हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०९१

← अध्यायः ०९० हरिवंशपुराणम्
अध्यायः ९१
वेदव्यासः
अध्यायः ०९२ →
वज्रनाभस्य तपःकरणं एवं वरप्राप्तिः, तस्य त्रिभुवनविजयाय उद्योगं, इन्द्रस्य श्रीकृष्णेन सह वार्ता, भद्रनामानं नटं मुनिभिः वरदानं, इन्द्रेण हंसान् आवश्यकं कर्तव्यं कथयित्वा वज्रनाभपुरे प्रेषणम्

एकनवतितमोऽध्यायः

जनमेजय उवाच
भानुमत्यापहरणं विजयं केशवस्य च ।
छालिक्यनयनं चैव देवलोकान्महामुने ।। १ ।।
क्रीडां च सागरे दिव्यां वृष्णीनामतितेजसाम् ।
अश्रौषं परमाश्चर्यं मुने धर्मभृतां वर ।। २ ।।
वज्रनाभवधो ह्युक्तो निकुम्भवधकीर्तने ।
तन्मे कौतूहलं श्रोतुं प्रसादाद् भवतो मुने ।। ३ ।।
वैशम्पायन उवाच
हन्त ते वर्तयिष्यामि वज्रनाभवधं नृप ।
विजयं चैव कामस्य साम्बस्यैव च भारत ।। ४ ।।
मेरोः सानौ नरपते तपश्चक्रे महासुरः ।
वज्रनाभ इति ख्यातो निश्चितः समितिंजयः ।। ५ ।।
तस्य तुष्टो महातेजा ब्रह्मा लोकपितामहः ।
वरेण च्छन्दयामास तपसा परितोषितः ।। ६ ।।
अवध्यत्वं स देवेभ्यो वव्रे दानवसत्तमः ।
पुरं वज्रपुरं चापि सर्वरत्नमयं शुभम् ।। ७ ।।
स्वच्छन्देन प्रवेशश्च न वायोरपि भारत ।
अचिन्तितेन कामानामुपपत्तिर्नराधिप ।। ८ ।।
शाखानगरमुख्यानां संवाहानां शतानि च ।
नगरस्याप्रमेयस्य समन्ताज्जनमेजय ।। ९ ।।
तथा तदभवत् तस्य वरदानेन भारत ।
उवास वज्रनगरे वज्रनाभो महासुरः ।। 2.91.१० ।।
कोटिशो वरलब्धं तमसुराः परिवार्य ते ।
ऊषुर्वज्रपुरे राजन् संवाहेषु तथैव च ।। ११ ।।
शाखानगरमुख्येषु रम्येषु च नराधिप ।
हृष्टपुष्टप्रमुदिता नृप देवस्य शत्रवः ।। १२ ।
वज्रनाभोऽथ दुष्टात्मा वरदानेन दर्पितः ।
पुरस्य चात्मनश्चैव जगद् बाधितुमुद्यतः ।। १३ ।।
महेन्द्रमब्रवीद् गत्वा देवलोकं विशाम्पते ।
अहमीशितुमिच्छामि त्रैलोक्यं पाकशासन ।। १४ ।।
अथवा मे प्रयच्छस्व युद्धं देवगणेश्वर ।
सामान्यं हि जगत्कृत्स्नं काश्यपानां महात्मनाम् ।। १५।।
स बृहस्पतिना सार्द्धं मन्त्रयित्वा महेश्वरः ।
वज्रनाभं सुरश्रेष्ठः प्रोवाच कुरुवंशज ।। १६ ।।
सत्रेषु दीक्षितः सौम्य कश्यपो नः पिता मुनिः ।
तस्मिन् वृत्ते यथान्याय्यं तथा स हि करिष्यति ।। १७ ।।
ततः स पितरं गत्वा कश्यपं दानवोऽब्रवीत् ।
यथोक्तं देवराजेन तमुवाचाथ कश्यपः ।। १८ ।।
सत्रे वृत्ते करिष्यामि यथा न्याय्यं भविष्यति ।
त्वं तु वज्रपुरे पुत्र वस गच्छ समाहितः ।। १९ ।।
एवमुक्ते वज्रनाभः स्वमेव नगरं गतः ।
महेन्द्रोऽपि ययौ देवो द्वारकां द्वारशालिनीम् ।। 2.91.२० ।।
गत्वा चान्तर्हितो देवो वासुदेवमथाब्रवीत् ।
वज्रनाभस्य वृत्तान्तं तमुवाच जनार्दनः ।। २१ ।।
शौरेरुपस्थितो देव वाजिमेधो महाक्रतुः ।
तस्मिन् वृत्ते वज्रनाभं पातयिष्यामि वासव ।। २२ ।।
तत्रोपायं प्रवेशे तु चिन्तयावः सतां गते ।
नानिच्छया प्रवेशोऽस्ति तत्र वायोरपि प्रभो ।। २३ ।।
ततो गतो देवराजो वासुदेवेन सत्कृतः ।
वाजिमेधे च सम्प्राप्ते वसुदेवस्य भारत ।। २४ ।।
तस्मिन् यज्ञे वर्तमाने प्रवेशार्थं सुरोत्तमौ ।
चिन्तयामासतुर्वीरौ देवराजाच्युतावुभौ ।। २५ ।।
तत्र यज्ञे वर्तमाने सुनाट्येन नटस्तदा ।
महर्षीस्तोषयामास भद्रनामेति नामतः ।। २६ ।।
तं वरेण मुनिश्रेष्ठाश्छन्दयामासुरात्मवत् ।
स वव्रे तु नटो भद्रो वरं देवेश्वरोपमः ।। २७ ।।
देवेन्द्रकृष्णच्छन्देन सरस्वत्या प्रचोदितः ।
प्रणिपत्य मुनिश्रेष्ठानश्वमेधे समागतान् ।। २८ ।।
नट उवाच
भोज्यो द्विजानां सर्वेषां भवेयं मुनिसत्तमाः ।
सप्तद्वीपां च पृथिवीं विचरेयमिमामहम् ।। २९ ।।
प्रसिद्धाकाशगमनः शक्नुवंश्च विशेषतः ।
अवध्यः सर्वभूतानां स्थावरा ये च जङ्गमाः ।। 2.91.३० ।
यस्य यस्य च वेषेण प्रविशेयमहं खलु ।
मृतस्य जीवतो वापि भाव्येनोत्पादितस्य वा ।। ३१ ।।
सतूर्यस्तादृशः स्यां वै जरारोगविवर्जितः ।
तुष्येयुर्मुनयो नित्यमन्ये च मम सर्वदा ।। ३२ ।।
एवमस्त्विति सम्प्रोक्तो ब्राह्मणैर्नृपते नटः ।
सप्तद्वीपां वसुमतीं पर्यटत्यमरोपमः ।। ३३ ।।
पुराणि दानवेन्द्राणामुत्तरांश्च कुरूंस्तथा ।
भद्राश्वान् केतुमालांश्च कालाम्रद्वीपमेव च ।। ३४ ।।
पर्वणीषु तु सर्वासु द्वारकां यदुमण्डिताम् ।
आयाति वरदत्तः स लोकवीरो महानटः ।। ३५ ।।
ततो हंसान् धार्तराष्ट्रान् देवलोकनिवासिनः ।
उवाच भगवाञ्छक्रः सान्त्वयित्वा सुरेश्वरः ।। ३६ ।।
भवन्तो भ्रातरोऽस्माकं काश्यपा देवपक्षिणः ।
विमानवाहा देवानां सुकृतीनां तथैव च ।। ३७ ।।
देवानामस्ति कर्तव्यं कार्यं शत्रुवधान्वितम् ।
तत्कर्तव्यं न मन्त्रश्च भेत्तव्यो वः कथंचन ।। ३८ ।।
न कुर्वतां देवताज्ञामुग्रो दण्डः पतेदपि ।
सर्वत्राप्रतिषिद्धं वो गमनं हंससत्तमाः ।। ३९ ।।
गत्वा प्रवेश्यमन्येषां वज्रनाभपुरोत्तमम् ।
इतोऽन्तःपुरवापीषु चरध्वमुचितं हि वः ।। 2.91.४० ।।
तस्यास्ति कन्यारत्नं हि त्रैलोक्यातिशयं शुभम् ।
नाम्ना प्रभावती नाम चन्द्राभेव प्रभावती ।। ४१ ।।
वरदानेन सा लब्धा मात्रा किल वरानना ।
हैमवत्या महादेव्याः सकाशादिति नः श्रुतम् ।। ४२।।
स्वयंवरा च सा कन्या बन्धुभिः स्थापिता सती ।
आत्मेच्छया पतिं हंसा वरयिष्यति शोभना ।। ४३ ।।
तद्भवद्भिर्गुणा वाच्याः प्रद्युम्नस्य महात्मनः ।
सद्भूताः कुलरूपस्य शीलस्य वयसस्तथा ।। ४४ ।।
यदा सा रक्तभावा च वज्रनाभसुता सती ।
तस्याः सकाशात् संदेशो नयितव्यः समाधिना ।।४५।।
प्रद्युम्नस्य पुनस्तस्मादानयध्वं तथैव च ।
स्वबुद्ध्या प्राप्तकालं च संविधेयं हितं मम ।। ४६
नेत्रवक्त्रप्रसादश्च कर्तव्यस्तत्र सर्वथा ।। ४७ ।।
तथा तथा गुणा वाच्याः प्रद्युम्नस्य महात्मनः ।
यथा यथा प्रभावत्या मनस्तत्र भवेत् स्थितम् ।। ४८ ।।
वृत्तान्तश्चानुदिवसं प्रदेयो मम सर्वथा ।
द्वारवत्यां च कृष्णस्य भ्रातुर्मम यवीयसः ।। ४९ ।।
तावद्यत्नश्च कर्तव्यः प्रद्युम्नो यावदात्मवित् ।
पर्यावर्तेद् वरारोहां वज्रनाभसुतां विभुः ।। 2.91.५० ।।
अवध्यास्ते तु देवानां ब्रह्मणो वरदर्पिताः ।
देवपुत्रैर्हि हन्तव्याः प्रद्युम्नप्रमुखैर्युधि ।। ५१ ।।
नटो दत्तवरस्तस्य वेषमास्थाय यादवाः ।
प्रद्युम्नाद्या गमिष्यन्ति वज्रनाभविनाशनाः ।। ५२ ।।
एतच्च सर्वं कर्तव्यमन्यच्च सर्वमेव हि ।
प्राप्तकालं विधातव्यमस्माकं प्रियकाम्यया ।। ५३ ।।
प्रवेशस्तत्र देवानां नास्ति हंसाः कथंचन ।
वज्रनाभेप्सिते तत्र प्रदेशे खलु सर्वथा ।। ५४ ।।

इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वज्रनाभवधे एकनवतितमोऽध्यायः ।। ९१ ।।