प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०७९ हरिवंशपुराणम्
अध्यायः ८०
वेदव्यासः
अध्यायः ०८१ →
नानाप्रकाराणां व्रतानां विधानम्

भगवत्युवाच
निर्वेष्टव्यं शरीरं यैर्व्रतकैः पुण्यकैरपि ।
अरुन्धति प्रवक्ष्यामि सहैताभिर्वरेण तु ।। १ ।।
कृष्णाष्टमीं या क्षिपति स्याद्वा मूलफलाशिनी ।
ब्राह्मणायैकमशनं स्वं दत्त्वा भर्तृदेवता ।। २ ।।
शुक्लवस्त्रा शुभाचारा गुरुदैवतपूजका ।
एवं संवत्सरं कृत्वा ततो दद्याद् द्विजातये ।। ३ ।।
गोवालरज्जुसुकृतं चामरं च ध्वजं तथा ।
दक्षिणापूर्णमिष्टान्नं शक्त्या वापि शुचिव्रते ।। ४ ।।
ऊर्मिमन्तः स्वरालाग्राः श्रोणिदेशावलम्बिनः ।
तस्या भवन्ति केशास्तु भक्तिमत्या हि भर्तरि ।। ५
शिरो निर्वेष्टुकामा तु गोमयेन शिरः शती।
प्रक्षालयेन्मलं धात्र्या बिल्वेन श्रीफलेन च ।। ६ ।।
गोमूत्रं च सदा प्राश्येच्छिरःस्नानं च मिश्रयेत्।
कृष्णां चतुर्दशीं त्वेतत् कर्तव्यं वरवर्णिनि ।। ७ ।।
भवत्यविधवा चैव सुभगा विज्वरा तथा ।
शिरोरोगैर्नैव चास्याः शरीरमभितप्यते।।८।।
दर्शनीयं ललाटं या काङ्क्षति स्त्री शुचिस्मिते ।
तिथिं प्रतिपदं नित्यं सा क्षिपेदेकभोजना ।। ९ ।।
पयसा च तथाश्नीयाद् यावत्संवत्सरो गतः ।
ब्राह्मणाय ततो दद्यात् पटं रूप्यमयं शुभम् ।। १० ।।
ललाटं रूपसम्पन्नमाप्नोति स्त्री सुमध्यमा ।
सततं स्त्री द्वितीयायां भ्रुवोरिच्छेत्सुरूपताम्।। ११।।
अनन्तरोपवासेन शाकभक्ताशना सती ।
ततः संवत्सरे पूर्णे ब्राह्मणं स्वस्ति वाचयेत् ।। १२
फलैः परिणतैः सौम्यैर्माषाणां दक्षिणान्वितैः ।
लवणेन च भद्रं ते घृतपात्रेण चानघे।।१३।।
आत्मनः शोभनौ कर्णाविच्छती स्त्री सुमध्यमा ।
नक्षत्रे श्रवणे प्राप्ते ध्रुवं भुञ्जीत यावकम् ।। १४।।
ततः संवत्सरे पूर्णे कर्णौ दद्याद्धिरण्मयौ ।
घृते प्रक्षिप्य विप्राय पयसा सहिते शुभे ।। १५ ।।
नासामिच्छेल्लाटान्तामव्यङ्गां व्याधिवर्जिताम्।
तिलगुल्मं सदा सिञ्चेद् यावत् पुष्प्येद्धि रक्षित।।१६।
अनन्तरोपवासेन सेक्तव्यः सलिलैः सदा
तस्मादवाप्य पुष्पाणि घृते प्रक्षिप्य दापयेत् ।।१७।।
स्वक्षी भवेयमिति या स्त्री काङ्क्षत्यमृतोद्भवे ।
अनन्तरं वै भुञ्जाना पयसाथ घृतेन वा ।। १८ ।।
ततः संवत्सरे पूर्णे पद्मपत्राणि मण्डिता ।
तथैवोत्पलपत्राणि न्यसेत् क्षीरे शुचिस्मिते ।। १९ ।।
प्लवमानानि विप्राय ततो दद्यात्सती सति ।
कृष्णसारसमानाक्षी तद् दत्त्वा भवति स्म वै ।। २० ।।
इच्छेदोष्ठौ चारुरूपौ या स्त्री धर्मगुणान्विता ।
सा मृन्मयेन तु पिबेदुदकं वत्सरं सती ।। २१ ।।
अयाचितेन भुञ्जीत नवम्यां धर्मभागिनी ।
ततः संवत्सरे पूर्णे विद्रुमं दातुमर्हति ।। २२ ।।
तेन बिम्बफलाभौष्ठी स्त्री भवत्येव शोभने ।
सुभगाथ वपुःपुत्रधनाढ्या गोमती तथा ।। २३ ।।
या चारुरूपानिच्छेत दन्तानमरवर्णिनि ।
शुक्लाष्टमीं न साश्नीयाद् भक्तद्वयमनिन्दिता ।। २४ ।।
ततः संवत्सरे पूर्णे दद्याद् रौप्यमयान् सती ।
दन्तान् प्राक्षिप्य धर्मज्ञे पयस्यतिगुणोदिते ।। २५ ।।
तेन सा जातिपुष्पाभान्दन्तान्प्राप्नोति सा सती ।
सौभाग्यमपि चाप्नोति सपुत्रत्वं तथानघे ।। २६ ।।
सर्वमेव मुखं कान्तमिच्छेद् या रुचिरानने ।
सा पूर्णमास्यां स्नात्वा तु प्राप्य चन्द्रोदये शुभे ।।२७।।
यावकं पयसा सिद्धं दत्त्वा विप्राय भामिनी ।
ततः संवत्सरे पूर्णे चन्द्रं रूप्यमयं शुभम् ।। २८ ।।
पद्मे फुल्ले तु विन्यस्य ब्राह्मणान् स्वस्ति वाचयेत्।
पूर्णचन्द्रमुखी तेन दानेन स्त्री शुभा भवेत् ।। २९।।
स्तनाविच्छति या नारी तृणराजफलोपमौ ।
अयाचितं दशम्यां सा नित्यमश्नीत वाग्यता ।। ३० ।।
संवत्सरे ततः पूर्णे द्वे बिल्वे काञ्चने शुभे ।
सदक्षिणे ब्राह्मणाय प्रयच्छति धृतात्मने ।। ३१ ।।
सौभाग्यं परमाप्नोति बहुपुत्रांस्तथैव च ।
सदोन्नतौ स्तनौ सा स्त्री बिभर्त्यमरवर्णिनि ।। ३२ ।।
शातोदरत्वमिच्छन्ती क्षिपेदेकान्तभोजिनी ।
पञ्चम्यां तत्र भोक्तव्यमन्नं तोयेन नित्यदा ।। ३३ ।।
ततः संवत्सरे पूर्णे दद्याज्जातिलतां शुभे ।
फुल्लां सदक्षिणां धन्ये ब्राह्मणाय धृतात्मने ।। ३४ ।।
हस्ताविच्छति या नारी रूपयुक्तौ सुमध्यमे ।
द्वादशीं सा क्षिपत्वेवं शाकैः सर्वैरनिन्दितैः ।। ३५ ।।
संवत्सरे ततः प्राप्ते रौक्मे पद्मे ददातु सा ।
ब्राह्मणायाभिरूपाय तथा पद्मद्वयं शुभम् ।। ३६ ।।
श्रोणीं विशालामन्विच्छेत् स्त्री क्षिपत्वेव सुव्रते ।
त्रयोदशीमेकभक्तमश्नात्वेवमयाचितम् ।। ३७ ।।
ततः संवत्सरे पूर्णे लवणं सम्प्रयच्छतु ।
प्रजापतिमुखाकारं कृत्वा तत्र वरानने ।। ३८ ।।
काञ्चनं चैव दातव्यं तदाकारस्य सर्वदा ।
अञ्जनेन च धर्मज्ञा शनकैरवचूर्णयेत् ।। ३९ ।।
रत्नानि चैव पूर्णानि वासो रक्तं च दापयेत्।
तेन श्रोणीमभिमतां स्त्री सौम्ये प्रतिपद्यते ।। ४० ।।
मधुरां वाचमिच्छन्ती वर्जयेल्लवणं सती ।
संवत्सरं वा मासं वा प्रयच्छेल्लवणं ततः ।। ४१ ।।
सदक्षिणं ब्राह्मणाय परं माधुर्यमिच्छती ।
शुकवाक्याच्छतगुणं भवत्यमरवर्णिनि ।। ४२ ।।
गूढगुल्फशिरौ पादाविच्छन्त्या सोमनन्दिनि ।
षष्ठ्यां षष्ठयां वरारोहे भोक्तव्यं सलिलौदनम् ।। ४३ ।।
अग्निर्वा ब्राह्मणो वापि न स्प्रष्टव्यः पदा सदा ।
यदा पदा स्पृशेत् तं च वन्देत तपसान्विते ।। ४४ ।।
पादेन न च वै पादं प्रक्षालयितुमर्हति।
एतैर्नित्यव्रतैर्युक्ता धर्मज्ञा पतिदेवता ।। ४५ ।।
कूर्मौ रूप्यमयौ दद्याद् ब्राह्मणाय पतिव्रते ।
तौ वराय ब्राह्मणाय स्थापयित्वा घृतेऽनघे ।। ४६।।
पद्मे चाधोमुखे कृत्वा दद्याद् विप्राय नन्दिनि ।
रक्तैर्द्रव्यैर्मिश्रयित्वा काञ्चनेनाभ्यलंकृते ।। ४७ ।।
सर्वमेव तु या गात्रमिच्छत्यतिमनोहरम् ।
त्रिरात्रं पुष्पकाले सा करोतु पतिदेवता ।। ४८ ।।
कौमुद्यामथवाषाढ्यां माघ्यां चाश्वयुजे तथा।
मातरं पितरं चैव मन्यतेऽतिथिदैवतम् ।। ४९ ।।
घृतं च नित्यं विप्रेभ्यो ददातु लवणं तथा ।
सम्मार्जनं गृहे चैव करोतु पतिदेवता ।। ५० ।।
उपलेपनं च धर्मज्ञे बलिकर्म च मानिनि ।
वाग्दुष्टा चैव मा शुभ्रे भक्त्वात्मार्थपण्डिता ।। ५१ ।।
पर्यश्नातु च सा कञ्चिदपि शाकं यशस्विनि ।
बलिं सृजत्वतथ्यं च परित्यजतु भामिनि ।। ५२ ।।

इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे व्रतकविधानेऽशीतितमोऽध्यायः ।। ८० ।।