← अध्यायः ०८७ हरिवंशपुराणम्
अध्यायः ८८
वेदव्यासः
अध्यायः ०८९ →
पिण्डारकतीर्थान्तर्गते समुद्रे श्रीकृष्णस्य अन्यैः यादवैः सह जलविहारम्

अष्टाशीतितमोऽध्यायः

जनमेजय उवाच
मुनेऽन्धकवधः श्राव्यः श्रुतोऽयं खलु भो मया।
शक्तिस्त्रयाणां लोकानां कृता देवेन धीमता ।। १ ।।
निकुम्भस्य हतं देहं द्वितीयं चक्रपाणिना ।
यदर्थं च यथा चैव तद् भवान् वक्तुमर्हति ।। २ ।।
वैशम्पायन उवाच
श्रद्दधानस्य राजेन्द्र वक्तव्यं भवतोऽनघ ।
चरितं लोकनाथस्य हरेरमिततेजसः ।। ३ ।।
द्वारवत्यां निवसतो विष्णोरतुलतेजसः ।
समुद्रयात्रा सम्प्राप्ता तीर्थे पिण्डारके नृप ।। ४ ।।
उग्रसेनो नरपतिर्वसुदेवश्च भारत ।
निक्षिप्तौ नगराध्यक्षौ शेषाः सर्वे विनिर्गताः ।। ५ ।।
पृथग्बलः पृथग्धीमाँल्लोकनाथो जनार्दनः ।
गोष्ठ्यः पृथक्कुमाराणां नृदेवामिततेजसाम् ।। ६ ।।
गणिकानां सहस्राणि निःसृतानि नराधिप ।
कुमारैः सह वार्ष्णेयै रूपवद्भिः स्वलंकृतैः ।। ७ ।।
दैत्याधिवासं निर्जित्य यदुभिर्दृढविक्रमैः ।
वेश्या निवेशिता वीर द्वारवत्यां सहस्रशः ।। ८ ।।
सामान्यास्ताः कुमाराणां क्रीडानार्यो महात्मनाम् ।
इच्छाभोग्या गुणैरेव राजन्या वेषयोषितः ।। ९ ।।
स्थितिरेषा हि भैमानां कृता कृष्णेन धीमता ।
स्त्रीनिमित्तं भवेद् वैरं मा यदूनामिति प्रभो ।। 2.88.१० ।।
रेवत्या चैकया सार्धं बलो रेमेऽनुकूलया ।
चक्रवाकानुरागेण यदुश्रेष्ठः प्रतापवान् ।। ११ ।।
कादम्बरीपानकलो भूषितो वनमालया ।
चिक्रीड सागरजले रेवत्या सहितो बलः ।। १२ ।।
षोडश स्त्रीसहस्राणि जले जलजलोचनः ।
रमयामास गोविन्दो विश्वरूपेण सर्वदृक् ।। १३ ।।
अहमिष्टा मया सार्द्धं जले वसति केशवः ।
इति ता मेनिरे सर्वा रात्रौ नारायणस्त्रियः ।। १४ ।।
सर्वाः सुरतचिह्नाङ्ग्यः सर्वाः सुरततर्पिताः ।
मानमूहुश्च ताः सर्वा गोविन्दे बहुमानजम् ।। १५ ।।
अहमिष्टाहमिष्टेति स्निग्धे परिजने तदा ।
नारायणस्त्रियः सर्वा मुदा शश्लाघिरे शुभाः ।। १६
करजद्विजचिह्नानि कुचाधरगतानि ताः ।
दृष्ट्वा दृष्ट्वा जहृषिरे दर्पणे कमलेक्षणाः ।। १७ ।।
गोत्रमुद्दिश्य कृष्णस्य जगिरे कृष्णयोषितः ।
पिबन्त्य इव कृष्णस्य नयनैर्वदनाम्बुजम् ।। १८।।
कृष्णार्पितमनोदृष्ट्यः कान्ता नारायणस्त्रियः ।
मनोहरतरा राजन्नभवन्नेकनिश्चयाः ।। १९ ।।
एकार्पितमनोदृष्ट्यो नेर्ष्यां ताश्चक्रिरेऽङ्गनाः ।
नारायणेन देवेन तर्प्यमाणमनोरथाः ।। 2.88.२० ।।
शिरांसि गर्वितान्यूहुः सर्वा निरवशेषतः ।
वाल्लभ्यं केशवमयं वहन्त्यश्चारुदर्शनाः ।।२१ ।।
ताभिस्तु सह चिक्रीड सर्वाभिर्हरिरात्मवान् ।
विश्वरूपेण विधिना समुद्रे विमले जले ।। २२ ।।
उवाह सर्वगन्धाढ्यं स्वच्छं वारि महोदधिः ।
तोयं विलक्षणं मृष्टं वासुदेवस्य शासनात् ।। २३ ।।
गुल्फदघ्नं जानुदघ्नमूरुदघ्नमथापि वा ।
नार्यस्ताः स्तनदघ्नं वा जलं समभिकाङ्क्षितम् ।। २४ ।
सिषिचुः केशवं पत्न्यो धारा इव महोदधिम् ।
सिषेच ताश्च गोविन्दो मेघः फुल्ललता इव ।। २५ ।।
अवलम्ब्य पराः कण्ठे हरि हरिणलोचनाः ।
उपगूहस्व मां वीर पतामीत्यब्रुवन् स्त्रियः।। २६ ।।
काश्चित् काष्ठमयैस्तेरुः प्लवैः सर्वाङ्गशोभनाः ।
क्रौञ्चबर्हिणनागानामाकारसदृशैः स्त्रियः ।। २७ ।।
मकराकृतिभिश्चान्या मीनाभैरपि चापराः ।
बहुरूपाकृतिधरैः पुप्लुवुश्चापराः स्त्रियः ।। २८ ।।
स्तनकुम्भैस्तथा तेरुः कुम्भैरिव तथापराः ।
समुद्रसलिले रम्ये हर्षयन्त्यो जनार्दनम् ।। २९ ।।
रराम सह रुक्मिण्या जले तस्मिन् मुदा युतः ।
येनैव कार्ययोगेन रमतेऽमरसत्तमः ।। 2.88.३० ।।
तत् तदेव हि ताश्चकुर्मुदा नारायणस्त्रियः ।
तनुवस्त्रावृतास्तन्व्यो लीलयन्त्यस्तथापराः ।
चिक्रीडुर्वासुदेवस्य जले जलजलोचनाः ।। ३१ ।।
यस्या यस्यास्तु यो भावस्तां तां तेनैव केशवः ।
अनुप्रविश्य भावज्ञो निनायात्मवशं वशी ।। ३२ ।।
हृषीकेशोऽपि भगवान् हृषीकेशः सनातनः ।
बभूव देशकालेन कान्तावशगतः प्रभुः ।। ३३ ।।
कुलशीलसमोऽस्माकं योग्योऽयमिति मेनिरे ।
वंशरूपेण वर्तन्तमङ्गनास्ता जनार्दनम् ।। ३४ ।।
तदा दाक्षिण्ययुक्तं तं स्मितपूर्वाभिभाषिणम् ।
कृष्णं भार्याश्चकमिरे भक्त्या च बहु मेनिरे ।। ३५ ।।
पृथग्गोष्ठ्यः कुमाराणां प्रकाशं स्त्रीगणैः सह ।
अलंचक्रुर्जलं वीराः सागरस्य गुणाकराः ।। ३६।।
गीतनृत्यविधिज्ञानां तासां स्त्रीणां जनेश्वर ।
तेजसाप्याहृतानां ते दाक्षिण्यात् तस्थिरे वशे ।। ३७ ।।
शृण्वन्तश्चारुगीतानि तथा स्वभिनयान्यपि ।
तूर्याण्युत्तमनारीणां मुमुहुर्यदुपुङ्गवाः ।। ३८ ।।
पञ्चचूडां ततः कृष्णः कौबेर्यश्च वराप्सराः ।
माहेन्द्रीश्चानयामास विश्वरूपेण हेतुना ।। ३९ ।।
ताः प्रोवाचाप्रमेयात्मा सान्त्वयित्वा जगत्प्रभुः ।
उत्थापयित्वा प्रणताः कृताञ्जलिपुटास्तथा ।। 2.88.४० ।।
क्रीडायुवत्यो भैमानां प्रविशध्वमशङ्किताः ।
मत्प्रियार्थं वरारोहा रमयध्वं च यादवान् ।। ४१ ।।
दर्शयध्वं गुणान् सर्वान् नृत्यगीतै रहःसु च ।
तथाभिनययोगेषु वाद्येषु विविधेषु च ।। ४२ ।।
एवं कृते विधास्यामि श्रेयो वो मनसेप्सितम् ।
मच्छरीरसमा ह्येते सर्वे निरवशेषतः ।। ४३ ।।
शिरसाज्ञां तु ताः सर्वाः प्रतिगृह्य हरेस्तदा ।
क्रीडायुवत्यो विविशुर्भैमानामप्सरोवराः ।। ४४ ।।
ताभिः प्रविष्टमात्राभिर्द्योतितः स महार्णवः ।
सौदामिनीभिर्नभसि घनवृन्दमिवानघ ।। ४५ ।।
ता जले स्थलवत्स्थित्वा जगुश्चाप्यथ वादयन् ।
चक्रुश्चाभिनयं सम्यक्स्वर्गावास इवाङ्गनाः ।। ४६ ।।
गन्धैर्माल्यैश्च ता दिव्यैर्वस्त्रैश्चायतलोचनाः ।
हेलाभिर्हास्यभावैश्च जह्रुर्भैममनांसि ताः ।। ४७ ।।
कटाक्षैरिङ्गितैर्हास्यैः केलिरोषैः प्रसादितैः ।
मनोऽनुकूलैर्भैमानां समाजह्रुर्मनांसि ताः ।। ४८ ।।
उत्क्षिप्योत्क्षिप्य चाकाशं वातस्कन्धान् बहूंश्च तान् ।
मदिरावशगा भैमा मानयन्ति वराप्सराः ।। ४९।।
कृष्णोऽपि तेषां प्रीत्यर्थं विजह्रे वियतिं प्रभुः ।
सर्वैः षोडशभिः सार्द्धं स्त्रीसहस्रैर्मुदान्वितः ।। 2.88.५० ।।
प्रभावज्ञास्तु ते वीराः कृष्णस्यामिततेजसः ।
न जग्मुर्विस्मयं भैमा गाम्भीर्यं परमास्थिताः ।। ५१ ।।
केचिद् रैवतकं गत्वा पुनरायान्ति भारत ।
गृहान्यन्ये वनान्यन्ये काङ्क्षितान्यरिमर्दन ।। ५२।।
अपेयः पेयसलिलः सागरश्चाभवत् तदा ।
आज्ञया लोकनाथस्य विष्णोरतुलतेजसः ।।५३ ।।
अधावन् स्थलवच्चापि जले जलजलोचनाः ।
गृह्य हस्ते तथा नार्यो युक्तामज्जंस्तथापि च ।। ५४ ।।
भक्ष्यभोज्यानि पेयानि चोष्यं लेह्यं तथैव च ।
बहुप्रकारं मनसा ध्याते तेषां भवत्युत ।। ५५ ।।
अम्लानमाल्यधारिण्यस्ताः स्त्रियस्ताननिन्दितान् ।
रहःसु रमयांचक्रुः स्वर्गे देवरतानुगाः ।। ५६ ।।
नौभिर्गृहप्रकाराभिश्चिक्रीडुरपराजिताः ।
स्नातानुलिप्तमुदिताः सायाह्नेऽन्धकवृष्णयः ।। ५७ ।।
आयताश्चतुरस्राश्च वृत्ताश्च स्वस्तिकास्तथा ।
प्रासादा नौषु कौरव्य विहिता विश्वकर्मणा ।। ५८ ।।
कैलासमन्दरच्छन्दा मेरुच्छन्दास्तथैव च ।
तथा नानावयश्छन्दास्तथेहामृगरूपिणः ।। ५९ ।।
वैडूर्यतोरणैश्चित्राश्चित्राभिर्मणिभक्तिभिः ।
मसारगल्वर्कमयैश्चित्रभक्तिशतैरपि ।। 2.88.६० ।।
आक्रीडगरुडच्छन्दाश्चित्राः कनकरीतिभिः ।
क्रौञ्चच्छन्दाः शुकच्छन्दा गजच्छन्दास्तथापरे ।।६१ ।।
कर्णधारैर्गृहीतास्ता नावः कार्तस्वरोज्ज्वलाः ।
सलिलं शोभयामासुः सागरस्य महोर्मिमत् ।। ६२ ।।
समुच्छ्रितः सितैः पोतैर्यानपात्रैस्तथैव च ।
नौभिश्च झिल्लिकाभिश्च शुशुभे वरुणालयः ।। ६३ ।।
पुराण्याकाशगानीव गन्धर्वाणामितस्ततः ।
वभ्रमुः सागरजले भैमयानानि सर्वतः ।। ६४ ।।
नन्दनच्छन्दयुक्तेषु यानपात्रेषु भारत ।
नन्दनप्रतिमं सर्वं विहितं विश्वकर्मणा ।। ६५।।
उद्यानानि सभावृक्षा दीर्घिकाः स्यन्दनानि च ।
निवेशितानि शिल्पानि तादृशान्येव सर्वथा ।। ६६ ।।
स्वर्गच्छन्देषु चान्येषु समासात्स्वर्गसंनिभाः ।
नारायणाज्ञया वीर विहिता विश्वकर्मणा ।। ६७ ।।
वनेषु रुरुवुर्हृद्यं मधुरं चैव पक्षिणः ।
मनोहरतरं चैव भैमानामतितेजसाम् ।। ६८ ।।
देवलोकोद्भवाः श्वेता विलेपुः कोकिलास्तदा ।
मधुराणि विचित्राणि यदूनां काङ्क्षितानि च ।। ६९ ।।
चन्द्रांशुसमरूपेषु हर्म्यपृष्ठेषु बर्हिणः ।
ननृतुर्मधुरारावाः शिखण्डिगणसंवृताः ।। 2.88.७० ।।
पताका यानपात्राणां सर्वाः पक्षिगणायुताः ।
भ्रमरैरुपगीताश्च स्रग्दामासक्तवासिभिः ।। ७१ ।।
नारायणाज्ञया वृक्षाः पुष्पाणि मुमुचुर्भृशम् ।
ऋतवश्चारुरूपाणि विहायसि गतास्तथा ।। ७२ ।।
ववौ मनोहरो वातो रतिखेदहरः सुखः ।
रजोभिः सर्वपुष्पाणां पृक्तश्चन्दनशैत्यभृत् ।। ७३ ।।
शीतोष्णमिच्छतां तत्र बभूव वसुधापते ।
वासुदेवप्रसादेन भैमानां क्रीडतां तदा ।। ७४ ।।
न क्षुत्पिपासा न ग्लानिर्न चिन्ता शोक एव च।
आविवेश तदा भैमान् प्रभावाच्चक्रपाणिनः ।। ७५ ।।
अप्रशान्तमहातूर्या गीतनृत्योपशोभिताः ।
बभूवुः सागरक्रीडा भैमानामतितेजसाम् ।। ७६ ।।
बहुयोजनविस्तीर्णं समुद्रं सलिलाशयम् ।
रुद्धा चिक्रीडुरिन्द्राभा भैमाः कृष्णाभिरक्षिताः ।। ७७ ।।
परिच्छदस्यानुरूपं यानपात्रं महात्मनः ।
नारायणस्य देवस्य विहितं विश्वकर्मणा ।। ७८ ।।
रत्नानि यानि त्रैलोक्ये विशिष्टानि विशाम्पते ।
कृष्णस्य तानि सर्वाणि यानपात्रेऽतितेजसः ।। ७९ ।।
पृथक्पृथङ्निवासाश्च स्त्रीणां कृष्णस्य भारत ।
मणिवैडूर्यचित्रास्ताः कार्तस्वरविभूषिताः ।। 2.88.८० ।।
सर्वर्तुकुसुमाकीर्णाः सर्वगन्धाधिवासिताः ।
यदुसिंहैः शुभैर्जुष्टाः शकुनैः स्वर्गवासिभिः ।। ८१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि भानुमतीहरणे अष्टाशीतितमोऽध्यायः ।। ८८ ।।