प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०५९ हरिवंशपुराणम्
अध्यायः ०६०
वेदव्यासः
अध्यायः ०६१ →
श्रीकृष्णेन रुक्मेः पराजयम्, रुक्मिण्याद्या सह श्रीकृष्णस्य विवाहः, तेभ्यः उत्पन्नानां सन्तानानां संक्षेपतः परिचयम्

षष्टितमोऽध्यायः

वैशम्पायन उवाच
कृष्णेन ह्रियमाणां तां रुक्मी श्रुत्वा तु रुक्मिणीम् ।
प्रतिज्ञामकरोत क्रुद्धः समक्षं भीष्मकस्य ह ।।१ ।।
रुक्म्युवाच
अहत्वा युधि गोविन्दमनानीय च रुक्मिणीम् ।
कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद् ब्रवीम्यहम् ।। २ ।।
आस्थाय स रथं वीरः समुदग्रायुधध्वजम् ।
जवेन प्रययौ क्रुद्धो बलेन महता वृतः ।। ३ ।।
तमन्वयुर्नृपाश्चैव दक्षिणापथवर्तिनः ।
क्राथोंऽशुमाञ्छ्रुतर्वा च वेणुदारिश्च वीर्यवान् ।। ४ ।।
भीष्मकस्य सुताश्चान्ये रथेन रथिनां वराः ।
क्रथकैशिकमुख्याश्च सर्व एव महारथाः ।। ५ ।।
ते गत्वा दूरमध्वानं सरितं नर्मदामनु ।
गोविन्दं ददृशुः क्रुद्धाः सहैव प्रियया स्थितम् ।। ६ ।।
अवस्थाप्य च तत्सैन्यं रुक्मी मदबलान्वितः ।
चिकीर्षुर्द्वैरथं युद्धमभ्ययान्मधुसूदनम् ।। ७ ।।
स विव्याध चतुःषष्ट्या गोविन्दं निशितैः शरैः ।
तं प्रत्यविध्यत् सप्तत्या बाणैर्युधि जनार्दनः ।। ८ ।।
यतमानस्य चिच्छेद ध्वजं चास्य महाबलः ।
जहार च शिरः कायात्सारथेस्तस्य वीर्यवान् ।। ९ ।।
तं कृच्छ्रगतमाज्ञाय परिवव्रुर्जनार्दनम् ।
दाक्षिणात्या जिघांसन्तो राजानः सर्व एव हि ।। 2.60.१० ।।
तमंशुमान् महाबाहुर्विव्याध दशभिः शरैः ।
श्रुतर्वा पञ्चभिः क्रुद्धो वेणुदारिश्च सप्तभिः ।। ११ ।।
ततोऽशुमन्तं गोविन्दो बिभेदोरसि वीर्यवान् ।
निषसाद रथोपस्थे व्यथितः स नराधिपः ।। १२ ।।
श्रुतर्वणो जघानाश्वांश्चतुर्भिश्चतुरः शरैः ।
वेणुदारेर्ध्वजं छित्त्वा भुजं विव्याध दक्षिणम् ।। १३ ।।
तथैव च श्रुतर्वाणं शरैर्विव्याध पञ्चभिः ।
शिश्रिये स ध्वजं शान्तो न्यषीदच्च व्यथान्वितः ।। १४ ।।
मुञ्चन्तः शरवर्षाणि वासुदेवं ततोऽभ्ययुः ।
क्रथकैशिकमुख्याश्च सर्व एव महारथाः ।। १५ ।।
बाणैर्बाणांश्च चिच्छेद तेषां युधि जनार्दनः ।
जघान चैषां संरब्धः पतमानांश्च ताञ्छरान् ।। १६ ।।
पुनरन्यांश्चतुःषष्ट्या जघान निशितैः शरैः ।
क्रुद्धानापततो वीरानद्रिवत् स महाबलः ।। १७ ।।
विद्रुतं स्वबलं दृष्ट्वा रुक्मी क्रोधवशंगतः ।
पञ्चभिर्निशितैर्बाणैर्विव्याधोरसि केशवम् ।। १८ ।।
सारथिं चास्य विव्याध सायकैर्निशितैस्त्रिभिः ।
आजघान शरेणास्य ध्वजं च नतपर्वणा ।। १९ ।।
केशवस्त्वरितं दृष्ट्वा क्रुद्धो विव्याध मार्गणैः ।
धनुश्चिच्छेद चाप्यस्य यतमानस्य रुक्मिणः ।। 2.60.२० ।।
अथान्यद् धनुरादाय रुक्मी कृष्णजिघांसया ।
प्रादुश्चकार चान्यानि दिव्यान्यस्त्राणि वीर्यवान्।। २१ ।।
अस्त्रैरस्त्राणि संवार्य तस्य कृष्णो महाबलः ।
पुनश्चिच्छेद तच्चापं रथेषां च त्रिभिः शरैः ।। २२।।
स च्छिन्नधन्वा विरथः खड्गमादाय चर्म च ।
उत्पपात रथाद् वीरो गरुत्मानिव वीर्यवान् ।। २३ ।।
तस्याभिपततः खड्गं चिच्छेद युधि केशवः ।
नाराचैश्च त्रिभिः क्रुद्धो बिभेदैनमथोरसि ।। २४ ।।
स पपात महाबाहुर्वसुधामनुनादयन् ।
विसंज्ञो मूर्च्छितो राजा वज्रेणेव महासुरः ।। २५ ।।
तांश्च राज्ञः शरैः सर्वान् पुनर्विव्याध माधवः ।
रुक्मिणं पतितं दृष्ट्वा व्यद्रवन्त नराधिपाः ।। २६ ।।
विचेष्टमानं तं भूमौ भ्रातरं वीक्ष्य रुक्मिणी ।
पादयोर्न्यपतद् विष्णोर्भ्रातुर्जीवितकाङ्क्षिणी ।। २७ ।।
तामुत्थाप्य परिष्वज्य सान्त्वयामास केशवः ।
अभयं रुक्मिणे दत्त्वा प्रययौ स्वपुरीं ततः ।। २८ ।।
वृष्णयोऽपि जरासंधं भङ्क्त्वा तांश्चैव पार्थिवान् ।
प्रययुर्द्वारकां हृष्टाः पुरस्कृत्य हलायुधम् ।। २९ ।।
प्रयाते पुण्डरीकाक्षे श्रुतर्वाभ्येत्य संगरे ।
रुक्मिणं रथमारोप्य प्रययौ स्वां पुरीं प्रति ।। 2.60.३० ।।
अनानीय स्वसारं तु रुक्मी मानमदान्वितः ।
हीनप्रतिज्ञो नैच्छत् स प्रवेष्टुं कुण्डिनं पुरम् ।। ३१ ।।
विदर्भेषु निवासार्थं निर्ममेऽन्यत् पुरं महत् ।
तद् भोजकटमित्येव बभूव भुवि विश्रुतम् ।। ३२ ।।
तत्रौजसा महातेजा दक्षिणां दिशमन्वगात् ।
भीष्मकः कुण्डिने चैव राजोवास महाभुजः ।। ३३ ।।
द्वारकां चापि सम्प्राप्ते रामे वृष्णिबलान्विते ।
रुक्मिण्याः केशवः पाणिं जग्राह विधिवत्प्रभुः।। ३४ ।।
ततः सह तया रेमे प्रियया प्रीयमाणया ।
सीतयेव पुरा रामः पौलोम्येव पुरंदरः ।। ३५ ।।
सा हि तस्याभवज्ज्येष्ठा पत्नी कृष्णस्य भामिनी ।
पतिव्रता गुणोपेता रूपशीलगुणान्विता ।। ३६ ।।
तस्यामुत्पादयामास पुत्रान् दश महारथान् ।
चारुदेष्णं सुदेष्णं च प्रद्युम्नं च महाबलम् ।। ३७ ।।
सुषेणं चारुगुप्तं च चारुबाहुं च वीर्यवान् ।
चारुविन्दं सुचारुं च भद्रचारुं तथैव च ।। ३८ ।।
चारुं च बलिनां श्रेष्ठं सुतां चारुमतीं तथा ।
धर्मार्थकुशलास्ते तु कृतास्त्रा युद्धदुर्मदाः ।। ३९ ।।
महिषीरष्ट कल्याणीस्ततोऽन्या मधुसूदनः ।
उपयेमे महाबाहुर्गुणोपेताः कुलोद्भवाः ।। 2.60.४० ।।
कालिन्दीं मित्रविन्दां च सत्यां नाग्नजिनीमपि ।
सुतां जाम्बवतश्चापि रोहिणीं कामरूपिणीम् ।। ४१ ।।
मद्रराजसुतां चापि सुशीलां शुभलोचनाम् ।
सात्राजितीं सत्यभामां लक्ष्मणां चारुहासिनीम् ।४२।।
शैब्यस्य च सुतां तन्वीं रूपेणाप्सरसोपमाम् ।
स्त्रीसहस्राणि चान्यानि षोडशातुलविक्रमः ।। ४३ ।।
उपयेमे हृषीकेशः सर्वा भेजे स ताः समम् ।
परार्ध्यवस्त्राभरणाः कामैः सर्वैः सुखोचिताः ।
जज्ञिरे तासु पुत्राश्च तस्य वीराः सहस्रशः ।। ४४ ।।
शास्त्रार्थकुशलाः सर्वे बलवन्तो महारथाः ।
यज्वानः पुण्यकर्माणो महाभागा महाबलाः ।। ४५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीहरणं नाम षष्टितमोऽध्यायः ।। ६० ।।