← अध्यायः ०९६ हरिवंशपुराणम्
अध्यायः ९७
वेदव्यासः
अध्यायः ०९८ →
प्रद्युम्नेन वज्रनाभस्य वधं, प्रद्युम्नादीनां पुत्राणां राज्याभिषेकः

सप्तनवतितमोऽध्यायः

वैशम्पायन उवाच
जगतश्चक्षुषि ततो मुहूर्ताभ्युदिते रवौ ।
प्रादुरासीद्धरिर्देवस्तार्क्ष्येणोरगशत्रुणा ।। १ ।।
हंसत्रायुमनोभिश्च सुशीघ्रतरगः खगः ।
तस्थौ वियति शक्रस्य समीपे कुरुनन्दन ।। २ ।।
समेत्य च यथान्यायं कृष्णो वासवसंनिधौ ।
पाञ्चजन्यं हरिर्दध्मौ दैत्यानां भयवर्द्धनम् ।। ३ ।।
तं श्रुत्वाभ्यागतस्तत्र प्रद्युम्नो परवीरहा ।
वज्रनाभं जहीत्युक्तः केशवेन त्वरेति च ।। ४ ।।
तार्क्ष्यमारुह्य गच्छेति पुनरेव प्रणोदितः ।
चकार स तथा वीरः प्रणिपत्य सुरोत्तमौ ।। ५ ।।
स मनोरंहसा वीर तार्क्ष्येणाशु ययौ नृप ।
अभ्याशं वज्रनाभस्य महाद्वन्द्वस्य भारत ।। ६ ।।
ततस्तार्क्ष्यगतो वीरस्ततर्द राणमूर्द्धनि ।
वज्रनाभं स्थिरो भूत्वा सर्वास्त्रविदनिन्दितः ।। ७ ।।
तेन तार्क्ष्यगतेनैव गदया कृष्णसूनुना ।
उरस्यभ्याहतो वीरो वज्रनाभो महात्मना ।। ८ ।।
स तेनाभिहतो वीरो दैत्यो मोहवशं गतः ।
चक्षार च भृशं रक्तं बभ्रामैव गतासुवत् ।। ९ ।।
आश्वसेत्यथ तं कार्ष्णिरुवाच रणदुर्जयः ।
लब्धसंज्ञः स वीरस्तु प्रद्युम्नमिदमब्रवीत् ।। 2.97.१० ।।
साधु यादव वीर्येण श्लाघ्यो मम रिपुर्भवान् ।
प्रतिप्रहारकालोऽयं स्थिरो भव महाबल ।। ११ ।।
एवमुक्त्वा महानादं मुक्त्वा मेघशतोपमम् ।
गदां मुमोच वेगेन सघण्टां बहुकण्टकाम् ।। १२ ।।
तया ललाटेऽभिहतः प्रद्युम्नो गदया नृप ।
उद्वमन् रुधिरं भूरि मुमोह यदुनन्दनः ।। १३ ।।
तं दृष्ट्वा भगवान् कृष्णः पाञ्चजन्यं जलोद्भवम् ।
दध्मावाश्वासनकरं पुत्रस्य रिपुनाशनः ।। १४ ।।
तं पाञ्चजन्यशब्देन प्रत्याश्वस्तं महाबलम् ।
दृष्ट्वा प्रमुदिता लोका विशेषेणेन्द्रकेशवौ ।। १५ ।।
तस्य चक्रं करे यातं कृष्णच्छन्देन भारत ।
क्षुरनेमिसहस्रारं दैत्यसंघकुलान्तकम् ।। १६ ।।
तन्मुमोचाच्युतसुतस्तस्य नाशाय भारत ।
नमस्कृत्वा सुरेन्द्राय कृष्णाय च महात्मने ।। १७ ।।
वज्रनाभस्य तत्कायादुच्चकर्त शिरस्तदा ।
नारायणसुतोन्मुक्तं दैत्यानामनुपश्यताम् ।। १८ ।।
गदः सुनाभमवधीद् यतमान रणाजिरे ।
हर्म्यपृष्ठे जिघांसन्तं रणदृप्तं भयानकम् ।। १९।।
साम्बः समरमध्यस्थानसुरानरिमर्दनः ।
निनाय निशितैर्बाणैः प्रेताधिपपरिग्रहम् ।। 2.97.२० ।।
निकुम्भोऽपि हते वीरे वज्रनाभे महासुरे ।
जगाम षट्पुरं वीरो नारायणभयार्दितः ।। २१ ।।
निबर्हिते देवरिपौ वज्रनाभे महासुरे ।
अवतीर्णौ महात्मानौ हरी वज्रपुरं तदा ।। २२ ।।
लब्धप्रशमनं चैव चक्रतुः सुरसत्तमौ ।
सान्त्वयामासतुश्चैव बालवृद्धं भयार्दितम् ।। २३ ।।
इन्द्रोपेन्द्रौ महात्मानौ मन्त्रयित्वा महाबलौ ।
आयत्यां च तदात्वे च नृहस्पतिमतानुगौ ।। २४ ।।
वज्रनाभस्य तद् राज्यं चतुर्धा चक्रतुर्नृप ।
विजयस्य चतुर्भागं जयन्ततनयस्य वै ।। २५ ।।
प्रद्युम्नस्य चतुर्भागं रौक्मिणेयसुतस्य च ।
चन्द्रप्रभस्य ददतुश्चतुर्भागं जनेश्वर ।। २६ ।।
कोट्यश्चतस्रो ग्रामाणामधिकास्ता विशाम्पते ।
शाखापुरसहस्रं च स्फीतं वज्रपुरोपमम् ।
चतुर्धा चक्रतुस्तत्र संहृष्टौ शक्रकेशवौ ।। २७ ।।
कम्बलाजिनवासांसि रत्नानि विविधानि च ।
चतुर्द्धा चक्रतुर्वीरौ वीर वासवकेशवौ ।। २८ ।।
ततोऽभिषिक्तास्ते वीरा राजानो वासवाज्ञया ।
देवदुन्दुभिवाद्येन नृप विष्णुपदीजलैः ।। २९ ।।
स्वयं शक्रेण देवेन केशवेन च धीमता ।
ऋषिवंशे महात्मानः शक्रमाधवनन्दनाः ।। 2.97.३० ।।
विजयस्य प्रसिद्धेव गतिर्वियति धीमतः ।
मातृजेन गुणेनापि माधवानां महात्मनाम् ।। ३१ ।।
अभिषिच्य जयन्तं तु वासवो भगवान् ब्रवीत् ।
त्वयैते वीर संरक्ष्या राजानः समितिंजयाः ।। ३२ ।।
मम वंशकरोऽत्रैकः केशवस्य त्रयोऽनघ ।
अवध्याः सर्वभूतानां भविष्यन्ति ममाज्ञया ।। ३३ ।।
गमनागमनं चैव दिवि सिद्धं भविष्यति ।
त्रिविष्टपं द्वारकां च रम्यां भैमाभिरक्षिताम् ।। ३४ ।।
दिशागजसुतान् नागान् हयांश्चोच्चैःश्रवोऽन्वयान् ।
इच्छयैषां प्रयच्छस्व रथांस्त्वष्टृकृतानपि ।। ३५ ।।
गजावैरावणसुतौ शत्रुञ्जयरिपुञ्जयौ ।
प्रयच्छाकाशगौ वीर साम्बस्य च गदस्य च ।। ३६ ।।
आकाशेन पुरीं यातु द्वारकां भैमरक्षिताम् ।
आयातु च सुतौ द्रष्टुं यथेष्टं भैमनन्दनौ ।। ३७ ।।
इति संदिश्य भगवान् देवराजः पुरन्दरः ।
जगाम भगवान् स्वर्गं द्वारकामपि केशवः ।। ३८ ।।
षण्मासानुषितस्तत्र गदः प्रद्युम्न एव च ।
साम्बश्च द्वारकां याता रूढे राज्ये महाबलाः ।। ३९ ।।
अद्यापि तानि राज्यानि मेरोः पार्श्वे तथोत्तरे ।
तिष्ठन्ति च जगद् यावत् स्थास्यन्त्यमरसंनिभ ।। 2.97.४० ।।
निवृत्ते मौसले युद्धे स्वर्गं यातेषु वृष्णिषु ।
गदप्रद्युम्नसाम्बास्ते गता वज्रपुरं विभो ।। ४१ ।।
ततः प्रोष्य पुनर्यान्ति स्वर्ग स्वैः कर्मभिः शुभैः ।
प्रसादेन च कृष्णस्य लोककर्तुर्जनेश्वर ।। ४२ ।।
प्रद्युम्नोत्तरमेतत् ते नृदेव कथितं मया ।
धन्यं यशस्यमायुष्यं शत्रुनाशनमेव च ।। ४३ ।।
पुत्रपौत्रा विवर्धन्ते आरोग्यधनसम्पदः ।
यशो विपुलमाप्नोति द्वैपायनवचो यथा ।। ४४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वज्रनाभवधो नाम सप्तनवतितमोऽध्यायः ।। ९७ ।।