प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ००३ हरिवंशपुराणम्
अध्यायः ००४
वेदव्यासः
अध्यायः ००५ →
कलियुगस्य वर्णनम्

चतुर्थोऽध्यायः

जनमेजय उवाच
एवं विलुलिते लोके मनुष्याः केन पालिताः ।
निवत्स्यन्ति किमाचाराः किमाहारविहारिणः ।। १ ।।
किंकर्माणः किमीहन्तः किंप्रमाणाः किमायुषः ।
कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् ।। २ ।।
व्यास उवाच
अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास्ततः ।
शीलव्यसनमासाद्य प्राप्स्यन्ते ह्रासमायुषः ।। ३ ।।
आयुर्हान्या बलग्लानिर्बलग्लान्या विवर्णता ।
वैवर्ण्याद्व्याधिसम्पीडा निर्वेदो व्याधिपीडनात्।। ४ ।।
निर्वेदादात्मसम्बोधः सम्बोधाद् धर्मशीलता ।
एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् ।। ५ ।।
उद्देशतो धर्मशीलाः केचिन्मध्यस्थतां गताः ।
विमर्षशीलाः केचित् तु हेतुवादकुतूहलाः ।। ६ ।।
प्रत्यक्षमनुमानं च प्रमाणं चेति निश्चिताः ।
प्रमाणैकं करिष्यन्ति नेति पण्डितमानिनः ।। ७ ।।
अप्रमाणं करिष्यन्ति वेदोक्तमपरे जनाः ।
तदा मुखभगाश्चैव भविष्यन्ति स्त्रियोऽपराः ।। ८ ।।
नास्तिक्यपरमाश्चापि केचिद् धर्मविलोपकाः ।
भविष्यन्ति नरा मूढा मन्दाः पण्डितमानिनः ।। ९ ।।
तदात्वमात्रे श्रद्धेयाः शास्त्रज्ञानबहिष्कृताः ।
दाम्भिकास्ते भविष्यन्ति वादशीलकुतूहलाः ।। 3.4.१० ।।
तदा विचलिते धर्मे जनाः शेषपुरस्कृताः ।
शुभान्येवाचरिष्यन्ति दानसत्यसमन्विताः ।। ११ ।।
सर्वभक्षो ह्यसंगुप्तो निर्गुणो निरपत्रपः ।
भविष्यति तदा लोकस्तत्कषायस्य लक्षणम् ।। १२ ।।
विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरा जनाः ।
प्रतिपत्स्यन्ति वृत्यर्थं तत् कषायस्य लक्षणम् ।। १३ ।।
कषायोपप्लवे लोके ज्ञानविद्याप्रणाशने ।
सिद्धिं स्वल्पेन कालेन यास्यन्ति निरुपस्कृताः ।। १४ ।।
महायुद्धं महावातं महावर्षं महाभयम् ।
भविष्यति युगे क्षीणे तत्कषायस्य लक्षणम् ।। १५ ।।
विप्ररूपाणि रक्षांसि राजानः कर्णवेदिनः ।
पृथिवीमुपभोक्ष्यन्ति युगान्ते समुपस्थिते ।। १६ ।।
निःस्वाध्यायवषट्कारा अनयाश्चाभिमानिनः ।
विप्राः क्रव्यादरूपेण सर्वभक्षा वृथाव्रताः ।। १७ ।।
मूर्खाः स्वार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदा।।
व्यवहारोपवृत्ताश्च च्युता धर्माच्च शाश्वतात् ।। १८ ।।
हर्तारः पररत्नानां परदारापहारकाः ।
कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः।। १९ ।।
तेषु प्रभवमाणेषु तुल्यशीलेषु सर्वतः ।
अभाविनो भविष्यन्ति मुनयो बहुरूपिणः ।। 3.4.२० ।।
उत्पन्ना ये कृतयुगे प्रधानपुरुषाश्रयाः ।
कथायोगेन तान्सर्वान्पूजयिष्यन्ति मानवाः ।। २१ ।।
सस्यचौरा भविष्यन्ति तथा चैलापहारिणः ।
भक्ष्यभोज्यापहाराश्च करण्डानां च हारिणः ।। २२ ।।
चौराश्चौरस्य हर्तारो हन्ता हन्तुर्भविष्यति ।
चौरैश्चौरक्षये चापि कृते क्षेमं भविष्यति ।। २३ ।।
निःसारे क्षुभिते लोके निष्क्रिये व्यन्तरे स्थिते ।
नराः श्रयिष्यन्ति वनं करभारप्रपीडिताः ।। २४ ।।
पितॄनाज्ञापयिष्यन्ति पुत्राः कर्मणि सर्वशः ।
स्नुषा श्वश्रूस्तथा चैव युगान्ते प्रत्युपस्थिते ।। २५ ।।
वाक्छरैरर्दयिष्यन्ति गुरूञ्छिष्याः समन्ततः ।
यज्ञकर्मण्युपरते रक्षांसि श्वापदानि च ।
कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ।। २६ ।।
क्षेमं सुभिक्षमारोग्यं सामग्र्यं वापि बन्धुषु ।
उद्देशतो नरश्रेष्ठ भविष्यन्ति युगक्षये ।। २७ ।।
स्वयंपालाः स्वयंचौरा युगसम्भारसम्भृताः ।
मण्डलैः प्रचलिष्यन्ति देशे देशे पृथक्पृथक् ।। २८ ।।
स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः ।
नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात् ।। २९ ।।
तदा स्कन्धे समाधाय कुमारान्विद्रुता भयात्।
कौशिकीं प्रतरिष्यन्ति नराः क्षुद्भयपीडिताः ।। 3.4.३० ।।
अङ्गान्वङ्गान्कलिङ्गांश्च काश्मीरानथ मेकलान् ।
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः ।। ३१ ।।
कृत्स्नं वा हिमवत्पार्श्वं कूलं च लवणाम्भसः।
अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सहः ।। ३२ ।।
नैव शून्या न चाशून्या भविष्यति वसुंधरा ।
गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्ति शस्त्रिणः ।। ३३ ।।
मृगैर्मत्स्यैर्विहंगैश्च श्वापदैः सर्पकीटकैः ।
मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः ।। ३४ ।।
चीरं पर्णं च बहुलं वल्कलान्यजिनानि च ।
स्वयंकृतानि वत्सन्ति यथा मुनिजनास्तथा ।। ३५ ।।
बीजानामाकृतिं निम्नेष्वीहन्तः काष्ठशङ्कुभिः ।
अजैष्ठकं खरोष्ट्रं च पालयिष्यन्ति यत्नतः ।। ३६ ।।
नदीस्रोतांसि रोत्स्यन्ति तोयार्थं कूलमाश्रिताः ।
पक्वान्नव्यवहारेण विपणन्तः परस्परम् ।। ३७ ।।
तनूरुहैर्यथा जातैः समूलान्तरसंवृतैः ।
बह्वपत्याः प्रजाहीनाः कुललक्षणवर्जिताः ।। ३८ ।।
एवं भविष्यन्ति तदा मनुष्याः कालकारिताः ।
हीनाद्धीनं तदा धर्मं प्रजाः समनुवर्त्स्यति ।। ३९ ।।
आयुस्तत्र च मर्त्यानां परं त्रिंशद् भविष्यति ।
दुर्बला विषयग्लाना रजसा समभिप्लुताः ।। 3.4.४० ।।
भविष्यति तदा तेषां रोगैरिन्द्रियसंक्षयः ।
आयुःप्रक्षयसंरोधाद् विषादः प्रभविष्यति ।। ४१ ।।
शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः ।
सत्यं च प्रतिपत्स्यन्ति व्यवहारोपसंक्षयात् ।। ४२ ।।
भविष्यन्ति च कामानामलाभाद् धर्मशीलिनः ।
करिष्यन्ति च संकोचं स्वपक्षक्षयपीडिताः ।। ४३ ।।
एवं शुश्रूषणे दाने सत्ये प्राणाभिरक्षणे ।
चतुष्पादः प्रवृत्तश्च धर्मः श्रेयोऽभिपत्स्यते ।। ४४ ।।
तेषां लब्धानुमानानां गुणेषु परिवर्तताम् ।
स्वादु किं न्विति विज्ञाय धर्म एवं वदिष्यति ।। ४५ ।।
यथा हानिः क्रमात् प्राप्ता तथा वृद्धिः क्रमाद्गता।
प्रगृहीते यतो धर्मे प्रवत्स्यन्ति कृतं युगम् ।। ४६ ।।
साधु वृत्तं कृतयुगे कषाये हानिरुच्यते ।
एक एव तु कालः स हीनवर्णो यथा शशी ।। ४७ ।।
छन्नो हि तमसा सोमो यथा कलियुगे तथा ।
पूर्णश्च तमसा हीनो यथा कृतयुगे तथा ।। ४८ ।।
अर्थवादः परं ब्रह्म वेदार्थ इति तं विदुः ।
अनिर्णिक्तमविज्ञातं दायाद्यमिव धार्यते ।। ४९ ।।
इष्टवादस्तपो नाम तपो हि स्थावरं कृतम् ।
गुणैः कर्माभिनिर्वृत्तिर्गुणास्तथ्येन कर्मणा ।। 3.4.५० ।।
आशीस्तु पुरुषं दृष्ट्वा देशाकालानुवर्तिनी ।
युगे युगे यथाकालमृषिभिः समुदाहृता ।। ५१ ।।
इह धर्मार्थकामानां देवतानां प्रतिक्रिया ।
आशिषश्च शुभाः पुण्यास्तथैवायुर्युगे युगे ।। ५२ ।।
यथा युगानां परिवर्तनानि चिरं प्रवृत्तानि विधिस्वभावात्।
क्षणं न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ।। ५३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कलियुगवर्णने चतुर्थोऽध्यायः ।। ४ ।।