← अध्यायः १२७ हरिवंशपुराणम्
अध्यायः १२८
वेदव्यासः
द्वारकायां उत्सवः, उषसः अन्तःपुरे प्रवेशं सत्कारं च, श्रीकृष्णस्य विष्णुपर्वस्य च महिमा, पर्वस्य उपसंहारम्

अष्टाविंशत्यधिकशततमोऽध्यायः

वैशम्पायन उवाच
अथाहुको महाबाहुः कृष्णं प्राह महाद्युतिः ।
हर्षादुत्फुल्लनयनः श्रूयतां यदुनन्दन ।। १ ।।
एवं गतेऽनिरुद्धस्य क्रियतां महदुत्सवः ।
क्षेमात् प्रत्यागतं दृष्ट्वा सेव्यमाना महामते ।। २ ।।
उषापि च महाभागा सखीभिः परिवारिता ।
रमते परया प्रीत्या चानिरुद्धेन संगता ।। ३ ।।
कुम्भाण्डदुहिता रामा उषायाः सखिमण्डले ।
प्रवेश्यतां महाभागा वैदर्भी वर्द्धयेत् पुनः ।। ४ ।।
साम्बाय दीयतां रामा कुम्भाण्डदुहिता शुभा ।
शेषाश्च कन्या न्यस्यन्तां कुमाराणां यथाक्रमम् ।। ५ ।।
वर्तते सोत्सवस्तत्र अनिरुद्धस्य वेश्मनि ।
गृहे श्रीधन्वनश्चैव शुभस्तत्र प्रवर्तते ।। ६ ।।
वादयन्ति पुरे तत्र नार्यो मदवशं गताः ।
नृत्यन्ते चाप्सरास्तत्र गायन्ति च तथापराः।। ७ ।।
काश्चित् प्रमुदितास्तत्र काश्चिदन्योन्यमब्रुवन् ।
नानावर्णाम्वरधराः क्रीडमानास्ततस्ततः ।। ८ ।।
अभियान्ति ततोऽन्योन्यं काश्चिन्मदवशात् स्वयम्।
क्रीडन्ति काश्चिदक्षैस्तु हर्षादुत्फुल्ललोचनाः ।। ९ ।।
मायूरं रथमारुह्य सखीभिः परिवारिता ।
उषा सम्प्रेषिता देव्या रुद्राण्या प्रतिगृह्यताम् ।। १० ।।
इयं चैव कुलश्लाघ्या नाम्नोषा सुन्दरी वरा ।
बाणपुत्री तव वधूः प्रतिगृह्णीष्व भामिनीम् ।। ११ ।।
ततः प्रतिगृहीता सा स्त्रीभिराचारमङ्गलैः ।
प्रवेशिता च सा वेश्म अनिरुद्धस्य शोभना ।। १२ ।।
देवकी रोहिणी चैव रुक्मिण्यथ विदर्भजा ।
दृष्ट्वानिरुद्धं रोदन्त्यः स्नेहहर्षसमन्विताः ।। १३ ।।
रेवती रुक्मिणी चैव गृहमुख्यं प्रवेशयत् ।
वधूर्वर्धसि दिष्ट्या त्वमनिरुद्धस्य दर्शनात् ।। १४ ।।
ततस्तूर्यप्रणादैस्ता वरनार्यः शुभाननाः ।
क्रियामारेभिरे कर्तुमुषा च गृहसंस्थिता ।। १५ ।
ततो हर्म्यतलस्था सा वृष्णिपुङ्गवसंस्थिता ।
रमते सर्वसदृशैरुपभोगैर्वरानना ।। १६ ।।
चित्रलेखा च सुश्रोणी अप्सरारूपधारिणी ।
आपृच्छ्य च सखीवर्गमुषां च त्रिदिवं गता ।। १७ ।।
गतासु तासु सर्वासु सखीष्वसुरसुन्दरी ।
मायावत्या गृहं नीता प्रथमं सा निमन्त्रिता ।। १८ ।।
सा तु प्रद्युम्नगृहिणी स्नुषा दृष्ट्वा सुमध्यमा ।
वासोभिरन्नपानैश्च पूजयामास सुन्दरीम् ।। १९ ।।
ततः क्रमेण सर्वास्ता वधूमूषां यदुस्त्रियः ।
आचारमनुपश्यन्त्यः स्वधर्ममुपचक्रिरे ।। २० ।।
वैशम्पायन उवाच
एतत् ते सर्वमाख्यातं मया कुरुकुलोद्वह ।
यथा बाणो जितः संख्ये जीवन्मुक्तश्च विष्णुना।। २१ ।।
द्वारकायां ततः कृष्णो रेमे यदुगणैर्वृतः ।
अन्वशासन्महीं कृत्स्नां परया संयुतो मुदा ।। २२ ।।
एवमेषोऽवतीर्णो वै पृथिवीं पृथिवीपते ।
विष्णुर्यदुकुलश्रेष्ठो वासुदेवेति विश्रुतः ।। २३ ।।
एतैश्च कारणैः श्रीमान् वसुदेवकुले प्रभुः ।
जातो वृष्णिषु देवक्यां यन्मां त्वं परिपृच्छसि ।। २४ ।।
निवृत्ते नारदप्रश्ने यन्मयोक्तं समासतः ।
श्रुतास्ते विस्तराः सर्वे ये पूर्वं जनमेजय ।। २५ ।।
विष्णोस्तु माथुरे कल्पे यत्र ते संशयो महान् ।
वासुदेवगतिश्चैव सा मया समुदाहृता ।। २६ ।।
आश्चर्यं चैव नान्यद् वै कृष्णश्चाश्चर्यसंनिधिः ।
सर्वेष्वाश्चर्यकल्पेषु नास्त्याश्चर्यमवैष्णवम् ।। २७ ।।
एष धन्यो हि धन्यानां धन्यकृद् धन्यभावनः ।
देवेषु तु सदैत्येषु नास्ति धन्यतरोऽच्युतात् ।। २८ ।।
आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ।
गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ।। २९ ।।
एष धाता विधाता च संहर्ता चैव नित्यशः ।
सत्यं धर्मस्तपश्चैव ब्रह्मा चैव पितामहः ।। ३० ।।
अनन्तश्चैव नागानां रुद्राणां शंकरः स्मृतः ।
जङ्गमाजङ्गमं चैव जगन्नारायणोद्भवम् ।। ३१ ।।
एतस्माच्च जगत् सर्वं प्रसूयेत जनार्दनात् ।
जगच्च सर्वं देवेशे तं नमस्कुरु भारत ।। ३२ ।।
पूज्यश्च सततं सर्वैर्देवैरेष सनातनः ।
इत्युक्तं बाणयुद्धं ते माहात्म्यं केशवस्य तु ।। ३३ ।।
वंशप्रतिष्ठामतुलां श्रवणादेव लप्स्यसे ।
ये चेदं धारयिष्यन्ति बाणयुद्धमनुत्तमम् ।। ३४ ।।
केशवस्य च माहात्म्यं नाधर्मस्तान्भजिष्यति ।
एषा तु वैष्णवी चर्या मया कार्त्स्न्येन कीर्तिता ।। ३५ ।।
पृच्छतस्तात यज्ञेऽस्मिन् निवृत्ते जनमेजय ।
आश्चर्यपर्व निखिलं यो हीदं धारयेन्नृप ।। ३६ ।।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
कल्य उत्थाय यो नित्यं कीर्तयेत् सुसमाहितः ।। ३७ ।।
न तस्य दुर्लभं किंचिदिह लोके परत्र च ।
ब्राह्मणः सर्ववेदी स्यात् क्षत्रियो विजयी भवेत्।। ३८ ।।
वैश्यो धनसमृद्धः स्याच्छूद्रः कामानवाप्नुयात् ।
नाशुभं प्राप्नुयात्किंचिद् दीर्घमायुर्लभेत सः ।। ३९ ।।
सौतिरुवाच
इति पारीक्षितो राजा वैशम्पायनभाषितम् ।
श्रुतवानचलो भूत्वा हरिवंशं द्विजोत्तमाः ।। ४० ।।
एवं शौनक संक्षेपाद् विस्तरेण तथैव च ।
प्रोक्ता वै सर्ववंशास्ते किं भूयः श्रोतुमिच्छसि ।। ४१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि उषाहरणसमाप्तौ अष्टाविंशत्यधिकशततमोऽध्यायः ।। १२८ ।।