
अपक्रमेद्धि कालज्ञः समर्थो युद्धमुद्वहेत् ।। ८ ।।
अहं तावत् सहार्येण मुहूर्तेऽस्मिन् प्रकाशिते ।
जीवितार्थे गमिष्यामि शक्तिमानप्यशक्तवत् ।। ९ ।।
ततः सह्याचलयुतं सहार्येणाहमक्षयम् ।
आत्मद्वितीयः श्रीमन्तं प्रवेक्ष्ये दक्षिणापथम् ।। 2.39.१० ।।
करवीरपुरं चैव रम्यं क्रौञ्चपुरं तथा ।
द्रक्ष्यावस्तत्र सहितौ गोमन्तं च नगोत्तमम् ।। ११ ।।
आवयोर्गमनं श्रुत्वा जितकाशी स पार्थिवः ।
अप्रविश्य पुरीं दर्पादनुसारं करिष्यति ।। १२ ।।
ततः सह्यवनेष्वेव राजा याति स सानुगः ।
आवयोर्ग्रहणे चैव नृपतिः प्रयतिष्यति ।। १३ ।।
एषा नः श्रेयसी यात्रा भविष्यति कुलस्य वै ।
पौराणामथ पुर्याश्च देशस्य च सुखावहा ।। १४ ।।
न च शत्रोः परिभ्रष्टा राजानो विजिगीषवः ।
परराष्ट्रेषु मृष्यन्ति मृधे शत्रोः क्षयं विना ।। १५ ।।
एवमुक्त्वा तु तौ वीरौ कृष्णसंकर्षणावुभौ ।
प्रपेदतुरसम्भ्रान्तौ दक्षिणौ दक्षिणापथम् ।। १६ ।।
तौ तु राष्ट्राणि शतशश्चरन्तौ कामरूपिणौ ।
दक्षिणां दिशमास्थाय चेरतुर्मार्गगौ सुखम् ।। १७ ।।
सह्यपृष्ठेषु रम्येषु मोदमानावुभौ तथा ।
दक्षिणापथगौ वीरावध्वानं सम्प्रपेदतुः ।। १८ ।।
तौ च स्वल्पेन कालेन सह्याचलविभूषितम् ।
करवीरपुरं प्राप्तौ स्ववंशेन विभूषितम् ।।१९।।
तौ तत्र गत्वा वेणाया नद्यास्तीरान्तमाश्रितम् ।
आसेदतुः प्ररोहाढ्यं न्यग्रोधं तरुपुङ्गवम् ।। 2.39.२० ।।
अधस्तात् तस्य वृक्षस्य मुनिं दीप्ततपोधनम् ।
अंसावसक्तपरशुं जटावल्कलधारिणम् ।। २१ ।।
गौरमग्निशिखाकारं तेजसा भास्करोपमम् ।
क्षत्रान्तकरमक्षोभ्यं वपुष्मन्तमिवार्णवम् ।। २२ ।।
न्यस्तसंकुचिताधानं काले हुतहुताशनम् ।
क्लिन्नं त्रिषवणाम्भोभिराद्यं देवगुरुं यथा ।। २३ ।।
सवत्सां धेनुकां श्वेतां होमधुक् कामदोहनाम्।
क्षीरारणिं कर्षमाणं महेन्द्रगिरिगोचरम् ।। २४ ।।
ददृशतुस्तौ सहितावपरिश्रान्तमव्ययम् ।
भार्गवं राममासीनं मन्दरस्थं यथा रविम् ।। २५ ।।
न्यायतस्तौ तु तं दृष्ट्वा पादमूले कृताञ्जली ।
वसुदेवसुतौ वीरौ सधिष्ण्याविव पावकौ ।। २६ ।।
कृष्णस्तमृषिशार्दूलमुवाच वदतां वरः ।
श्लक्ष्णं मधुरया वाचा लोकवृत्तान्तकोविदः ।। ।। २७ ।।
भगवन् जामदग्न्यं त्वामवगच्छामि भार्गवम्।
रामं मुनीनामृषभं क्षत्रियाणां कुलान्तकम् ।। २८ ।।
त्वया सायकवेगेन क्षिप्तो भार्गव सागरः ।
इषुपातेन नगरं कृतं शूर्पारकं त्वया।।२९।।
धनुःपञ्चशतायाममिषुपञ्चशतोच्छ्रयम् ।
सह्यस्य च निकुञ्जेषु स्फीतो जनपदो महान्।।2.39.३० ।।
अतिक्रम्योदधेर्वेलामपरान्ते निवेशितः ।
त्वया तत् कार्तवीर्यस्य सहस्रभुजकाननम् ।। ३१ ।।
छिन्नं परशुनैकेन स्मरता निधनं पितुः ।
इयमद्यापि रुधिरैः क्षत्रियाणां हतद्विषाम् ।। ३२ ।।
स्निग्धैस्त्वत्परशूत्सृष्टै रक्तपङ्का वसुंधरा ।
रैणुकेयं विजाने त्वां क्षितौ क्षितिपरोषणम् ।। ३३ ।।
परशुप्रग्रहे युक्तं यथैवेह रणे तथा ।
तदिच्छावस्त्वया विप्र कंचिदर्थमुपश्रुतम् ।। ३४ ।।
उत्तरं च श्रुतार्थेन प्रत्युक्तमविशङ्कया ।
आवयोर्मथुरा राम यमुनातीरशोभिनी ।। ३५ ।।
यादवौ स्वो मुनिश्रेष्ठ यदि ते श्रुतिमागतौ ।
वसुदेवो यदुश्रेष्ठः पिता नौ हि धृतव्रतः ।। ३६ ।।
जन्मप्रभृति चैवावां व्रजेष्वेव नियोजितौ ।
तौ स्वः कंसभयात् तत्र शङ्कितौ परिवर्द्धितौ ।। ३७ ।।
वयञ्च प्रथमं प्राप्तौ मथुरायां प्रवेशितौ ।
तावावां व्युत्थितं हत्वा समाजे कंसमोजसा ।। ३८ ।।
पितरं तस्य तत्रैव स्थापयित्वा जनेश्वरम् ।
स्वमेव कर्म चारब्धौ गवां व्यापारकारकौ ।। ३० ।।
अथावयोः पुरं रोद्धुं जरासंधो व्यवस्थितः ।
संग्रामान्सुबहून्कृत्वा लब्धलक्षावपि स्वयम्।। 2.39.४० ।।
ततः स्वपुररक्षार्थं प्रजानां च धृतव्रत ।
अकृतार्थावनुद्योगौ कर्तव्यबलसाधनौ ।। ४१ ।।
अरथौ पत्तिनौ युद्धे निस्तनुत्रौ निरायुधौ ।
जरासंधोद्यमभयात् पुराद् द्वावेव निःसृतौ ।। ४२ ।।
एवमावामनुप्राप्तौ मुनिश्रेष्ठ तवान्तिकम्।
आवयोर्मन्त्रमात्रेण कर्तुमर्हसि सत्क्रियाम् ।। ४३ ।।
श्रुत्वैतद् भार्गवो रामस्तयोर्वाक्यमनिन्दितम् ।
रेणुकेयः प्रतिवचो धर्मसंहितमब्रवीत् ।। ४४ ।।
अपरान्तादहं कृष्ण सम्प्रतीहागतः प्रभो ।
एक एव विना शिष्यैर्युवयोर्मन्त्रकारणात् ।। ४५ ।।
विदितो मे व्रजे वासस्तव पद्मनिभेक्षण ।
दानवानां वधश्चापि कंसस्यापि दुरात्मनः ।। ४६ ।।
विग्रहं च जरासंधे विदित्वा पुरुषोत्तम ।
तव सभ्रातृकस्येह सम्प्राप्तोऽस्मि वरानन ।। ४७ ।।
जाने त्वां कृष्ण गोप्तारं जगतः प्रभुमव्ययम् ।
देवकार्यार्थसिद्ध्यर्थमबालं बालतां गतम् ।। ४८ ।।
न त्वयाविदितं किंचित् त्रिषु लोकेषु विद्यते ।
तथापि भक्तिमात्रेण शृणु वक्ष्यामि ते वचः ।। ४९ ।।
पूर्वजैस्तव गोविन्द पूर्वं पुरमिदं कृतम्।
करवीरपुरं नाम राष्ट्रं चैव निवेशितम् ।। 2.39.५० ।।
पुरेऽस्मिन् नृपतिः कृष्ण वासुदेवो महायशाः ।
शृगाल इति विख्यातो नित्यं परमकोपनः ।। ५१ ।।
नृपेण तेन गोविन्द तव वंशभवा नृपाः ।
दायादा निहताः सर्वे वीर द्वेषानुशायिना ।। ५२ ।।
अहंकारपरो नित्यमजितात्मातिमत्सरी ।
राज्यैश्वर्यमदाविष्टः पुत्रेष्वपि च दारुणः ।। ५३ ।।
तन्नेह भवतः स्थानं रोचते मे नरोत्तम ।
करवीरपुरे घोरे नित्यं पार्थिवदूषिते ।। ५४ ।।
श्रूयतां कथयिष्यामि यत्रोभौ शत्रुबाधनौ ।
जरासंधं बलोदग्रं भवन्तौ योधयिष्यतः ।। ५५ ।।
तीर्त्वा वेणामिमां पुण्यां नदीमद्यैव बाहुभिः ।
विषयान्ते निवासाय गिरिं गच्छाम दुर्गमम् ।। ५६ ।।
रम्यं यज्ञगिरिं नाम सह्यस्य प्ररुहं गिरिम् ।
निवासं मांसभक्षाणां चौराणां घोरकर्मणाम् ।। ५७ ।।
नानाद्रुमलतायुक्तं चित्रं पुष्पितपादपम्।
प्रोष्ये तत्र निशामेकां खटवाङ्गां नाम निम्नगाम्।। ५८ ।।
भद्रं ते संतरिष्यामो निकषोपलभूषणाम् ।
गङ्गाप्रपातप्रतिमां भ्रष्टां च महतो गिरेः ।। ५९ ।।
तस्याः प्रपातं द्रक्ष्यामस्तापसारण्यभूषणम् ।
उपभुज्य त्विमान्कामान्गत्वा तान्धरणीधरान्।।2.39.६०।।
द्रक्ष्यामस्तत्र तान् विप्राञ्छाम्यतो वै तपोधनान्।
रम्यं क्रौञ्चपुरं नाम गमिष्यामः पुरोत्तमम् ।। ६१ ।।
वंशजस्तत्र ते राजा कृष्ण धर्मरतः सदा ।
महाकपिरिति ख्यातो वनवास्यजनाधिपः ।। ६२ ।।
तमदृष्ट्वैव राजानं निवासाय गतेऽहनि ।
तीर्थमानडुहं नाम तत्रस्थाः स्याम संगताः ।। ६३ ।।
ततश्च्युता गमिष्यामः सह्यस्य विवरे गिरिम् ।
गोमन्तमिति विख्यातं नैकशृङ्गविभूषितम् ।। ६४ ।।
स्वर्गतैकमहाशृङ्गं दुरारोहं खगैरपि ।
विश्रामभूतं देवानां ज्योतिर्भिरभिसंवृतम् ।। ६५ ।।
सोपानभूतं स्वर्गस्य गगनाद्रिमिवोच्छ्रितम् ।
तं विमानावतरणं गिरिं मेरुरिवापरम् ।। ६६ ।।
तस्योत्तमे महाशृङ्गे भास्वन्तौ देवरूपिणौ ।
उदयास्तमये सूर्यं सोमं च ज्योतिषां पतिम् ।। ६७ ।।
ऊर्मिमन्तं समुद्रं च अपारद्वीपभूषणम् ।
प्रेक्षमाणौ सुखं तत्र नगाग्रे विचरिष्यथः ।। ६८ ।।
शृङ्गस्थौ तस्य शैलस्य गोमन्तस्य वनेचरौ ।
दुर्गयुद्धेन धावन्तौ जरासंधं विजेष्यथ ।। ६९ ।।
तत्र शैलगतौ दृष्ट्वा भवन्तौ युद्धदुर्मदौ ।
आसक्तः शैलयुद्धे च जरासंधो भविष्यति ।। 2.39.७० ।।
भवतोरपि युद्धे तु प्रवृत्ते तत्र दारुणे ।
आयुधैः सह संयोगं पश्यामि नचिरादिव ।। ७१ ।।
संग्रामश्च महान् कृष्ण निर्दिष्टस्तत्र दैवतैः ।
यदूनां पार्थिवानां च मांसशोणितकर्दमः ।। ७२ ।।
तत्र चक्रं हलं चैव गदां कौमोदकीं तथा ।
सौनन्दं मुसलं चैव वैष्णवान्यायुधानि च ।। ७३ ।।
दर्शयिष्यन्ति संग्रामे पास्यन्ति च महीक्षिताम् ।
रुधिरं कालयुक्तानां वपुर्भिः कालसंनिभैः ।। ७४ ।।
स चक्रमुसलो नाम संग्रामः कृष्ण विश्रुतः ।
दैवतैरिह निर्दिष्टः कालस्यादेशसंज्ञितः ।। ७५ ।।
तत्र ते कृष्ण संग्रामे सुव्यक्तं वैष्णवं वपुः ।
द्रक्ष्यन्ति रिपवः सर्वे सुराश्च सुरभावन ।। ७६ ।।
तां भजस्व गदां कृष्ण चक्रं च चिरविस्मृतम् ।
भजस्व स्वेन रूपेण सुराणां विजयाय वै ।। ७७ ।।
बलश्चायं हलं घोरं मुसलं चारिभेदनम् ।
वधाय सुरशत्रूणां भजताल्लोकभावनः ।। ७८ ।।
एष ते प्रथमः कृष्ण संग्रामो भुवि पार्थिवैः ।
पृथिव्यर्थे समाख्यातो भारावतरणे सुरैः ।। ७९ ।।
आयुधावाप्तिरत्रैव वपुषो वैष्णवस्य च ।
लक्ष्म्याश्च तेजसश्चैव व्यूहानां च विदारणम् ।। 2.39.८० ।।
अतःप्रभृति संग्रामो धरण्यां शस्त्रमूर्च्छितः ।
भविष्यति महान् कृष्ण भारतं नाम वैशसम् ।। ८१ ।।
तद् गच्छ कृष्ण शैलेन्द्रं गोमन्तं च नगोत्तमम् ।
जरासंधमृधे चापि विजयस्त्वामुपस्थितः ।। ८२ ।।
इदं चैवामृतप्रख्यं होमधेनोः पयोऽमृतम् ।
पीत्वा गच्छत भद्रं वो मयाऽऽदिष्टेन वर्त्मना ।। ८३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रामवाक्ये एकोनचत्वारिंशोऽध्यायः ।। ३९ ।।