हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ११७

← अध्यायः ११६ हरिवंशपुराणम्
अध्यायः ११७
वेदव्यासः
अध्यायः ११८ →
शिवपार्वत्योः क्रीडाविहारं, पार्वत्या उषसं पतिसमागमस्य वरदानं, उषसः विरहव्यथा वर्णनम्

सप्तदशाधिकशततमोऽध्यायः

वैशम्पायन उवाच
क्रीडाविहारोपगतः कदाचिदभवद् भवः ।
देव्या सह नदीतीरे रम्ये श्रीमति स प्रभुः ।। १ ।।
शतानि तत्राप्सरसां चिक्रीडुश्च समन्ततः ।
सर्वर्तुकवने रम्ये गन्धर्वपतयस्तथा ।। २ ।।
कुसुमैः पारिजातस्य पुष्पैः संतानकस्य च ।
गन्धोद्दाममिवाकाशं नदीतीरं तु सर्वशः ।। ३ ।।
वेणुवीणामृदङ्गैश्च पणवैश्च सहस्रशः ।
वाद्यमानैः स शुश्राव गीतमप्सरसां तदा ।। ४ ।।
सूतमागधकल्पैश्चास्तुवन्नप्सरसां गणाः ।
देवदेवं सुवपुषं स्रग्विणं रक्तवाससम् ।। ५ ।।
श्रीमहेशं देवदेवमर्चयन्ति मनोरमम् ।
ततस्तु देव्या रूपेण चित्रलेखा वराप्सराः ।। ६ ।।
भवं प्रसादयामास देवी च प्राहसत् तदा ।
प्रसादयन्तीमीशानं प्रहसन्त्यप्सरोगणाः ।। ७ ।।
भवस्य पार्षदा दिव्या नानारूपा महौजसः ।
देव्या ह्यनुज्ञया सर्वे क्रीडन्ते तत्र तत्र ह ।। ८।।



अथ ते पार्षदास्तत्र रहस्ये सुविपश्चितः ।
महादेवस्य रूपेण तच्चिह्नं रूपमास्थिताः ।। ९ ।।
ततो देव्याः सुरूपेण लीलया वदनेन च ।
देवी प्रहासं मुमुचे ताश्चैवाप्सरसस्तदा ।
ततः किलकिलाशब्दः प्रादुर्भूतः समन्ततः ।। १० ।।
प्रहर्षमतुलं लेभे भवः प्रीतमनास्तदा ।
बाणस्य दुहिता कन्या तत्रोषा नाम भामिनी ।। ११ ।।
देवं संक्रीडितं दृष्ट्वा देव्या सह नदीगतम्।
दीप्यमानं महादेवं द्वादशादित्यतेजसम् ।।१२ ।।
नानारूपं वपुः कृत्वा देव्याः प्रियचिकीर्षया ।
उषा मनोरथं चक्रे पार्वत्याः संनिधौ तथा ।। १३ ।।
धन्या हि भर्तृसहिता रमत्येवं समागता ।
मनसा त्वथ संकल्पमुषया भाषितं तथा । १४ ।।
विज्ञाय तमभिप्रायमुषायाः पर्वतात्मजा ।
प्राह देवी ततो वाक्यमुषां हर्षयती शनैः ।।१५ ।।
उषे त्वं शीघ्रमप्येवं भर्त्रा सह रमिष्यसि ।
यथा देवो मया सार्धं शङ्करः शत्रुनाशनः ।। १६।।
एवमुक्ते तदा देव्या वाक्ये चिन्ताविलेक्षणा ।
उषा भावं तदा चक्रे भर्त्रा रंस्ये कदा सह ।। १७ ।।
तदा हैमवती वाक्यं सम्प्रहस्येदमब्रवीत्।
उषे शृणुष्व वाक्यं मे यदा संयोगमेष्यसि ।। १८ ।।
वैशाखे मासि हर्म्यस्थां द्वादश्यां त्वां दिनक्षये ।
रमयिष्यति यः स्वप्ने स ते भर्ता भविष्यति ।। १९ ।।
एवमुक्ता दैत्यसुता कन्यागणसमावृता ।
अपाक्रामत हर्षेण रममाणा यथासुखम् ।। २०।।
ततः सखीभिर्हास्यन्ती हर्षेणोत्फुल्ललोचना ।
तालिकासंनिपातैश्च ह्यन्योन्यं जघ्नुरूर्जिताः ।। २१ ।।
किन्नर्यो यक्षकन्याश्च नानादैतेयकन्यकाः ।
अप्सरोगणकन्याश्च उषायाः सखितां गताः ।। २२ ।।
उक्ता च तत्र ताभिश्च भर्ता तव वरानने ।
भविष्यत्यचिरेणेव देव्या वचनकल्पितः ।। २३ ।।
न हि देव्या वचो मिथ्या भविष्यति कदाचन ।
रूपाभिजनसम्पन्नः पतिस्ते कल्पितस्तया ।। २४ ।।
उषा सखीनां तद् वाक्यं प्रतिपूज्य यथाविधि ।
दत्तं मनोरथं देव्या भावयन्ती व्यवस्थिता ।। २५ ।।
ततः क्रीडाविहारं तमनुभूय सहोमया ।
गतेऽहनि ततः सर्वा नार्यस्ताः परमाद्भुताः ।। २६ ।।
ययुः स्वानालयान् सर्वा देवी चादर्शनं गता ।
काश्चिदश्वैस्तथा यानैर्गजैरन्यास्तथा रथैः ।। २७ ।।
पुरं प्रविविशुर्हृष्टाः काश्चिदाकाशमास्थिताः ।
ततः प्रभृति सा देवी काममोहं गता विभो ।। २८ ।।
देव्यास्तु वचनं स्मृत्वा संस्मरन्ती पतिं तदा ।
निद्रां न भजते रात्रौ न दिवा भोजनं तथा ।। २९।।
स्मरन्ती पतिभावं सा विललाप नृपात्मजा ।
निन्दन्ती शशिनं नाके सेवती न च चन्दनम् ।। ३० ।।
सा बाला मोहिता राजन् कामेन परिपीडिता ।
उपचर्यन्ति तां सख्यो विज्वरामपि सज्वराम् ।। ३१ ।।
तप्यते हृदयं तस्या लेपितं चन्दनेन च ।
कपोले पाण्डिमाचिह्नं नेत्रे जलसमन्विते ।। ३२ ।।
जम्भणं च तथा स्वापो देहे तस्या व्यवर्धत ।
पद्मिनीकन्दचूर्णानि शीतलानि मुहुर्मुहुः ।। ३३ ।।
क्षिपन्ति सख्यो हृदये पीडिते मन्मथाग्निना ।
व्यजनानि प्रकुर्वन्ति पृच्छन्ति च पुनः पुनः ।। ३४ ।।
का व्यथा किं शरीरं ते किमिदं तव भामिनि ।
किं तुभ्यं रोचते देवि तदाख्याहि वरानने ।। ३५ ।।
कस्मादिदं समुत्पन्नं दुःखसाध्यं मनोरमे ।
त्वन्मनोऽनुगतं वाक्यं वदन्त्येतास्तु सारिकाः ।। ३६ ।।
शुका नीलतमाः सुभ्रु पठन्ति हि पुमानिव ।
प्रह्लादजननं वाक्यं किमर्थं नाद्य भाषसे ।। ३७ ।।
तव तातो महावीरो देवानामपि दुर्जयः ।
तस्याग्रे तिष्ठते कोऽपि न भूमौ वरवर्णिनि ।। ३८ ।।
बलेः पुत्रो महावीरो बाणो हि दुरतिक्रमः ।
जितामरावतीकं च नगरं शोणिताह्वयम् ।
यत्र संतिष्ठते दैवः शूलहस्तो महेश्वरः ।। ३९ ।।
पुत्रोऽयमिति जानीहि गिरिजां योऽब्रवीद्धरः ।
बाणं प्रति महादेवस्तव तातमुषे शृणु ।। ४० ।।
का व्यथा ते मुखे स्वेदो नासाग्रे च विराजते ।
नीहारबिन्दवः पद्मे राजन्ते शरदागमे ।। ४१ ।।
सम्पूर्णचन्द्रप्रतिमं मुखं चन्द्रो यथा घने ।
न शोभते तु विच्छायं किमर्थं कारणं वद ।। ४२ ।
श्वासान् मुञ्चसि बाले त्वं न रतिं यासि भावतः ।
गृहाण भोजनं दिव्यं यत् ते मनसि वर्तते ।। ४३ ।।
ताम्बूलं रोचते पूर्वं तत् किमर्थं न गृह्यते ।
मिष्टानि यानि वस्तूनि दुर्लभानीतरैर्जनैः ।। ४४ ।।
गृहाण देवि उत्तिष्ठ वद पीडां शरीरजाम् ।
इति कोलाहलं श्रुत्वा उषावेश्मसमुद्भवम् ।। ४५ ।।
दासीभिः कीर्तितं तत्र मातुरग्रे पृथक् पृथक्।
राजपुत्री यदा देवि समायाता गृहे सती ।। ४६ ।।
जलक्रीडाविहाराच्च मूकेव परिलक्ष्यते ।
अतो दासीजना देवि वदामस्त्वां वयं जनाः ।। ४७ ।।
को मोहः किमिदं मौनं कः स्वापो म्लानता कथम्।
विचार्य भिषजो देवि दिश्यन्तां कष्टशान्तये ।। ४८ ।।
शिरीषपुष्पसदृशं यच्छरीरं सुकोमलम् ।
तत् कथं सहते देवि व्याधिभारं वरानने ।। ४९ ।।
इति श्रुत्वा तदा देवी सत्वरा हंसगामिनी ।
प्राप्य देशमुषा यत्र किमिदं कष्टलक्षणम् ।। ५० ।।
पल्लवाकृतिहस्तेन कोमलं तत्करं तदा ।
स्पृष्ट्वाङ्गुलीरनायासं स्फोटयामास भाविनी ।। ५१ ।।
किमस्ति तव कल्याणि का व्यथा तव वर्तते ।
एते वैद्याः समागत्य पृच्छन्ति भवतीं हि तत् ।। ५२ ।।
वैद्या ऊचुः
जलक्रीडां गता तत्र राजपुत्री सखीगणैः ।
पार्वत्याः क्रीडितं तत्र जानीमः श्रमसम्भवम् ।। ५३ ।।
श्रमाद्ग्लानिः समुत्पन्ना जृम्भणं च पुनः पुनः ।
स्वापश्च जायते तेन मा भयं कर्तुमर्हसि ।। ५४।।
देव्युवाच
हदये निहितं वैद्याश्चन्दनं हिमसंयुतम् ।
अमात्याः किमिदं शीघ्रं किमिदं बुद्बुदायते ।। ५५ ।।
अतिदाहो महान् स्वेदः पिपासा न बुभुक्षते ।
प्रलाप एव किं तस्यां शास्त्रतो ब्रूत निश्चितम् ।। ५६ ।।
वैद्या ऊचुः
क्रीडाविहारे मिलिताः स्त्रीजना देवसंनिधौ ।
रूपेणाप्रतिमा देवी राजपुत्री च भाविनी ।। ५७ ।।
दृष्टिपातः कृतस्ताभिस्तेन पुत्र्यां व्यथाभवत्।
रक्षामन्त्रैस्तथा पीतैः सर्षपैस्तां कुमारिकाम् ।। ५८ ।।
पानीयैरभिषेकेण परा शान्तिर्भविष्यति ।
इत्युक्त्वा भिषजः सर्वे निवृत्ता नृपवेश्मतः ।। ५९ ।।
सूचयन्तः पुनः सर्वे कामाभिप्रायजां व्यथाम् ।
मातृपृष्टा वरारोहा चिरकालमुवाच सा ।। ६० ।।
लज्जावती महाभागा मातरं रुदती भृशम् ।
मातर्न रोचते नित्यं भाषणं न च भोजनम् ।। ६१ ।।
न चाप्युत्सवकं मातः सदाहं हृदयं शृणु ।
इत्युक्त्वा विररामाथ ह्युषा नारी वरानना ।। ६२ ।।
सर्वाभिः स्त्रीभिरारब्धमन्योन्यं मुखवीक्षणम्।
लज्जानुकारि नारीणां यौवनं हि भवेदिति ।। ६३ ।।
इयं च राजकन्या हि भर्तृयोग्या किमुच्यते ।
पितुः प्रसादान्मातुश्च प्राप्नुयात् सदृशं वरम् ।। ६४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बाणयुद्धे उषाविरहोनाम सप्तदशाधिकशततमोऽध्यायः ।।११७ ।।