हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ००२

← अध्यायः ००१ हरिवंशपुराणम्
अध्यायः ००२
वेदव्यासः
अध्यायः ००३ →
राज्ञः जनमेजयस्य अश्वमेधयज्ञानुष्ठानस्य विचारं, व्यासस्य आगमनं, राज्ञा तस्य सत्कारं, भवता पाण्डवानां राजसूययागस्य अनुष्ठानात् कथं निषेधं न कृतं इति जनमेजयस्य प्रश्नं, उत्तररूपेण व्यासेन कालस्य प्राबल्यस्य प्रतिपादनम्

द्वितीयोऽध्यायः

शौनक उवाच
उक्तोऽयं हरिवंशस्ते पर्वाणि निखिलानि च ।
यथा पुरोक्तानि तथा व्यासशिष्येण धीमता ।। १ ।।
तत्कथ्यमानममितमितिहाससमन्वितम् ।
प्रीणात्यस्मानमृतवत् सर्वपापविनाशनम् ।। २ ।।
सुखश्राव्यतया धीर मनो ह्लादयतीव नः ।
जनमेजयस्तु नृपतिः श्रुत्वा चाख्यानमुत्तमम् ।
सौते किमकरोत् पश्चात् सर्पसत्रादनन्तरम् ।। ३ ।।
सौतिरुवाच
जनमेजयस्तु स नृपः श्रुत्वा चाख्यानमुत्तमम्।
यदारभत् तदाख्यास्ये सर्पसत्रादनन्तरम् ।। ४ ।।
तस्मिन्सत्रे समाप्तेऽथ राजा पारीक्षितस्तदा ।
यष्टुं स वाजिमेधेन सम्भारानुपचक्रमे ।। ५ ।।
ऋत्विक्पुरोहिताचार्यानाहूयेदमुवाच ह ।
यक्ष्येऽहं वाजिमेधेन हय उत्सृज्यतामिति ।। ६ ।।
ततोऽस्य विज्ञाय चिकीर्षितं तदा कृष्णो महात्मा सहसाऽऽजगाम ।
पारीक्षितं द्रष्टुमदीनसत्त्वं द्वैपायनः सर्वपरावरज्ञः ।। ७ ।।
पारीक्षितस्तु नृपतिर्दृष्ट्वा तमृषिमागतम् ।
अर्घ्यपाद्यासनं दत्त्वा पूजयामास शास्त्रतः ।। ८ ।।
तौ चोपविष्टावभितः सदस्यास्तस्य शौनक ।
कथा बहुविधाश्चित्राश्चक्राते वेदसंहिताः ।। ९ ।।
ततः कथान्ते नृपतिर्नोदयामास तं मुनिम् ।
पितामहं पाण्डवानामात्मनः प्रपितामहम् ।। 3.2.१० ।।
महाभारतमाख्यानं बह्वर्थं श्रुतिविस्तरम् ।
निमेषमात्रमपि मे सुखश्राव्यतया गतम् ।। ११ ।।
विभूतिविस्तारकरं सर्वेषां वै यशस्करम् ।
त्वया सुविहितं ब्रह्मञ्शङ्खे क्षीरमिवाहितम् ।। १२ ।।
अमृतेन तु तृप्तिः स्याद् यथा स्वर्गसुखेन च ।
तथा तृप्तिं न गच्छामि श्रुत्वेमां भारतीं कथाम् ।। १३ ।।
अनुमान्य तु सर्वज्ञं पृच्छामि भगवन्नहम् ।
हेतुः कुरूणां नाशस्य राजसूयो मतो मम ।। १४ ।।
दुःसहानां यथा ध्वंसो राजन्यानामुपप्लवे ।
राजसूयं तथा मन्ये युद्धार्थमुपकल्पितम् ।। १५ ।।
राजसूयस्य नु सोमेन श्रूयते पूर्वमाहृतः ।
तस्यान्ते सुमहद् युद्धमभवत् तारकामयम् ।। १६ ।।
आहृतो वरुणेनाथ तस्यान्ते सुमहाक्रतोः ।
देवासुरं महायुद्धं सर्वभूतक्षयावहम् ।। १७ ।।
हरिश्चन्द्रश्च राजर्षिः क्रतुमेनमुपाहरत्।
तत्राप्याडीबकं नाम युद्धं क्षत्रियनाशनम्।।१८।।
ततोऽनन्तरमार्येण पाण्डवेनातिदुस्तरः ।
महाभारत आरम्भः सम्भूतोऽग्निरिव क्रतुः ।। १९ ।।
तदस्य मूलं युद्धस्य लोकक्षयकरस्य तु ।
राजसूयो महायज्ञः किमर्थं न निवारितः ।। 3.2.२० ।।
राजसूयो ह्यसंहार्यो यज्ञाङ्गैश्च दुरत्ययैः ।
मिथ्या प्रणीते यज्ञाङ्गे प्रजानां संक्षयो ध्रुवः ।। २१ ।।
भवानपि च सर्वेषां पूर्वेषां नः पितामहः ।
अतीतानागतज्ञश्च नाथश्चादिकरश्च नः ।। २२ ।।
ते कथं भवता नेत्रा बुद्धिमन्तश्च्युता नयात् ।
अनाथा ह्यपराध्यन्ते कुनेतारश्च मानवाः ।। २३ ।।
व्यास उवाच
कालेन विपरीतास्ते तव पूर्वपितामहाः ।
न मां भविष्यं पृच्छन्ति न चापृष्टो ब्रवीम्यहम् ।। २४ ।।
सामर्थ्यं च न पश्यामि भविष्यस्य निवर्तने ।
परिहर्तुं न शक्या हि कालेन विहिता गतिः ।। २५ ।।
त्वया त्विदमहं पृष्टो वक्ष्याम्यागन्तु भावि यत्।
अतश्च बलवान् कालः श्रुत्वापि न करिष्यसि।। २६ ।।
न संरम्भान्न चारम्भान्न वै स्थास्यसि पौरुषे ।
लेखा हि काललिखिताः सर्वथा दुरतिक्रमाः ।। २७ ।।
अश्वमेधः क्रतुः श्रेष्ठः क्षत्रियाणां परिश्रुतः ।
तेन भावेन ते यज्ञं वासवो धर्षयिष्यति ।। २८ ।।
यदि तच्छक्यते राजन् परिहर्तुं कथंचन ।
दैवं पुरुषकारेण मा यजेथाश्च तं क्रतुम् ।। २९ ।।
न चापराधः शक्रस्य नोपाध्यायगणस्य ते ।
तव वा यजमानस्य कालोऽत्र दुरतिक्रमः ।। 3.2.३० ।।
तस्य संस्थाकृतमिदं कालस्य परमेष्ठिनः ।
यथा दृष्टं प्रजासर्गे गमिष्यति युगक्षये ।। ३१ ।।
तथा यज्ञफलानां च विक्रेतारो द्विजातयः ।
तत्प्रणेयं निबोधस्व त्रैलोक्यं सचराचरम् ।। ३२ ।।
जनमेजय उवाच
निवृत्तावश्वमेधस्य किं निमित्तं भविष्यति ।
श्रुत्वा परिहरिष्यामि भगवन् यदि मन्यसे ।। ३३ ।।
व्यास उवाच
निमित्तं भविता तत्र ब्रह्मकोपकृतं प्रभो ।
यतेथाः परिहर्तुं त्वमित्येतद् भद्रमस्तु ते ।। ३४ ।।
त्वया वृत्तं क्रतुं चैव वाजिमेधं परंतप ।
क्षत्रिया नाहरिष्यन्ति यावद् भूमिर्धरिष्यति ।। ३५ ।।
जनमेजय उवाच
निवृत्तावश्वमेधस्य ब्रह्मशापाग्नितेजसा ।
अहं निमित्तमिति मे भयं तीव्रं तु जायते ।। ३६ ।।
कथं ह्यकीर्त्या युज्येत सुकृती मद्विधो जनः ।
लोकानुत्सहते गन्तुं खं सपाश इव द्विजः ।। ३७ ।।
यथा ह्यनागतमिदं दृष्टमत्र प्रणाशनम् ।
यद्यस्ति पुनरावृत्तिर्यज्ञस्याश्वासयस्व माम् ।। ३८ ।।
व्यास उवाच
उपात्तयज्ञो देवेषु ब्राह्मणेषूपपत्स्यते ।
तेजसा व्याहतं तेजस्तेजस्येवावतिष्ठते ।। ३९ ।।
औद्भिज्जो भविता कश्चित्सेनानीः काश्यपो द्विजः।
अश्वमेधं कलियुगे पुनः प्रत्याहरिष्यति ।। 3.2.४० ।।
तदन्ते तत्कुलीनश्च राजसूयमपि क्रतुम् ।
आहरिष्यति राजेन्द्र श्वेतग्रहमिवान्तकः ।। ४१ ।।
यथाबलं मनुष्याणां कर्तॄणां दास्यते फलम् ।
युगान्तद्वारमृषिभिः संवृतं विचरिष्यति ।। ४२
तदा प्रभृति हास्यन्ति नृणां प्राणाः पुराकृतीः ।
न निवर्तिष्यते लोके वृत्तान्तावर्तनेष्विह ।। ४३ ।।
तदा सूक्ष्मो महोदर्को दुस्तरो दानमूलवान् ।
चातुराश्रम्यशिथिलो धर्मः प्रविचलिष्यति ।। ४४ ।।
तदा ह्यल्पेन तपसा सिद्धिं प्राप्स्यन्ति मानवाः ।
धन्या धर्मं चरिष्यन्ति युगान्ते जनमेजय ।। ४५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि जनमेजयप्रश्ने द्वितीयोऽध्यायः ।। २ ।।